<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0"><teiHeader><fileDesc><title>zizupAlavadham</title><author>माघः</author></fileDesc><publicationStmt><publisher>Ambuda (https://ambuda.org)</publisher><availability>TODO</availability></publicationStmt><notesStmt><note>This text has been created by third-party import from another site.</note></notesStmt><encodingDesc><projectDesc><p>Ambuda is an online library of Sanskrit literature.</p></projectDesc></encodingDesc></teiHeader><text><body><lg n="1.1">
<l>श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।</l><l>वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥</l></lg><lg n="1.2">
<l>गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।</l><l>पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ २ ॥</l></lg><lg n="1.3">
<l>चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।</l><l>विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥</l></lg><lg n="1.4">
<l>नवानधो ऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।</l><l>क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ ४ ॥</l></lg><lg n="1.5">
<l>दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् ।</l><l>विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ ५ ॥</l></lg><lg n="1.6">
<l>पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।</l><l>सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ ६ ॥</l></lg><lg n="1.7">
<l>विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।</l><l>कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ ७ ॥</l></lg><lg n="1.8">
<l>निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।</l><l>चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८ ॥</l></lg><lg n="1.9">
<l>अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।</l><l>पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥</l></lg><lg n="1.10">
<l>रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।</l><l>स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १० ॥</l></lg><lg n="1.11">
<l>निवर्त्य सो ऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः ।</l><l>समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥ ११ ॥</l></lg><lg n="1.12">
<l>पतत्पतङ्गप्रतिमस्तपोनिधिः पुरो ऽस्य यावन्न भुवि व्लीयत ।</l><l>गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥ १२ ॥</l></lg><lg n="1.13">
<l>अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।</l><l>न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥</l></lg><lg n="1.14">
<l>तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् ।</l><l>गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥</l></lg><lg n="1.15">
<l>न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।</l><l>स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥ १५ ॥</l></lg><lg n="1.16">
<l>महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ।</l><l>श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसो ऽभिरामताम् ॥ १६ ॥</l></lg><lg n="1.17">
<l>विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।</l><l>ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥</l></lg><lg n="1.18">
<l>अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः ।</l><l>अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥ १८ ॥</l></lg><lg n="1.19">
<l>स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत ।</l><l>जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ १९ ॥</l></lg><lg n="1.20">
<l>स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः ।</l><l>विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥</l></lg><lg n="1.21">
<l>रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।</l><l>चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥</l></lg><lg n="1.22">
<l>प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।</l><l>परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ २२ ॥</l></lg><lg n="1.23">
<l>युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।</l><l>तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥ २३ ॥</l></lg><lg n="1.24">
<l>निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी ।</l><l>विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥ २४ ॥</l></lg><lg n="1.25">
<l>सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् ।</l><l>द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥</l></lg><lg n="1.26">
<l>हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै ।</l><l>शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥ २६ ॥</l></lg><lg n="1.27">
<l>जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।</l><l>प्रसह्य तेजोभिरसंख्यतां गतैर् अदस्त्वया नुन्नमनुत्तमं तमः ॥ २७ ॥</l></lg><lg n="1.28">
<l>कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना ।</l><l>सदोपयोगे ऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥</l></lg><lg n="1.29">
<l>विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा ।</l><l>तथापिशुश्रूषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन वा तृप्यते ॥ २९ ॥</l></lg><lg n="1.30">
<l>गतस्पृहो ऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।</l><l>तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥ ३० ॥</l></lg><lg n="1.31">
<l>इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।</l><l>त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥ ३१ ॥</l></lg><lg n="1.32">
<l>उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।</l><l>उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥ ३२ ॥</l></lg><lg n="1.33">
<l>उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।</l><l>बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ ३३ ॥</l></lg><lg n="1.34">
<l>निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।</l><l>जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥ ३४ ॥</l></lg><lg n="1.35">
<l>अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते ।</l><l>मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥ ३५ ॥</l></lg><lg n="1.36">
<l>लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।</l><l>उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥</l></lg><lg n="1.37">
<l>निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि ।</l><l>समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथम् ईश मादृशाम् ॥ ३७ ॥</l></lg><lg n="1.38">
<l>उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।</l><l>ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥ ३८ ॥</l></lg><lg n="1.39">
<l>करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।</l><l>हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥</l></lg><lg n="1.40">
<l>प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि ।</l><l>तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ ४० ॥</l></lg><lg n="1.41">
<l>तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।</l><l>समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ ४१ ॥</l></lg><lg n="1.42">
<l>अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः ।</l><l>यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥</l></lg><lg n="1.43">
<l>समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां ।</l><l>भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥ ४३ ॥</l></lg><lg n="1.44">
<l>दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे ।</l><l>अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥</l></lg><lg n="1.45">
<l>पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः ।</l><l>स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥</l></lg><lg n="1.46">
<l>स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः ।</l><l>अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥</l></lg><lg n="1.47">
<l>सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।</l><l>स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥ ४७ ॥</l></lg><lg n="1.48">
<l>विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः ।</l><l>स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥</l></lg><lg n="1.49">
<l>प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरो ऽतिरागाद्दशमं चिकर्तिषुः ।</l><l>अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥ ४९ ॥</l></lg><lg n="1.50">
<l>समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।</l><l>त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥</l></lg><lg n="1.51">
<l>पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।</l><l>विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥</l></lg><lg n="1.52">
<l>सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् ।</l><l>अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ ५२ ॥</l></lg><lg n="1.53">
<l>अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।</l><l>प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ ५३ ॥</l></lg><lg n="1.54">
<l>बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।</l><l>जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥ ५४ ॥</l></lg><lg n="1.55">
<l>बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।</l><l>निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ ५५ ॥</l></lg><lg n="1.56">
<l>रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।</l><l>प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ ५६ ॥</l></lg><lg n="1.57">
<l>परेभर्तुर्महिषो ऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।</l><l>हृते ऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥ ५७ ॥</l></lg><lg n="1.58">
<l>सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।</l><l>अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥ ५८ ॥</l></lg><lg n="1.59">
<l>कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।</l><l>विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥ ५९ ॥</l></lg><lg n="1.60">
<l>विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।</l><l>न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ ६० ॥</l></lg><lg n="1.61">
<l>निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।</l><l>प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥</l></lg><lg n="1.62">
<l>तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां ।</l><l>बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥ ६२ ॥</l></lg><lg n="1.63">
<l>परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।</l><l>तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६३ ॥</l></lg><lg n="1.64">
<l>तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।</l><l>गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥ ६४ ॥</l></lg><lg n="1.65">
<l>अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।</l><l>सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥ ६५ ॥</l></lg><lg n="1.66">
<l>तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।</l><l>प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥ ६६ ॥</l></lg><lg n="1.67">
<l>अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः ।</l><l>मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥ ६७ ॥</l></lg><lg n="1.68">
<l>स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् ।</l><l>पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥ ६८ ॥</l></lg><lg n="1.69">
<l>अतोपपत्तिं छलनापरो ऽपरामवाप्य शैलूष इवैष भूमिकां ।</l><l>तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥ ६९ ॥</l></lg><lg n="1.70">
<l>स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।</l><l>युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥</l></lg><lg n="1.71">
<l>स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।</l><l>दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥ ७१ ॥</l></lg><lg n="1.72">
<l>बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा ।</l><l>सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥ ७२ ॥</l></lg><lg n="1.73">
<l>तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।</l><l>शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥</l></lg><lg n="1.74">
<l>हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य ।</l><l>घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ ॥</l></lg><lg n="1.75">
<l>ओमित्युक्तवतो ऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।</l><l>शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥ ७५ ॥</l></lg><lg n="2.1">
<l>यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् ।</l><l>अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥ १ ॥</l></lg><lg n="2.2">
<l>सार्थमुध्धवसीरिभ्यामथासावसदत्सदः ।</l><l>गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥ २ ॥</l></lg><lg n="2.3">
<l>जाज्वल्यमाना जगतः शान्तये समुपेयुषी ।</l><l>व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥ ३ ॥</l></lg><lg n="2.4">
<l>रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।</l><l>एकाकिनो ऽपि परितः पौरुषेयवृता इव ॥ ४ ॥</l></lg><lg n="2.5">
<l>अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।</l><l>तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥ ५ ॥</l></lg><lg n="2.6">
<l>गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।</l><l>हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥ ६ ॥</l></lg><lg n="2.7">
<l>द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।</l><l>स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥ ७ ॥</l></lg><lg n="2.8">
<l>भवद्गिरामवसरप्रदानाय वचांसि नः ।</l><l>पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥ ८ ॥</l></lg><lg n="2.9">
<l>करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशाम् ।</l><l>विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥ ९ ॥</l></lg><lg n="2.10">
<l>उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।</l><l>समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥ १० ॥</l></lg><lg n="2.11">
<l>न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।</l><l>यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमाम् ॥ ११ ॥</l></lg><lg n="2.12">
<l>मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।</l><l>ज्ञातसारो ऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥ १२ ॥</l></lg><lg n="2.13">
<l>यावदर्थपदां वाचमेवमादाय माधवः ।</l><l>विरराम महीयांसः प्रकृत्या मितभाषिणः ॥ १३ ॥</l></lg><lg n="2.14">
<l>ततः सपत्नापनयस्मरणानुशयस्फुरा ।</l><l>ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥ १४ ॥</l></lg><lg n="2.15">
<l>विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।</l><l>प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षताम् ॥ १५ ॥</l></lg><lg n="2.16">
<l>घूर्णयन्मदिरास्वादमदपाटलितद्युती ।</l><l>रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥ १६ ॥</l></lg><lg n="2.17">
<l>आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।</l><l>म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥ १७ ॥</l></lg><lg n="2.18">
<l>दधत्संन्ध्यारुणव्योमस्फुरत्तारानुकारिणीः ।</l><l>द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥ १८ ॥</l></lg><lg n="2.19">
<l>प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।</l><l>कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीम् ॥ १९ ॥</l></lg><lg n="2.20">
<l>ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।</l><l>मुखमोदं मदिरया कृतानुव्याधमुद्वमन् ॥ २० ॥</l></lg><lg n="2.21">
<l>जगादवदनछद्मपद्मपर्यन्तपातिनः ।</l><l>नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥ २१ ॥</l></lg><lg n="2.22">
<l>यद्वासुदेवेनादीनमनादीनवमीरितम् ।</l><l>वचसस्तस्य सपदि क्रिया केवलमुत्तरम् ॥ २२ ॥</l></lg><lg n="2.23">
<l>नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।</l><l>इन्धनौघधगप्यग्नित्विषा नात्येति पूषणम् ॥ २३ ॥</l></lg><lg n="2.24">
<l>संक्षिप्तस्याप्यतो ऽस्यैव वाक्यस्यार्थगरीयसः ।</l><l>सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥ २४ ॥</l></lg><lg n="2.25">
<l>विरोधिवचसो मूकान्वगीशानपि कुर्वते ।</l><l>जडानप्यनुलोमार्थान्प्रवाचः कृतिनां गिरः ॥ २५ ॥</l></lg><lg n="2.26">
<l>षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।</l><l>ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसो ऽप्यलम् ॥ २६ ॥</l></lg><lg n="2.27">
<l>अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।</l><l>निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥ २७ ॥</l></lg><lg n="2.28">
<l>सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् ।</l><l>सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २८ ॥</l></lg><lg n="2.29">
<l>मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।</l><l>चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥</l></lg><lg n="2.30">
<l>आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।</l><l>तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥</l></lg><lg n="2.31">
<l>तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् ।</l><l>पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतो ऽत्र महार्णवः ॥ ३१ ॥</l></lg><lg n="2.32">
<l>संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।</l><l>कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥ ३२ ॥</l></lg><lg n="2.33">
<l>शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।</l><l>प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥ ३३ ॥</l></lg><lg n="2.34">
<l>विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।</l><l>अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥ ३४ ॥</l></lg><lg n="2.35">
<l>ध्रियतेयावदेको ऽपि रिपुस्तावत्कुतः सुखम् ।</l><l>पुरः क्लश्नाति सोमं हि सैंहिकेयो ऽसुरद्रुहाम् ॥ ३५ ॥</l></lg><lg n="2.36">
<l>सखागरीयान् शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।</l><l>स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥ ३६ ॥</l></lg><lg n="2.37">
<l>उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।</l><l>उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥ ३७ ॥</l></lg><lg n="2.38">
<l>त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।</l><l>बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥ ३८ ॥</l></lg><lg n="2.39">
<l>त्वयि भौमं गते जेतुमरौत्सीत्स पुरीमिमाम् ।</l><l>प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥ ३९ ॥</l></lg><lg n="2.40">
<l>आलाप्यालमिदं बभ्रोयत्स दारानपाहरत् ।</l><l>कथापि खलु पापानामलमश्रेयसे यतः ॥ ४० ॥</l></lg><lg n="2.41">
<l>विराद्ध एवं भमता विराद्धा बहुधा च नः ।</l><l>निर्वत्यते ऽरिः क्रियया स श्रुतश्रवसः सुतः ॥ ४१ ॥</l></lg><lg n="2.42">
<l>विधायवैरं सामर्षेनरे ऽरौ यः उदासते ।</l><l>प्रक्षिप्योदर्चिषं कक्षे शेरते ते ऽभिमारुतम् ॥ ४२ ॥</l></lg><lg n="2.43">
<l>मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।</l><l>क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥ ४३ ॥</l></lg><lg n="2.44">
<l>अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।</l><l>पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥ ४४ ॥</l></lg><lg n="2.45">
<l>माजीवन्यः परावज्ञादुखदग्धो ऽपि जीवति ।</l><l>तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥ ४५ ॥</l></lg><lg n="2.46">
<l>पदाहतं यदुत्थाय मूर्धानमधिरोहति ।</l><l>स्वस्थादेववपमाने ऽपि देहिनस्तद्वरं रजः ॥ ४६ ॥</l></lg><lg n="2.47">
<l>असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।</l><l>यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलम् ॥ ४७ ॥</l></lg><lg n="2.48">
<l>तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।</l><l>अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥ ४८ ॥</l></lg><lg n="2.49">
<l>तुल्ये ऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् ।</l><l>हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ ४९ ॥</l></lg><lg n="2.50">
<l>स्वयं प्रणते ऽल्पे ऽपि परवायावुपेयुषी ।</l><l>निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥ ५० ॥</l></lg><lg n="2.51">
<l>तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।</l><l>पञ्चम पञ्चपसस्तपनो जातवेदसाम् ॥ ५१ ॥</l></lg><lg n="2.52">
<l>अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषाम् ।</l><l>कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥ ५२ ॥</l></lg><lg n="2.53">
<l>अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।</l><l>केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥ ५३ ॥</l></lg><lg n="2.54">
<l>चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।</l><l>स्वेद्यमामज्वरं प्राज्ञः को ऽम्भसा परिषिञ्चति ॥ ५४ ॥</l></lg><lg n="2.55">
<l>सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।</l><l>प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥ ५५ ॥</l></lg><lg n="2.56">
<l>गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।</l><l>अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥ ५६ ॥</l></lg><lg n="2.57">
<l>स्वशक्त्युपचये केचित्परस्य व्यसने ऽपरे ।</l><l>यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ॥ ५७ ॥</l></lg><lg n="2.58">
<l>लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।</l><l>यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥</l></lg><lg n="2.59">
<l>विजयस्वयि सेनायाः साक्षिमात्रे ऽपादिश्यताम् ।</l><l>फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥</l></lg><lg n="2.60">
<l>हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।</l><l>चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥ ६० ॥</l></lg><lg n="2.61">
<l>नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।</l><l>विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥ ६१ ॥</l></lg><lg n="2.62">
<l>अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।</l><l>सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥ ६२ ॥</l></lg><lg n="2.63">
<l>इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।</l><l>आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥ ६३ ॥</l></lg><lg n="2.64">
<l>निरुद्धवीवधासारप्रसारा गा इव व्रजम् ।</l><l>उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥ ६४ ॥</l></lg><lg n="2.65">
<l>यजतां पाण्डवः स्वर्गमवत्विन्द्रस्पस्विनः ।</l><l>वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥ ६५ ॥</l></lg><lg n="2.66">
<l>प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषाम् ।</l><l>शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥ ६६ ॥</l></lg><lg n="2.67">
<l>इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।</l><l>सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥ ६७ ॥</l></lg><lg n="2.68">
<l>निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।</l><l>शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥ ६८ ॥</l></lg><lg n="2.69">
<l>भारतीमाहितभरामथानुद्धतमुद्धवः ।</l><l>तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजम् ॥ ६९ ॥</l></lg><lg n="2.70">
