This text does not support clickable word meanings.

मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥ १ ॥
शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् ।अभिशौरि रथो ऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥ २ ॥
अभिचैद्यमगाद्रथो ऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ ३ ॥
स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ ४ ॥
सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥ ५ ॥
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥ ६ ॥
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण ।चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥ ७ ॥
समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः ।अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥ ८ ॥
ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥ ९ ॥
अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ १० ॥
अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।वदनादिव वादिनो ऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥ ११ ॥
गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥
तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥ १३ ॥
शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानाम् ।स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ १४ ॥
अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा ।रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥ १५ ॥
विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥ १६ ॥
इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।वयसमिव चक्रमक्रियाकं परितो ऽरोधि विपाटपञ्चरेण ॥ १७ ॥
इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥ १८ ॥
प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ १९ ॥
उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥ २० ॥
ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥ २१ ॥
शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।निरवर्णि सकृत्प्रसारितो ऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥ २२ ॥
तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २३ ॥
दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥ २४ ॥
प्रमुखे ऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २५ ॥
इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः ।पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥ २६ ॥
शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥ २७ ॥
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥ २८ ॥
भवति स्फुटमागतो विपक्षान्न सपक्षो ऽपि हि निर्वृतेर्विधाता ।शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २९ ॥
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ ३० ॥
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।परमर्मभिदो ऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ ३१ ॥
विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ ।भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥ ३३ ॥
गुरवो ऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।क्षयितापदि जाग्रतो ऽपि नित्यं ननु तत्रैव हि ते ऽभवन्निषण्णाः ॥ ३४ ॥
श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् ।सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥ ३५ ॥
उचितस्वपनो ऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् ।भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ॥
अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् ।पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥ ३७ ॥
महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ ३८ ॥
प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् ।तमसो ऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ ३९ ॥
घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ ४० ॥
व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे ।रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥ ४१ ॥
पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥ ४२ ॥
कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥ ४३ ॥
दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः ।भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ ४४ ॥
सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥
शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥ ४६ ॥
पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥ ४७ ॥
कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ ४८ ॥
परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥
बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः ।दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥ ५० ॥
प्रसृतं रभसादयोभिनीला प्रतिपदं परितो ऽभिवेष्टयन्ती ।तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥
अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ ५२ ॥
द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ ५३ ॥
उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ ५४ ॥
पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ ५५ ॥
दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥ ५६ ॥
अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५७ ॥
प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ ॥
खचरैः क्षयमक्षये ऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ ५९ ॥
सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ।वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥ ६० ॥
चलितोद्धतधूमकेतनो ऽसौ रभसादम्बररोहिरोहिताश्वः ।द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ ६१ ॥
ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ ६२ ॥
गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥ ६३ ॥
ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः ।क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ ६४ ॥
निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् ।प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥ ६५ ॥
चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥ ६६ ॥
ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् ।उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ ६७ ॥
तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ ६८ ॥
सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ ६९ ॥
ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ ७० ॥
मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ।पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ ७१ ॥
परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥
प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ।बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रम् ॥ ७३ ॥
व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः ।उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥
कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ ७५ ॥
इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥
शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ।मर्मातिगैरनृजुभिर्नितरामशुद्धैर् वाक्सायकैरथ तुतोद तदा विपक्षः ॥ ७७ ॥
राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ ७८ ॥
श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर् वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर् नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