<l>संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।</l><l>निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकम् ॥ ७० ॥</l></lg><lg n="2.71">
<l>तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवम् ।</l><l>तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥ ७१ ॥</l></lg><lg n="2.72">
<l>वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।</l><l>अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥ ७२ ॥</l></lg><lg n="2.73">
<l>बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।</l><l>अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥ ७३ ॥</l></lg><lg n="2.74">
<l>म्रदीयसीमपि घनामनल्पगुणकल्पिताम् ।</l><l>प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥ ७४ ॥</l></lg><lg n="2.75">
<l>विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।</l><l>हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥ ७५ ॥</l></lg><lg n="2.76">
<l>पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।</l><l>तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥ ७६ ॥</l></lg><lg n="2.77">
<l>सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।</l><l>तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंम् ॥ ७७ ॥</l></lg><lg n="2.78">
<l>स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।</l><l>बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवत् ॥ ७८ ॥</l></lg><lg n="2.79">
<l>आरभन्ते ऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।</l><l>महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥ ७९ ॥</l></lg><lg n="2.80">
<l>उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।</l><l>हन्ति नोपशयस्थो ऽपि शयालुर्मृगयुर्मृगान् ॥ ८० ॥</l></lg><lg n="2.81">
<l>उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।</l><l>जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥ ८१ ॥</l></lg><lg n="2.82">
<l>बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।</l><l>चारेक्षणो दूतमुखः पपुरुषः को ऽपि पार्थिवः ॥ ८२ ॥</l></lg><lg n="2.83">
<l>तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।</l><l>नैकमोजः प्रसादो वा रसभावविदः कवेः ॥ ८३ ॥</l></lg><lg n="2.84">
<l>कृतापचारो ऽपि परैरनाविष्कृतविक्रियः ।</l><l>असाध्यः कुरुते वा रसभावविदः कवेः ॥ ८४ ॥</l></lg><lg n="2.85">
<l>मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।</l><l>प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥ ८५ ॥</l></lg><lg n="2.86">
<l>नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।</l><l>शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥ ८६ ॥</l></lg><lg n="2.87">
<l>स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।</l><l>रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥ ८७ ॥</l></lg><lg n="2.88">
<l>तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।</l><l>सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥ ८८ ॥</l></lg><lg n="2.89">
<l>करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीम् ।</l><l>प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥ ८९ ॥</l></lg><lg n="2.90">
<l>अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।</l><l>विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥ ९० ॥</l></lg><lg n="2.91">
<l>अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।</l><l>व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥</l></lg><lg n="2.92">
<l>यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।</l><l>एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥</l></lg><lg n="2.93">
<l>षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।</l><l>भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥</l></lg><lg n="2.94">
<l>स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।</l><l>अयथाबलमारम्भो निदानं क्षयसंपदः ॥ ९४ ॥</l></lg><lg n="2.95">
<l>तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।</l><l>निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥</l></lg><lg n="2.96">
<l>मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।</l><l>राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥ ९६ ॥</l></lg><lg n="2.97">
<l>संपादितफलस्तेन सपक्षः परभेदनः ।</l><l>कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥ ९७ ॥</l></lg><lg n="2.98">
<l>ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।</l><l>तमःस्वभावस्ते।प्येनं प्रदोषमनुयायिनः ॥ ९८ ॥</l></lg><lg n="2.99">
<l>उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।</l><l>आशु दीपयिताल्पो ऽपि साग्नीनेधानिवानिलः ॥ ९९ ॥</l></lg><lg n="2.100">
<l>बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।</l><l>संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥ १०० ॥</l></lg><lg n="2.101">
<l>तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।</l><l>अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥ १०१ ॥</l></lg><lg n="2.102">
<l>मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकम् ।</l><l>हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥ १०२ ॥</l></lg><lg n="2.103">
<l>संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।</l><l>सहायमध्वरधुरां धर्मराजो विवक्षते ॥ १०३ ॥</l></lg><lg n="2.104">
<l>महात्मनो ऽनुगृह्णन्ति भजमानान्रिपूनपि ।</l><l>सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥ १०४ ॥</l></lg><lg n="2.105">
<l>चिरादपि बलात्कारो बलिनः सिद्धये ऽरिषु ।</l><l>छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥ १०५ ॥</l></lg><lg n="2.106">
<l>मन्यसे ऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।</l><l>पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥ १०६ ॥</l></lg><lg n="2.107">
<l>अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।</l><l>शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥ १०७ ॥</l></lg><lg n="2.108">
<l>सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।</l><l>प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतम् ॥ १०८ ॥</l></lg><lg n="2.109">
<l>तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवत् ।</l><l>नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥ १०९ ॥</l></lg><lg n="2.110">
<l>स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।</l><l>समयावधिमप्राप्यय नान्तायालं भवानपि ॥ ११० ॥</l></lg><lg n="2.111">
<l>कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदम् ।</l><l>विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥ १११ ॥</l></lg><lg n="2.112">
<l>अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।</l><l>शब्दविद्येव नो भाति राजनीतिरस्पशा ॥ ११२ ॥</l></lg><lg n="2.113">
<l>अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।</l><l>भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥ ११३ ॥</l></lg><lg n="2.114">
<l>उपेयिवांसि कर्तारः पुरीमाजातशत्रवीम् ।</l><l>राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥ ११४ ॥</l></lg><lg n="2.115">
<l>सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।</l><l>वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥ ११५ ॥</l></lg><lg n="2.116">
<l>य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजो ऽपि भूभुजः स्युः ।</l><l>बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥</l></lg><lg n="2.117">
<l>सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।</l><l>तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥ ११७ ॥</l></lg><lg n="2.118">
<l>इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।</l><l>जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥ ११८ ॥</l></lg><lg n="3.1">
<l>कौबेरदिग्भागम् अपास्य मार्गम् आगस्त्यम् इव आशुः इव अवतार्णः ।</l><l>अपेतयुद्धाभिनिवेशसौम्यो हरिहरप्रस्थम् अथ प्रतस्थे ॥ १ ॥</l></lg><lg n="3.2">
<l>जगत्पवित्रैः अपि तं न पादैः स्प्रष्टुं जगत्पूज्यम् अयुज्यत अर्कः ।</l><l>यतः बृहत्पार्वणचारु तस्यातपत्रं बिभरांबभूवे ॥ २ ॥</l></lg><lg n="3.3">
<l>मृणालसूत्रामलमन्तरेण स्थितश्चलचामरयोर्द्वयं सः ।</l><l>भेजे ऽभितःपातुकसिद्धसिन्धोरभूतपूर्वां रुचमम्बुराशेः ॥ ३ ॥</l></lg><lg n="3.4">
<l>चित्राभिरस्योपरि मौलिभाजां भाभिर्मणीनामणीयसीभिः ।</l><l>अनेकधातुच्छुरिताश्मराशेर्गोवनर्धनस्याकृतिरन्वकारि ॥ ४ ॥</l></lg><lg n="3.5">
<l>तस्योल्लसत्काञ्चनकुण्डलाग्रप्रत्युप्तगारुग्मतरस्रभासा ।</l><l>अवाप बाल्योचितनीलकण्ठपिच्छावचूडाकलनामिवोरः ॥ ५ ॥</l></lg><lg n="3.6">
<l>तमङ्गदे मन्दरकूटकोटिव्याघट्टनोत्तेजनतया मणीनाम् ।</l><l>बंहीयसा दीप्तिवितानकेन चकासयामासतुरुल्लसन्ती ॥ ६ ॥</l></lg><lg n="3.7">
<l>निसर्गरक्तैर्वलयावनद्धताम्राश्मरश्मिच्छुरितैर्नखाग्रैः ।</l><l>व्यद्योताद्यापि सुरारिवक्षोविक्षोभजासृक्स्नपितैरिवासो ॥ ७ ॥</l></lg><lg n="3.8">
<l>उभौयदि व्योम्नि पृथक्प्रवाहावाकाशगङ्गापयसः पतेताम् ।</l><l>तेनोपमीयते तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥ ८ ॥</l></lg><lg n="3.9">
<l>तेनाम्भसां सारसमयः पयोधेर्दधे मणिदीधितिदीपिताशः ।</l><l>अन्तर्वसन्बिम्बगतस्तदङ्गे साक्षादिवालक्ष्यत यत्र लोकः ॥ ९ ॥</l></lg><lg n="3.10">
<l>मुक्तामयं सारसानावलम्बिसभाति स्म दामाप्रपदीयमानस्य ।</l><l>अङ्गुष्ठनिष्ठ्यूतमिवोर्ध्वमुच्चैस्त्रिसस्रोतसः संततधारामम्भः ॥ १० ॥</l></lg><lg n="3.11">
<l>स इन्द्रनीलसस्थलनीलमूर्ती रराज कर्पूरपिशङ्गवासाः ।</l><l>विसृत्वरैरम्बुरुहां रजोभिर्यमस्वसुश्चित्र इवोदभारः ॥ ११ ॥</l></lg><lg n="3.12">
<l>प्रसाधितस्यास्य मुधाद्विषो ऽभूदन्यैव लक्ष्मीरिति युक्तमेतत् ।</l><l>वपुष्यशेषे ऽखिललोककान्ता सानन्यकान्ता ह्युरसीतरा तु ॥ १२ ॥</l></lg><lg n="3.13">
<l>कपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य ।</l><l>आनन्दिताशेषजना बभूव सर्वङ्गसङ्गिन्यपरैव लक्ष्मीः ॥ १३ ॥</l></lg><lg n="3.14">
<l>प्राणच्छिदां दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन ।</l><l>प्रकाशकार्कश्यगुणै दधानाः स्तनौ तरुण्यः परिव्रुरेनम् ॥ १४ ॥</l></lg><lg n="3.15">
<l>आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन ।</l><l>ननाम मध्यो ऽतिगुरुत्वभाजा नितान्तमाक्रान्त इवाङ्गनानाम् ॥ १५ ॥</l></lg><lg n="3.16">
<l>यां यां प्रियः प्रैक्षत कातराश्क्षीं सा सा ह्रिया नम्रमुखी बभूव ।</l><l>निःःशङ्गमन्या सममाहितेर्ष्यास्तत्रान्तरे जघ्रुरमुं कटाक्षैः ॥ १६ ॥</l></lg><lg n="3.17">
<l>तस्यातसीसून समानभासो भ्राम्यन्मयूखावलीमण्डलेन ।</l><l>चक्रेण रेजे यमुनाजलौघः स्फुरन्महागर्त इवैकबाहुः ॥ १७ ॥</l></lg><lg n="3.18">
<l>विरोधिनां विग्रहभेददक्षा मूर्तेव शक्तिः क्वचितस्खलन्ती ।</l><l>नित्यं हरेः संनिहिता निकामं मोदयति स्म चेतः ॥ १८ ॥</l></lg><lg n="3.19">
<l>न केवलं यः स्वतया मुरारेरसाधारणतां दधानः ।</l><l>अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दको ऽभूत् ॥ १९ ॥</l></lg><lg n="3.20">
<l>न नीतमन्येन नतिं कदाचिकर्णान्तिकप्रप्तगुणं क्रयासु ।</l><l>विधेयमस्या भवदन्तिकस्थं शार्ङ्गं धनुर्मित्रमिव द्रढीयः ॥ २० ॥</l></lg><lg n="3.21">
<l>प्रवृद्धमन्द्राम्बुदधीरनादः कृष्णार्णवाभ्यर्णचरैकहंसः ।</l><l>मनेदानिलापूरकृतं दधानो निध्वानमश्रूयत पाञ्चजन्यः ॥ २१ ॥</l></lg><lg n="3.22">
<l>रराज संपादकमिष्टसिद्धेः सर्वासु दिक्ष्वप्रसिद्घमार्गम् ।</l><l>महारथः पुष्यरथं रथाङ्गी क्षिप्रं क्षपानाथ इवाधिरूढः ॥ २२ ॥</l></lg><lg n="3.23">
<l>ध्वजाग्रधामा ददृशे ऽथशौरैः संक्रन्तमूर्तिर्मणिमेदिनीषु ।</l><l>फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः ॥ २३ ॥</l></lg><lg n="3.24">
<l>यियासतस्तस्य महीधरन्ध्रभिदपटीयान्पटहप्रणादः ।</l><l>जलान्तराणीव महार्णवौघः शशब्दान्तराण्यन्तरायाञ्चकार ॥ २४ ॥</l></lg><lg n="3.25">
<l>यतः स भर्ता जगतां जगाम धर्त्रा धरित्र्याः फणिनाततो ऽधः ।</l><l>महाभराभुग्नशिरःसहस्रसहायकव्यग्रभुजं प्रसस्रे ॥ २५ ॥</l></lg><lg n="3.26">
<l>अथोच्चकैस्तोरणसङ्गभङ्गभयावनम्राकृतकेतनानि ।</l><l>क्रियाफलानीव सुनीतिभाजं सैन्यानि सोमान्वयन्वयुस्तम् ॥ २६ ॥</l></lg><lg n="3.27">
<l>श्यामारुणैर्वारणदानतोयैरालोडिताः काञ्ञ्चनभूपराः ।</l><l>आनेमि मग्नैः शितिकण्ठपक्षक्षोदद्युतश्चुक्षुदिरे रथौघैः ॥ २८ ॥</l></lg><lg n="3.28">
<l>न लङ्घयामास महाजनानां शिरांसि नैवोद्धतिमाजगाम ।</l><l>अचेष्टताष्टापदभूमिरेणुः पदाहतो यत्सदृशं गरिम्णः ॥ २७ ॥</l></lg><lg n="3.29">
<l>निरुद्ध्यमाना यदुभिः कथञ्चिन्मुहुर्यदुच्चिक्षिपुरग्रपादान् ।</l><l>ध्रुवं गुरून्मार्गरुधः करान्द्रानुल्लङ्घ्य गन्तुं तुरगास्ततीषुः ॥ २९ ॥</l></lg><lg n="3.30">
<l>अवेक्षितानायतवल्गमग्रे तुरङ्गिभिर्यत्ननिरुद्धवाहैः ।</l><l>प्रकीडितान्रेणुभिरेत्य तूर्णं निन्ययुर्जनन्यः पृथुकान्पथिभ्यः ॥ ३० ॥</l></lg><lg n="3.31">
<l>दिदृक्षमाणः प्रतिरथ्यमीयुर्मुरारिमारादनघं जनौघाः ।</l><l>अनेकशः संस्तुतमप्यनल्पा नवं नवं प्रतिरहो करोति ॥ ३१ ॥</l></lg><lg n="3.32">
<l>उपेयुषो वर्त्म निरन्तराभिरसौ निरुच्छ्वासमनीकनीभिः ।</l><l>रथस्य तस्यां पुरि दत्तचक्षुर्विद्वान्विदामास शनैर्न यातम् ॥ ३२ ॥</l></lg><lg n="3.33">
<l>मध्येसमुद्रं ककुभः पिशङ्गीर्या कुर्वती काञ्चनवप्रभासा ।</l><l>तुरङ्गकान्तामुखहव्यवाहज्वालेव भित्वा जलमुल्ललास ॥ ३३ ॥</l></lg><lg n="3.34">
<l>कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः ।</l><l>अनिर्विदा या विदधे विधात्रा पृथिवी पृथिव्याः प्रतियातनेव ॥ ३४ ॥</l></lg><lg n="3.35">
<l>त्वष्टुः सदाभ्यासगृहीतशिल्पविदज्ञानसंपत्प्रसरस्य सीमा ।</l><l>अदृश्यतादर्शतलामलेषु छायेव या स्वर्जलधेर्जलेषु ॥ ३५ ॥</l></lg><lg n="3.36">
<l>रथाङ्गभर्त्रे ऽभिनवं वराय यस्याः पितेव प्रतिपादितायाः ।</l><l>प्रेम्णोपकण्ठं मुहुरङ्गभाजो रत्नवलीरम्बुधिराबबन्ध ॥ ३६ ॥</l></lg><lg n="3.37">
<l>यस्याश्चलद्वारिधिवीचिछ्छटोच्छलच्छङ्खकुलाकुलेन ।</l><l>वप्रेण पर्न्तचरोडुचक्रः सुमेरुवप्रो ऽहमन्वकारि ॥ ३७ ॥</l></lg><lg n="3.38">
<l>वणिक्पथे पूगकृतानि यत्र भ्रमागतैरम्बुभिरम्बुराशिः ।</l><l>लोलैरलोद्युतिभाञ्जि मुष्णन्रत्नानि रत्नाकरतामवाप ॥ ३८ ॥</l></lg><lg n="3.39">
<l>अम्भुच्युतः कोमलरत्नराशीनपांनिधिः फेनपिनद्धभासः ।</l><l>त्रातपे दातुमिवाधितल्पं विस्तारायमास तरङ्गहस्तैः ॥ ३९ ॥</l></lg><lg n="3.40">
<l>यच्छालमुत्तङ्गतया विजेतुं दूरादुदस्थीयत सागरस्य ।</l><l>महोर्मिभिव्याहतवाञ्छितार्थैर्वीडादिवाभ्याशगतैर्विलिल्ये ॥ ४० ॥</l></lg><lg n="3.41">
<l>कुतूहलेन जवादुपेत्य प्राकारभित्या सहसा निषिद्धः ।</l><l>रसन्नरोदीद्भृशमम्बुवर्षव्याजेन यस्या बहिरम्बुवाहः ॥ ४१ ॥</l></lg><lg n="3.42">
<l>यदङ्गनरूपसरूपतायाः कञ्चिद्गुणं भेदकमिच्छतीभिः ।</l><l>आराधितो ऽद्धा मनुरप्सरोभिश्चक्रे प्रजाः स्वाः सनिमेषचिह्नाः ॥ ४२ ॥</l></lg><lg n="3.43">
<l>स्फुरत्तुषारांशुमरीचिजालैर्विनुह्नुताः स्फटिकपङ्क्तीः ।</l><l>आरुह्य नार्यः क्षणदासु यत्र नभोगता देव्य इव व्याराजन् ॥ ४३ ॥</l></lg><lg n="3.44">
<l>कान्तेन्दुकान्तोपलकुट्टिमेषु प्रतिक्षपं हर्म्यतलेषु यत्र ।</l><l>उच्चैरधपातिपयोमुचो ऽपि समूहमूहुः पययसां प्रणाल्यः ॥ ४४ ॥</l></lg><lg n="3.45">
<l>रतौ ह्रिया यत्र निशाम्यदीपाञ्जालगताभ्यो ऽधिगृहं गृहिण्यः ।</l><l>बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः ॥ ४५ ॥</l></lg><lg n="3.46">
<l>यस्यामतिश्लक्षणतया गृहेषु विधातुमालेख्यमशुक्नुवन्तः ।</l><l>चक्रुर्युवानः प्रतिबिम्बिताङ्गाः सजीवचित्रा इव रत्नभित्तीः ॥ ४६ ॥</l></lg><lg n="3.47">
<l>सावर्ण्यभाजां प्रतिमागतानां लक्ष्यैः स्मरपाण्डुतयाङ्गनानाम् ।</l><l>यस्यां कपोलैः कलधौतधामस्तम्भेषु भेजे मणिदर्पणश्रीः ॥ ४७ ॥</l></lg><lg n="3.48">
<l>शुकाङ्गनीलोपलनिर्मितानां लिप्तेषु भासा गृहदेहलीनां ।</l><l>यस्यामलिन्देषु न चक्रुरेव मुग्धाङ्गना गोमयगोमुखानि ॥ ४८ ॥</l></lg><lg n="3.49">
<l>गोपानसीषु क्षणमास्थितानामालम्बिभिश्चन्द्रकाणां कलापैः ।</l><l>हरिन्मणिश्यामतृणाभिरामैगृहाणि नीध्रैरिव यत्र रेजुः ॥ ४९ ॥</l></lg><lg n="3.50">
<l>बृहत्तुलैरपिप्यतुलैर्वतानमालापिनद्धैरपि चावितानै ।</l><l>रेजे विचित्रैरपि या सचित्रैगृहैर्विशालैरपि भूरिशालै ॥ ५० ॥</l></lg><lg n="3.51">
<l>चिक्रंसया कृत्रिमपत्त्रिपंङ्कतेः कपोतपालीषु निकेतनानां ।</l><l>मार्जारमप्यातनिश्चलाङ्कं यस्यां जनः कृत्रिममेव मेने ॥ ५१ ॥</l></lg><lg n="3.52">
<l>क्षितिप्रतिष्ठोपि मुखारविन्दैर्वधूजनश्चन्द्रमधश्चकार ।</l><l>अतीतनक्षत्रपथानि यत्र प्रसादशृङ्गाणि वृथाध्यरुक्षत् ॥ ५२ ॥</l></lg><lg n="3.53">
<l>रम्या इति प्राप्तवतीः पताका रागं विविक्ता इति वर्धयन्तीः ।</l><l>यस्यामसेवन्त नमद्वलीकाः समं वधूभिर्वलभीर्युवानः ॥ ५३ ॥</l></lg><lg n="3.54">
<l>सुगन्धितामप्रतियत्नपूर्वां बिभ्रन्ति यत्र प्रमदाय पुंसाम् ।</l><l>मधूनि वक्त्राणि च कामिनीनामामोदकर्मव्यतिहारमीयुः ॥ ५४ ॥</l></lg><lg n="3.55">
<l>रतान्तरे यत्र गृहान्तरेषु वितर्दिनिर्यूहविटङ्नीडः ।</l><l>रुतानिश्रुण्वन्वयसां गणो ऽन्तेवासित्वमाप स्फुटमङ्गनानाम् ॥ ५५ ॥</l></lg><lg n="3.56">
<l>छन्ने ऽपि स्पष्टतरेषु यत्र स्वच्छानि नारीकुचमण्डलेषु ।</l><l>आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतःऽपि ॥ ५६ ॥</l></lg><lg n="3.57">
<l>यस्यामजिह्मा महतीमपङ्गाः सीमानमत्यायतयो ऽत्यजन्तः ।</l><l>जनैरजास्खलनै जातु द्वयेप्यमुच्यन्त विनीतमार्गाः ॥ ५७ ॥</l></lg><lg n="3.58">
<l>परस्पस्फर्धिपरार्घ्यरूपाः पौरस्त्रियो यत्र विधाय वेधाः ।</l><l>श्रीनिर्मितप्राप्तगुणक्षतैकवर्णोपमावाच्यमलं ममार्ज ॥ ५८ ॥</l></lg><lg n="3.59">
<l>क्षुण्णं यदन्तःकरणेनवृक्षाः फलन्ति कल्पोपदास्तदेव ।</l><l>अध्यूषुषो यामभवञ्जनस्य याः सम्पदस्ता मनसो ऽप्यगम्याः ॥ ५९ ॥</l></lg><lg n="3.60">
<l>कला दधानः सकलाः स्भाभिरुद्भासयन्सौधसिताभिराशाः ।</l><l>यां रेवतीजानिरियेष हातुं न रौहिणीयो न च रोहिणीशः ॥ ६० ॥</l></lg><lg n="3.61">
<l>बाणाहवव्याहतशंभुशक्तेरासत्तिमासाद्य जनार्दनस्य ।</l><l>शरीरिणा जैत्रशरेण यत्र निःशङ्घमूषे मकरध्वजेन ॥ ६१ ॥</l></lg><lg n="3.62">
<l>निषेव्यमाणेन शिवैमरुद्भिरध्यास्यमाना हरिणा चिराय ।</l><l>उद्रश्मिरत्नाङ्कुरधाम्नि सिन्धावाहास्त मेरावमरावतीं या ॥ ६३ ॥</l></lg><lg n="3.63">
<l>स्नग्धाञ्जनस्यमरुचिः सुवृत्तः बद्वा इवाद्वंसितवर्णकान्तेः ।</l><l>विशेषको वा विशिशेष यस्याः श्रियन्त्रिलोकीतिलकः स एव ॥ ६२ ॥</l></lg><lg n="3.64">
<l>तामीक्षमाणः स पुरं पुरस्तात्प्रापत्प्रतोलीमतुलप्रतापः ।</l><l>वज्रप्रभोद्भासिसुरायुधश्रीर्या देवसेनेव परैरलङ्घ्या ॥ ६४ ॥</l></lg><lg n="3.65">
<l>प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः ।</l><l>मुखादिवाथ श्रुतयो विधातुः पुरान्निरीयुर्मुरजिद्ध्वजिन्यः ॥ ६५ ॥</l></lg><lg n="3.66">
<l>श्लिःष्यद्भिरन्योनमुखाग्रसङ्गस्खलत्खलीनं हरिभिर्विलोलैः ।</l><l>परस्परोत्पीडितजानुभागा दुःखेन निशचक्रमुरश्ववाराः ॥ ६६ ॥</l></lg><lg n="3.67">
<l>निरन्तराले ऽपि विमुच्माने दूरं पथि प्राणभृतां गणेन ।</l><l>तेजोमहद्भिस्तमसेव दीपैर्द्वीपैरसंबधमयांबभूवे ॥ ६७ ॥</l></lg><lg n="3.68">
<l>शनैरनीयन्त रयात्पतन्तोरथाः क्षितिं हस्तिनखादखेदैः ।</l><l>सयत्नसूतायतरशमिभुग्नग्रीवाग्रसंसक्तयुगैस्तुरङ्गै ॥ ६८ ॥</l></lg><lg n="3.69">
<l>बलोर्मिभिस्तत्क्षणहीयमानरथ्याभुजाया वलयैरिवास्याः ।</l><l>प्रायेणनिष्क्रामतिचक्रपाणै नेषेटं परो द्वारवतीत्वमासीत् ॥ ६९ ॥</l></lg><lg n="3.70">
<l>पारेजलंनीरनिधेरपश्यन्मुरारिरानीलपलाशराशीः ।</l><l>वनावलीरुत्कलिकासहस्रप्रतिक्षणोत्कूलितशैवलाभाः ॥ ७१ ॥</l></lg><lg n="3.71">
<l>लक्षीभृतःऽम्भोधितटाधिवासान्द्रमानसौ नीरदनीलभासः ।</l><l>लतावधूसंप्रयुजो ऽदिवेलं बहूकृतान्स्वानिव पशयति स्म ॥ ७० ॥</l></lg><lg n="3.72">
<l>आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकार बृहत्तरङ्गं ।</l><l>फेनायमानं पतिमापगानामसावपस्मारिणमाशसङ्गे ॥ ७२ ॥</l></lg><lg n="3.73">
<l>पीत्वा जलानां निधिनातिगार्ध्याद्वृद्धिङ्गते ऽप्यात्मनि नैव मान्तीः ।</l><l>क्षिप्ता इवेन्दोः स रुचो ऽधिवेलं मुक्तावलीराकलयाञ्चकार ॥ ७३ ॥</l></lg><lg n="3.74">
<l>साटोपमुर्वीमनिशं नदन्तः यैः प्लवयिष्यन्ति समन्ततःऽमी ।</l><l>तान्यकदेशान्निभृतंपयोधेः सो ऽम्भांसि मेघान्पिबतः ददर्श ॥ ७४ ॥</l></lg><lg n="3.75">
<l>उद्धृत्यमेघैस्तत एव तोयमर्थं मुनीन्द्रैरिव संप्रणीताः ।</l><l>आलोकयामास हरिः पतन्तीर्नदीः स्मृतिर्वदमिवाम्बुराशिम् ॥ ७५ ॥</l></lg><lg n="3.76">
<l>विक्रीय दिश्यानि धनान्युरूणिदैप्यानसावुत्तमलाभबाजः ।</l><l>तरीषु तत्रत्यमफल्गु भाण्डं सांयान्त्रिकानावापतःऽभ्यनन्दत् ॥ ७६ ॥</l></lg><lg n="3.77">
<l>उत्पित्सवो ऽन्तर्नदभर्तुरुच्चैर्गरीयसा निःश्वसितानिलेन ।</l><l>पयांसि भक्त्या गरुडध्वजस्य ध्वाजानिवोच्चिक्षिपिरे फणीन्द्राः ॥ ७७ ॥</l></lg><lg n="3.78">
<l>तमागतं वीक्ष्य युगान्तबन्धुमुत्सङ्गशय्याशयमम्बुराशिः ।</l><l>प्रत्युज्जगामेव गुरुप्रमोदप्रसारितोत्तुङ्गतरङ्गबाहुः ॥ ७८ ॥</l></lg><lg n="3.79">
<l>उत्सङ्गिताम्भःकणक नभस्वानुदन्वतः स्वदलवान्ममार्ज ।</l><l>तस्यानुवेलं व्रजतःऽधिवेलंमेलालतासेफालनलबेधगन्धः ॥ ८० ॥</l></lg><lg n="3.80">
<l>उत्तालतालीवनसंप्रवृत्तसमीरसीमन्तितकेतकीकाः ।</l><l>आसेदिरे लावणसैन्धवीनां चमूचरैः कच्छभुवां प्रदेशाः ॥ ७९ ॥</l></lg><lg n="3.81">
<l>लवङ्गमालाकलितावतंसास्ते नारिकेलान्तरपः पिबन्तः ।</l><l>आस्वादिताद्रक्रमुकाः समुद्रादभ्यागतस्य प्रतिपत्तिमीयुः ॥ ८१ ॥</l></lg><lg n="3.82">
<l>तुरगशताकुलस्य परितः परमेकतुरङ्गजन्मनः प्रमथितभूभृतः प्रतिपथं मथितस्य भृशं महीभृता ।</l><l>परिचलतः बलानुजबलस्य पुरः सततं धृतश्रियश्चिरविगतश्रियो जलनिधेश्च तदाभवददन्तरं महत् ॥ ८२ ॥</l></lg><lg n="4.1">
<l>निशवासधूमं सहरत्नभार्भित्त्वोत्थितं भूमिमिवोरगाणां ।</l><l>नीलोपलस्यूतविचित्रधातुमसौ गिरिं रैवतकं ददर्श ॥ १ ॥</l></lg><lg n="4.2">
<l>गुर्वीरजस्रं दृषदः समन्तादुपर्युपर्यम्बुमुचांवितानैः ।</l><l>विन्ध्यायमानं दिवसस्य भर्तुमार्गं पुना रोद्धुमिवोन्नमद्भिः ॥ २ ॥</l></lg><lg n="4.3">
<l>क्रान्तं रुचा श्यामलिताभिरामंलताभिरामन्त्रितषट्पदाभिः ।</l><l>श्रितं शिलाश्यामलताभिरामं लताभिरामनत्रितषट्पदाभिः ॥ ३ ॥</l></lg><lg n="4.4">
<l>सहस्रसंख्यैर् गगनं पादैर् भुवं व्याप्य वितिष्ठमानम् ।</l><l>विलोचनस्थानगतोष्णरश्मिनिशाकरं साधु हिरण्यगर्भम् ॥ ४ ॥</l></lg><lg n="4.5">
<l>क्वचिज्जलापायविपाण्डुराणि धौतोत्तरीयप्रतिमच्छवीनि ।</l><l>अभ्राणिबिभ्रामुमाङ्गसङ्गविभक्तभस्मानमिव स्मरारिम् ॥ ५ ॥</l></lg><lg n="4.6">
<l>छायां निजस्त्रीचटुलालसानां मदेन किञ्चिच्चटुलालसानाम् ।</l><l>कुर्वाणमुत्पिञ्जलजातपत्रैर्विहङ्गमानां जलजातपत्रै ॥ ६ ॥</l></lg><lg n="4.7">
<l>स्कन्धाधिरूढोज्ज्वलनीलकण्ठानुर्वीरुहः श्लिष्टतनूनहीन्द्रैः ।</l><l>प्रनर्तितानेकलताभुजाग्रान्रुद्राननेकानिव धारयन्तम् ॥ ७ ॥</l></lg><lg n="4.8">
<l>विलम्बिनीलोत्पलकर्णपूरा कपोलभित्तीरिव लोध्रगौरीः ।</l><l>नवोलपालङ्कृतसैकताभाः शुचीरपःशैवलनीर्दधानम् ॥ ८ ॥</l></lg><lg n="4.9">
<l>राजीवराजीवशलोलभृङ्गं मुष्णान्तमुष्णं ततिभिस्तरूणाम् ।</l><l>कान्तालकान्ता ललनाः सुराणां रक्षोभिरक्षेभितमुद्वहन्तम् ॥ ९ ॥</l></lg><lg n="4.10">
<l>मुदे मुरारेरमरैः सुमेरोरानीय यस्योपचितस्य शृङ्गैः ।</l><l>भवन्ति नोद्दामगिरां कवीनामुच्छ्रायसौन्दर्यगुणा मृषोद्याः ॥ १० ॥</l></lg><lg n="4.11">
<l>यतः परार्घ्यानि भृतान्यनूनै प्रस्थैर्मुहुर्भूरिभिरुच्चिखानि ।</l><l>आढ्यादिवप्रापणिकादजस्रं जग्राह रत्नान्यमितानि लोकः ॥ ११ ॥</l></lg><lg n="4.12">
<l>अखिध्यतासन्नमुदग्रतापं रविं दधाने ऽप्यरविन्दधाने ।</l><l>भृङ्गावलिर्यस्यतटे निपीतरसा नमत्तामरसा न मत्ता ॥ १२ ॥</l></lg><lg n="4.13">
<l>यत्राधिरूढेनमहीरुहोच्चैरुन्निद्रपुष्पाक्षिसहस्रभाजा ।</l><l>सुराधिपाधिष्ठितहस्तिमल्ललीलां दधौ राजतगण्डशैलः ॥ १३ ॥</l></lg><lg n="4.14">
<l>विभिन्नवर्णागरुडाग्रजेन सूर्यस्यरथ्याः परितः स्फुरन्त्या ।</l><l>रत्नैः पुनर्यत्र रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥ १४ ॥</l></lg><lg n="4.15">
<l>यत्रोज्झिताभिर्मुहुरम्बुवाहैः समुन्नमद्भिर्न समुन्नमद्भि ।</l><l>वनं बबाधे विषपावकोत्था विपन्नगानामविपन्नगानाम् ॥ १५ ॥</l></lg><lg n="4.16">
<l>फलद्भिरुष्णांशुकराभिमर्शात्कर्शानवं धाम पतङ्गकान्तैः ।</l><l>शशंस यः पात्रगुणाद्गुणानां संक्रान्तिमाक्रान्तगुणातिरेकाम् ॥ १६ ॥</l></lg><lg n="4.17">
<l>दृषटो ऽपि शैलः स मुहुर्मुरारेरपूर्ववद्विस्मयमाततान ।</l><l>क्षणेक्षमे यन्नवतामुपैति तदेवरूपं रमणीयतायाः ॥ १७ ॥</l></lg><lg n="4.18">
<l>उच्चारणज्ञे ऽथगिरादधानमुच्चा रणत्पक्षिगणास्तटीस्तम् ।</l><l>उत्कं धरं द्रष्टुमवेक्ष्य शौरिणुत्कन्धरं दारुक इत्युवाच ॥ १८ ॥</l></lg><lg n="4.19">
<l>आच्छादितायतददिगम्बरमुच्चकैर्गाम् आक्रम्यसंस्थितमुदग्रविशालशृङ्गम् ।</l><l>मूर्ध्निस्खलत्तुहिनदीधितिकोटिमेनम् उद्वीक्ष्य को भुवि न विस्मयते नगेशम् ॥ १९ ॥</l></lg><lg n="4.20">
<l>उदयतिविततर्ःध्वरशमिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् ।</l><l>वहतिगिरिरयं विलम्बिधणटाद्वयपरिवारितवारणेन्द्रलीलाम् ॥ २० ॥</l></lg><lg n="4.21">
<l>वहति यः परितः कनकस्थलीः सहरिता लसमाननवांशुकः ।</l><l>अचलेषभवानिव राजते स हरितालसमाननवांशुकः ॥ २१ ॥</l></lg><lg n="4.22">
<l>पाश्चात्यभागमिह सानुषु सन्निषण्णाः पश्यन्ति शान्तमलसान्द्रतरांशुजालम् ।</l><l>संपूर्णलब्धललनालापनोपमानम् उत्सङ्गसह्गिहरिणमस्य मृगाङ्गमूर्तेः ॥ २२ ॥</l></lg><lg n="4.23">
<l>कृत्वापुंवत्पादमुच्चैर्भृगुभ्यो मूर्ध्नि ग्राव्णां जर्जरा निर्झरौघाः ।</l><l>कुर्वन्ति द्यामुत्पतन्तः स्मरार्तस्वर्लोकस्त्रीगात्रनिर्णमत्र ॥ २३ ॥</l></lg><lg n="4.24">
<l>स्थगयन्त्यमूः शामितचातकार्तस्वरा जलदास्तडित्तुलितकान्तकार्तस्वराः ।</l><l>जगतीरिहस्फुरितचारुचामीकराः सवितुः कचित्कपिशयन्ति चामी कराः ॥ २४ ॥</l></lg><lg n="4.25">
<l>उत्क्षिप्तमुच्छ्रितसितांशुकरावलम्बैरुत्तम्भितोडुभिरतिवतरां शिरोभिः ।</l><l>श्रद्धेयनिर्झरजलव्यपदेशमस्य विष्वक्तटेषु पतति स्फुटमन्तरीक्षम् ॥ २५ ॥</l></lg><lg n="4.26">
<l>एकत्रस्फटिकतटांशुभिन्ननीरा नीलाश्मद्युतिभिदुराम्भसो ऽपरत्र ।</l><l>कालिन्दीजलजनितश्रियः श्रयन्ते वैदग्धीमिह सरितः सुरापगायाः ॥ २६ ॥</l></lg><lg n="4.27">
<l>इतस्ततःऽस्मिन्विलसन्ति मेरोः समानवप्रेमणिसानुरागाः ।</l><l>स्त्रियशच पत्यौ सुरसुन्दरीभिः समा नवप्रेमणिसानुरागाः ॥ २७ ॥</l></lg><lg n="4.28">
<l>उच्चैमहारजतराजिविराजितासौ दुर्वर्णभित्तिरिह सान्द्रसुधासवर्णा ।</l><l>अभ्येति भस्मपरिपाण्डुरितस्मरारेर् उद्वह्निलोचनललामललाटलीलाम् ॥ २८ ॥</l></lg><lg n="4.29">
<l>अयमतिजरठाः प्रकामगुर्वीरलघुविलम्बिपयोधरोपरुद्धाः ।</l><l>सततमसुगतामगम्यरूपाः परिणतदिक्करिकास्तटीर्बिभर्ति ॥ २९ ॥</l></lg><lg n="4.30">
<l>धूमाकारं दधति पुरः सौवर्णे वर्णेनाग्नेः सदृशि तटे पश्यामी ।</l><l>श्यामीभूताः कुसुमसमूहो ऽलीनां लीनामालीमिह तरवो बिभ्राणाः ॥ ३० ॥</l></lg><lg n="4.31">
<l>व्योमस्पृशः प्रथयता कलधौतभित्तीर् उन्निद्रपुष्पचणचम्पकपिङ्गभासः ।</l><l>सौमेरवीमधिगतेन नितम्बशोभाम् एतेन भारतमिलावृतवद्विभाति ॥ ३१ ॥</l></lg><lg n="4.32">
<l>रुचिरचित्रतनूरुहशालिभिर्विचलितैः परितः प्रियकव्रजैः ।</l><l>विवधरत्नमयैरभिबात्यसाववयवैरिव जङ्गमतां गतैः ॥ ३२ ॥</l></lg><lg n="4.33">
<l>कुशशयैरत्र जलाशयोषिता मुदारमन्ते कलभाविकस्वरैः ।</l><l>प्रगीयते सिद्धगणैश्च योषितामुदारम कलभाविकस्वरैः ॥ ३३ ॥</l></lg><lg n="4.34">
<l>आसादितस्य तमसा नियतेर्नियोगादाकाङ्क्षतःपुनरपक्रमणेन कालम् ।</l><l>पत्युस्त्वषामिह महौषधयः कलत्रस्थानं परैननभिभूतममूर्वहन्ति ॥ ३४ ॥</l></lg><lg n="4.35">
<l>वनस्पतिस्कन्धनिषण्णबालप्रवालहस्ताः प्रमदा इवात्र ।</l><l>पुष्पेक्षणैलम्भितलोचकैर्वा मधुव्रतव्रातवृतैर्व्रतत्यः ॥ ३५ ॥</l></lg><lg n="4.36">
<l>विहगाः कदम्बसुरभाविह गाः कलयन्तनुक्षणमनेकलयम् ।</l><l>भ्रमयन्नुपैति मुहुरभ्रमयं पवनश्च धूतनवनीपवनः ॥ ३६ ॥</l></lg><lg n="4.37">
<l>विद्वद्भिरागमपरैर्विवृतं कथञ्चिच्छ्रुत्वापि दुर्ग्रहमनिश्चितधीभिरन्यैः ।</l><l>श्रेयान्द्विजातिरिव हन्तुमघानि दक्षं गूठार्थमेष निधिमन्त्रगणं बिभर्ति ॥ ३७ ॥</l></lg><lg n="4.38">
<l>बिम्बोष्ठं बहु मनुते तुरङ्गवक्त्रश् चुम्बन्तं मुखमिह किंनरं प्रियायाः ।</l><l>श्लिष्यन्तंमुहुरितरो ऽपि तं निजस्त्रीम् उत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥ ३८ ॥</l></lg><lg n="4.39">
<l>यदेतदस्यानुतटं विभाति वनं ततानेकतमालतालम् ।</l><l>न पुष्पितात्र स्थगितार्करस्मावनान्तताने कतमा लतालम् ॥ ३९ ॥</l></lg><lg n="4.40">
<l>दन्तोज्ज्वलासु विमलोपलमेखलान्ताः सद्रत्नचित्रकटकासु बृहन्नितम्बाः ।</l><l>अस्मिन्भजन्ति घनकोमलगण्डशैला नार्यो ऽनुरूपमधिवासमधित्यकासु ॥ ४० ॥</l></lg><lg n="4.41">
<l>अनतिचिरोज्झितस्य जलदेन चिरस्थितबुद्ध्युदयस्य पयसो ऽनुकृतिम् ।</l><l>विरलविकीर्णवज्रशकला सकलाम् इह विदधाति धौतकलधौतमही ॥ ४१ ॥</l></lg><lg n="4.42">
<l>वर्जयन्त्या जनैः संगमेकान्ततस् तर्कयन्त्या सुखं सङ्गमे कान्ततः ।</l><l>योषयैष स्मरासन्नतापाङ्गया सेव्यते ऽनेकया संन्नतापङ्गया ॥ ४२ ॥</l></lg><lg n="4.43">
<l>संकीर्णकीचकवनस्खलितैकवालविच्छेदकातरधियश्चलितुं चमर्यः ।</l><l>अस्मिन्मृदुश्वसनगर्भतदीयरन्ध्रर्यत्स्वनश्रुतिसुखादिव नोत्सहन्ते ॥ ४३ ॥</l></lg><lg n="4.44">
<l>मुक्तं मुक्तागौरमिह क्षीरमिवाभ्रैर् वापीष्वन्तर्लीनमहानीलदलासु ।</l><l>शस्त्रीश्यामैरंशुभिराशु द्रुतमम्भश् छायामच्छामृच्छति नीलीसलिलस्य ॥ ४४ ॥</l></lg><lg n="4.45">
<l>या न ययौ प्रियमन्यवधूभ्यः सारतरागमना यतमानम् ।</l><l>तेन सहेत बिभर्ति रसः स्त्री सा रतरागमनायतानाम् ॥ ४५ ॥</l></lg><lg n="4.46">
<l>भिन्नेषुरत्नकिरणैः किरणेष्विहेन्दोर् उच्चावचैरुपगतेषु सहस्रसंख्यां ।</l><l>दोषापि नूनमहिमांशुरसौ किलेति व्याकोशकोकनदतां दधते नलिन्यः ॥ ४६ ॥</l></lg><lg n="4.47">
<l>अपशङ्कमङ्कपरिवर्तनोचिताश्चलिताः पुरः पतिमुपेतुमात्मजाः ।</l><l>अनुरोदितीव करुणेन पत्त्रिणां विरुतेन वत्सलतययैष निम्नगाः ॥ ४७ ॥</l></lg><lg n="4.48">
<l>मधुकरविटपानमितास्तरुपङ्क्तीर्बिभ्रतःऽस्य विटपानमिताः ।</l><l>परिपाकपिशङ्गलतारजसा रोधश्चकास्ति कपिशं गलता ॥ ४८ ॥</l></lg><lg n="4.49">
<l>प्राग्भागतः पतदिहेदमुपत्यकासु शृङ्गारितायतमहेभकराभमम्भः ।</l><l>संलक्ष्यतेविविधरत्नकरानुविद्धम् ऊर्ध्वप्रसारितसुराधिपचापचारु ॥ ४९ ॥</l></lg><lg n="4.50">
<l>दधाति च विकसद्विचित्रकल्पद्रुमकुसुमैरभिगुम्फितानिवैताः ।</l><l>क्षणमलघुविलम्बिपिच्छदाम्नः शिखरशिखाः शिखिशेखरानमुष्य ॥ ५० ॥</l></lg><lg n="4.51">
<l>सवधूकाः सुखिनो ऽस्मन्ननवरतममन्दरामतामरसदृशः ।</l><l>नासेवन्ते रसवन्नवरतममन्दरागतामरसदृशः ॥ ५१ ॥</l></lg><lg n="4.52">
<l>आच्छाद्य पुष्पपटमेव महान्तमन्तरावर्तिभिर्गृहकपोतशिरोधराभैः ।</l><l>शस्वङ्गानि धूमरुचिमागुरवीं दधानैर् धूपायतीव पटलैर्नीरदानाम् ॥ ५२ ॥</l></lg><lg n="4.53">
<l>अन्योन्यव्यतिकरचारुभिर्विचित्रैर् अत्रस्यन्नवमणिर्जन्मभिर्मयूखैः ।</l><l>विस्मेरान्गगनसदः करोत्यमुष्मिन्न् आकाशेरचितमभित्ति चित्रकर्म ॥ ५३ ॥</l></lg><lg n="4.54">
<l>समीरशिशिरः शिरःसुवसता सता जवनिका निकानसुखिनाम् ।</l><l>बिभर्तिजनयन्नयं मुदमपाम् अपायधवला वलाहकततीः ॥ ५४ ॥</l></lg><lg n="4.55">
<l>मैर्त्त्र्यादिचित्तपरिकर्मविदो विधाय क्लेशप्रहाणमिह लब्धसबीजयोगाः ।</l><l>ख्यातिं चसत्त्वपुरुषान्यतयाधिगम्य वाञ्चन्ति तामपि समाधिभृतः निरोद्धुम् ॥ ५५ ॥</l></lg><lg n="4.56">
<l>मरकतमयमेदिनीषु भानोस् तरुविटपान्तरपातिनो मयूखाः ।</l><l>अवनतशितिकण्ठकण्ठलक्ष्मीम् इह दधति श्फुरिताणुरेणुजालाः ॥ ५६ ॥</l></lg><lg n="4.57">
<l>या बिभर्ति कलवल्लकीगुणस्वानमानमतिकालिमालया ।</l><l>नात्र कान्तमुपगीतया तया स्वानमानमति कालिमालया ॥ ५७ ॥</l></lg><lg n="4.58">
<l>सायं शशाङ्गकिरणाहतचन्द्रकान्तनिस्यन्दिनीरनिकरेण कृताभिषेकाः ।</l><l>अर्कोपलोल्लसितवह्निभिरह्नि तप्तास् तीव्रं महाव्रतमिवात्र चरनति वप्राः ॥ ५८ ॥</l></lg><lg n="4.59">
<l>एतस्मिन्नधिकपयःश्रियं वहन्त्यः संक्षोभं पवनभुवा जवेन नीताः ।</l><l>वाल्मीकेररहितरामलक्ष्मणानां साधर्म्यं दधति गिरां महासरस्यः ॥ ५९ ॥</l></lg><lg n="4.60">
<l>इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।</l><l>स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ॥ ६० ॥</l></lg><lg n="4.61">
<l>त्वक्साररन्ध्रपरिपूरणलब्धगीतिर् अस्मिन्नसौ मृदितपक्ष्मलरल्लकाङ्गः ।</l><l>कस्तूरिकामृगविमर्दसुगन्धिरेति रागीव सक्तिमधिकां विषयेषु वायुः ॥ ६१ ॥</l></lg><lg n="4.62">
<l>प्रीत्यै यूनां व्यवहिततपनाः प्रौढद्वान्तं दिनमिह जलदाः ।</l><l>दोषामन्यं विदधाति सुरतक्रीडायासश्रमपटवः ॥ ६२ ॥</l></lg><lg n="4.63">
<l>भग्ने निवासो ऽयमिहास्य पुष्पैः सदानतः येन विषाणि नागः ।</l><l>तीव्राणि तेनोज्झति कोपितो ऽसौ ससानतोयेन विषाणि नागः ॥ ६३ ॥</l></lg><lg n="4.64">
<l>प्रालेयशीतलमचलेश्वरमीश्वरो ऽपि सान्द्रभचर्मवसनावरणाधिशेते ।</l><l>सर्वर्तुनिवृत्तिकरे निवसन्नुपैति न द्वन्द्वदुःखमिह किञ्चिदकिञ्चनो ऽपि ॥ ६४ ॥</l></lg><lg n="4.65">
<l>नवनगवनलेखाश्यामध्याभिराभिः स्फटिककटकभूमिनाटयत्येष शैलः ।</l><l>अहिपरिकरभाजो भास्मनैरङ्गरागैर् अधिगतधवलिम्नः शूलपाणेरभिख्याम् ॥ ६५ ॥</l></lg><lg n="4.66">
<l>दधद्भिरभितस्तटौ विकचवारिजाम्बूनदैर् विनोदितदिनक्लमाः कृतरुचश्चजाम्बूनदैः ।</l><l>निषेव्य मधु माधवाः सरसमत्र कादम्बरं हरन्ति रतये रहः प्रियतमाङ्गकादम्बरम् ॥ ६६ ॥</l></lg><lg n="4.67">
<l>दर्पणनिर्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ।</l><l>व्रीडमसंंमुखो ऽपि रमणैरपहृतवसनाः खाञ्चनकन्दरासु तरुणीरिह नयति रविः ॥ ६७ ॥</l></lg><lg n="4.68">
<l>अनुकृतिशिखरौघश्रीभिरभ्यगते ऽसौ त्वयि सरभसमभ्युत्तिष्ठतीवाद्रिरुच्चैः ।</l><l>द्रुतमरुदुपनुन्नैरुन्नमद्भिः सहेलं हलधरपरिधानश्यामलैरम्बुवाहैः ॥ ६८ ॥</l></lg><lg n="5.1">
<l>इत्थं व्यलीकाः प्रियतमा इव सो ऽव्यलीकः शुश्राव सूततनयस्य तदा व्यलीकाः ।</l><l>रन्तुं निरन्तरमियेष ततो ऽवसाने तासां गिरौ च वनराजिपटं वसाने ॥ १ ॥</l></lg><lg n="5.2">
<l>तं स द्विपेन्द्रतुलितातुलतुङ्गशृङ्गम् अभ्युल्लसत्कदलिकावनराजिमुच्चैः ।</l><l>विस्ताररुद्धवसुधो ऽन्वचलं चचाल लक्ष्मीं दधत्प्रतिगिरेरलघुर्बलौघः ॥ २ ॥</l></lg><lg n="5.3">
<l>भास्वत्करव्यतिकरोल्लसिताम्बरान्तस् तापत्रपा इव महाजनदर्शनेन ।</l><l>संविव्युरम्बरविकासि चमूसमुत्थं पृत्वीरजः करभकण्ठकडारमाशः ॥ ३ ॥</l></lg><lg n="5.4">
<l>आवर्तिनः शुभफलप्रदशुक्तियुक्ताः संपन्नदेवमणयो भृतरन्ध्रभागाः ।</l><l>अश्वाः प्यधुर्वसुमतीमतिरोचमानास् तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥ ४ ॥</l></lg><lg n="5.5">
<l>आरक्षमग्नमवमत्य सृणिं शिताग्रम् एकः पलायत जवेन कृतार्तनादः ।</l><l>अन्यपुनर्मुहुरुदप्लवतास्तभारम् अन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥ ५ ॥</l></lg><lg n="5.6">
<l>आयास्तमैक्षत जनशचटुलाग्रपादं गच्छन्तमुच्चलितचामरचारुमश्वम् ।</l><l>नागं पुनर्मृदु सलीलनिमीलिताक्षं सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥ ६ ॥</l></lg><lg n="5.7">
<l>त्रस्तः समस्तजनहासकरः करेणोस् तावत्खरः प्रखरमुल्ललयाञ्चकार ।</l><l>यावच्चलासनविलोलनितम्बबिम्बविस्रस्तवस्त्रमवरोधवधूः पपात ॥ ७ ॥</l></lg><lg n="5.8">
<l>शैलोपशल्यनिपतद्रथनेमिधारानिष्पिष्टनिष्ठुरशिलातलचूर्णगर्भाः ।</l><l>भूरेणवोनभसि नद्धपयोदचक्राश् चक्रवदङ्गरुहधूम्ररुचो विसस्रुः ॥ ८ ॥</l></lg><lg n="5.9">
<l>उद्य्त्कृशानुशकलेषु सुराभिघाताद् भूमीसमायातशिलाफलकाचितैषु ।</l><l>पर्न्तवर्त्मसु व्चक्रमिरे महाश्वाः शैलस्य दर्दुरपुटानिव वादयन्तः ॥ ९ ॥</l></lg><lg n="5.10">
<l>तेजोनिरोधसमतावहितेन यन्त्रा समय्क्कशात्रयविचारवाता नियुक्तः ।</l><l>आराट्टजश्चटुलनिष्ठुरपातमुच्चैश् चित्रं चकार पदमर्दपुलायितेन ॥ १० ॥</l></lg><lg n="5.11">
<l>नीहारजालमालिनः पुनरुक्तसान्द्राः कुर्न्वधूजनविलोचनपक्ष्ममालाः ।</l><l>क्षुण्णः क्षणं यदुबलैर्दिवमातितांसुः पांशुर्दिसां मुखमतुत्थयदुत्थितो ऽद्रेः ॥ ११ ॥</l></lg><lg n="5.12">
<l>उच्छिद्य विद्विष इव प्रस्रभं मृगेन्द्रान् इन्द्रानुजाचरभूतपतयो ऽध्यवात्सुः ।</l><l>वन्येभमस्तकनिखातनखाग्रयमुक्तमुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥ १२ ॥</l></lg><lg n="5.13">
<l>विभ्राणया बहलयावकङ्कपिङ्कपिच्छावचूडामनुमाधवमास जग्मुः ।</l><l>चञ्च्वग्रदष्टचटुलाहितपताकयान्ये स्वावासभागमुरगाशनकेतुयष्ट्या ॥ १३ ॥</l></lg><lg n="5.14">
<l>छायामपास्य महतीमपि वर्तमानाम् आगामिनीं जगृहिरे जनतास्रूणाम् ।</l><l>सर्वो हि नोपागतमप्यपचीयमानं वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥</l></lg><lg n="5.15">
<l>अग्रगतेन वसतिं परिगृह्य रम्याम् आपात्यसैनिकनिराकराणाकुलेन ।</l><l>यान्तो ऽन्यतः प्लुतकृतस्वरमाशु दूराद् उद्बाहुना जुहुवविरे मुहुरात्मवर्ग्याः ॥ १५ ॥</l></lg><lg n="5.16">
<l>सिक्ता इवामृतरसेन मुहुर्जनानां क्लान्तिच्छिदो वनवनस्पतयस्तदानीम् ।</l><l>शाखावसक्तवसनाभरणाभिरामाः कल्पद्रुमैः सह विचित्रफलैर्विरेजुः ॥ १६ ॥</l></lg><lg n="5.17">
<l>यानाज्जनः परिजनैरवतार्यमाणा राज्ञीर्नरापनयनाकुलसौविदल्लाः ।</l><l>स्रस्तावगुण्ठनपटाः क्षणलक्ष्यमाणवक्रश्रियः सभयकौतुकमीक्षते स्म ॥ १७ ॥</l></lg><lg n="5.18">
<l>कण्ठावसक्तमृदुबाहुलतातुरङ्गाद् राजावरोधनवधूरवतारयन्तः ।</l><l>आलिङ्गनान्यधिकृताः स्फुटमापुरेव गण्डस्थलीः शुचितया न चुचुम्बुरासाम् ॥ १८ ॥</l></lg><lg n="5.19">
<l>दृष्ट्वेव निर्जतकलापभरामधस्ताद् व्याकीर्णमान्यकबरां कबरीं तरुण्याः ।</l><l>प्रादुद्रुवत्सपदि चन्द्रकवान्द्रुमाग्रात् संघर्षिणा सह गुणाभ्यधिकैर्दुरापम् ॥ १९ ॥</l></lg><lg n="5.20">
<l>रोचिष्णुकाञ्चनचयांशुपिशङ्गिताशा वंशध्वजैर्जलदसंहतिमुल्लिखन्त्यः ।</l><l>भूभर्तुरायत निरन्तरसंनिवृष्टाः पादा इवाभिवभुरावलयो रथानाम् ॥ २० ॥</l></lg><lg n="5.21">
<l>छायाविधायिभिरनुज्झितभूतिशोभैर् उच्छ्रायिभिर्बहलपाटलधातुरागैः ।</l><l>दूष्यैरपि क्षितिभृतां द्विरदैरुदारतारावलीविरचनैर्व्यरुचन्निवासाः ॥ २१ ॥</l></lg><lg n="5.22">
<l>उत्क्षप्तपटकान्तरलीयमानम् अन्दानिलप्रशमितश्रमघर्मतोयैः ।</l><l>दुर्वाप्रतानसहजास्तरणेषु भेजे निद्रसुखं वसनसद्मसु राजदारैः ॥ २२ ॥</l></lg><lg n="5.23">
<l>प्रस्वेदवारिसविशेषविषक्तमङ्गे कूर्पासकं क्षतनखक्षतमुत्क्षिपन्ती ।</l><l>आविर्भवद्वनपयोधरबाहुमूला शातोदरी युवदृशां क्षणमुत्सवो ऽभूत् ॥ २३ ॥</l></lg><lg n="5.24">
<l>यावत्स एव समयः सममेव तावद् अव्याकुलाः पटमयान्यभितो वितत्य ।</l><l>पर्यापतत्क्रयिकलोकमगण्यपण्यपूर्णपणा विणुनो विपणीर्विभेजुः ॥ २४ ॥</l></lg><lg n="5.25">
<l>अल्पप्रयोजनकृतोरुतरप्रयातसैर् उद्गूर्णलोष्टगुडैः परितो ऽनुविद्धम् ।</l><l>उद्यातमुद्रतमनोकहझालमध्याद् अन्याः शशङ्गुणमनल्पमवन्नवाप ॥ २५ ॥</l></lg><lg n="5.26">
<l>त्रासाकुलः परिपतन्परितो निकेतान् पुंभिर्न कैश्चिदपि धन्वभिरन्वबन्धि ।</l><l>तस्थौ तथापि न मृगः क्वचिदङ्गनानाम् आकर्णपूर्णनयनेषुहतेक्षणश्रीः ॥ २६ ॥</l></lg><lg n="5.27">
<l>आस्तीर्णतल्परचितावासथः क्षणेन वेशयाजनः कृतनवकर्मकाम्यः ।</l><l>खिन्नानखिन्नमतिरापततो मनुष्यान् प्रत्यग्रहीच्चिरनिविष्ट इवोपचारैः ॥ २७ ॥</l></lg><lg n="5.28">
<l>सस्नुः पयः पपुरनेनिजुरम्बराणि जक्षुर्बिसं धृतविकासिभिसप्रसूना ।</l><l>सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादममृजन्नगनिमन्गानाम् ॥ २८ ॥</l></lg><lg n="5.29">
<l>नाभिह्रदैः परिगृहीतरयाणि निम्नैः सत्रीणांबृहज्जघनसेतुनिवारितानि ।</l><l>जग्मुर्जलानि जलमुड्डकवाद्यवल्गुवल्गद्धनस्तनतटस्खलितानि मन्दम् ॥ २९ ॥</l></lg><lg n="5.30">
<l>आलोलपुष्करमुखोल्लसितैरभीक्ष्णमुक्षांबभूवुरभितोवपुरम्बुवर्षैः ।</l><l>स्वेदायत श्वसितनिरस्तवेगमुग्धमूर्धन्यरत्ननिकरैरिव हास्तिकानि ॥ ३० ॥</l></lg><lg n="5.31">
<l>ये पक्षिणः प्रथममम्बुनिधिं गतास्ते ये ऽपीन्द्रपाणितुलायुधलूनपक्षाः ।</l><l>तेजग्मुरद्रिपतयः सरसीर्विगाढुम् आक्षिप्तकेतुकुथसैन्यगजच्छलेन ॥ ३१ ॥</l></lg><lg n="5.32">
<l>आत्मानमेव जलधेः प्रतिबिम्बिताङ्गम् ऊर्मौ महत्यभिमुखापातितं निरीक्ष्य ।</l><l>क्रोधादधावदपभीरभिहन्तुमन्यनागाभियुक्त इव युक्तमहो महेभः ॥ ३२ ॥</l></lg><lg n="5.33">
<l>नादातुमन्यकरिमुक्तमदाम्बुतिक्तं धूताङ्कुशेन न विहातुमपीच्छताम्भः ।</l><l>रुद्धे गजेन सरितः सरुषावतारे रिक्तोदपात्रकरमास्त चिरं जनौघः ॥ ३३ ॥</l></lg><lg n="5.34">
<l>पन्थानमाशु विजहीहि पुरः स्तनौ ते पश्यन्प्रतिद्वरदकुम्भविशङ्गिचेताः ।</l><l>स्तम्बेरमः पारिणिनंसुरावुपैति षिङ्गैरगद्यत ससंभ्रममेव काचित् ॥ ३४ ॥</l></lg><lg n="5.35">
<l>कीर्णं शनैरनुकपोलमनेकपानां हस्तौर्विगाढमदतापरुजः शमाय ।</l><l>आकर्णमुल्लसितमम्बु विकाशिकाशनीकाशमाप समतां सितचामरस्य ॥ ३५ ॥</l></lg><lg n="5.36">
<l>गण्डूषमुज्झितवता पयसः सरोषं नागेन लब्धपरवारणमारुतेन ।</l><l>अम्भोधिरोधसि पृथुप्रतिमानभागरुद्धोरुदन्तमुसलप्रसरं निपेते ॥ ३६ ॥</l></lg><lg n="5.37">
<l>दानन्ददत्तयपि जलैः सहसाधिरूढे को विद्यमानगतिरासितुमुत्सहते ।</l><l>यद्दन्तिनः कटकटाहतटान्मिमङ्क्षोर् मङ्क्षूदपाति परितः पटलैरसीनाम् ॥ ३७ ॥</l></lg><lg n="5.38">
<l>अन्तर्जलौघमवगाढवतः कपोलौ हित्वा क्षणं विततपक्षतिरन्तरीक्षे ।</l><l>द्रव्यश्रयेष्वपि गणेषु रराज नीलो वर्णः पृथग्गत इवालिगणो गजस्य ॥ ३८ ॥</l></lg><lg n="5.39">
<l>संसर्पिभिः पयसि गैरिकरेणुरागैर् अम्भोजगर्भरससाङ्गनिषङ्गिणा च ।</l><l>क्रीडोपभोगमनुभूय सरिन्महेभाव् अन्योन्यवस्त्रपरिवर्तमिव व्यधत्ताम् ॥ ३९ ॥</l></lg><lg n="5.40">
<l>यां चन्द्रकैर्मदजलस्य महानदीनां नेत्रश्रियं विकसतो विदधुर्गजेन्द्राः ।</l><l>तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजवस्त्रैः ॥ ४० ॥</l></lg><lg n="5.41">
<l>प्रत्यन्यदन्ति निशिताङ्गुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निपादी ।</l><l>रोद्धुं महेभपरिव्रढिमानमागाद् आक्रन्तितो न वशमेति महान्परस्य ॥ ४१ ॥</l></lg><lg n="5.42">
<l>सेव्यो ऽपि सानुनयमाकलनाय यन्त्रा नीतेन वन्यकरिदानकृताधिवासः ।</l><l>नाभाजि केवलमभाजि गजेन शाखी नान्यस्य गन्धमपि मानभतः सहन्ते ॥ ४२ ॥</l></lg><lg n="5.43">
<l>अद्रीन्दुकुञ्चचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य ।</l><l>सेनागजेन मथितस्य निजप्रसूनैर् मम्ले यथागतमगामि कुलैरलीनाम् ॥ ४३ ॥</l></lg><lg n="5.44">
<l>नोच्चैर्यदा तरुतलेषु ममुस्तदानीम् आधोरणैरभिहिताः पृथुमूलशाखाः ।</l><l>बन्धाय चिच्छिदुरिभास्तरसात्मनैव नैवात्मनीनमथ वा क्रियते मदान्धैः ॥ ४४ ॥</l></lg><lg n="5.45">
<l>उष्णोष्णशीकरसृजः प्रबलोष्मणो ऽन्तरुत्फुल्लनीलनलिनोदरतुल्यभासः ।</l><l>एकान्वशालशिरसो हरिचन्दनेषु नागान्बबन्धुरपारान्मनुजा निरासुः ॥ ४५ ॥</l></lg><lg n="5.46">
<l>कण्डूयतः कटुभुवं करिणो मदेन स्कन्धं सुगन्धिमनुलीनवता नगस्य ।</l><l>स्थूलेन्द्रनीलशकलावलिकोमलेन कणठेगुणत्वमलीनां वलयेन भेजे ॥ ४६ ॥</l></lg><lg n="5.47">
<l>निर्धूतवीतमपि बालकमुल्ललन्तं यन्ता क्रमेण परिसान्त्वनतर्जनाभिः ।</l><l>शिक्षावशेन शनकैर्वशमानिनाय शाश्त्रं हि निश्चितधियां क्व न सिद्धमेति ॥ ४७ ॥</l></lg><lg n="5.48">
<l>स्तम्भं महान्तमुचितं सहसा मुमोच दानं ददावतितरां सरसाग्रहस्तः ।</l><l>बद्धपराणि परितो निगडानेयलावीत् स्वातन्त्र्यमुज्वलमवाप करेणुराजः ॥ ४८ ॥</l></lg><lg n="5.49">
<l>जज्ञे जनैर्मुकुलितताक्षमनाददाने संरब्धहस्तिपकनिष्टुरचोदनाभिः ।</l><l>गम्भीरवेदिनि पुरः कवलं करीन्द्रे मन्दो ऽपि नाम न महानवगृह्य साध्यः ॥ ४९ ॥</l></lg><lg n="5.50">
<l>क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुं ।</l><l>सस्मार वारणपतिः परिमीलिताक्षम् इच्छाविहारवनवासमहोत्सवनाम् ॥ ५० ॥</l></lg><lg n="5.51">
<l>दुःखेन भोजयितुमाशयिता शशाक तुङ्गाग्रकायमनमन्तमनादरेण ।</l><l>उत्क्षिप्तहस्ततलदत्तविधानपिण्डस्नेहस्रुति स्नपितबाहुरिभाधिराजम् ॥ ५१ ॥</l></lg><lg n="5.52">
<l>शुक्लांशुकोपरचितानि निरन्तराभिर् वेश्मनि रस्मिविततानि नराधिपानाम् ।</l><l>चन्द्राकृतानि गजमणडलिकाभिरुच्चैर् नीलाभ्रपङ्क्तिपरिवेषमिवाधिजग्मुः ॥ ५२ ॥</l></lg><lg n="5.53">
<l>गत्यूनमर्गगतयो ऽपि गतोरुमार्गाः स्वैरं समाचकृषिरे भुवि वेल्लनाय ।</l><l>दर्पोदयोल्लसितफेनजलानुसारसंलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥ ५३ ॥</l></lg><lg n="5.54">
<l>आजिघ्रति प्रणतमूर्धनि बाह्लजे ऽश्वे तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।</l><l>नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥ ५४ ॥</l></lg><lg n="5.55">
<l>हेम्नः स्थलीषु परितः परिवृत्य वाजी धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।</l><l>ज्वलाकणारुणरुचा निकरेणरेणोः शेषेणतेजसः इवोल्लसता रराज ॥ ५५ ॥</l></lg><lg n="5.56">
<l>दन्तालिकाधरणनिश्चलपाणियुग्मम् अर्धोदितो हरिरिवोदयशैलमूर्ध्नः ।</l><l>स्तोकेन नाक्रमत वल्लभपालमुच्चैः श्रीवृक्षकी पुरुषकोन्नमिताग्रकायः ॥ ५६ ॥</l></lg><lg n="5.57">
<l>रेजे जनैः स्नपनसान्द्रतरार्द्रमूर्तिर् देवैरिवानिमिषद्दृष्टिभिरीक्ष्यमाणः ।</l><l>श्रीसंनिधानरमणीयतरो ऽश्व उच्चैर् उच्चैश्रवा जलनिधेरिव जातमात्रः ॥ ५७ ॥</l></lg><lg n="5.58">
<l>अश्रावि भूमिपतिभिः क्षणवीतनिद्रैर् अश्नुन्पुरो हरितकं मुदमादधानः ।</l><l>ग्रीवाग्रलोलकलकिङ्गिणीकानिनाद मिश्रं दधद्दशनचर्चुरशब्दमश्वः ॥ ५८ ॥</l></lg><lg n="5.59">
<l>उत्खाय दर्पचलितेन सहैव रज्ज्वा कीलं प्रयत्नपरमानवदुर्ग्रहेण ।</l><l>आकुल्यकारि कटकस्तुरगेण तूर्णम् अश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥ ५९ ॥</l></lg><lg n="5.60">
<l>अव्याकुलं प्रकृतमुत्तरधेयकर्म धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।</l><l>सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं वल्गाविभागकुशलो गमयांबभूव ॥ ६० ॥</l></lg><lg n="5.61">
<l>मुक्तासृणानि परितः कचकं चरन्तस् त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।</l><l>सस्रुः सरोषपरिचारकवार्यमाणा दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥ ६१ ॥</l></lg><lg n="5.62">
<l>उत्तीर्णभारलघुनाप्यलघूलपौघसौहित्यनिःसहतरेण तरोरधस्तात् ।</l><l>रोमन्थमन्थरचलद्गुरुसास्नमासांचक्रे नीमीलदलसेक्षणमौक्षकेण ॥ ६२ ॥</l></lg><lg n="5.63">
<l>मृत्पिण्डशेखरितकोटिभिरर्धचन्द्रं शृङ्गै शिखाग्रगतलक्ष्ममलं हसद्भिः ।</l><l>उच्छृङ्गितान्यवृषभा सरितां नदन्तो रोधांसि धीरमपचस्किरिरे महोक्षाः ॥ ६३ ॥</l></lg><lg n="5.64">
<l>मेदस्विनः सरभसोपगतानभीकान् भङ्कत्वा पराननडुहो मुहुराहवेन ।</l><l>ऊर्जस्वलेन सुरभीरनुनिनिःसपत्नं जग्मे जयोद्धुरविशालविषाणमुक्ष्णा ॥ ६५ ॥</l></lg><lg n="5.65">
<l>बिभ्राणमायतिमतीमवृथा शिरोधिं प्रत्यग्रतामतिरसामधिकं दधन्ति ।</l><l>लोलोष्ट्रमौष्ट्रकमुदग्रमुखं तरूणाम् अभ्रंलिहानि लिलिहे नवपल्लवानि ॥ ६४ ॥</l></lg><lg n="5.66">
<l>सार्धं कथञ्चिदुचितैः पिचुमर्दपत्त्रैर् आस्यान्तरालगतमाम्रदलं म्रदीयः ।</l><l>दासेरकःसपदि संवलितं निषादैर् विप्रं पुरा पतगराडिव निर्जगार ॥ ६६ ॥</l></lg><lg n="5.67">
<l>स्पष्टं बहिः स्थितवतेरपि निवेदयन्तश् चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।</l><l>वैतालिकाः स्फुटपदप्रकटार्थमुच्चैर् भोगावलीः कलगिरो ऽवसरेषु पेठुः ॥ ६७ ॥</l></lg><lg n="5.68">
<l>उन्नम्रताम्रपटमण्डपमण्डितं तदानीलननागकुलसंकुलमाबभासे ।</l><l>संध्याशुभिन्नघनकर्बुरितान्तरीक्षलक्ष्मीविडम्बि शिविरं शिवकीर्तनस्य ॥ ६८ ॥</l></lg><lg n="5.69">
<l>धरस्योद्धर्तासित्वमितिननु सर्वत्र जगति प्रतीतस्तत्किं मामतिभरमधः प्रापिपायिषुः ।</l><l>उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ बलाक्रान्तः क्रडद्द्विरदमथितोर्वीरुहरवैः ॥ ६९ ॥</l></lg><lg n="6.1">
<l>अथ रिरंसुममुं युगपद्गिरौ कृतयथास्वतरुप्रसवश्रिया ।</l><l>ऋतुगणेन निषेवितुमादधे भुवि पदं विपदन्तकृतं सतां ॥ १ ॥</l></lg><lg n="6.2">
<l>नवपलाशपलाशवनं पुरः स्फुटस्फटपरागतपङ्गजम् ।</l><l>मृदुलतान्तलतान्तमलोकयत्स सुरभिं सुमनोभरैः ॥ २ ॥</l></lg><lg n="6.3">
<l>विलुलितालकसंहृतिरामृशन्मृगदृशां श्रमवारि ललाटजम् ।</l><l>तनुतरङ्गततिं सरसां दलत्कुवलयं वलयन्मरुदाववौ ॥ ३ ॥</l></lg><lg n="6.4">
<l>तुलयति स्म विलोचनतारकाः कुरबकस्तबकव्यतिषह्किणि ।</l><l>गुणवदाश्रयलब्धगुणोददये मालिनिमालिनि माधवयोषितां ॥ ४ ॥</l></lg><lg n="6.5">
<l>स्फुटमिवोज्वलकाञ्चकान्तिभिर्युतमशोकमशोभत चम्पकैः ।</l><l>विरहिणां हृदयस्य भिदाभृतः कपिशितं पिशितं मदनाग्निना ॥ ५ ॥</l></lg><lg n="6.6">
<l>स्मराहुताशनमुर्मुरचूर्णतां दधुरिवाम्रवनस्य रजःकणाः ।</l><l>निपातिताः परितः पथिकव्रजानुपरि ते परितेपुरतो भृशम् ॥ ६ ॥</l></lg><lg n="6.7">
<l>रतिपतिप्रहितेव कृतक्रुधः प्रियतमेषु वधूरनुनायिका ।</l><l>बकुलपुष्परसासवपेशलध्वनिरगान्निरगात् मधुपावलिः ॥ ७ ॥</l></lg><lg n="6.8">
<l>प्रियसखीसदृशं प्रतिबोधिताः किमपि काम्यगिरा परपुष्टया ।</l><l>प्रियतमाय वपुर्गुरुमत्सरच्छिदुरयादुरनाचिं अङ्गनाः ॥ ८ ॥</l></lg><lg n="6.9">
<l>मधुकरैरपवादकरैरिव स्मृतिभुवः पथिकाः हरिणा इव ।</l><l>कलतया वचसः परिवादिनीस्वरजिता वशमाययुः ॥ ९ ॥</l></lg><lg n="6.10">
<l>समभिसृत्य रसादवलम्बितः प्रमदया कुसुमावचिचीर्षया ।</l><l>अविनमन्न रराजवृथोच्चकैरनृतया नृतया वनपादपः ॥ १० ॥</l></lg><lg n="6.11">
<l>इदमपास्य विरागि परागीरलिकदम्बकमम्बुरुहां ततीः ।</l><l>स्तनभरेण जितस्तबकानमन्नवलते वलते ऽभिमुखं तव ॥ ११ ॥</l></lg><lg n="6.12">
<l>सुरभिणिश्वसिते दधतस्तृषं नवसुधामधुरे च तवाधरे ।</l><l>अलमलेरिव गन्धरसावमू मम न सौमनसौ मनसो मुदे ॥ १२ ॥</l></lg><lg n="6.13">
<l>इति गदन्तमनन्तरमङ्गना भुजयुगोन्नमनोच्चतरस्तनी ।</l><l>प्रणयिनं रभसादुदरश्रिया वलिभयादलिभयादिव सस्वजे ॥ १३ ॥</l></lg><lg n="6.14">
<l>वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।</l><l>चलितया विदधे कलमेखलाकलकलो ऽलकलोलदृशान्यया ॥ १४ ॥</l></lg><lg n="6.15">
<l>अजगणन् गणशः प्रियमग्रतः प्रणतमप्यभिमानितया न याः ।</l><l>सति मधावभवन्मदनव्यथा विधुरिता धुरिताः कुकुरस्त्रियः ॥ १५ ॥</l></lg><lg n="6.16">
<l>कुसुमकार्मुककार्मुकसंहितद्रुतशिलीमुखखण्डितविग्रहाः ।</l><l>मरणमप्यपराः प्रतिपेदिरे किमु मुहुर्मुहुर्गतभर्तृकाः ॥ १६ ॥</l></lg><lg n="6.17">
<l>रुरुधिषा वदनाम्बुरुहश्रियः सुतनु सत्मलङ्करणाय ते ।</l><l>तदपि सम्प्रति सन्निहिते मधावधिगमं धिगमङ्गलमश्रुणः ॥ १७ ॥</l></lg><lg n="6.18">
<l>त्यजति कष्टामसावचिरादसून् विरहवेदनयेत्यघशङ्गिभिः ।</l><l>प्रियतया गदितास्त्वयि बान्धवैरवितथा वितथाः सखि मा गिरः ॥ १८ ॥</l></lg><lg n="6.19">
<l>न खलु दूरगतो ऽप्यधिवर्तते महमसाविति बन्धुतयोदितैः ।</l><l>प्रणयिनो निशमय्य वधूर्बहिः स्वरमृतैरमृतैरिव निर्ववौ ॥ १९ ॥</l></lg><lg n="6.20">
<l>मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया ।</l><l>मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे ॥ २० ॥</l></lg><lg n="6.21">
<l>अरुणिताखिशैलवना मुहुर्विदधती पथिकान् परितापिनः ।</l><l>विकचकिंशुकसंहतिरुच्चकैरुदवहद्दवहव्यवहश्रियम् ॥ २१ ॥</l></lg><lg n="6.22">
<l>रवितुरङ्गतनूरुहतुल्यतां दधति यत्र शिरीषरजोरुचः ।</l><l>उपययौ विदधन्नवमल्लिकाः शुचिरसौ चिरसौरभसंपदः ॥ २२ ॥</l></lg><lg n="6.23">
<l>दलितकोमलपाटलकुड्मले निजवधूश्वसितानुविधायिनि ।</l><l>मरुति वाति विलासिभिरुन्मदभ्रमदलौ मदलौल्यमुपाददे ॥ २३ ॥</l></lg><lg n="6.24">
<l>निदधिरे दयितोरसि तत्क्षणस्पनवारितुषारभृतः स्तनाः ।</l><l>सरसचन्दनरेणुरनुक्षणं विचकरे च करेण वरोरुभिः ॥ २४ ॥</l></lg><lg n="6.25">
<l>स्फुरदधीरतडिन्नयना मुहुः प्रियमिवागलितोरुपयोधरा ।</l><l>जलधरावलिरप्रतिपालितस्वसमया समयाञ्जगतीधरम् ॥ २५ ॥</l></lg><lg n="6.26">
<l>गजकदम्बकमेचकमुच्चकैर्नभसि वीक्ष्य नवाम्बुदमम्बरे ।</l><l>अभिससार न वल्लभमङ्गना न चकमे च कमेकरसं रहः ॥ २६ ॥</l></lg><lg n="6.27">
<l>अनुययौ विविधोपलकुण्डलद्युतिवितानकसंवलितांशुकम् ।</l><l>धुततनुर्वलयस्य पयोमुचः शबलिमा बलिमानमुषो वपुः ॥ २७ ॥</l></lg><lg n="6.28">
<l>द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी ।</l><l>नततमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ॥ २८ ॥</l></lg><lg n="6.29">
<l>पटलमम्बुमुचां पथिकाङ्गना सपदि जीवितसंशयमेष्यती ।</l><l>सनयनाम्बुसखीजन संभ्रमाद्विधुरबन्धुरबन्धुरमैक्षत ॥ २९ ॥</l></lg><lg n="6.30">
<l>प्रवसतः सुतरामुदकम्पयद्विलकन्दलकम्पनलालितः ।</l><l>नमयति स्म वनानि मनस्विनीजननमनो घनमारुतः ॥ ३० ॥</l></lg><lg n="6.31">
<l>जलदपङ्क्तिरनर्तयदुन्मदंकलविलापि कलापिकदम्बकम् ।</l><l>कृतसमार्जनमर्दलमण्डलध्वनिजया निजया स्वनसंपदा ॥ ३१ ॥</l></lg><lg n="6.32">
<l>नवकदम्बजो ऽरुणिताम्बरैरधिपुरन्ध्रि शिलीन्ध्रसुगन्धिभिः ।</l><l>मनसि रागवतामनुरागिता नवनवा वनवायुभिरादधे ॥ ३२ ॥</l></lg><lg n="6.33">
<l>शमिततापमपोढमहीरजः प्रथमबिन्दुभिरम्बुमुचो ऽम्भसां ।</l><l>प्रविरलैरचलाङ्गनमङ्गनाजनसुगं न सुगन्धि न चक्रिरे ॥ ३३ ॥</l></lg><lg n="6.34">
<l>द्विरदवलक्षमलक्ष्यत स्फुरितभृङ्गमृच्छवि केतकम् ।</l><l>घनघनौघविघट्टनया दिवः कृशसिखं शशिखण्डमिव च्युतम् ॥ ३४ ॥</l></lg><lg n="6.35">
<l>दलितमौक्तिकचूर्णविपाण्डवः स्फुरितनिर्झरशीकरचारवः ।</l><l>कुटजपुष्पपरागकणाः स्फुटं विदधिरे दधिरेणुविडम्बनाम् ॥ ३५ ॥</l></lg><lg n="6.36">
<l>नवपयःकणकोमलमालतीकुसुमसंततिसंततसङ्गिभिः ।</l><l>प्रचलितोडुनिभैः परिपाण्डिमाः शुभरजोभरजो ऽलिभिराददे ॥ ३६ ॥</l></lg><lg n="6.37">
<l>निजरजः पटवासमिवाकिरद्धृतपटोपमवारिमुचां दिशां ।</l><l>प्रियवियुक्तवधूजनचेतसामनवनी नवनीपवनावलिः ॥ ३७ ॥</l></lg><lg n="6.38">
<l>प्रणयकोपभृतो ऽपि पराङ्मुखाः सपदि वारिधरारवभीरवः ।</l><l>प्रणयिनः परिरब्धुमथाङ्गना ववलिरे वलिरेचितमध्यमाः ॥ ३८ ॥</l></lg><lg n="6.39">
<l>विगतरागगुणो ऽपि जनो न कश्चलति वाति पयोदनभस्वति ।</l><l>अभिहिते ऽलिभिरेवमिवोच्चकैरननृते ननृते नवपल्लवैः ॥ ३९ ॥</l></lg><lg n="6.40">
<l>अरमयन् भवनादचिरद्युतेः किल भयादमपयातुमनिच्छवः ।</l><l>यदुनरेन्द्रगणं तरुणागणास्तमथ मन्मथमन्थरभाषिणः ॥ ४० ॥</l></lg><lg n="6.41">
<l>ददतमन्तरिताहिमदीधितिं खगकुलाय कुलायनिलायिताम् ।</l><l>जलदकालमबोधकृतं दिशामपराथाप रथवयवायुधः ॥ ४१ ॥</l></lg><lg n="6.42">
<l>स विकचोत्पलचक्षुषमैक्षत क्षितिभृतो ऽङगगतां दयितामिव ।</l><l>शरदमच्छगलद्वसनोपमाक्षमधनामघनाशनकीर्तनः ॥ ४२ ॥</l></lg><lg n="6.43">
<l>जगति नैशमशीतकरः करैर्वियति वारिदवृन्दमयं तमः ।</l><l>जलजराजिषु नैन्द्रमदिद्रवन्न महतामहताः क्व च नारयः ॥ ४३ ॥</l></lg><lg n="6.44">
<l>समय एव करोति बलाबलं प्रणिगतवन्त इतीव शरीरिणाम् ।</l><l>शरदि हंसरवाः परुषीकृतस्वरमयूरमयू रमणीयताम् ॥ ४४ ॥</l></lg><lg n="6.45">
<l>तनुरुहाणि पुरो विजितध्वनेर्धवलपक्षविहङ्गमकूजितैः ।</l><l>जगलुरक्षमयेव शिखण्डिनः परिभवो ऽरिभवो हि सुदुःसहः ॥ ४५ ॥</l></lg><lg n="6.46">
<l>अनुवनं वनराजिवधूमुखे बहलरागजवाधरचारुणि ।</l><l>विकचबाणवलयो ऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः ॥ ४६ ॥</l></lg><lg n="6.47">
<l>कनकभङ्गपिशङ्गदलैर्दधे सरजसारुणकेशरचारुभिः ।</l><l>प्रियविमानितमानवतीरुषां निरसनैरसनैरवृथार्थता ॥ ४७ ॥</l></lg><lg n="6.48">
<l>मुखसरोजरुचं मदपाटलामनुचकार चकोरदृशां यतः ।</l><l>धृतनवातपमुत्सुकतामतो न कमलं कमलम्भयदम्भसि ॥ ४८ ॥</l></lg><lg n="6.49">
<l>विगतसस्यजिधत्समघट्टयत्कलमगोपवधूर्न मृगव्रजम् ।</l><l>श्रुततदीरितकोमलगीतकध्वनिमिषे ऽनिमेषेक्षणमग्रतः ॥ ४९ ॥</l></lg><lg n="6.50">
<l>कृतमदं निगदन्त इवाकुलीकृतजगत्रयमूर्जमतङ्गजम् ।</l><l>ववुरयुक्छदगुच्छसुगन्धयः सततगास्ततगानगिरो ऽलिभिः ॥ ५० ॥</l></lg><lg n="6.51">
<l>विगतवारिधरावरणाः क्वचिददृशुरुल्लसितासितासिताः ।</l><l>क्वचिदिवेन्द्रगजाजिनकञ्चुकाः शरदि नीरदिनीर्यदेवो दिशः ॥ ५१ ॥</l></lg><lg n="6.52">
<l>विलुलितामनिलैः शरदङ्गना नवसरोरुहकेशरसम्भवाम् ।</l><l>विकरितुं परिहासविधित्सया हरिवधूरिव धूलिमुधक्षिपत् ॥ ५२ ॥</l></lg><lg n="6.53">
<l>हरितपत्रमयीव मरुद्गणैः स्रगवनद्धमनोरमपल्लवा ।</l><l>मधुरिपोरभिताम्रमुखी मुदं दिवि तता विततान शुकावलिः ॥ ५३ ॥</l></lg><lg n="6.54">
<l>स्मितसरोरुहनेत्रसरोजलामतिसितङ्गविहङ्गहसद्दिवम् ।</l><l>अकलयन् मुदितामिव सर्वतः स शरदन्तुरदिह्मुखाम् ॥ ५४ ॥</l></lg><lg n="6.55">
<l>गजद्वयसीरपि हैमनस्तुहिनयन् सरितः पृषतां पतिः ।</l><l>सलिलसन्ततिमध्वगयोषितामतुनतातनुतापकृतं दृशां ॥ ५५ ॥</l></lg><lg n="6.56">
<l>इदमयुक्तमहो महदेव यद्वरतनोः स्मरयत्यनिलो ऽन्यदा ।</l><l>स्मृसयौवनसोष्मपयोधरान् सतुहिनस्तु हिनस्तु वियोगिनः ॥ ५६ ॥</l></lg><lg n="6.57">
<l>प्रियतमेन यया सरुषा स्थितं न सह सा सहसा परिरभ्य तम् ।</l><l>श्लथयितुं क्षणमक्षमतामङ्गना न सह सा सहसा कृतवेपथुः ॥ ५७ ॥</l></lg><lg n="6.58">
<l>भृशमदूयत याधरपल्लवक्षतिरनावरणा हिममारुतैः ।</l><l>दशनरश्मिपटेन च सीत्कृतैर्निवासितेव सितेन सुनिर्ववौ ॥ ५८ ॥</l></lg><lg n="6.59">
<l>व्रणभृता सुतनोः कलसीकृतस्फुरितदन्तमरीचिमयं दधे ।</l><l>स्फुटमिवावरणं हिमारुतैर्मृदुतया दुतयाधरलेखया ॥ ५९ ॥</l></lg><lg n="6.60">
<l>धृततुषारकणस्य नभस्वतस्तरुलताङ्गुलितर्जनविभ्रमाः ।</l><l>पृथु निरन्तरमिष्टभुजान्तरं वनितयानितया न विषेहिरे ॥ ६० ॥</l></lg><lg n="6.61">
<l>हिमऋतावपि ताः स्म भृशस्विदो युवतयः सुतरामुपकारिणौ ।</l><l>प्रकटयत्यनुरागमकृत्रिमं स्मरमयं रमयन्ति विलासिनः ॥ ६१ ॥</l></lg><lg n="6.62">
<l>कुसुमयन्फलिनीरवैमर्दविकासिभिरहितहुंकृतिः ।</l><l>उपवनं निरभर्सयत प्रियान्वियुवतीर्युवतीः शिशिरानिलः ॥ ६२ ॥</l></lg><lg n="6.63">
<l>उपचितेषु परेष्वसमर्थतां व्रजति कालवशाद्बलवानपि ।</l><l>तपसि मन्दगभस्तिरभीषुमान्नहि महाहिमनिकरो ऽभवत् ॥ ६३ ॥</l></lg><lg n="6.64">
<l>अबिषिषेणयिषुं भुवनानि यः स्मरमिवाख्यात लोध्ररचश्चयः ।</l><l>क्षुभितसैन्यपरागविपाण्डुरद्युतिरयं तिरयन्नुभूद्दिशः ॥ ६४ ॥</l></lg><lg n="6.65">
<l>शिशिरमासमपास्य गुणोस्य नः क इव शीतहरस्य कुचोष्मणः ।</l><l>इति धियास्तरुषः परिरेभिरे घनमतो नमतो ऽनुमतान् प्रियाः ॥ ६५ ॥</l></lg><lg n="6.66">
<l>अधिलवङ्गममी रजसाधिकं मलिनिताः सुमनोदलतालिनः ।</l><l>स्फुटमिति प्रसवेन पुरो ऽहसत्सपदि कुन्दलता दलतालिनः ॥ ६६ ॥</l></lg><lg n="6.67">
<l>अतिसुरभिभाजि पुष्पश्रियामतुनुतरतयेष सन्तानकः ।</l><l>तरुणपरभृतः स्वनं रागिणामतनुत रतये वसन्तानकः ॥ ६७ ॥</l></lg><lg n="6.68">
<l>नोज्झितुं युवतिमानसनिरासे दक्षमिष्टमधुवासरसां ।</l><l>चूतमालिरलिनामतिरागादक्षमिष्ट मधुवासरसारम् ॥ ६८ ॥</l></lg><lg n="6.69">
<l>जगद्वशीकर्तुमिमाः स्मरस्य प्रभावनीके तनवै जयन्तीः ।</l><l>इत्यस्य तेने कदलीर्मधुश्रीः प्रभावनी केतनवैजयन्तीः ॥ ६९ ॥</l></lg><lg n="6.70">
<l>स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् ।</l><l>प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥ ७० ॥</l></lg><lg n="6.71">
<l>वपुरम्बुविहारमिहं शुचिना रुचिरं कमनीयतरा गतिमा ।</l><l>रमणेन रमण्यचिरांशुलतारुचिरङ्कमनीयत रागमिता ॥ ७१ ॥</l></lg><lg n="6.72">
<l>मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।</l><l>अलिना रतमालिनी शिल्लीन्ध्रे सह सायन्तनदीपपाटलाभे ॥ ७२ ॥</l></lg><lg n="6.73">
<l>कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।</l><l>गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ॥ ७३ ॥</l></lg><lg n="6.74">
<l>अभीष्ठमासाद्य चिराय काले समुद्धृताशां कमनी चकाशे ।</l><l>योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्गमनीचकाशे ॥ ७४ ॥</l></lg><lg n="6.75">
<l>स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।</l><l>परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ७५ ॥</l></lg><lg n="6.76">
<l>जातप्रीतिर्या मधुरेणानुवनान्तं कामे कान्ते सारसिकाकुरुतेन ।</l><l>तत्सम्पर्क प्राप्य पुरा मोहनलीलां कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥</l></lg><lg n="6.77">
<l>कान्ताजनेन रहसि प्रसभं गृहीतकेशे रते स्मरसहासवतोपितेन ।</l><l>प्रेम्णा मनस्तु रजनीष्वपि हैमनीषु के शेरते स्म रसहासवतोपितेन ॥ ७७ ॥</l></lg><lg n="6.78">
<l>गतवतामपि विस्मयमुच्चकैरसकलामलपल्लवलीलया ।</l><l>मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया ॥ ७८ ॥</l></lg><lg n="6.79">
<l>कुर्वन्तमित्यतिभरेण नगानवाचः पुष्पैविराममलिनां च न गानवाचः ।</l><l>श्रीमान्समस्तमनुसानु गिरौविहर्तु बिभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ॥</l></lg><lg n="7.1">
<l>अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् ।</l><l>निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥ १ ॥</l></lg><lg n="7.2">
<l>दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः ।</l><l>मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥ २ ॥</l></lg><lg n="7.3">
<l>अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः ।</l><l>अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदो ऽङगनासु ॥ ३ ॥</l></lg><lg n="7.4">
<l>नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना ।</l><l>मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥ ४ ॥</l></lg><lg n="7.5">
<l>अतियपरिणाह्ववान् वितेने बहुतरमर्पितकिङ्किणीकः ।</l><l>अलघुनि जघनस्थले ऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥ ५ ॥</l></lg><lg n="7.6">
<l>गुरुनिबिडनितम्बबिम्बभाराक्रमणनिपीडितमङ्गनाजनस्य ।</l><l>चरणयुगमसुस्रुवत्पदेषु स्वरसमसक्तमलक्तकच्छलेन ॥ ६ ॥</l></lg><lg n="7.7">
<l>तव सपदि समीपमानये तामहमिति तस्य मयाग्रतो ऽभ्यधायि ।</l><l>अतिरभसाकृतालघुप्रतिज्ञामनृतगिरं गुणगौरि मा कृथा माम् ॥ ७ ॥</l></lg><lg n="7.8">
<l>न च सुतनु न वेद्मि यन्महीयानसुनिरसस्तव निश्चयः परेण ।</l><l>वितथयति न जानातु मद्वचो ऽसाविति च तथापि सखीषु मे ऽभिमानः ॥ ८ ॥</l></lg><lg n="7.9">
<l>सततमनभिभाषणं मया ते परिणमितं भवतीमनानयन्तया ।</l><l>त्वयि तदिति विरोधनिश्चितायां भवति भवत्वसुहृज्जनः सकामः ॥ ९ ॥</l></lg><lg n="7.10">
<l>गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।</l><l>प्रणयति यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः ॥ १० ॥</l></lg><lg n="7.11">
<l>प्रियमिति वनिता नितान्तमागःस्मरणसरोषषकषायिताक्षी ।</l><l>चरणगतसखीवचो ऽनुरोधात् किल कथमप्यनुकूलयाञ्चकार ॥ ११ ॥</l></lg><lg n="7.12">
<l>द्रुतपदमिति मा वयस्य यासिर्ननु सुतनुं परिपालयानुयान्तीम् ।</l><l>नहि न विदितखेदमेदतीयस्तनजघनोद्वहने तवापि चेतः ॥ १२ ॥</l></lg><lg n="7.13">
<l>इति वदति सखीजने ऽनुरागाद्दयिततमामपरश्चिरं प्रतीक्ष्य ।</l><l>तदनुगमवशादनायतानि न्यधित मिमान इवावनिं पदानि ॥ १३ ॥</l></lg><lg n="7.14">
<l>यदि मयि लघिमानमागतायां तव धृतिरस्ति गतास्मि सम्प्रतीयम् ।</l><l>द्रुततरपदपातमापपात प्रियमिति कोपपदेन कापि संख्या ॥ १४ ॥</l></lg><lg n="7.15">
<l>अविरलपुलकः सह व्रजन्त्याः प्रतिपदमेकतरः स्तनस्तरुण्याः ।</l><l>घटितविघटितः प्रियस्य वक्षस्तटभुवि कन्दुकविभ्रमं बभार ॥ १५ ॥</l></lg><lg n="7.16">
<l>अशिथिलमपरावसज्य कण्ठे दृढपरिरब्धबृहद्बहिस्तनेन ।</l><l>हृषिततनुरुहा भुजेन भर्तृर्मृदुममृदु व्यतिविद्धमेकबाहुं ॥ १६ ॥</l></lg><lg n="7.17">
<l>मुहुरसुसममाध्नती नितान्तं प्रणदितकाञ्चि नितम्बमण्डलेन ।</l><l>विषमितपृथुहारयष्टि तिर्यक्कुचमितरं तदुरस्थले निपीड्य ॥ १७ ॥</l></lg><lg n="7.18">
<l>गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा ।</l><l>इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥ १८ ॥</l></lg><lg n="7.19">
<l>लधुललितपदं तदंसपीठद्वयनिहितोभयपाणिपल्लवान्या ।</l><l>सकठिनकुचचूचुकप्रणोदं प्रियमबला सविलासमन्विनाय ॥ १९ ॥</l></lg><lg n="7.20">
<l>जघनमेलघपीवरोरु कृच्छ्रादुरुनिबिरीसनितम्बभारखेदि ।</l><l>दयिततमशिरोधरावलम्बिस्वभुजलताविभवेन काचिदूहे ॥ २० ॥</l></lg><lg n="7.21">
<l>अनुवपुरपरेण बाहुमूलप्रहितभुजाकलितस्तनेन निन्ये ।</l><l>निहितदशनवाससा कपोले विषमवितीर्णपदं बलादिवान्या ॥ २१ ॥</l></lg><lg n="7.22">
<l>अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः ।</l><l>उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥ २२ ॥</l></lg><lg n="7.23">
<l>मदनरसमहौघपूर्णनाभीह्रदपरिवाहितरोमराजयस्ताः ।</l><l>सरित इव सविभ्रमप्रयातप्रणदितहंसकभूषणा विरेजुः ॥ २३ ॥</l></lg><lg n="7.24">
<l>श्रुतिपथमधुराणि सारसानामनुनदि सुश्रुविरे रुतानि ताभिः ।</l><l>विदधति जनतामनःशरव्यव्यधपटुमन्मथचापनादशङ्काम् ॥ २४ ॥</l></lg><lg n="7.25">
<l>मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि ।</l><l>तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥ २५ ॥</l></lg><lg n="7.26">
<l>असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् ।</l><l>मरुदवनिरुहां रजो वधूभ्यः मुपहरन् विचकार कोरकाणि ॥ २६ ॥</l></lg><lg n="7.27">
<l>उपवनपवनानुपातदक्षैरलिभिरलाभि यदङ्गनाजनस्य ।</l><l>परिमलविषयस्तदुन्नतानामनुगमने खलु सम्पदो ऽग्रतःस्थाः ॥ २७ ॥</l></lg><lg n="7.28">
<l>रथचरणधराङ्गनाकराब्जव्यतिकरसम्पदुपात्तसौमनस्याः ।</l><l>जगति सुमनसस्तदादि नूनं दधति परिस्फुटमर्थतो ऽभिधानम् ॥ २८ ॥</l></lg><lg n="7.29">
<l>अभिमुखपतितैर्गुणप्रकर्षादवजितमुद्धतिमुज्वलां दधानैः ।</l><l>तरुकिसलयजालमग्रहस्तैः प्रसभमनीयत भङ्गमङ्गनानां ॥ २९ ॥</l></lg><lg n="7.30">
<l>मुदितमधुभुजो भुजेन शाखाश्चलितविशृङ्खलशङ्खकं धुवत्याः ।</l><l>तरुरतिशायितापराङ्गनायाः शिरसि मुदेव मुमोच पुष्पवर्षम् ॥ ३० ॥</l></lg><lg n="7.31">
<l>अनवरतरसेन रागभाजा करजपरिक्षतिलब्धसंस्तवेन ।</l><l>सपदि तरुणपल्लवेन वध्वा विगतदयं खलु खण्डितेन मम्ले ॥ ३१ ॥</l></lg><lg n="7.32">
<l>प्रियमभिकुसुमोद्यतस्य बाहोर्नवनखमण्डनचारु मूलमन्या ।</l><l>मुहुरितरकराहितेन पीनस्तनतटरोधि तिरोदधे ऽंशुकेन ॥ ३२ ॥</l></lg><lg n="7.33">
<l>विततवलिविभाव्यपाण्डुलेखाकृतपरभाघविलीनरोमराजिः ।</l><l>कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नं ॥ ३३ ॥</l></lg><lg n="7.34">
<l>प्रसकलकुचबन्धुरोद्धुरोरःप्रसभविभिभिन्नतनूत्तरीयबन्धा ।</l><l>अनमवदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाबिमूला ॥ ३४ ॥</l></lg><lg n="7.35">
<l>व्यवहितमविजानाती किलान्तवर्णभुवि वल्लभमाभिमुख्यभाजम् ।</l><l>अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ॥ ३५ ॥</l></lg><lg n="7.36">
<l>अथ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।</l><l>शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥ ३६ ॥</l></lg><lg n="7.37">
<l>कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः ।</l><l>मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥ ३७ ॥</l></lg><lg n="7.38">
<l>अवनदवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।</l><l>अहरत सुतरामतो ऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥ ३८ ॥</l></lg><lg n="7.39">
<l>किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गकेनिधेयाः ।</l><l>नखपदलिपयो ऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः ॥ ३९ ॥</l></lg><lg n="7.40">
<l>कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।</l><l>अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ॥ ४० ॥</l></lg><lg n="7.41">
<l>अभिमुखमुपयाति मा स्म किञ्चित्त्वमभिदधाः पटले मधुव्रतानाम् ।</l><l>मधुसुरभिमुखाब्जगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥ ४१ ॥</l></lg><lg n="7.42">
<l>सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरुहां विरक्तः ।</l><l>ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ४२ ॥</l></lg><lg n="7.43">
<l>इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।</l><l>अपदतलिभयेन भर्तुरङ्गं भवति हि विक्लवता गुणो ऽङ्गनानाम् ॥ ४३ ॥</l></lg><lg n="7.44">
<l>मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।</l><l>तदपि न किल बालपल्लवाग्रग्रहयापरया विविदे विदग्धसक्या ॥ ४४ ॥</l></lg><lg n="7.45">
<l>व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।</l><l>यदधयदधरावलोपनृत्यत्करवलयस्वनितेन तद्विवव्रे ॥ ४५ ॥</l></lg><lg n="7.46">
<l>विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।</l><l>रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग ॥ ४६ ॥</l></lg><lg n="7.47">
<l>सललिकमवलम्ब्य पाणिनांसे सहचरमुच्छ्रतगुच्छवाञ्छयान्या ।</l><l>सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्यां ॥ ४७ ॥</l></lg><lg n="7.48">
<l>मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।</l><l>उपरिनिरवलम्बनं प्रियस्य न्यपतदथोच्चतरोच्चिचीषयान्या ॥ ४८ ॥</l></lg><lg n="7.49">
<l>उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपो ऽन्यः ।</l><l>प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥ ४९ ॥</l></lg><lg n="7.50">
<l>इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरो ऽन्या ।</l><l>अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥ ५० ॥</l></lg><lg n="7.51">
<l>विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिको ऽन्या ।</l><l>अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभे ऽतिगुर्वी ॥ ५१ ॥</l></lg><lg n="7.52">
<l>अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।</l><l>पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानां ॥ ५२ ॥</l></lg><lg n="7.53">
<l>न खलु वयममुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वां ।</l><l>व्रज विचपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥ ५३ ॥</l></lg><lg n="7.54">
<l>तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः ।</l><l>ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥ ५४ ॥</l></lg><lg n="7.55">
<l>मुहुरुपहसितामिवालिनादैर्वितरसि नः कालिकां किमर्थमेनाम् ।</l><l>वसतिमुपगतेन धाम्नि तस्याः शठ कलिरेष महांस्त्वयाद्य दत्तः ॥ ५५ ॥</l></lg><lg n="7.56">
<l>इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेशरेण ।</l><l>श्रवणनियमितेन कान्तमन्या सममसिताम्बुरुहेण चक्षुषा च ॥ ५६ ॥</l></lg><lg n="7.57">
<l>विनयति सुदृशो दृशः परागं प्रणयिनि कौसुममाननानिलेन ।</l><l>तदहितयुवतेरभीक्ष्णमक्ष्णोर्द्वयमपि रोषरझोभिरापुपूरे ॥ ५७ ॥</l></lg><lg n="7.58">
<l>स्फुचमिदमभिचारमन्त्र एव प्रतियुवतेरभिधानमङ्गनानाम् ।</l><l>वरतनुरमुनोपहूय पत्या मृदुकुसुमेन यदाहताप्यमूर्च्छत् ॥ ५८ ॥</l></lg><lg n="7.59">
<l>समदनमवतंसिते ऽद्कर्णं प्रणयवता कुसुमे सुमध्यमायाः ।</l><l>व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ॥ ५९ ॥</l></lg><lg n="7.60">
<l>अवजितमधुना तवाहमक्ष्णो रुचितयेत्यवनम्य लज्जयेव ।</l><l>श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥</l></lg><lg n="7.61">
<l>अवचितकुसुमा विहाय वल्लीर्युवतीषु कोमलमाल्यमालिनीषु ।</l><l>पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ॥ ६१ ॥</l></lg><lg n="7.62">
<l>श्लथशिरसिजपातभारादिव नितरां नतिमद्भिरंसभागैः ।</l><l>मुकुलितनयनैर्मुखारविन्दैर्घनमहतामिव पक्ष्मणां भरेण ॥ ६२ ॥</l></lg><lg n="7.63">
<l>अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः ।</l><l>परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥ ६३ ॥</l></lg><lg n="7.64">
<l>अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।</l><l>सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तभाभिः ॥ ६४ ॥</l></lg><lg n="7.65">
<l>स्मरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।</l><l>भृशमतिशयखेदसम्पदेव स्तनयुगलैरितरेतरं निषण्णैः ॥ ६५ ॥</l></lg><lg n="7.66">
<l>अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।</l><l>अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानैः ॥ ६६ ॥</l></lg><lg n="7.67">
<l>अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।</l><l>कथमपि चरणोत्पलैश्चलद्भिर्भृशाविनिवेशात्परस्परस्य ॥ ६७ ॥</l></lg><lg n="7.68">
<l>मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।</l><l>मृदुतरतनवो ऽनलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ॥ ६८ ॥</l></lg><lg n="7.69">
<l>प्रतममलघुमौक्तकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।</l><l>कठिनकुचतटाग्रपाति पश्चादथ शतसर्करतां जगाम तासाम् ॥ ६९ ॥</l></lg><lg n="7.70">
<l>विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।</l><l>परिमलितमपि प्रियैः प्रकामं कुचयुगमुज्ज्वलमेष कामिनीनाम् ॥ ७० ॥</l></lg><lg n="7.71">
<l>अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।</l><l>विपुलतरनिरन्तरालग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥</l></lg><lg n="7.72">
<l>अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।</l><l>तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥ ७२ ॥</l></lg><lg n="7.73">
<l>हिमलतसदृशः श्रमोदबिन्दूनुपनयता किल नूतनोढवध्वाः ।</l><l>कुचकलशकिशोरकौ कथञ्चित्तरलतया तरुणेन पस्पृशाते ॥ ७३ ॥</l></lg><lg n="7.74">
<l>गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः क्रमन्नूरुद्रुमभुजलताः पूर्णनाभीह्रदान्ताः ।</l><l>उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोकूपान् स्वेदपूरो युवतिसरितां व्याप गण्डस्थलानि ॥ ७४ ॥</l></lg><lg n="7.75">
<l>प्रियकरपरिमार्गदङ्गनानां यदाभूत् पुनरधिकतरैव स्वेदतोयोदयश्रीः ।</l><l>अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषुर्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७५ ॥</l></lg><lg n="8.1">
<l>आयासादलघुतरस्तनैः स्वनद्भिः श्रान्तानामविकचलोचनारविन्दैः ।</l><l>अभ्यम्भः कथमपि योषितां समूहैस्तैरुर्वीनिहितचलत्पदं प्रचेले ॥ १ ॥</l></lg><lg n="8.2">
<l>यान्तीनां सममसितभ्रुवां नतत्वादंसानां महति नितान्तमन्तरे ऽपि ।</l><l>संसक्तैविपुलतया मिथो नितम्बैः सम्बाधं बृहदपि तद्बभूव वर्त्म ॥ २ ॥</l></lg><lg n="8.3">
<l>नीरन्ध्रद्रुशिशिरां भुवं व्रजन्तीः साशङ्कं मुहुरिव कौतुकात्करैस्ताः ।</l><l>पस्पर्श क्षणमनिलाकुलीकृतानां शाखानामतुहिनरश्मिरन्तरालैः ॥ ३ ॥</l></lg><lg n="8.4">
<l>एकस्यास्तपनकरैः करालितया बिभ्राणः सपदि सितोष्णावरणत्वम् ।</l><l>सेवायै वदनसरोजनिर्जितश्रीरागस्य प्रियमिव चन्द्रमाश्चकार ॥ ४ ॥</l></lg><lg n="8.5">
<l>स्वं रागादुपरि वितन्वतोत्तरीयं कान्तेन प्रतिवारितातपायाः ।</l><l>सच्छत्रादपरविलासिनीसमूहच्छायासीदधिकतरा तदापरस्याः ॥ ५ ॥</l></lg><lg n="8.6">
<l>संस्पर्शसुखोपचीयमाने सर्वाङ्गे करतललग्नवल्लभायाः ।</l><l>कौशेयं व्रजदपि गाढतामजस्रं सस्रंसे विगलितनीवि नीरजाक्ष्याः ॥ ६ ॥</l></lg><lg n="8.7">
<l>गच्छन्तीरलसमवेक्ष्य विस्मयिन्यस्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।</l><l>बुद्ध्वा वा जितमपरेण काममाष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ७ ॥</l></lg><lg n="8.8">
<l>श्रीमद्भिर्जितपुलिनानि माधवीनामारोहैर्निबिडबृहन्नितम्बबिम्बैः ।</l><l>पाषाणस्खलनविलोलमाशु नूनं वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८ ॥</l></lg><lg n="8.9">
<l>मुक्ताभिः सलिलरयास्तशुक्तिमुक्ताभिः कृतरुचि सैकतं नदीनाम् ।</l><l>स्त्रीलोकः परिकलयाञ्चकार तुल्यं पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥ ९ ॥</l></lg><lg n="8.10">
<l>आध्राय श्रमजमनिन्द्यबन्धुं निश्वासश्वसनमसक्तमङ्गनानाम् ।</l><l>आरण्याः सुमनस ईषिरे न भृङ्गैरौचित्यं गणयति को विशेषकामः ॥ १० ॥</l></lg><lg n="8.11">
<l>आयान्त्यां निजयुवतौ वनात्सशङ्कं बर्हाणामपरशिखण्डिनीं भरेण ।</l><l>आलोक्य व्यवदधतं पुरो मयूरं कामिन्यः श्रदधुरनार्जवं नरेषु ॥ ११ ॥</l></lg><lg n="8.12">
<l>आलापैस्तुलितरवाणि माधवीनां माधुर्यादमलपतत्रिणां कुलानि ।</l><l>अन्तर्धामुपययुरुत्पलावलीषु प्रादुष्कात्क इव जितः पुरः परेण ॥ १२ ॥</l></lg><lg n="8.13">
<l>मुग्धायाः स्मरललितेषु चक्रवाक्या निशङ्कं दयिततमेन चुम्बितायाः ।</l><l>प्रणेशानभि विदधुर्वधूतहस्ताः सीत्कारं समुचितमुत्तरं तरुण्यः ॥ १३ ॥</l></lg><lg n="8.14">
<l>उत्क्षिप्तस्फुटितसरोरुहार्घ्यमुच्चैः सस्नेहं विहगरुतैरिवालपन्तो ।</l><l>नारीणामथ सरसी सफेनहासा प्रीत्येव व्यतनुत पाद्यमूर्मिहस्तैः ॥ १४ ॥</l></lg><lg n="8.15">
<l>नित्याया निजवसतेर्निरासिरे यद्रागेण श्रियमरविन्दतः कराग्रैः ।</l><l>व्यक्तत्वं नियतमनेन निन्युरस्याः सापत्न्यं क्षितिसुतविद्विषो महिष्यः ॥ १५ ॥</l></lg><lg n="8.16">
<l>आस्कन्दन् कथमपि योषितो न यावद्भीमत्यः प्रियकरधार्यमाणहस्ताः ।</l><l>औत्सुक्यात्त्वरितममूस्तदम्बु तावत्संक्रान्तप्रतिमतया दधाविवान्तः ॥ १६ ॥</l></lg><lg n="8.17">
<l>ताः पूर्वं सचकितमागमय्य गाधं कृत्वाथो मृदु पदमन्तराविशन्त्यः ।</l><l>कामिन्यो मन इव कामिनः सरागैरङ्गैस्तज्जलमनुरञ्जयांबभू ॥ १८ ॥</l></lg><lg n="8.18">
<l>संक्षोभं पयसि मुहुर्महेभकुम्भश्रीभाजा कुचयुगलेन नीयमाने ।</l><l>विश्लेषं युगमगमद्रथाङ्गनाम्नोरुद्वृत्तः क इव सुखावहः परेषां ॥ १७ ॥</l></lg><lg n="8.19">
<l>आसीना तटभुवि सस्मितेन भर्त्रा रम्भोरुवतिरुतं सरस्यनिच्छुः ।</l><l>धुन्वाना करयुगमीक्षितुं विलासाञ्शीतालुः सलिलगतेन सिच्यते स्म ॥ १९ ॥</l></lg><lg n="8.20">
<l>नेच्छन्ती सममुना सरो ऽवगाढुं रोधस्तः प्रतिजलमीरिता सखीभिः ।</l><l>आश्लक्षद्भयचकितेक्षणं नवोढा वोढारं विपदि न दूषितातिभूमिः ॥ २० ॥</l></lg><lg n="8.21">
<l>तिष्ठन्तं पयसि पुमांसमंसमात्रे तद्दघ्नं तदवयती किलात्मनो ऽपि ।</l><l>अभ्येतुं सुतनुरभीरियेष मौग्ध्यादाश्लेषि द्रुतममुना निमज्जतीति ॥ २१ ॥</l></lg><lg n="8.22">
<l>आनाभेः सरसि नतभ्रुवावगाढे चापल्यादथ पयसस्तरङ्गहस्तैः ।</l><l>उच्छ्रायिस्तनयुगमध्यरोहि लब्धस्पर्शानां भवति कुतो ऽथवाव्यवस्था ॥ २२ ॥</l></lg><lg n="8.23">
<l>कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव ।</l><l>संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ॥ २३ ॥</l></lg><lg n="8.24">
<l>त्रस्यन्ती चलशफरीविघट्टितोरूवामोरूरतिशयमाप विभ्रमस्य ।</l><l>क्षुभ्यन्ति पसभमहो विनापि हेतोर्लीलाभिः किमु सति कारणे रमण्यः ॥ २४ ॥</l></lg><lg n="8.25">
<l>आकृष्टवपुर्लतैस्तरदभिस्तस्याम्भस्तदथ सरोमहार्णवस्य ।</l><l>अक्षोभि प्रसृतविलोबाहुपक्षैर्योषाणांमुरुभिरुरोजगणडस्शैलैः ॥ २५ ॥</l></lg><lg n="8.26">
<l>गाम्भीर्यं दधदपिरन्तुमङ्गनाभिः संक्षोभं जधनविघट्टनेन नीतः ।</l><l>अम्भोधिविकसितवारिजाननो ऽसौ मर्यादां सपदि विलङ्घयांबभूव ॥ २६ ॥</l></lg><lg n="8.27">
<l>आदातुं दयितमिवावगाढमारादूर्मीणां ततिभिरभिप्रसार्यमाणः ।</l><l>कस्याश्चिद्विततचलच्छिखाङ्गुलीको लक्ष्मीवान् सरसि रराज केशहस्तः ॥ २७ ॥</l></lg><lg n="8.28">
<l>उन्निद्रप्रियकमनोरमं रमण्याः संरेजे सरसि वपुः प्रकाशमेव ।</l><l>युक्तानां विमलतया तिरस्क्रियायै नाक्रामन्नपि हि भवत्यलं जलौघः ॥ २८ ॥</l></lg><lg n="8.29">
<l>किं तावत्सरसि सरोजमेतदाहोस्विन्मुखमवभासते युवत्याः ।</l><l>संशय्य क्षणमिति निश्चिकाय कश्चिद्विव्योकैर्बकसहवासिनां परोक्षैः ॥ २९ ॥</l></lg><lg n="8.30">
<l>शृङ्गाणि द्रुतकनकोज्वलानि गन्धाः कौसुम्भं पृथुकुचकुम्भसङ्गिवासः ।</l><l>मार्द्वीकं प्रयतमसन्निधानंमासन्नारीणामिति जलकेलिसाधनानि ॥ ३० ॥</l></lg><lg n="8.31">
<l>उत्तुङ्गादनिलचलांशुकास्तटान्ताच्चेतोभिः सह भयदर्शितनां प्रियाणां ।</l><l>श्रेणिभिर्गुरुभिरतूर्णमुत्पतन्तयस्तोयेषु द्रुततरमङ्गना निपेतुः ॥ ३१ ॥</l></lg><lg n="8.32">
<l>मुग्धत्वादविदितकैतवप्रयोगा गच्छन्त्यः सपदि पराजयं तरुण्यः ।</l><l>ता कान्तैः सह करपुष्करेरिताम्बुव्यात्युक्षीमभिसरणग्लहामदीव्यन् ॥ ३२ ॥</l></lg><lg n="8.33">
<l>योग्यस्य त्रिनयनलोचनार्चिर्निदग्धस्मरपूतनाधिराज्यलक्ष्म्याः ।</l><l>कान्तायाः करकलशोद्यतैः पयोभिरवक्त्रेन्दोरकृतमहाभिषेकमेकः ॥ ३३ ॥</l></lg><lg n="8.34">
<l>शिञ्चन्त्याः कथमपि बाहुमुन्नमय्य प्रेयांसं मनसिजदुःखदुर्लायाः ।</l><l>सौवर्णं वलयमवागलत्कराग्राल्लवण्यश्रिय इव शेषमङ्गनायाः ॥ ३४ ॥</l></lg><lg n="8.35">
<l>स्निह्यन्ती दृशमपरा निधाय पूर्णं मूर्तेन प्रणयरसेन वारिणेव ।</l><l>कन्दर्पप्रवणमानाः सखीसिसिक्षालक्ष्येण प्रतियुवमञ्जलिं चकार ॥ ३५ ॥</l></lg><lg n="8.36">
<l>आनन्दं दधति मुखे करोदकेन श्यामाया दयिततमेन सिच्यमाने ।</l><l>ईर्ष्यन्त्या वदनमसिक्तमप्यनल्पस्वेदाम्बुस्नपितमजायतेतरस्याः ॥ ३६ ॥</l></lg><lg n="8.37">
<l>उद्वीक्ष्य प्रियकरकुड्मलापविद्धैर्वक्षोजद्वयमभिषिक्तमन्यनार्याः ।</l><l>अम्भोभिर्मुहुरसिचद्वधूरमर्षदात्मीयं पृथुतरनेत्रयुगममुक्तैः ॥ ३७ ॥</l></lg><lg n="8.38">
<l>कुर्वद्भिमुखरुचिमुज्जवलामजस्रं यैस्तोयैरसिचत वल्लभां विलासी ।</l><l>तैरेव प्रतियुवतेरकारि दूरात्कालुष्यं शशधरदीधितिच्छटाच्छैः ॥ ३८ ॥</l></lg><lg n="8.39">
<l>रागान्धीकृतनयनेन नामधेयव्यत्यासादभिमुखमीरितः प्रियेण ।</l><l>मानिन्या वपुषि पतन्निसर्गमन्दो भिन्दानो हृदयमसाहि नोदवज्रः ॥ ३९ ॥</l></lg><lg n="8.40">
<l>प्रेम्णोरः प्रणयिनि सिञ्चति प्रियायाः संतापं नवजलविप्रुषो गृहीत्वा ।</l><l>उद्धूताः कठिनकुचस्थलाभिघातादासन्नां भृशमपराङ्गनामधाक्षुः ॥ ४० ॥</l></lg><lg n="8.41">
<l>संक्रान्तं प्रियतमवक्षसो ऽङ्गरागंसाध्वस्याः सरसि हरिष्यते ऽधुनाम्भः ।</l><l>तुष्ट्वैवं सपदि हृते ऽपि तत्र तेपे कस्यश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥ ४१ ॥</l></lg><lg n="8.42">
<l>हृतायाः प्रतिसखिकामिनान्यनाम्ना ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।</l><l>अन्तधिं द्रुतमिव कर्तुमश्रुवर्षैर्भूमानं गमयितुमीषिरे पयांसि ॥ ४२ ॥</l></lg><lg n="8.43">
<l>सिक्तायाः क्षणमभिषिच्य पूर्वमन्यामन्यस्याः प्रणयवता बताबलायः ।</l><l>कालिम्ना समधित मन्।रेव वक्त्रं प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥ ४३ ॥</l></lg><lg n="8.44">
<l>उद्वोढुं कनकविभूषणान्यशक्तः सध्रीचा वलयितपद्मनालसूत्रः ।</l><l>आरूढप्रतिवनिताकटाक्षभारः साधीयो गुररभवद्भुजस्तरुण्याः ॥ ४४ ॥</l></lg><lg n="8.45">
<l>आबद्धप्रचुरपरार्घ्यकिङ्किणीको रामाणामनवरतोदगाहभाजाम् ।</l><l>नारावं व्यतनुत मेखलाकलापः कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ ४५ ॥</l></lg><lg n="8.46">
<l>पर्यच्छे सरसि हृतेंऽशुके पयोभिर्लोलाक्षे सुरतगुरावपत्रपिष्णोः ।</l><l>सुश्रेण्या दलवसनेन वीचिहस्तन्यस्तेन द्रुतमकृताब्जिनि सखात्वम् ॥ ४६ ॥</l></lg><lg n="8.47">
<l>नारीभिर्गुरुजघनस्थलानां आस्यश्रीविजितविकासिवारिजानाम् ।</l><l>लोलत्वादपहरतां तदङ्गरागसंजज्ञे स कलुष आशयो जलानाम् ॥ ४७ ॥</l></lg><lg n="8.48">
<l>सौगन्धं दधदपि काममङ्गनानां दूरत्वाद्गतमाननोपमानम् ।</l><l>नेदीयो जितमिति लज्जयेव तासामालोले पयसि मनोत्पलं ममज्ज ॥ ४८ ॥</l></lg><lg n="8.49">
<l>प्रभ्रष्टै सरभसमम्भसो ऽवगाहक्रीडाभिर्विदलितयूथिकापिशङ्गैः ।</l><l>आकल्पैः सरसि हिरण्मयैर्वधूनामौर्वाग्निद्युतिशकलैरिव व्यराजि ॥ ४९ ॥</l></lg><lg n="8.50">
<l>आस्माकी युवतिदृशामसौ तनोति च्छायेव श्रियमनपायिनीं किमेभिः ।</l><l>मत्वैवं स्वगुणपिधानसाभ्यसूयैः पनीयैरिति विदधाविरे ऽञ्जनानि ॥ ५० ॥</l></lg><lg n="8.51">
<l>निर्धौते सति हरिचन्दने जलौघैरापाण्डोर्गतपरभागयाङ्गनायाः ।</l><l>अह्नाय स्तनकलशद्वयादुपेये विच्छेदः सहृदययेव हारयष्ट्या ॥ ५१ ॥</l></lg><lg n="8.52">
<l>अन्यूनं गुणममृतस्य धारयन्ती सम्फुल्लस्फुरितसरोरुहावतंसा ।</l><l>प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशां सुरा च ॥ ५२ ॥</l></lg><lg n="8.53">
<l>स्नान्तीनां बृहदमलोदबिन्दुचित्रै रेजाते रुचिरदृशामुरोजकुम्भौ ।</l><l>हाराणां मणिभिरुपाश्रितौ समन्तादुत्सूत्रैर्गुणवदुपघ्नकाम्ययेव ॥ ५३ ॥</l></lg><lg n="8.54">
<l>आरूढः पतित इति स्वसम्भवो ऽपि स्वच्छानां परिहरणीयतामुपैति ।</l><l>कर्णेभ्यश्च्युतमसितोल्पलं वधूनां वीचिभिस्तटमनु यन्निरासुरापः ॥ ५४ ॥</l></lg><lg n="8.55">
<l>दन्तानामधरमयावकं पदानि प्रत्यग्रास्तनुमविलेपनां नखाङ्गाः ।</l><l>आनिन्युः श्रियमधितोयमङ्गनानां शोभायै विपदि सदाश्रिता भवन्ति ॥ ५५ ॥</l></lg><lg n="8.56">
<l>कस्याश्चिनमुखमनु धौतपत्रलेखं व्यातेने सलिलभरावलम्बिनीभिः ।</l><l>किञ्चल्कव्यतिकरपिञ्चरान्तराभिश्चित्रश्रीरलमलकाग्रवल्लरीभिः ॥ ५६ ॥</l></lg><lg n="8.57">
<l>वक्षेभ्यो घनमनुलेपनं यदूनामुत्तंसानाहरत वारि मूर्धजेभ्यः ।</l><l>नेत्राणां मदरुचिरक्षतैव तस्थौ चक्षुष्यः खलु महतां परैरलङ्घ्यः ॥ ५७ ॥</l></lg><lg n="8.58">
<l>यो बाह्यः स खलु जलैर्निरासि रागो यश्चित्ते स तु तदवस्थ एव तेषाम् ।</l><l>धीराणां व्रजति हि सर्व एव नान्तःपातित्वादभिभवनीयतां परस्य ॥ ५८ ॥</l></lg><lg n="8.59">
<l>फेनानामुरसिरुहेषु हारलीला चेलश्रीर्जघनस्थलेषु शैवलानाम् ।</l><l>गण्डेषु स्फुटरचनाब्जपत्र्त्रवल्ली पर्याप्तं पयसि विभूषणं वधूनाम् ॥ ५९ ॥</l></lg><lg n="8.60">
<l>भ्रश्द्भिर्जलमभि भूषणैर्वधूनामङ्गेभ्यो गुरुभिरमज्जि लज्जयेव ।</l><l>निर्माल्यैरथ ननृते ऽवधीरितानामप्युच्चैर्भवति लघीयसां हि धार्ष्ट्यम् ॥ ६० ॥</l></lg><lg n="8.61">
<l>आमृष्टस्तिलकरुचः स्रजो निरस्ता नीरक्तं वसनमपाकृतोङ्गरागः ।</l><l>कामः स्त्रीरनुशायवानिव स्वपक्षव्याघातादिति सुतरां चकार चारूः ॥ ६१ ॥</l></lg><lg n="8.62">
<l>शीतार्तिं बलवदुपेयुषतेव नीरैरासेकाच्छिशिरसमीरकम्पितेन ।</l><l>रामाणामभिनवयौवनोष्मभाजोराश्लेषि स्तनतटयोर्नवंशुकेन ॥ ६२ ॥</l></lg><lg n="8.63">
<l>श्च्योतद्भिः समधिकमात्तमङ्गसङ्गाल्लावण्यन्तनुमदिवाम्बु वाससो ऽन्तैः ।</l><l>उत्तेरे तरलतरङ्गलीलानिष्णातैरथ सरसः प्रियासमूहैः ॥ ६३ ॥</l></lg><lg n="8.64">
<l>दिव्यानामपि कृतविस्मयां पुरस्तादम्भस्तः स्फुरदरविन्दचारुहस्ताम् ।</l><l>उद्वीक्ष्यश्रियमिव काञ्चिदुत्तरन्तींमस्मार्षीज्जलनिधिमन्मथनस्य शौरिः ॥ ६४ ॥</l></lg><lg n="8.65">
<l>श्लक्ष्णं यत्परिहितमेतयोः किलान्तर्धानार्थं तदुकसेकसक्तमूर्वोः ।</l><l>नारीणां विमलतरौ समुल्लसन्त्या भासन्तर्दधतुरुरूदुकूलमेव ॥ ६५ ॥</l></lg><lg n="8.66">
<l>वासांसि न्यवसत यानि योषितस्ताः शुभ्राभ्रद्युतिभिरहासि तैर्मुदेव ।</l><l>अत्याक्षुः स्नपनगलज्जलानि यानि स्थूलाश्रुस्रुतिभिररोदिः तैः शुचेव ॥ ६६ ॥</l></lg><lg n="8.67">
<l>आर्द्रत्वदतिशायिनीमुपेयिवद्भिः संसक्तिं भृशमपि भूरिशोवधूतैः ।</l><l>अङ्गेभ्यः कथमपि वामलोचनां विश्लेषो बत नवरक्तकैः प्रपेदे ॥ ६७ ॥</l></lg><lg n="8.68">
<l>प्रत्यंसं विलुलितमूर्धजा चिराय स्नानार्द्रं वपुरुदवापयत् किलैका ।</l><l>नाजानादभिमतमन्तिके ऽभिवीक्ष्य स्वेदाम्बुद्रवमभवत्तरां पुनस्तत् ॥ ६८ ॥</l></lg><lg n="8.69">
<l>सीमन्तं निजमनुबध्नती कराभ्यामालक्ष्यस्तनतटबाहुमूलभागा ।</l><l>भर्त्रान्या मुहुरभिलष्यता निदध्ये नैवाहो विरमति कौतुकं प्रियेभ्यः ॥ ६९ ॥</l></lg><lg n="8.70">
<l>स्वच्छाम्भःस्नपनविधौतमङ्गमोष्ठस्ताम्बूलद्युतिविशदो व्लासिनीनाम् ।</l><l>वासश्च प्रतनु विविक्तमस्त्वितीयानाकल्पो यदि कुसुमेषुणा न शून्यः ॥ ७० ॥</l></lg><lg n="8.71">
<l>इति धौतपुरन्ध्रिमत्सरान्सरसिमज्जनेन श्रियमाप्तवतो ऽतिशायिनीमपमलाङ्गभासः ।</l><l>अवलोक्य तदैव यादवानपरवारिराशेः शिसिरेतररोचिषाप्यपां ततिषु मङ्क्तुमीषे ॥ ७१ ॥</l></lg><lg n="9.1">
<l>अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।</l><l>पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ १ ॥</l></lg><lg n="9.2">
<l>गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।</l><l>मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥ २ ॥</l></lg><lg n="9.3">
<l>विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।</l><l>अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥ ३ ॥</l></lg><lg n="9.4">
<l>अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।</l><l>निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥ ४ ॥</l></lg><lg n="9.5">
<l>उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।</l><l>करजालमस्तमये ऽपि सतामुतितं खलूच्चतरमेव पदम् ॥ ५ ॥</l></lg><lg n="9.6">
<l>प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।</l><l>अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥ ६ ॥</l></lg><lg n="9.7">
<l>नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।</l><l>अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥ ७ ॥</l></lg><lg n="9.8">
<l>गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरे ऽवनतिम् ।</l><l>बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयम् ॥ ८ ॥</l></lg><lg n="9.9">
<l>द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।</l><l>रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥ ९ ॥</l></lg><lg n="9.10">
<l>अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् ।</l><l>निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥ १० ॥</l></lg><lg n="9.11">
<l>अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।</l><l>विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥ ११ ॥</l></lg><lg n="9.12">
<l>अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।</l><l>अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ १२ ॥</l></lg><lg n="9.13">
<l>रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।</l><l>ज्वलनं त्विषः कथमितरथा सुलभो ऽन्यजन्मनि स एव पतिः ॥ १३ ॥</l></lg><lg n="9.14">
<l>विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् ।</l><l>चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥ १४ ॥</l></lg><lg n="9.15">
<l>अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।</l><l>पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥ १५ ॥</l></lg><lg n="9.16">
<l>निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।</l><l>दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥ १६ ॥</l></lg><lg n="9.17">
<l>दिवसो ऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।</l><l>रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥ १७ ॥</l></lg><lg n="9.18">
<l>पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।</l><l>अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥ १८ ॥</l></lg><lg n="9.19">
<l>व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।</l><l>दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥ १९ ॥</l></lg><lg n="9.20">
<l>किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।</l><l>विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥ २० ॥</l></lg><lg n="9.21">
<l>स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।</l><l>दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥ २१ ॥</l></lg><lg n="9.22">
<l>अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् ।</l><l>सुतनोः स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ २२ ॥</l></lg><lg n="9.23">
<l>ददृशे ऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य तताम् ।</l><l>द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥ २३ ॥</l></lg><lg n="9.24">
<l>अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।</l><l>समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥ २४ ॥</l></lg><lg n="9.25">
<l>वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचाम् ।</l><l>स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीम् ॥ २५ ॥</l></lg><lg n="9.26">
<l>विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।</l><l>मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥ २६ ॥</l></lg><lg n="9.27">
<l>कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।</l><l>क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥ २७ ॥</l></lg><lg n="9.28">
<l>नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।</l><l>ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥</l></lg><lg n="9.29">
<l>प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।</l><l>दधति ध्रुवं क्रमश एव न तु द्युतिशालिनो ऽपि सहसोपचयम् ॥ २९ ॥</l></lg><lg n="9.30">
<l>उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।</l><l>प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ३० ॥</l></lg><lg n="9.31">
<l>अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।</l><l>परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥ ३१ ॥</l></lg><lg n="9.32">
<l>उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।</l><l>घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥ ३२ ॥</l></lg><lg n="9.33">
<l>रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि ताम् ।</l><l>अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितम् ॥ ३३ ॥</l></lg><lg n="9.34">
<l>दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।</l><l>मुहुरामृशन् मृगधरो ऽग्रकरैरुदशिस्वसत् कुमुदिनीवनिताम् ॥ ३४ ॥</l></lg><lg n="9.35">
<l>प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचिताम् ।</l><l>सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥ ३५ ॥</l></lg><lg n="9.36">
<l>अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।</l><l>परितो विसर्पि परितापि भृशं वपुषो ऽवतारयति मानविषम् ॥ ३६ ॥</l></lg><lg n="9.37">
<l>अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।</l><l>विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥ ३७ ॥</l></lg><lg n="9.38">
<l>उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।</l><l>रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥ ३८ ॥</l></lg><lg n="9.39">
<l>भवनोदरेषु परिमन्दतया शयितो ऽलसः स्फटिकयष्टिरुचः ।</l><l>अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥ ३९ ॥</l></lg><lg n="9.40">
<l>अविभावितेषुविषयः प्रथमं मदनो ऽपि नूनमभवत्तमसा ।</l><l>उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥ ४० ॥</l></lg><lg n="9.41">
<l>युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणो ऽलभत ।</l><l>द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदे ऽङ्गनामनसि चावसरम् ॥ ४१ ॥</l></lg><lg n="9.42">
<l>ककुभां मुखानि सहसोज्ज्वलयन् दधदाकुलत्वमधिकं रतये ।</l><l>अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥ ४२ ॥</l></lg><lg n="9.43">
<l>इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।</l><l>प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ॥</l></lg><lg n="9.44">
<l>सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।</l><l>घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥ ४४ ॥</l></lg><lg n="9.45">
<l>कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।</l><l>रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥ ४५ ॥</l></lg><lg n="9.46">
<l>अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।</l><l>नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥ ४६ ॥</l></lg><lg n="9.47">
<l>स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।</l><l>धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥ ४७ ॥</l></lg><lg n="9.48">
<l>भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।</l><l>मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥ ४८ ॥</l></lg><lg n="9.49">
<l>ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।</l><l>इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥ ४९ ॥</l></lg><lg n="9.50">
<l>न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।</l><l>गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥ ५० ॥</l></lg><lg n="9.51">
<l>वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।</l><l>क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ५१ ॥</l></lg><lg n="9.52">
<l>निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।</l><l>अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ५२ ॥</l></lg><lg n="9.53">
<l>विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।</l><l>हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥ ५३ ॥</l></lg><lg n="9.54">
<l>अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।</l><l>उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥ ५४ ॥</l></lg><lg n="9.55">
<l>प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।</l><l>प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥ ५५ ॥</l></lg><lg n="9.56">
<l>न च मे ऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।</l><l>निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥ ५६ ॥</l></lg><lg n="9.57">
<l>दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।</l><l>किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदाम् ॥ ५७ ॥</l></lg><lg n="9.58">
<l>प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।</l><l>क्रियते ऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥ ५८ ॥</l></lg><lg n="9.59">
<l>अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।</l><l>तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥ ५९ ॥</l></lg><lg n="9.60">
<l>तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयम् ।</l><l>इति सम्प्रधार्य रमणाय वधूर्विहितागसे ऽपि विससर्ज सखीं ॥ ६० ॥</l></lg><lg n="9.61">
<l>ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।</l><l>निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥ ६१ ॥</l></lg><lg n="9.62">
<l>ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।</l><l>सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ६२ ॥</l></lg><lg n="9.63">
<l>मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।</l><l>त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥ ६३ ॥</l></lg><lg n="9.64">
<l>तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।</l><l>घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥</l></lg><lg n="9.65">
<l>उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।</l><l>द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥ ६५ ॥</l></lg><lg n="9.66">
<l>दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।</l><l>हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥ ६६ ॥</l></lg><lg n="9.67">
<l>कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।</l><l>अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥ ६७ ॥</l></lg><lg n="9.68">
<l>विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।</l><l>अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥ ६८ ॥</l></lg><lg n="9.69">
<l>उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।</l><l>विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥ ६९ ॥</l></lg><lg n="9.70">
<l>दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।</l><l>उदिते ततः सपदि लब्धपदैः क्षणदाकरे ऽनुपदिभिः प्रयये ॥ ७० ॥</l></lg><lg n="9.71">
<l>निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलम् ।</l><l>दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ७१ ॥</l></lg><lg n="9.72">
<l>उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।</l><l>रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधत् ॥ ७२ ॥</l></lg><lg n="9.73">
<l>अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।</l><l>मुकुरेण वेपथुभृतो ऽतिभरात् कथमप्यपाति न वधूकरतः ॥ ७३ ॥</l></lg><lg n="9.74">
<l>अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।</l><l>दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥ ७४ ॥</l></lg><lg n="9.75">
<l>कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।</l><l>क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ७५ ॥</l></lg><lg n="9.76">
<l>पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद को ऽयमिति ।</l><l>अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदत् ॥ ७६ ॥</l></lg><lg n="9.77">
<l>उदितोरुसादमतिवेपथुमत्सुदृशो ऽभिभर्तृ विधुरं त्रपया ।</l><l>वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूत् ॥ ७७ ॥</l></lg><lg n="9.78">
<l>पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।</l><l>स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥ ७८ ॥</l></lg><lg n="9.79">
<l>मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।</l><l>प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥ ७९ ॥</l></lg><lg n="9.80">
<l>तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।</l><l>प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥ ८० ॥</l></lg><lg n="9.81">
<l>न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।</l><l>हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामाम् ॥ ८१ ॥</l></lg><lg n="9.82">
<l>इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनाम् ।</l><l>स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥ ८२ ॥</l></lg><lg n="9.83">
<l>अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।</l><l>कलयन्नपि सव्यथो ऽवतस्थे ऽशकुनेन स्खलितः किलेतरो ऽपि ॥ ८३ ॥</l></lg><lg n="9.84">
<l>आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।</l><l>तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥ ८४ ॥</l></lg><lg n="9.85">
<l>सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।</l><l>कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥ ८५ ॥</l></lg><lg n="9.86">
<l>दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।</l><l>बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥ ८६ ॥</l></lg><lg n="9.87">
<l>इत्थं नारीर्घटयितुमलं कामिभिः काममासन् प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।</l><l>आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासाम् ॥ ८७ ॥</l></lg><lg n="10.1">
<l>सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि ।</l><l>आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥ १ ॥</l></lg><lg n="10.2">
<l>सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन ।</l><l>ते मुहूर्तमथ मूर्तमपीप्यन् प्रम मानमवधूय वधूः स्वाः ॥ २ ॥</l></lg><lg n="10.3">
<l>कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ ।</l><l>स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥ ३ ॥</l></lg><lg n="10.4">
<l>कापिशायनसुगन्धि विघूर्णन्नुन्मदो ऽधिशयितुं समशेत ।</l><l>फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥ ४ ॥</l></lg><lg n="10.5">
<l>बिम्बितं बृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः ।</l><l>घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥ ५ ॥</l></lg><lg n="10.6">
<l>दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् ।</l><l>यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥ ६ ॥</l></lg><lg n="10.7">
<l>स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसो ऽत्र ।</l><l>अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ ७ ॥</l></lg><lg n="10.8">
<l>बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।</l><l>आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥ ८ ॥</l></lg><lg n="10.9">
<l>पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ ।</l><l>लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥ ९ ॥</l></lg><lg n="10.10">
<l>कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य ।</l><l>स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदे ऽभूत् ॥ १० ॥</l></lg><lg n="10.11">
<l>पीतशीतधुमधुरैर्मिधुनानामाननैः परिहृतं चषकान्तः ।</l><l>व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ ११ ॥</l></lg><lg n="10.12">
<l>प्रातिभत्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः ।</l><l>गूढसूचितरहस्यसहासः सुभ्रुवां प्रववृते परिहासः ॥ १२ ॥</l></lg><lg n="10.13">
<l>हावकारि हसितं वचनानां खौशलं दृशि विकारविशेषाः ।</l><l>चकिरे भृशमृजोरपि वध्वाः कामिनेव तरुणेन मदेन ॥ १३ ॥</l></lg><lg n="10.14">
<l>अप्रसन्नमपराद्धरि पत्यौ कोपदीप्तमुररीकृतधैर्यम् ।</l><l>क्षालितं नु शमितं नु वधूनां द्रवितं नु हृदयं मधुवारैः ॥ १४ ॥</l></lg><lg n="10.15">
<l>सन्तमेव चिरप्रकृतत्वादप्रकाशितमद्द्युतङ्गे ।</l><l>विभ्रमं मधुमदः प्रमदानां धातुलीनमुपसर्ग इवार्थम् ॥ १५ ॥</l></lg><lg n="10.16">
<l>सावशेषपदमुक्तमुपेक्षा स्रस्तमाल्यवसनाभरणेषु ।</l><l>गन्तुमुत्थिमकारणतः स्म द्योतयन्ति मदविभ्रममासाम् ॥ १६ ॥</l></lg><lg n="10.17">
<l>मद्यमन्दविगलत्त्रपमीषच्चक्षुरुन्मिषितपक्ष्म दधत्या ।</l><l>वीक्ष्यते स्म शनकैर्नववध्वा कामिनोमुखमधोमुखयैव ॥ १७ ॥</l></lg><lg n="10.18">
<l>या कथञअचन सखीवचनेन प्रागभिप्रियतमं प्रजगल्भे ।</l><l>व्रीडाजाड्यमभजन्मधुपा सा स्वां मदात्प्रकृतिमेति हि सर्वः ॥ १८ ॥</l></lg><lg n="10.19">
<l>छादितः कथमपि त्रपययान्तर्यः प्रियं प्रति चिराय रमण्याः ।</l><l>वारुणीमदविशङअगमथाविश्चक्षुषो ऽभवदसाविव रागाः ॥ १९ ॥</l></lg><lg n="10.20">
<l>आगतानगणितप्रतियातान् वल्लभानभिसिसारयिषूणाम् ।</l><l>प्रापि चेतसि सविप्रतिसारे सुभ्रुवामवसरः सरकेण ॥ २० ॥</l></lg><lg n="10.21">
<l>मा पुनस्तमभिसीसरमागस्कारिणं मदविमोहितचित्ता ।</l><l>योषिदित्यभिलाष न हालां दुस्त्यजः खलु सुखादपि मानः ॥ २१ ॥</l></lg><lg n="10.22">
<l>ह्रीविमोहमहरद्दयितानामन्तिकं रतिसुखाय निनाय ।</l><l>सप्रसादमिव सेवितमासीत्सद्य एव फलदं मधु तासाम् ॥ २२ ॥</l></lg><lg n="10.23">
<l>दत्तमात्तमदनं दयितेन व्याप्तमतिशाकेन रसेन ।</l><l>सस्वदे मुखसुरं प्रमदाभ्यो नाम रूढमपि च व्युदपादि ॥ २३ ॥</l></lg><lg n="10.24">
<l>लब्धसौरभगुणो मदिराणामङ्गनास्यचषकस्य च गन्धः ।</l><l>मोदितालिरितरेतरयोगादन्यतामभजतातिशयं नु ॥ २४ ॥</l></lg><lg n="10.25">
<l>मानभङ्गपचटुना सुरतेच्छां तन्वता प्रथयता दृशि रागम् ।</l><l>लेभिरे सपदि भावयतान्तर्योषितः प्रणयिनेव मदेन ॥ २५ ॥</l></lg><lg n="10.26">
<l>पानधौतनवयावकरागं सुभ्रुवो निभृतचुम्बनदक्षाः ।</l><l>प्रेयसामधररागरसेन स्वं किलाधरमुपालि ररञ्जुः ॥ २६ ॥</l></lg><lg n="10.27">
<l>अर्पितं रसितवत्यपि नामग्राहमन्ययुवतेर्दयितेन ।</l><l>उज्झति स्म मदमप्यपिबन्ती वीक्ष्य मद्यमितरा तु ममाद ॥ २७ ॥</l></lg><lg n="10.28">
<l>अन्यान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।</l><l>पीतभूरिसुरयापि नमेदे निर्वृतिर्हिमनसो मदहेतुः ॥ २८ ॥</l></lg><lg n="10.29">
<l>कोपवत्यनुनयानगृहीत्वा प्रागथो मधुमदाहितमोहा ।</l><l>कोपितं विरहखेदितचित्ता कान्तमेव कलयन्त्यनुनिन्ये ॥ २९ ॥</l></lg><lg n="10.30">
<l>कुर्वता मुकुलिताक्षियुगानामङ्गसादमवसादितवगचाम् ।</l><l>ईर्ष्ययेव हरता ह्रियमासां तद्गुणः स्वयमकारि मदेन ॥ ३० ॥</l></lg><lg n="10.31">
<l>गण्डभित्तिषु पुरा सदृशीषु व्याञ्जि नाञ्जितदृशां प्रतिमेन्दुः ।</l><l>पानपाटलितकान्तिषु पश्चाल्लोध्रचूर्णतिलकाकृतिरासीत् ॥ ३१ ॥</l></lg><lg n="10.32">
<l>उद्धतैरिव परस्परसङ्गादीरितान्युभयतः कुचकुम्भैः ।</l><l>योषितामतिमदेन जुघूर्णुर्विभ्रमातिशयपुंसि वपूंषि ॥ ३२ ॥</l></lg><lg n="10.33">
<l>चारुता वपुरभूषयदासां तामनूननवयौवनयोगः ।</l><l>तं पुनर्मकरकेतनलक्षक्ष्मीस्तां मदो दयितसंगमभूषः ॥ ३३ ॥</l></lg><lg n="10.34">
<l>क्षीबतामनुगतास्वनुवेलं तासु रोषपरितोषवतीषु ।</l><l>अग्रहीन्न सशरं धनुरुज्झामास नूज्झितनिषङ्गमनङ्गः ॥ ३४ ॥</l></lg><lg n="10.35">
<l>शहङ्गयान्ययुवतौ वनिताभिः प्रत्यभेदि दयितः स्फुटमेव ।</l><l>न क्षमं भवति तत्वविचारे मत्सरेण हतसंवृति चेतः ॥ ३५ ॥</l></lg><lg n="10.36">
<l>आननैर्विचकसे हृषिताभिर्वल्लभानभि तनूभिरभावि ।</l><l>आर्द्रतां हृदयमाप च रोषो लोलति स्म वचनेषु वधूनाम् ॥ ३६ ॥</l></lg><lg n="10.37">
<l>रूपमप्रतिविधानमनोज्ञं प्रेम कार्यमनपेक्ष्य विकासि ।</l><l>चाटु चाकृतकसंभ्रममासां कार्मणत्वमगमन्रमणेषु ॥ ३७ ॥</l></lg><lg n="10.38">
<l>लीलयैव सुतनोस्तुलयित्वा गौरवाढ्यमपि लावणिकेन ।</l><l>मानवञ्जनविदा वदनेन क्रीतमेव हृदयं दयितस्य ॥ ३८ ॥</l></lg><lg n="10.39">
<l>स्पर्शभाजि विशदच्छविचारौ कल्पिते मृगदृशां सुरताय ।</l><l>सन्नतिं दधति पेतुरजस्रं दृष्टयः प्रियतमे शयने च ॥ ३९ ॥</l></lg><lg n="10.40">
<l>यूनि रागतरलैरपि तिर्यक्पातिभिः श्रुतिगुणेन युतस्य ।</l><l>दीर्घदर्शिभिरकारि वधूनां लङ्घनं न नयनैः श्रवणस्य ॥ ४० ॥</l></lg><lg n="10.41">
<l>संकथेच्छुरभिधातुमनीशा संमुखी न च बभूव दिदृक्षुः ।</l><l>स्पर्शनेन दयितस्य नतभ्रूरङ्गचपलापि चकम्पे ॥ ४१ ॥</l></lg><lg n="10.42">
<l>उत्तरीयविनयात्त्रपमाणा रुन्धती किल तदीक्षणमार्गम् ।</l><l>आचरिष्ट विकटेन विवोढुर्वक्षसैव कुचमणडलमन्या ॥ ४२ ॥</l></lg><lg n="10.43">
<l>अंशुकं हृतवता तनुबाहुस्वस्तिकापिहितमुग्धकुचाग्रा ।</l><l>भिन्नशङ्खवलयं परिणेत्रा पर्यरम्भि रभसादचिरोढा ॥ ४३ ॥</l></lg><lg n="10.44">
<l>संजहार सहसा परिरब्धप्रेयसीषु विरहय्य विरोधम् ।</l><l>संहितं रतिपतिः स्मितभिन्नक्रोधमाशु तरुणेषु महेषुम् ॥ ४४ ॥</l></lg><lg n="10.45">
<l>स्रंसमानमुपयन्तरि वध्वाः श्लिष्टवत्युपसपक्षि रसेन ।</l><l>आत्मनैव रुरुधे कृतिनेव स्वसङ्गि वसनं जघनेन ॥ ४५ ॥</l></lg><lg n="10.46">
<l>पीडिते पुर उरः प्रतिषेधं भर्तरि स्तनयुगेन युवत्याः ।</l><l>स्पष्टमेव दलतः प्रतिनार्यस्तन्मयत्वमभवद्धृदयस्य ॥ ४६ ॥</l></lg><lg n="10.47">
<l>दीपितस्मरमुरस्यपपीडं वल्लभे घनमभिष्वजमाने ।</l><l>वक्रतां न ययतुः कुचकुम्भौ सुभ्रुवः कठिनतातिशयेन ॥ ४७ ॥</l></lg><lg n="10.48">
<l>संप्रवेष्टुमिव योषित ईषुः श्लिष्यतां हृदयमिष्टतमानाम् ।</l><l>आत्मनः सततमेव तदन्तर्वर्तिनो न खलु नूनमजानन् ॥ ४८ ॥</l></lg><lg n="10.49">
<l>स्नहनिर्भरमदत्त वधूनामार्द्रतां वपुरसंशयमन्तः ।</l><l>यूनि गाढपरिरम्भिणि वस्त्रक्नोपमम्बु ववृषे यदनेन ॥ ४९ ॥</l></lg><lg n="10.50">
<l>न स्म माति वपुषः प्रमदानामन्तरिष्टतमसङ्गमजन्मा ।</l><l>तद्बहुर्बहिरवाप्य विकासं व्यानशे तनुरुहाण्यपि हर्षः ॥ ५० ॥</l></lg><lg n="10.51">
<l>यत्प्रियव्यतिकराद्वनितानमङ्गजेन पुलकेन बभूवे ।</l><l>प्रापि तेन भृशमुच्छ्वसिभिर्नीविभिः सपदि बन्धनमोक्षः ॥ ५१ ॥</l></lg><lg n="10.52">
<l>ह्रीभरादवनतं परिरम्भे रागवानवटुजेष्ववकृष्य ।</l><l>अर्पितोष्ठदलमाननपद्मं योषितो मुकुलिताक्षमधासीत् ॥ ५२ ॥</l></lg><lg n="10.53">
<l>पल्वोपमितसाम्यसपक्षं दष्टत्यधरबिम्बमभीष्टे ।</l><l>पर्यकूजि सरुजेव तरुण्यास्तारलोलवलयेन करेण ॥ ५३ ॥</l></lg><lg n="10.54">
<l>केनचितन्मधुरमुल्बणरागं बाष्पतप्तमधिकं विरहेषु ।</l><l>ओष्ठपल्लवमवाप्य मुहूर्त सुभ्रुवः सरसमक्षि चुचुम्बे ॥ ५४ ॥</l></lg><lg n="10.55">
<l>रेचितं परिजनेन महीयः केवलाभिरतदम्पति धाम ।</l><l>साम्यमाप कमलासखविष्वक्सेनसेवितयुगान्तपयोधेः ॥ ५५ ॥</l></lg><lg n="10.56">
<l>आवृतान्यपि निरन्तरमुच्चैर्योषितामुरसिजद्वतयेन ।</l><l>रागिणामित इतो विमृशद्भिः पाणिभिर्जगृहिरे हृदयानि ॥ ५६ ॥</l></lg><lg n="10.57">
<l>कामिनामसकलानि विभुग्नैः स्वदवारिमृदुभिः करजाग्रैः ।</l><l>आक्रियन्त कठिनेषु कथञ्चित्कामिनीकुचतटेषु पदानि ॥ ५७ ॥</l></lg><lg n="10.58">
<l>सोष्मणः स्तनशिलाशिखराग्रादात्तघर्मसलिलैस्तरुणानाम् ।</l><l>उच्छ्वसत्कमलचारुषु हस्तैनिम्ननाभिसरसीषु निपेते ॥ ५८ ॥</l></lg><lg n="10.59">
<l>आमृशद्भिरभितो वलिवीचिर्लोलमानवितताङ्गुलिहस्तैः ।</l><l>सुभ्रुवामनुभवात्प्रतिपेदे मुष्टिमेयमिति मघ्यमभीष्टैः ॥ ५९ ॥</l></lg><lg n="10.60">
<l>प्राप्य नाभिनदमज्जनमाशु प्रस्थितं निवसनग्रहणाय ।</l><l>औपनीविकमरुन्ध किल स्त्री वल्लभस्य करमात्मकराभ्याम् ॥ ६० ॥</l></lg><lg n="10.61">
<l>कामिनः कृतरतोत्सवकालक्षेपमाकुलवधूकरसङ्गि ।</l><l>मेखलागुणविलग्नमसूयां दीर्घसूत्रमकरोत्परिधानम् ॥ ६१ ॥</l></lg><lg n="10.62">
<l>अम्बरं विनयतः प्रियपाणेर्योषितस्य करयोः कलहस्य ।</l><l>वारणमिव विधातुमभीक्ष्णं कक्ष्यया च वलयैश्च शिशिञ्चे ॥ ६२ ॥</l></lg><lg n="10.63">
<l>ग्रन्थिमुद्ग्रथयितुं हृदयदेशे वाससः स्पृशति मानधनायाः ।</l><l>भ्रूयुगेण सपदि प्रतिपेदे रोमभिश्च सममेव विभेदः ॥ ६३ ॥</l></lg><lg n="10.64">
<l>आशु लङ्घितवतीष्टकराग्रे नीवीमर्धमुकुलीकृतदृष्ट्या ।</l><l>रक्तवैणिक हताधरतन्त्रीमण्डलक्वणितचारु चुकूजे ॥ ६४ ॥</l></lg><lg n="10.65">
<l>आयताङ्गुलिरभूदतिरिक्तः सुभ्रुवां क्रशिमशालिनि मध्ये ।</l><l>श्रोणिषु प्रियकरः पृथुलासु स्पर्शमाप सकलेन तलेन ॥ ६५ ॥</l></lg><lg n="10.66">
<l>चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम् ।</l><l>कामिनामनिभृतान्यपि रम्भास्त म्भकोमलतलेषु नखानि ॥ ६६ ॥</l></lg><lg n="10.67">
<l>ऊरुमूलचपलेक्षणमघ्नन् यैर्वतंसकुसुमैः प्रियमेताः ।</l><l>चक्रिरे सपदि तानि यथार्थ मन्मथस्य कुसुमायुधनाम ॥ ६७ ॥</l></lg><lg n="10.68">
<l>धैर्यमुल्बणमनोभवभवा वामतां च वपुरर्पितवत्यः ।</l><l>व्रीडितं ललित सौरतधार्ष्ट्यअस्तेनिरे ऽभिरुचितेषु तरुण्यः ॥ ६८ ॥</l></lg><lg n="10.69">
<l>पाणिरोधमविरोधवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः ।</l><l>कामिनः स्म कुरुते करभोरुर्हअरि शुष्करुदितं च सुखऽपि ॥ ६९ ॥</l></lg><lg n="10.70">
<l>वारणार्थपदगद्गदवाचामीर्ष्यया मुहुरपत्रपया च ।</l><l>कुर्वते स्म सुदृशामनुकूलं प्रतिकूलिकतयैव युवानः ॥ ७० ॥</l></lg><lg n="10.71">
<l>अन्यकालपरिहार्यमजस्रं तद्द्वयेन विदधे द्वयमेव ।</l><l>धृष्टता रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ ७१ ॥</l></lg><lg n="10.72">
<l>बाहुपीडनकचग३हणाभ्यामाहतेन नखदन्तनिपातैः ।</l><l>बोधितस्तनुशयतरुणीनामुन्मिमील विशदं विषमेषु ॥ ७२ ॥</l></lg><lg n="10.73">
<l>कान्तया सपदि को ऽप्युपगूढः प्रौढपाणिरपनेतुमियेष ।</l><l>संहतस्तनतिरस्कृतदृष्टिर्भ्रष्टमेव न दुकूलमपश्यत् ॥ ७३ ॥</l></lg><lg n="10.74">
<l>आहतं कुचतटेन तरुण्याः साधु सोढममुनेति पपात ।</l><l>त्रुट्यतः प्रियतमोरसि हारात्पुष्पवृष्चटरिव मौक्तिकवृष्टिः ॥ ७४ ॥</l></lg><lg n="10.75">
<l>सीत्कृतानि मणितं करुणोक्तिः स्निग्धमुक्तमलमर्थवचांसि ।</l><l>हासभूषणरवाश्च रमण्याः कामसूत्रपदतामुपजग्मुः ॥ ७५ ॥</l></lg><lg n="10.76">
<l>उद्धतैर्निभृतमेकमनेकैश्छदवन्मृगदृशामविरामैः ।</l><l>श्रूयते स्म मणितं कलकाञ्चीनूपुरध्वनिभिरक्षतमेव ॥ ७६ ॥</l></lg><lg n="10.77">
<l>ईदृशस्य भवतः खतमेतल्लाघवं मुहुरतीव रतेषु ।</l><l>क्षिप्तमायतमदर्शयदुर्व्या काञ्चिदाम जघनस्य महत्वम् ॥ ७७ ॥</l></lg><lg n="10.78">
<l>प्रप्यते स्म गतचित्रकचित्रैश्चत्रमार्द्रनखलक्ष्मकपोलैः ।</l><l>दध्रिरे ऽथ रभसच्युतपुष्पाः स्वबिन्दुकुसुमान्यलकान्ताः ॥ ७८ ॥</l></lg><lg n="10.79">
<l>यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि त्तदकुर्वन् ।</l><l>आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः ॥ ७९ ॥</l></lg><lg n="10.80">
<l>प्राप्य मन्मथरसादतिभूमिं दुर्वहस्तनभराः सुरतस्य ।</l><l>शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः ॥ ८० ॥</l></lg><lg n="10.81">
<l>संगताभिरुचितैश्चलितापि प्रागमुच्यत चिरेण सखीव ।</l><l>भूय एव समगंस्त रतान्ते ह्रीवधूभिरसहा विरहस्य ॥ ८१ ॥</l></lg><lg n="10.82">
<l>प्रेक्षणीयकमेव क्षणमासन् ह्रीविभङ्गुरविलोचनपाताः ।</l><l>संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥</l></lg><lg n="10.83">
<l>अप्रभूतमतनीयसि तन्वी काञ्चिधाम्निपिहितैकतरोरु ।</l><l>क्षौममाकुलकरा विचकर्ष कान्तापल्लवमभीष्टतमेन ॥ ८३ ॥</l></lg><lg n="10.84">
<l>मृष्टचन्दनविशेषकभक्तिर्म्रषअटभूषणकदर्थितमाल्यः ।</l><l>सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥</l></lg><lg n="10.85">
<l>योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे ।</l><l>मेखलेव परितः स्म विचित्रा राजते वननखक्षतलक्ष्मीः ॥ ८५ ॥</l></lg><lg n="10.86">
<l>भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगणडतलेषु ।</l><l>दन्तवाससि समानगुणश्रीः संमुखो ऽपि परभागमवाप ॥ ८६ ॥</l></lg><lg n="10.87">
<l>सुभ्रुवामधिपयोधरपीठं पीडनैस्त्रुटितवत्यपि पत्युः ।</l><l>णुक्तमौक्तिकलघुगुणशेषा हारयष्चिरभवत् गुरुरेव ॥ ८७ ॥</l></lg><lg n="10.88">
<l>विश्रमार्थमुपगूढमजस्रं यत्प्रियैः प्रथमरत्यवसाने ।</l><l>योषितामुदितमन्मथमादौ तद्द्वितीयसुरतस्य बभूव ॥ ८८ ॥</l></lg><lg n="10.89">
<l>आस्तृते ऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।</l><l>दीयते स्म शयितुं शयनीये न क्षणः क्षणदयापि वधूभ्यः ॥ ८९ ॥</l></lg><lg n="10.90">
<l>योषितामतितरां नखलूनं गात्रमुज्जवलतया न खलूनम् ।</l><l>क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥</l></lg><lg n="10.91">
<l>इति मदमदनाभ्यां रागिणः स्पष्टरागननवरतरतश्रीसङ्गिनस्तानवेक्ष्य ।</l><l>अभजत परिवृत्तिं साथ पर्यस्तहस्ता रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ ९१ ॥</l></lg><lg n="11.1">
<l>श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जम् ।</l><l>प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ १ ॥</l></lg><lg n="11.2">
<l>रतिरभसविलासाभ्यासतान्तं न यावन् नयनयुगममीलत्तावदेवाहतो ऽसौ ।</l><l>रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ २ ॥</l></lg><lg n="11.3">
<l>स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेत् ।</l><l>शकटमिव महीयः शैशवे शार्ङ्गपाणेश् चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ २ ॥</l></lg><lg n="11.4">
<l>प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।</l><l>मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥ ४ ॥</l></lg><lg n="11.5">
<l>विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशो ऽवकाशम् ।</l><l>रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरी किं करोतु ॥ ५ ॥</l></lg><lg n="11.6">
<l>क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद्दुर्विगाहे ।</l><l>गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ६ ॥</l></lg><lg n="11.7">
<l>क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः ।</l><l>मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ७ ॥</l></lg><lg n="11.8">
<l>द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव ।</l><l>शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥ ८ ॥</l></lg><lg n="11.9">
<l>अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।</l><l>कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥ ९ ॥</l></lg><lg n="11.10">
<l>गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।</l><l>असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥ १० ॥</l></lg><lg n="11.11">
<l>परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।</l><l>रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ ११ ॥</l></lg><lg n="11.12">
<l>उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सो ऽपरामेष गत्वा ।</l><l>स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ १२ ॥</l></lg><lg n="11.13">
<l>चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।</l><l>अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ १३ ॥</l></lg><lg n="11.14">
<l>कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।</l><l>हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ १४ ॥</l></lg><lg n="11.15">
<l>दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।</l><l>कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥ १५ ॥</l></lg><lg n="11.16">
<l>मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।</l><l>वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ १६ ॥</l></lg><lg n="11.17">
<l>अविरतरतलीलायाःसजातश्रमाणाम् उपशममुपयान्तं निःसहे ऽङ्गे ऽङ्गनानाम् ।</l><l>पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥ १७ ॥</l></lg><lg n="11.18">
<l>अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।</l><l>इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥</l></lg><lg n="11.19">
<l>विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः ।</l><l>प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ १९ ॥</l></lg><lg n="11.20">
<l>लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः ।</l><l>तिमिरमिव दधानाः स्रंसिनः केशपाशान् अवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ २० ॥</l></lg><lg n="11.21">
<l>शिशिरकिरणकान्तं वासरान्ते ऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।</l><l>व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २१ ॥</l></lg><lg n="11.22">
<l>नवकुमुदवनश्रीहासकेलिप्रसङ्गाद् अधिकरुचिरशेषामप्युषां जागरित्वा ।</l><l>अयमपरदिशो ऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥ २२ ॥</l></lg><lg n="11.23">
<l>सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।</l><l>वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥ २३ ॥</l></lg><lg n="11.24">
<l>सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।</l><l>इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर् वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥</l></lg><lg n="11.25">
<l>व्रजतिविषयमक्ष्णामंशुमाली न यावत् तिमिरमखिलमस्तं तावदेवारुणेन ।</l><l>परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरो ऽपि ॥ २५ ॥</l></lg><lg n="11.26">
<l>विगततिमिरपङ्गं पश्यति व्योम यावद् धुवति विरहखिन्नः पक्षती यावदेव ।</l><l>रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥ २६ ॥</l></lg><lg n="11.27">
<l>मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।</l><l>परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ २७ ॥</l></lg><lg n="11.28">
<l>विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।</l><l>क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥ २८ ॥</l></lg><lg n="11.29">
<l>नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ।</l><l>अपि रहसि कृतानां वाग्विहीनो ऽपिजातः सुरतविलसितानां वर्णको वर्णको ऽसौ ॥ २९ ॥</l></lg><lg n="11.30">
<l>प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैर् अधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः ।</l><l>उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ३० ॥</l></lg><lg n="11.31">
<l>सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।</l><l>इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥ ३१ ॥</l></lg><lg n="11.32">
<l>प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।</l><l>चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥</l></lg><lg n="11.33">
<l>तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।</l><l>मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥</l></lg><lg n="11.34">
<l>नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।</l><l>प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥</l></lg><lg n="11.35">
<l>इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् ।</l><l>करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥</l></lg><lg n="11.36">
<l>मदनमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।</l><l>विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ॥ ३६ ॥</l></lg><lg n="11.37">
<l>करजदशनचिह्नं निशमङ्गे ऽन्यनारीजनितमिति सरोषमीर्ष्यया शङ्कमानाम् ।</l><l>स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥ ३७ ॥</l></lg><lg n="11.38">
<l>कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ।</l><l>विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८ ॥</l></lg><lg n="11.39">
<l>बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य ।</l><l>विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ ३९ ॥</l></lg><lg n="11.40">
<l>अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।</l><l>अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ ४० ॥</l></lg><lg n="11.41">
<l>प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।</l><l>कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर् हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥ ४१ ॥</l></lg><lg n="11.42">
<l>प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।</l><l>अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥ ४२ ॥</l></lg><lg n="11.43">
<l>नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् ।</l><l>जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥ ४३ ॥</l></lg><lg n="11.44">
<l>विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः ।</l><l>कृतचपलविहङ्गालापकोलाहलाभिर् जलनिधिजलमध्यादेष उत्तार्यतेर्ऽकः ॥ ४४ ॥</l></lg><lg n="11.45">
<l>पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।</l><l>यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ४५ ॥</l></lg><lg n="11.46">
<l>अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।</l><l>नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ ४६ ॥</l></lg><lg n="11.47">
<l>उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः ।</l><l>विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवो ऽङ्गके हेलया बालसूर्यः ॥ ४७ ॥</l></lg><lg n="11.48">
<l>क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।</l><l>भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥ ४८ ॥</l></lg><lg n="11.49">
<l>परिणतमदिराभं भास्करेणोंशुबाणैस् तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।</l><l>रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥</l></lg><lg n="11.50">
<l>दधतिपरिपतन्त्यो जालवातायनेभ्यस् तरुणतपनभासो मन्दिराभ्यन्तरेषु ।</l><l>प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥</l></lg><lg n="11.51">
<l>अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।</l><l>उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥ ५१ ॥</l></lg><lg n="11.52">
<l>सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।</l><l>निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥</l></lg><lg n="11.53">
<l>प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभम् ।</l><l>अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ ५३ ॥</l></lg><lg n="11.54">
<l>सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।</l><l>विदधति दशनानां सीत्कृताविष्कृतानाम् अभिनवरविभासः पद्मरागानुकारम् ॥ ५४ ॥</l></lg><lg n="11.55">
<l>अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।</l><l>कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपे ऽपि ॥ ५५ ॥</l></lg><lg n="11.56">
<l>सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः ।</l><l>अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥ ५६ ॥</l></lg><lg n="11.57">
<l>अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणो ऽसौ दर्शनीयो ऽप्यपास्तः ।</l><l>निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्ते ऽपि हन्तव्यपक्षे ॥ ५७ ॥</l></lg><lg n="11.58">
<l>प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।</l><l>बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ ५८ ॥</l></lg><lg n="11.59">
<l>बहिरपि विलसन्त्यः काममानिन्यिरे यद् दिवसकररुचो ऽन्तं ध्वान्तमन्तर्गृहेषु ।</l><l>नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥ ५९ ॥</l></lg><lg n="11.60">
<l>चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ।</l><l>दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥</l></lg><lg n="11.61">
<l>युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर् दशशतदलभेदं कौतुकेनाशुकृत्वा ।</l><l>श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥</l></lg><lg n="11.62">
<l>अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ।</l><l>अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ६२ ॥</l></lg><lg n="11.63">
<l>प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।</l><l>सितकरवपुषासौ लक्ष्यते संप्रति द्यौर् विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥</l></lg><lg n="11.64">
<l>कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः ।</l><l>उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ ६४ ॥</l></lg><lg n="11.65">
<l>क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्ताद् उपगतवति पाणिग्राहवद्दिग्वधूनाम् ।</l><l>द्रुततरमुपयाति स्रंसमानांशुको ऽसाव् उपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ॥ ६५ ॥</l></lg><lg n="11.66">
<l>प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।</l><l>गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एको ऽधिशेते ॥ ६६ ॥</l></lg><lg n="11.67">
<l>कृतसकलजगद्विबोधो ऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।</l><l>बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥ ६७ ॥</l></lg><lg n="12.1">
<l>इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः ।</l><l>प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥ १ ॥</l></lg><lg n="12.2">
<l>स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः ।</l><l>आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सो ऽध्वना ॥ २ ॥</l></lg><lg n="12.3">
<l>हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया ।</l><l>सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥ ३ ॥</l></lg><lg n="12.4">
<l>शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव ।</l><l>व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥ ४ ॥</l></lg><lg n="12.5">
<l>उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः ।</l><l>आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥ ५ ॥</l></lg><lg n="12.6">
<l>स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः ।</l><l>वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥ ६ ॥</l></lg><lg n="12.7">
<l>अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने ।</l><l>तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥ ७ ॥</l></lg><lg n="12.8">
<l>गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया ।</l><l>कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥ ८ ॥</l></lg><lg n="12.9">
<l>उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके ।</l><l>अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥ ९ ॥</l></lg><lg n="12.10">
<l>नस्यागृहीतो ऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः ।</l><l>गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥ १० ॥</l></lg><lg n="12.11">
<l>नानाविधाविष्कृसामजस्वरः सहस्रवर्त्मा चपलैर्दुरध्ययः ।</l><l>गान्धर्वभूय्ष्ठतया समानतां स सामवेदस्य दधौ बलोदधिः ॥ ११ ॥</l></lg><lg n="12.12">
<l>प्रत्यन्यनागं चल्तस्तरावता निरस्य कुण्ठं दधतान्यमङ्कुशम् ।</l><l>मूर्धानमूर्ध्वायतदन्तमण्डलं धुवन्नरोधि द्विरदां निषादिना ॥ १२ ॥</l></lg><lg n="12.13">
<l>समूर्च्छदुच्छृङ्खलशङ्खनिस्वनः स्वनः प्रयाते पटहस्य शार्ङ्गिणि ।</l><l>स्वानिनिन्ये नितरां महान्त्यपि व्यथां द्वयेषामपि मेदिनीघृताम् ॥ १३ ॥</l></lg><lg n="12.14">
<l>कालीयकक्षोदविलेपनश्रियं दिशद्दिशमुल्लसदंशुमद्द्युति ।</l><l>खातं खुरैमुद्गभुजां विपप्रते गिरेरधः काञ्चनभूमिजं रजः ॥ १४ ॥</l></lg><lg n="12.15">
<l>मन्द्रैगजानां रथमण्डलस्वनैर्निजुह्नुवे तादृशमेव बृंहितम् ।</l><l>तारैर्बभूवे परभागलाभतः परिश्फुटैस्तेषु तुरङ्गहेषितैः ॥ १५ ॥</l></lg><lg n="12.16">
<l>अन्वेतुकामो ऽवमताङ्गुशग्रहस्तिरोगतं साङ्गुशमुद्वहञ्शिरः ।</l><l>स्थूलोच्चयेनागमदन्तिकगतां गजो ऽग्रयाताग्रकरः करेणुकाम् ॥ १६ ॥</l></lg><lg n="12.17">
<l>यन्तो ऽस्पृशन्तश्चरणैरिवावनिं जवात्प्रकीर्णैरभितः प्रकीर्णकैः ।</l><l>अद्यापि सेनातुरगाः सविस्मयैरलूनपक्षा इव मेनिरे जनैः ॥ १७ ॥</l></lg><lg n="12.18">
<l>ऋज्वीर्दधानैरवतत्य कन्धराश्चलावचूडाः कलाघर्घररारवैः ।</l><l>भूमिर्महत्यप्यविलम्बितक्रमं क्रमेलकैस्तक्षणमेव चिच्छिदे ॥ १८ ॥</l></lg><lg n="12.19">
<l>तूर्ण प्रणेत्रा कृतनादमुच्चकैः प्रणोदितं वेसरयुग्मध्वनि ।</l><l>आत्मीयनेमिक्षतसान्द्रमेदिनीरजश्चयाक्रान्तभयादिवाद्रवत् ॥ १९ ॥</l></lg><lg n="12.20">
<l>व्यावृत्तवक्त्रैरखिलैश्चमूचरैर्व्रजिद्भिरेव क्षणमीक्षिताननाः ।</l><l>वल्गद्गरीयःस्तनकम्प्रकञ्चुकं ययुस्तुरङ्गाधिरुहो ऽवरोधिकाः ॥ २० ॥</l></lg><lg n="12.21">
<l>पादैः पुरः कूबरिणां विदारिताः प्रकाममाक्रान्ततलास्ततो गजैः ।</l><l>भग्नोन्नतानन्तरपूरितान्तरा बभुर्भुवः कृष्टसमीकृता इव ॥ २१ ॥</l></lg><lg n="12.22">
<l>दुर्दुन्तमुपकृत्य निरस्तसादिनं सहासहाकारमलोकयज्जनः ।</l><l>पर्याणतः स्रस्तमुरोविलम्बिनस्तुरङ्गमं प्रद्रुतमेकया दिशा ॥ २२ ॥</l></lg><lg n="12.23">
<l>भूभृद्भिरप्यस्खलिताः खलून्नतैरप्यपह्नवाना सरितः पृथूरपि ।</l><l>अन्वर्थसंज्ञयैव परं त्रिमार्गगा ययावसंख्यैः पथिभिश्चमूरसौ ॥ २३ ॥</l></lg><lg n="12.24">
<l>त्रस्तौ समासन्नकरेणुसूत्कृतान्नियन्तरि व्याकुलमुक्तरज्जुके ।</l><l>क्षिप्तावरोधाङ्गनमुत्पथेन गां विलङ्घ्य लघ्वीं करभौ बभञ्जतुः ॥ २४ ॥</l></lg><lg n="12.25">
<l>स्रस्ताङ्गसन्धौ विगताशापाटवे रुजा निकामं विकलीकृते रथे ।</l><l>आप्तेन तत्क्षणा भिषजेव तत्क्षणं प्रचक्रमे लङ्घनपूर्वकः क्रमः ॥ २५ ॥</l></lg><lg n="12.26">
<l>धूर्भङ्गसंक्षोभविदारितोष्ट्रिका गलन्मधुप्लावितदूरवर्त्मनि ।</l><l>स्थाणौ निषङ्गिण्यनसि क्षणं पुरः शुशोच लाभाय कृतक्रयो वणिक् ॥ २६ ॥</l></lg><lg n="12.27">
<l>भेरिभिराक्रुष्टमहागुहामुखो ध्वजांशुकैस्तर्जितकन्दलीवनः ।</l><l>उत्तङ्गमातङ्गजितालघूपलो बलैः स पश्चात्कियते स्म भूधरः ॥ २७ ॥</l></lg><lg n="12.28">
<l>वन्येभदानानिलगन्धददुर्धुराः क्षणं तरुच्छेदविनोदितक्रुधः ।</l><l>व्यालद्विपा यन्तृभिरुन्मतिष्णवः कथंचिदीरादपनयेन निन्यिरे ॥ २८ ॥</l></lg><lg n="12.29">
<l>तैर्वजयन्तीवनराजिराजिभिर्गिरिप्रतिच्छन्दमहामतङ्गजैः ।</l><l>बह्व्यः प्रसर्पज्जनतानानदीशतैर्भुवो बलैरन्तरायामबभूविरे ॥ २९ ॥</l></lg><lg n="12.30">
<l>तस्थेमुहूर्त हरिणीविलोचनैः सदृशि दृष्ट्वा नयनानि योषिताम् ।</l><l>त्वाथ सत्रासमनेकविभ्रमक्रियाविकाराणि मृगैः पलाय्यत ॥ ३० ॥</l></lg><lg n="12.31">
<l>निम्नानि दुःखादवतार्य सादिभिः सयत्नमाकृष्टकशाः शनैः शनैः ।</l><l>उत्तेरुरुत्तालखुरारवं द्रुताः श्लथीकृतप्रग्रहमर्वतां व्रजाः ॥ ३१ ॥</l></lg><lg n="12.32">
<l>अध्यध्वमारूढवतैव केनचित्प्रतीक्षमाणेन जनं मुहुर्धृतः ।</l><l>दाक्ष्यं हि सद्यः फलदं यदग्रतश्चखाद दासेरयुवा वनावलीः ॥ ३२ ॥</l></lg><lg n="12.33">
<l>शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः ।</l><l>एकातपत्रा पृथिवीभृतां गणैरभूदबहुच्छात्रतया पताकिनी ॥ ३३ ॥</l></lg><lg n="12.34">
<l>आगच्छतो ऽनूचिगजस्य घण्डयोः स्वनं समापकर्ण्य समाकुलाङ्गनाः ।</l><l>दूरापवर्तितभारवाहणाः पथो ऽपस्रुस्त्वरितं चमूचराः ॥ ३४ ॥</l></lg><lg n="12.35">
<l>ओजस्विवर्णोज्वलवृत्तशालिनः प्रसादिनो ऽनुज्झित गोत्रसंविदः ।</l><l>श्लोकानुपेन्द्रस्य पुरः स्म भूयसो गुणान्समुद्दिश्य पठन्ति वन्दिनः ॥ ३५ ॥</l></lg><lg n="12.36">
<l>निःश्शेषमाक्रान्तमहीतलो जलैश्चलन्समुद्रो ऽपि समुज्झति स्थितिम् ।</l><l>ग्रामेषु सैन्यैरकरोदवारितैः किमव्यवस्थां चलितो ऽपि केशवः ॥ ३६ ॥</l></lg><lg n="12.37">
<l>कोशातकीपुष्पगुलुच्छकान्तिभिर्मुखैर्विनिद्रोल्बणबाणचक्षुषः ।</l><l>ग्रामीणवध्वस्तमलक्षिता जनैश्चिरं मृतानामुपरि व्यलोकयन् ॥ ३७ ॥</l></lg><lg n="12.38">
<l>गोष्ठेषु गोष्ठीकृतमण्डलासनान्सनादमुत्थाय मुहुः स वल्गतः ।</l><l>ग्राम्यानपश्यत्कपिशं पिपासतः स्वगोत्रसङ्कीर्तनभावितात्मनः ॥ ३८ ॥</l></lg><lg n="12.39">
<l>पश्यन्कृतार्थैरपि वल्लवीजनो जनाधिनाथं न ययौ वितृष्णताम् ।</l><l>एकान्तमौग्ध्यानवबुद्धविभ्रमैः प्रसिद्धविस्तारगुणैर्विलोचनैः ॥ ३९ ॥</l></lg><lg n="12.40">
<l>प्रीत्या नियुक्तांल्लिहती स्तनन्धयान्निगृह्य पारीमुभयेन जानुनोः ।</l><l>वर्धिष्णुधाराध्वनि रोहिणीः पयश्चिरं निदधौ दुहतः स गोदुहः ॥ ४० ॥</l></lg><lg n="12.41">
<l>अभ्याजतो ऽभ्यागततूर्णतर्णकान्निर्याणहस्तस्य पुरोदुधुक्षतः ।</l><l>वर्गाद्गवां हुंकृतिचारु निर्यतीमरिर्मधोरैक्षत गोमततल्लिकाम् ॥ ४१ ॥</l></lg><lg n="12.42">
<l>स व्रीहिणां यावदपासितुं गताः शुकान्मृगैस्तावदुपद्रुतश्रियाम् ।</l><l>कैदारिकाणामभितः समाकुलाः सहासमालोकयति स्म गोपिकाः ॥ ४२ ॥</l></lg><lg n="12.43">
<l>व्येद्धुमस्मानवधानतः पुरा चलत्यसवित्युपकर्णयन्नसौ ।</l><l>गीतानि गोप्याः कलमं मृगव्रजो न नूनमत्तीति हरिव्यलोकयत् ॥ ४३ ॥</l></lg><lg n="12.44">
<l>लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटिनिनादकोमलः ।</l><l>शौरेरुपानूपमापाहरन्मनः स्वनान्तरादुन्मदसारसारवः ॥ ४४ ॥</l></lg><lg n="12.45">
<l>उच्चैर्गतामस्खलितां गरीयसीं तदातिदूरादपि तस्य गच्छतः ।</l><l>एके समूहुर्बलरेणुसंहतिं शिरोभिराज्ञामपरे महीभृतः ॥ ४५ ॥</l></lg><lg n="12.46">
<l>प्रायेण नीचानपि मेदिनीभृतो जनः समेनैव पथाधिरोहति ।</l><l>सेना मुरारेः पथ एव सा पुनर्महामहीध्रान्परितो ऽध्यरोहयत् ॥ ४६ ॥</l></lg><lg n="12.47">
<l>दन्ताग्रनिर्भिन्नपयोदमुन्मुखाः शिलोच्चयानारुरुहुर्महीयसः ।</l><l>तिर्यक्कटप्लाविमदाम्बुनिम्नगाविपूर्यमाणश्रवणोदरमं द्विपाः ॥ ४७ ॥</l></lg><lg n="12.48">
<l>श्च्योतमन्मदाम्भकणकेन केनचिज्जनस्य जीमूतकदम्बकद्युता ।</l><l>नगेन गरीयसोच्चकैररोधि पन्थाः पृथुदन्तशालिना ॥ ४८ ॥</l></lg><lg n="12.49">
<l>भग्नद्रुमाश्चक्रुरितस्ततो दिशः समुल्लसत्केतननाकुलाः ।</l><l>पिष्टाद्रिपृष्ठास्तरसा च दन्तिनश्चलन्निजाङ्गाचलदुर्गमा भुवः ॥ ४९ ॥</l></lg><lg n="12.50">
<l>आलोकयामास हरिर्महीधरानधिश्रयन्तीर्गजताः परःशताः ।</l><l>उत्पातवातप्रतिकूलपातिनीरुपत्यकाभ्यो बृहतीः शिला इव ॥ ५० ॥</l></lg><lg n="12.51">
<l>शैलाधिरोहाब्यसनाधिकोद्धुरैः पयोधरैरामलकीवनाश्रिताः ।</l><l>तं पर्वतीयप्रमदाश्चचायिरे विकासविस्फारितविभ्रमेक्षणाः ॥ ५१ ॥</l></lg><lg n="12.52">
<l>सावज्ञमुन्मील्य विलोचने सकृत्क्षणं मृजेन्द्रेण सुषुप्सुना पुनः ।</l><l>सैन्यान्न यातः समयापि विव्यथे कथं सुराजंभवमन्मथाथवा ॥ ५२ ॥</l></lg><lg n="12.53">
<l>उत्सेधनिर्धूतमहीरुहां ध्वजैर्जनावरुद्धोद्धतसिन्धुरंहसाम् ।</l><l>नागैरधिक्षिप्तमहाशिलं मुहुर्बलं बभूवोपरि तन्महीभृताम् ॥ ५३ ॥</l></lg><lg n="12.54">
<l>श्मश्रूयमाणे मघुजालके तरोर्गजेन गण्डं कषता विधूनिते ।</l><l>क्षुद्राभिरक्षुद्रतराभिराकुलं विदश्यमानेन जनेन दुद्रुवे ॥ ५४ ॥</l></lg><lg n="12.55">
<l>नीते पलाशिन्युचिते शरीरवत्गजान्तकेनान्तमदान्तकर्मणा ।</l><l>संचेरुरात्मान इवापरं क्षणात्क्षमारुहं देहमिव प्लवंगमाः ॥ ५५ ॥</l></lg><lg n="12.56">
<l>प्रह्वानतीव क्वचिदुद्धतिश्रितः क्वचित्प्रकाशानथ गह्वरनापि ।</l><l>साम्यादपेतानिति वाहिनी हरेस्तदातिचक्राम गिरीन्गुरूनपि ॥ ५६ ॥</l></lg><lg n="12.57">
<l>स व्याप्तवत्या परितो ऽपथान्यपि स्वसेनया सर्वपथीनया तया ।</l><l>अम्भोभिरुल्लङ्घित तुङ्गरोधसः प्रतीपनाम्नीः कुरुते स्म निम्नगाः ॥ ५७ ॥</l></lg><lg n="12.58">
<l>यावद्व्यगाहन्त न दन्तिनां घटास्तुरङ्गमैस्तावदुदीरितं खुरैः ।</l><l>क्षिप्तं समीरैः सरितां पुरः पतज्जलान्यनैषीद्रज एव पङ्कताम् ॥ ५८ ॥</l></lg><lg n="12.59">
<l>रन्तुं क्षतोत्तुङ्गनितम्बभूमयो मुहुर्व्रजन्तः प्रमदं मदोद्धताः ।</l><l>पङ्गं करापाकृतशैवलांशुकाः समुद्रगाणामुदपादयन्निभाः ॥ ५९ ॥</l></lg><lg n="12.60">
<l>रुग्णोरुरोधः परिपूरिताम्भसः समस्थलीकृत्य पुरातनीर्नदीः ।</l><l>कूलंकषौघाः सरितस्थापराः प्रवर्तयामासुरिभा मदाम्बुभिः ॥ ६० ॥</l></lg><lg n="12.61">
<l>पद्मैरनन्वीतवधूमुखद्युतो गताः न हंसैः श्रियमातपत्रजाम् ।</l><l>दूरे ऽभवन्भोजवलयस्य गच्छतः शैलोपमातीतगजस्य निम्नगाः ॥ ६१ ॥</l></lg><lg n="12.62">
<l>स्नग्धाञ्जनश्यामतनूभिरुन्नतैर्निरन्तराला करिणां कदम्बकैः ।</l><l>सेना सुधाक्षालितसौधसंपदां पुरां बहूनां परभागमाप सा ॥ ६२ ॥</l></lg><lg n="12.63">
<l>प्रासदशोभातिशयालुभिः पथि प्रभोनिवासाः पटवेश्मभिर्बभुः ।</l><l>नूनं सहानेन वियोगविक्लवा पुरः पुरश्रीरपि निर्ययौ तदा ॥ ६३ ॥</l></lg><lg n="12.64">
<l>वर्ष्म द्विपानां विरुवन्त उच्चकैर्वनेचरेभ्यश्चिरमाचचक्षिरे ।</l><l>गण्डस्थलाघर्षगलन्मदोदकद्रवद्रमस्कन्धनिलायिनो ऽलयः ॥ ६४ ॥</l></lg><lg n="12.65">
<l>आयामवद्भिः करिणां घटाशतैरधःकृताट्टालसपङ्क्तिरुच्चकैः ।</l><l>दूष्यैर्जितोदग्रगृहाणि सा चमूरतीत्य भूयांसि पुराण्यवर्तत ॥ ६५ ॥</l></lg><lg n="12.66">
<l>उद्धूतमुच्चैर्ध्वजिनाभिरंशुभिः प्रतप्तमभ्यर्णतयाविवस्वतः ।</l><l>आह्लादिकह्लारसमीरणाहते पुरः पपाताम्भसि यमुने रजः ॥ ६६ ॥</l></lg><lg n="12.67">
<l>या घर्मभानोस्तनयापि शीतलैः स्वसा यमस्यापि जनस्य जीवनैः ।</l><l>कृष्णापि शुद्धेरधिकं विधातृभिर्विहन्तुमहांसि जलैः पटीयसी ॥ ६७ ॥</l></lg><lg n="12.68">
<l>यस्या महानीलतटीरिव द्रुताः प्रयान्ति पीत्वा हिमपिण्डपाण्डुराः ।</l><l>कालीरपास्ताभिरिवानुरञ्जिताः क्षणेन भिन्नाञ्जनवर्ता घनाः ॥ ६८ ॥</l></lg><lg n="12.69">
<l>व्यक्तं बलीयान् यदि हेतुरागमादपूरयत्सा जलधिं न जाह्नवी ।</l><l>गङ्गौघनिर्भस्मितशम्भुकन्धरासवर्णमर्णः कथमन्यथास्य तत् ॥ ६९ ॥</l></lg><lg n="12.70">
<l>अभ्युद्यतस्य क्रमितुं जवेन गां तमालनीला गिरां धृतायतिः ।</l><l>सीमेव सा तस्य पुरः क्षणं बभौ बलाम्बुराशेर्महतो महापगा ॥ ७० ॥</l></lg><lg n="12.71">
<l>लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः ।</l><l>नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥ ७१ ॥</l></lg><lg n="12.72">
<l>तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे ।</l><l>सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥ ७२ ॥</l></lg><lg n="12.73">
<l>प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि ।</l><l>उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥ ७३ ॥</l></lg><lg n="12.74">
<l>तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् ।</l><l>शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥ ७४ ॥</l></lg><lg n="12.75">
<l>सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः ।</l><l>सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥ ७५ ॥</l></lg><lg n="12.76">
<l>अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः ।</l><l>नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥ ७६ ॥</l></lg><lg n="12.77">
<l>विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैरलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः ।</l><l>सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलस्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥ ७७ ॥</l></lg><lg n="13.1">
<l>यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते ।</l><l>स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥ १ ॥</l></lg><lg n="13.2">
<l>यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।</l><l>सहसा ततः स सहितो ऽनुजन्मभिर्वसुधाधिपो ऽभिमुखमस्यनिर्ययौ ॥ २ ॥</l></lg><lg n="13.3">
<l>रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।</l><l>समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥ ३ ॥</l></lg><lg n="13.4">
<l>अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः ।</l><l>जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥ ४ ॥</l></lg><lg n="13.5">
<l>द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।</l><l>ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥ ५ ॥</l></lg><lg n="13.6">
<l>व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।</l><l>ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥ ६ ॥</l></lg><lg n="13.7">
<l>अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।</l><l>अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥ ७ ॥</l></lg><lg n="13.8">
<l>वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।</l><l>भुवनैर्नतो ऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥ ८ ॥</l></lg><lg n="13.9">
<l>मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् ।</l><l>क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥ ९ ॥</l></lg><lg n="13.10">
<l>न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः ।</l><l>भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितो ऽभिषस्वजे ॥ १० ॥</l></lg><lg n="13.11">
<l>गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजम् ।</l><l>कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥ ११ ॥</l></lg><lg n="13.12">
<l>शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।</l><l>यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥ १२ ॥</l></lg><lg n="13.13">
<l>सुखवेदनाहृषितरोमकूपया शिथिलीकृते ऽपि वसुदेवजन्मनि ।</l><l>कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥ १३ ॥</l></lg><lg n="13.14">
<l>इतरानपि क्षितिभुजो ऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।</l><l>स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभो ऽसभाजयत् ॥ १४ ॥</l></lg><lg n="13.15">
<l>समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।</l><l>परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥ १५ ॥</l></lg><lg n="13.16">
<l>इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।</l><l>परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥ १६ ॥</l></lg><lg n="13.17">
<l>रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।</l><l>दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगम् ॥ १७ ॥</l></lg><lg n="13.18">
<l>अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।</l><l>अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥ १८ ॥</l></lg><lg n="13.19">
<l>रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।</l><l>अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥ १९ ॥</l></lg><lg n="13.20">
<l>शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति ।</l><l>पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकम् ॥ २० ॥</l></lg><lg n="13.21">
<l>विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।</l><l>यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणम् ॥ २१ ॥</l></lg><lg n="13.22">
<l>पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।</l><l>दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥ २२ ॥</l></lg><lg n="13.23">
<l>वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।</l><l>विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥ २३ ॥</l></lg><lg n="13.24">
<l>मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः ।</l><l>उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥ २४ ॥</l></lg><lg n="13.25">
<l>गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।</l><l>प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥ २५ ॥</l></lg><lg n="13.26">
<l>मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।</l><l>उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥ २६ ॥</l></lg><lg n="13.27">
<l>प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।</l><l>रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥ २७ ॥</l></lg><lg n="13.28">
<l>असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरम् ।</l><l>पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥ २८ ॥</l></lg><lg n="13.29">
<l>तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।</l><l>प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥ २९ ॥</l></lg><lg n="13.30">
<l>अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।</l><l>अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥ ३० ॥</l></lg><lg n="13.31">
<l>अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।</l><l>दधिरे ऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ॥ ३१ ॥</l></lg><lg n="13.32">
<l>रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।</l><l>परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥ ३२ ॥</l></lg><lg n="13.33">
<l>व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।</l><l>द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धताम् ॥ ३३ ॥</l></lg><lg n="13.34">
<l>व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।</l><l>भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥ ३४ ॥</l></lg><lg n="13.35">
<l>अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया ।</l><l>वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलम् ॥ ३५ ॥</l></lg><lg n="13.36">
<l>अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।</l><l>विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तत् ॥ ३६ ॥</l></lg><lg n="13.37">
<l>करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् ।</l><l>अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥ ३७ ॥</l></lg><lg n="13.38">
<l>हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।</l><l>अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥ ३८ ॥</l></lg><lg n="13.39">
<l>धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति ।</l><l>मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥ ३९ ॥</l></lg><lg n="13.40">
<l>विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।</l><l>मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥ ४० ॥</l></lg><lg n="13.41">
<l>अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।</l><l>अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयत् ॥ ४१ ॥</l></lg><lg n="13.42">
<l>परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।</l><l>सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयत् ॥ ४२ ॥</l></lg><lg n="13.43">
<l>नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।</l><l>स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ॥ ४३ ॥</l></lg><lg n="13.44">
<l>वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुरोमराजिना ।</l><l>हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥ ४४ ॥</l></lg><lg n="13.45">
<l>निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।</l><l>अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥ ४५ ॥</l></lg><lg n="13.46">
<l>अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।</l><l>न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥ ४६ ॥</l></lg><lg n="13.47">
<l>अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।</l><l>गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥ ४७ ॥</l></lg><lg n="13.48">
<l>अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।</l><l>अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥ ४८ ॥</l></lg><lg n="13.49">
<l>नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः ।</l><l>प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयो ऽथ हरिणातिपेतिरे ॥ ४९ ॥</l></lg><lg n="13.50">
<l>उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।</l><l>विदधे ऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स ताम् ॥ ५० ॥</l></lg><lg n="13.51">
<l>अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ ।</l><l>पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥ ५१ ॥</l></lg><lg n="13.52">
<l>लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।</l><l>जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ॥ ५२ ॥</l></lg><lg n="13.53">
<l>विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।</l><l>गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥ ५३ ॥</l></lg><lg n="13.54">
<l>निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः ।</l><l>मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ॥ ५४ ॥</l></lg><lg n="13.55">
<l>सुखिनः पुरो ऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।</l><l>नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥ ५५ ॥</l></lg><lg n="13.56">
<l>तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनाम् ।</l><l>रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥ ५६ ॥</l></lg><lg n="13.57">
<l>विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।</l><l>यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिम् ॥ ५७ ॥</l></lg><lg n="13.58">
<l>उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पयोमुचः ।</l><l>अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥ ५८ ॥</l></lg><lg n="13.59">
<l>नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।</l><l>अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥ ५९ ॥</l></lg><lg n="13.60">
<l>हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।</l><l>उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥ ६० ॥</l></lg><lg n="13.61">
<l>अभितः सदो ऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।</l><l>अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ ६१ ॥</l></lg><lg n="13.62">
<l>तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।</l><l>धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥ ६२ ॥</l></lg><lg n="13.63">
<l>नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।</l><l>गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥ ६३ ॥</l></lg><lg n="13.64">
<l>उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवाम् ।</l><l>रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥ ६४ ॥</l></lg><lg n="13.65">
<l>सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।</l><l>यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुम् ॥ ६५ ॥</l></lg><lg n="13.66">
<l>अनवद्यवाद्यलयगामि कोमलं नवगीतमप्यनवगीततां दधत् ।</l><l>स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥ ६६ ॥</l></lg><lg n="13.67">
<l>सकले च तत्र गृहमागते हरौ नगरे ऽप्यकालमहमादिदेश सः ।</l><l>सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥ ६७ ॥</l></lg><lg n="13.68">
<l>हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च ।</l><l>महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥ ६८ ॥</l></lg><lg n="13.69">
<l>मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधत् ।</l><l>श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ॥ ६९ ॥</l></lg><lg n="14.1">
<l>तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा ।</l><l>यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥ १ ॥</l></lg><lg n="14.2">
<l>लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका ।</l><l>व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥ २ ॥</l></lg><lg n="14.3">
<l>तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः ।</l><l>अस्ति न स्तुतिवचो ऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥ ३ ॥</l></lg><lg n="14.4">
<l>बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः ।</l><l>सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥ ४ ॥</l></lg><lg n="14.5">
<l>सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति ।</l><l>एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥ ५ ॥</l></lg><lg n="14.6">
<l>सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम ।</l><l>मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥ ६ ॥</l></lg><lg n="14.7">
<l>सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया ।</l><l>त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥ ७ ॥</l></lg><lg n="14.8">
<l>वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मे ऽधुना ।</l><l>को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥ ८ ॥</l></lg><lg n="14.9">
<l>स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् ।</l><l>तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥ ९ ॥</l></lg><lg n="14.10">
<l>पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि ।</l><l>सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥ १० ॥</l></lg><lg n="14.11">
<l>किं विधेयमनया विधीयतां त्वत्प्रसादजितयार्थसम्पदा ।</l><l>शाधि शासक जगत्त्रयस्य मामाश्रवो ऽस्मि भवतः सहानुजः ॥ ११ ॥</l></lg><lg n="14.12">
<l>तं वदन्तमिति विष्टरश्रवाः श्रावयन्नथ समस्तभूभृतः ।</l><l>व्याजहार दशनांशुमण्डलव्याजहार शबलं दधद्वपुः ॥ १२ ॥</l></lg><lg n="14.13">
<l>सादिताखिलनृपं महन्महः सम्प्रति स्वनयसंपदैव ते ।</l><l>किं परस्य स गुणः समश्नुते पथ्यवृत्तिरपि यद्यरोगिताम् ॥ १३ ॥</l></lg><lg n="14.14">
<l>तत्सुराज्ञि भवति स्थिते पुनः कः क्रतुं यजतु राजलक्षणम् ।</l><l>उद्धृतौ भवति कस्य वा भुवः श्रीवराहमपहाय योग्यता ॥ १४ ॥</l></lg><lg n="14.15">
<l>शासने ऽपि गुरुणि व्यवस्थितं कृत्यवस्तुषु नियुङ्क्ष्व कामतः ।</l><l>त्वत्प्रयोजनघनं धनञ्जयादन्य एव इति मां च मावगाः ॥ १५ ॥</l></lg><lg n="14.16">
<l>यस्तवेह सवने न भूपतिः कर्म कर्मकरवत्करिष्यति ।</l><l>तस्य नेष्यति वपुः कबन्धतां बन्धुरेव जगतां सुदर्शनः ॥ १६ ॥</l></lg><lg n="14.17">
<l>इत्युदीरितगिरं नृपस्त्वयि श्रेयसि स्थितवति स्थिरा मम ।</l><l>सर्वसम्पदिति शौरिमुक्तवानुद्वहन्मुदमुदस्थित क्रतौ ॥ १७ ॥</l></lg><lg n="14.18">
<l>आननेन शशिनः कलां दधद्दर्शनक्षयितकामविग्रहः ।</l><l>आप्लुतः स विमलैर्जलैरभूदष्टमूर्तिधरमूर्तिरष्टमी ॥ १८ ॥</l></lg><lg n="14.19">
<l>तस्य सांख्यपुरुषेण तुल्यतां बिभ्रतः स्वयमकुर्वतः क्रियाः ।</l><l>कर्तृता तदुपलम्भतो ऽभवद्वृत्तिभाजि करणे यथर्त्विजि ॥ १९ ॥</l></lg><lg n="14.20">
<l>शब्दितामनपशब्दमुच्चकैर्वाक्यलक्षणविदो ऽनुवाक्यया ।</l><l>याज्यया यजनकर्मिणो ऽत्यजन्द्रव्यजातमपदिश्य देवताम् ॥ २० ॥</l></lg><lg n="14.21">
<l>सप्तमभेदकरकल्पितस्वरं साम सामविदसङ्गमुज्जगौ ।</l><l>तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ २१ ॥</l></lg><lg n="14.22">
<l>बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।</l><l>शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ २२ ॥</l></lg><lg n="14.23">
<l>नाञ्ञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।</l><l>तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलः प्रयोगिणः ॥ २३ ॥</l></lg><lg n="14.24">
<l>संशयाय दधतोः सरूपता दूरभिन्नफलयोः क्रियां प्रति ।</l><l>शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥ २४ ॥</l></lg><lg n="14.25">
<l>लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।</l><l>प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥ २५ ॥</l></lg><lg n="14.26">
<l>तत्र मन्त्रपवितं हविः क्रतावश्नतो न वपुरेव केवलम् ।</l><l>वर्णसम्पदमतिस्फुटां दधन्नाम चोज्ज्वलमभूद्धविर्भुजः ॥ २६ ॥</l></lg><lg n="14.27">
<l>स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् ।</l><l>गन्धतो ऽपि हुतहव्यसम्भवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥</l></lg><lg n="14.28">
<l>उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदधःकृताम्बुदः ।</l><l>द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ २८ ॥</l></lg><lg n="14.29">
<l>निर्जिताखिलमहार्णवौषधिस्यन्दसारममृतं ववल्गिरे ।</l><l>नाकिनः कथमपि प्रतीक्षितुं हूयमानमनले विषेहिरे ॥ २९ ॥</l></lg><lg n="14.30">
<l>तत्र नित्यविहितोपहूतिषु प्रोषितेषु पतिषु द्युयोषिताम् ।</l><l>गुम्फिताः शिरसि वेणयो ऽभवन्न प्रफुल्लसुरपादपस्रजः ॥ ३० ॥</l></lg><lg n="14.31">
<l>प्राशुराशु हवनीयमत्र यत्तेन दीर्घममरत्वमध्यगुः ।</l><l>उद्धतानधिक मेधितौजसो दानवांश्च विबुधाः विजिग्यिरे ॥ ३१ ॥</l></lg><lg n="14.32">
<l>नापचारमगमन्क्कच्चित्क्रियाः सर्वमत्र समपादि साधनम् ।</l><l>अत्यशेरत परस्परं धियः सत्त्रिणां नरपतेश्चसंपदः ॥ ३२ ॥</l></lg><lg n="14.33">
<l>दक्षिणीयमवगम्य पङ्क्तिशः पङ्क्तिपावनमथ द्विजव्रजम् ।</l><l>दक्षिणः क्षितिपतिर्व्यशिश्रणद्दक्षिणाः सदसि राजसूयकीः ॥ ३३ ॥</l></lg><lg n="14.34">
<l>वारिपूर्वमखिलासु सत्क्रियालब्धशुद्धिषु धनानि बीजवत् ।</l><l>भावि बिभ्रति फलं महद्द्विजक्षेत्रभूमिषु नराधिपो ऽवपत् ॥ ३४ ॥</l></lg><lg n="14.35">
<l>किं नु चित्रमधिवेदि भूपतिर्दक्षयन्द्विजगणानपूयत ।</l><l>राजतः पुपुविरे निरेनसः प्राप्य ते ऽपि विमलं प्रतिग्रहम् ॥ ३५ ॥</l></lg><lg n="14.36">
<l>स स्वहस्तकृतचिह्नशासनः पाकशासनसमानशासनः ।</l><l>आशशाङ्कतपनार्णवस्थितोर्विप्रसादकृत भूयसीर्भुवः ॥ ३६ ॥</l></lg><lg n="14.37">
<l>शुद्धमश्रुतिविरोधि बिभ्रतं शास्त्रमुज्ज्वलवर्णसङ्करैः ।</l><l>पुस्तकैः सममसौ गणं मुहुर्वाच्यमानमशृणोद्द्विजन्मनाम् ॥ ३७ ॥</l></lg><lg n="14.38">
<l>तत्प्रणीतमनसामुपेयुषां द्रष्टुमाहवनमग्रजन्मनाम् ।</l><l>आतिथेयमनिवारितातिथिः कर्तुमाश्रमगुरुः स नाश्रमत् ॥ ३८ ॥</l></lg><lg n="14.39">
<l>मृग्यमाणमपि यद्दुरासदं भूरिसारमुपनीय तत्स्वयम् ।</l><l>आसतावसरकाङ्क्षिणो बहिस्तस्य रत्नमुपदीकृतं नृपाः ॥ ३९ ॥</l></lg><lg n="14.40">
<l>एक एव वसु यद्ददौ नृपस्तत्समापकमतर्क्यत क्रतोः ।</l><l>त्यागशालिनि तपःसुते ययुः सर्वपार्थिवधनान्यपि क्षयम् ॥ ४० ॥</l></lg><lg n="14.41">
<l>प्रीतिरस्य ददतो ऽभवत्तथा येन तत्प्रियचिकीर्षवो नृपाः ।</l><l>स्पर्शितैरधिकमागमन्मुदं नाधिवेश्म निहितैरुपायनैः ॥ ४१ ॥</l></lg><lg n="14.42">
<l>यं लघुन्यपि लघूकृताहितः शिष्यभूतमशिषत्स कर्मणि ।</l><l>सस्पृहं नृपतिभिर्नृपो ऽपरैर्गौरवेण ददृशेतरामसौ ॥ ४२ ॥</l></lg><lg n="14.43">
<l>आद्यकोलतुलितां प्रकम्पनैः कम्पितां मुहुरनीदृगात्मनि ।</l><l>वाचिरोपितवतामुना महीं राजकाय विषया विभेजिरे ॥ ४३ ॥</l></lg><lg n="14.44">
<l>आगताद्व्यवसितेन चेतसा सत्त्वसम्पदविकारिमानसः ।</l><l>तत्र नाभवदसौ महाहवे शात्रवादिव पराङ्मुखो ऽर्थिनः ॥ ४४ ॥</l></lg><lg n="14.45">
<l>नैक्षतार्थिनमवज्ञया मुहुर्याचितस्तु न च कालमाक्षिपत् ।</l><l>नादिताल्पमथ न व्यकत्थयद्दत्तमिष्टमपि नान्वशेत सः ॥ ४५ ॥</l></lg><lg n="14.46">
<l>निर्गुणो ऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरो ऽभवत् ।</l><l>वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ॥ ४६ ॥</l></lg><lg n="14.47">
<l>प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः ।</l><l>दित्सया तदपि पार्थिवो ऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ ४७ ॥</l></lg><lg n="14.48">
<l>दर्शनानुपदमेव कामतः स्वं वनीयकजने ऽधिगच्छति ।</l><l>प्रार्थनार्थरहितं तदाभवद्दीयतामिति वचो ऽतिसर्जने ॥ ४८ ॥</l></lg><lg n="14.49">
<l>नानवाप्तवसुनार्ऽथकाम्यता नाचिकित्सितगदेन रोगिणा ।</l><l>इच्छताशितुमनाशुषा न च प्रत्यगामि तदुपेयुषा सदः ॥ ४९ ॥</l></lg><lg n="14.50">
<l>स्वादयन्रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।</l><l>भावशुद्धिसहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ॥ ५० ॥</l></lg><lg n="14.51">
<l>रक्षितारमिति तत्र कर्मणि न्यस्य दुष्टदमनक्षमं हरिम् ।</l><l>अक्षतानि निरवर्तयत्तदा दानहोमयजनानि भूपतिः ॥ ५१ ॥</l></lg><lg n="14.52">
<l>एक एव सुसखैष सुन्वतां शौरिरित्यभिनयादिवोच्चकैः ।</l><l>यूपरूपकमनीनमद्भुजं भूश्चषालतुलिताङ्गुलीयकम् ॥ ५२ ॥</l></lg><lg n="14.53">
<l>इत्थमत्र विततक्रमे क्रतौ वीक्ष्य धर्ममथ घर्मजन्मना ।</l><l>अर्घदानमनुचोदितो वचः सभ्यमभ्यधित शन्तनोः सुतः ॥ ५३ ॥</l></lg><lg n="14.54">
<l>आत्मनैव गुणदोषकोविदः किं न वेत्सि करणीयवस्तुषु ।</l><l>यत्तथापि न गुरून्नपृच्छसि त्वं क्रमो ऽयमिति तत्र कारणम् ॥ ५४ ॥</l></lg><lg n="14.55">
<l>स्नातकं गुरुमभीष्टमृत्विजं संयुजा च सह मेदिनीपतिम् ।</l><l>अर्घभाज इति कीर्तयन्ति षट् ते च ते युगपदागताः सदः ॥ ५५ ॥</l></lg><lg n="14.56">
<l>शोभयन्ति परितः प्रतापिनो मन्त्रशक्तिविनिवारितापदः ।</l><l>त्वन्मखमुखभुवः स्वयम्भुवो भूभुजश्च परलोकजिष्णवः ॥ ५६ ॥</l></lg><lg n="14.57">
<l>आभजन्ति गुणिनः पृथक्पृथक्पार्थ सत्कृतिमकृत्रिमाममी ।</l><l>एक एव गुणवत्तमो ऽथवापूज्य इत्ययमपीष्यते विधिः ॥ ५७ ॥</l></lg><lg n="14.58">
<l>अत्र चैष सकले ऽपिभाति मां प्रत्यशेषगुणबन्धुरर्हति ।</l><l>भूमिदेवनरदेवसङ्गमे पूर्वदेवरिपुरर्हणां हरिः ॥ ५८ ॥</l></lg><lg n="14.59">
<l>मर्त्यमात्रमवदीधरद्भवान्मैनमानमितदैत्यदानवम् ।</l><l>अंश एष जनतातिवर्तिनो वेधसः प्रतिजनं कृतस्थितेः ॥ ५९ ॥</l></lg><lg n="14.60">
<l>ध्येयमेकमपथे स्थितं धियः स्तुत्यमुत्तममतीतवाक्पथम् ।</l><l>आमनन्ति यमुपास्यमादराद् दूरवर्तिनमतीव योगिनः ॥ ६० ॥</l></lg><lg n="14.61">
<l>पद्मभूरिति सृजञ्जगद्रजः सत्वमच्युत इति स्थितिं नयन् ।</l><l>संहरन्हर इति श्रितस्तमस्रैधमेष भजति त्रिभिर्गुणैः ॥ ६१ ॥</l></lg><lg n="14.62">
<l>सर्ववेदिनमनादिमास्थितं देहिनामनुजिघृक्षया वपुः ।</l><l>क्लेशकर्मफलभोगवर्जितं पुंविशेषममुमीश्वरंविदुः ॥ ६२ ॥</l></lg><lg n="14.63">
<l>भक्तिमन्त इह भक्तवत्सले सन्ततस्मरणरीणकल्मषाः ।</l><l>यान्ति निर्वहणमस्य संसृतिक्लेशनाटकविडम्बनाविधेः ॥ ६३ ॥</l></lg><lg n="14.64">
<l>ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसा ।</l><l>दुर्गमेकमपुनर्निवृत्तये यं विशन्ति वशिनं मुमुक्षवः ॥ ६४ ॥</l></lg><lg n="14.65">
<l>आदितामजननाय देहिनामन्ततां च दधते ऽनपायिने ।</l><l>बिभ्रते भुवमधः सदाथ च ब्रह्मणो ऽप्युपरि तिष्ठते नमः ॥ ६५ ॥</l></lg><lg n="14.66">
<l>केवलं दधति कर्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।</l><l>धातवः सृजतिसंहृशास्तयः स्तौतिरत्र विपरीतकारकः ॥ ६६ ॥</l></lg><lg n="14.67">
<l>पूर्वमेष किल सृष्टवानपस्तासु वीर्यमनिवार्यमादधौ ।</l><l>तच्च कारणमभूद्धिरण्मयं ब्रह्मणो ऽसृजदसाविदं जगत् ॥ ६७ ॥</l></lg><lg n="14.68">
<l>मत्कुणाविव पुरा परिप्लवौ सिन्धुनाथशयने निषेदुषः ।</l><l>गच्छतः स्म मधुकैटभौ विभोर्यस्य नैद्रसुखविघ्नतां क्षणम् ॥ ६८ ॥</l></lg><lg n="14.69">
<l>श्रौतमार्गसुखगानकोविदब्रह्मषट्चरणगर्भमुज्ज्वलम् ।</l><l>श्रीमुखेन्दुसविधे ऽपि शोभते यस्य नाभिसरसीसरोरुहम् ॥ ६९ ॥</l></lg><lg n="14.70">
<l>सत्यवृत्तमपि मायिनं जगद्वृद्धमप्युचितनिद्रमर्भकम् ।</l><l>जन्म बिभ्रतमजं नवं बुधा यं पुराणपुरुषं प्रचक्षते ॥ ७० ॥</l></lg><lg n="14.71">
<l>स्कन्धधूननविसारिकेसरक्षिप्तसागरमहाप्लवामयम् ।</l><l>उद्धृतामिव मुहूर्तमैक्षत स्थूलनासिकवपुर्वसुन्धराम् ॥ ७१ ॥</l></lg><lg n="14.72">
<l>दिव्यकेसरिवपुः सुरद्विषो नैव लब्धशममायुधैरपि ।</l><l>दुर्निवाररणकण्डु कोमलैर्वक्ष एष निरदारयन्नखैः ॥ ७२ ॥</l></lg><lg n="14.73">
<l>वारिधेरिव कराग्रवीचिभिर्दिङ्मतङ्गजमुखान्यभिघ्नतः ।</l><l>यस्य चारुनखशुक्तयः स्फुरन्मौक्तिकप्रकरगर्भतां दधुः ॥ ७३ ॥</l></lg><lg n="14.74">
<l>दीप्तिनिर्जितविरोचनादयं गां विरोचनसुतादभीप्सतः ।</l><l>आत्मभूरवरजाखिलप्रजः स्वर्पतेरवरजत्वमाययौ ॥ ७४ ॥</l></lg><lg n="14.75">
<l>किं क्रमिष्यति किलैष वामनो यावदित्थमहसन्न दानवाः ।</l><l>तावदस्य न ममौ नभस्तले लङ्घितार्कशशिमण्डलः क्रमः ॥ ७५ ॥</l></lg><lg n="14.76">
<l>गच्छतापि गगनाग्रमुच्चकैर्यस्य भूधरगरीयसाङ्घ्रिणा ।</l><l>क्रान्तकन्धर इवाबलो बलिः स्वर्गभर्तुरगमत्सुबन्धताम् ॥ ७६ ॥</l></lg><lg n="14.77">
<l>कामतो ऽस्य ददृशुर्दिवौकसो दूरमूरुमलिनीलमायतम् ।</l><l>व्योम्नि दिव्यसरिदम्बुपद्धतिस्पर्धयेव यमुनौघमुत्थितम् ॥ ७७ ॥</l></lg><lg n="14.78">
<l>यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः ।</l><l>कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥ ७८ ॥</l></lg><lg n="14.79">
<l>सम्प्रदायविगमादुपेयुषीरेव नाशमविनाशिविग्रहः ।</l><l>स्मर्तुमप्रतिहतस्मृतिः श्रुतीर्दत्त इत्यभवदत्रिगोत्रजः ॥ ७९ ॥</l></lg><lg n="14.80">
<l>रेणुकातनयतामुपागतः शातितप्रचुरपत्रसंहति ।</l><l>लूनभूरिभुजशाखमुज्झितच्छायमर्जुनवनं व्यधादयम् ॥ ८० ॥</l></lg><lg n="14.81">
<l>एष दाशरथिभूयमेत्य च ध्वंसितोद्धतदशाननामपि ।</l><l>राक्षसीमकृत रक्षितप्रजस्तेजसाधिकविभीषणां पुरीम् ॥ ८१ ॥</l></lg><lg n="14.82">
<l>निष्प्रहन्तुममरेशविद्विषामर्थितः स्वयमथ स्वयंभुवा ।</l><l>सम्प्रति श्रयति सूनुतामयं कश्यपस्य वसुदेवरूपिणः ॥ ८२ ॥</l></lg><lg n="14.83">
<l>तात नोदधिविलोडनं प्रति त्वद्विनाथ वयमुत्सहामहे ।</l><l>यः सुरैरिति सुरौघवल्लभो बल्लवैश्च जगदे जगत्पतिः ॥ ८३ ॥</l></lg><lg n="14.84">
<l>नात्तगन्धमवधूय शत्रुभिश्छायया च शमितामरश्रमम् ।</l><l>यो ऽभिमानमिव वृत्रविद्विषः पारिजातमुदमूलयद्दिवः ॥ ८४ ॥</l></lg><lg n="14.85">
<l>यं समेत्य च ललाटलेखया बिभ्रतः सपदि शंभुविभ्रमम् ।</l><l>चण्डमारुतमिव प्रदीपवच्चेदिपस्य निरवाद्विलोचनम् ॥ ८५ ॥</l></lg><lg n="14.86">
<l>यः कोलतां बल्लवतां च बिभ्रद्दंष्ट्रामुदस्याशु भुजां च गुर्वीम् ।</l><l>मग्नस्य तोयापदि दुस्तरायां गोमण्डलस्योद्धरणं चकार ॥ ८६ ॥</l></lg><lg n="14.87">
<l>धन्यो ऽसि यस्य हरिरेष समक्ष एव दूरादपि क्रतुषु यज्वभिरिज्यते यः ।</l><l>दत्वार्घमत्रभवते भुवनेषु यावत्संसारमण्डलमवाप्नुहि साधुवादम् ॥ ८७ ॥</l></lg><lg n="14.88">
<l>भीष्मोक्तं तदिति वचो निशम्य सम्यक् साम्राज्यश्रियमधिगच्छता नृपेण ।</l><l>दत्तेर्ऽधे महति महीभृतां पुरो ऽपि त्रैलोक्ये मधुभिदभूदनर्घ एव ॥ ८८ ॥</l></lg><lg n="15.1">
<l>अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः ।</l><l>मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥ १ ॥</l></lg><lg n="15.2">
<l>पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया ।</l><l>मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥ २ ॥</l></lg><lg n="15.3">
<l>अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् ।</l><l>लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥ ३ ॥</l></lg><lg n="15.4">
<l>स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः ।</l><l>स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥ ४ ॥</l></lg><lg n="15.5">
<l>स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः ।</l><l>क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥ ५ ॥</l></lg><lg n="15.6">
<l>क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः ।</l><l>स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥ ६ ॥</l></lg><lg n="15.7">
<l>कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् ।</l><l>क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥ ७ ॥</l></lg><lg n="15.8">
<l>कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा ।</l><l>क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥ ८ ॥</l></lg><lg n="15.9">
<l>अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे ।</l><l>दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥ ९ ॥</l></lg><lg n="15.10">
<l>करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् ।</l><l>त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥ १० ॥</l></lg><lg n="15.11">
<l>इति चक्रुधे भृशमनेन ननु महदवाप्य विप्रियम् ।</l><l>याति विकृतिमपि संवृतिमत्किमु यन्निसर्गनिरवग्रहं मनः ॥ ११ ॥</l></lg><lg n="15.12">
<l>प्रथमं शरीरजविकारकृतमुकुलबन्धमव्यथी ।</l><l>भाविकलहफलयोगमसौ वचनेन कोपकुसुमं व्यचीकसत् ॥ १२ ॥</l></lg><lg n="15.13">
<l>ध्वनयन्सभामथ सनीरघनरवगभीरवागभीः ।</l><l>वाचमवददतिरोषवशादतिनिष्ठुरस्फुटतराक्षरमसौ ॥ १३ ॥</l></lg><lg n="15.14">
<l>यदपूपुजस्त्वमिह पार्थ मुरजितमपूजितं सताम् ।</l><l>प्रेम विलसति महत्तदहो दयितं जनः खलु गुणीति मन्यते ॥ १४ ॥</l></lg><lg n="15.15">
<l>यदराज्ञि राजवदिहार्घ्यमुपहितमिदं मुरद्विषि ।</l><l>ग्राम्यमृग इव हविस्तदयं भजते ज्वलत्सु न महीशवह्निषु ॥ १५ ॥</l></lg><lg n="15.16">
<l>अनृतां गिरं न गदसीति जगति पटहैर्विघुष्यसे ।</l><l>निन्द्यमथ च हरिमर्चयतस्तव कर्मणैव विकसत्यसत्यता ॥ १६ ॥</l></lg><lg n="15.17">
<l>तव धर्मराज इति नाम कथमिदमपष्ठु पठ्यते ।</l><l>भौमदिनमभिदधत्यथवा भृशमप्रशस्तमपि मङ्गलं जनाः ॥ १७ ॥</l></lg><lg n="15.18">
<l>यदि वार्चनीयतम एष किमपि भवतां पृथासुताः ।</l><l>शौरिरवनिपतिभिर्निखिलैरवमाननार्थमिह किं निमन्त्रितैः ॥ १८ ॥</l></lg><lg n="15.19">
<l>अथवा न धर्ममसुबोधसमयमवयात बालिशाः ।</l><l>खाममयमिह वृथापालितो हतबुद्धिरप्रणिहितः सरित्सुतः ॥ १९ ॥</l></lg><lg n="15.20">
<l>स्वयमेव शन्तनुतनूज यमपि गणमर्घ्यमभ्यधाः ।</l><l>तत्र मुररिपुरयं कतमो यमनिन्द्यबन्दिवदभिष्टुषे वृथा ॥ २० ॥</l></lg><lg n="15.21">
<l>अवनीभृतां त्वमपहाय गणमतिजडः समुन्नतम् ।</l><l>नीचि नियतमिह यच्चपलो निरतः स्फुटं भवसि निम्नगासुतः ॥ २१ ॥</l></lg><lg n="15.22">
<l>प्रतिपत्तुमङ्ग घटते च न तव नृपयोग्यमर्हणम् ।</l><l>कृष्ण कलय ननु को ऽहमिति स्फुटमापदां पदमनात्मवेदिता ॥ २२ ॥</l></lg><lg n="15.23">
<l>असुरस्त्वया न्यवधि को ऽपि मधुरिति कथं प्रतीयते ।</l><l>दण्डदलितसरघः प्रथसे मधुसूदनस्त्वमिति सूदयन्मधु ॥ २३ ॥</l></lg><lg n="15.24">
<l>मुचुकुन्दतल्पशरणस्य मगधपतिशातितौजसः ।</l><l>सिद्धमबल सबलत्वमहो तव रोहिणीततनयसाहचर्यतः ॥ २४ ॥</l></lg><lg n="15.25">
<l>छलयन्प्रजास्त्वमनृतेन कपटपटुरैन्द्रजालिकः ।</l><l>प्रीतिमनुभवसि नग्नजितः सुतयेष्टसत्य इति सम्प्रतीयसे ॥ २५ ॥</l></lg><lg n="15.26">
<l>धृतवान्न चक्रमरिचक्रभयचकितमाहवे निजम् ।</l><l>चक्रधर इति रथाङ्गमदः सततं बिभर्षि भुवनेषु रूढये ॥ २६ ॥</l></lg><lg n="15.27">
<l>जगति श्रिया विरहितो ऽपि यदुदधिसुतामुपायथाः ।</l><l>ज्ञातिजनजनितनामपदां त्वमतः श्रियः पतिरिति प्रथामगाः ॥ २७ ॥</l></lg><lg n="15.28">
<l>अभिशत्रु संयति कदाचिदविहितपराक्रमो ऽपि यत् ।</l><l>व्योम्नि कथमपि चकर्थ पदं व्यपदिश्यते जगति विक्रमीत्यतः ॥ २८ ॥</l></lg><lg n="15.29">
<l>पृथिवीं बिभर्थ यदि पूर्वमिदमपि गुणाय वर्तते ।</l><l>भूमिभृदिति परहारितभूस्त्वमुदाह्रियस्व कथमन्यथा जनैः ॥ २९ ॥</l></lg><lg n="15.30">
<l>तव धन्यतेयमपि सर्वनृपतितुलितो ऽपि यत्क्षणम् ।</l><l>क्लान्तकरतलधृताचलकः पृथिवीतले तुलितभूभृदुच्यसे ॥ ३० ॥</l></lg><lg n="15.31">
<l>त्वमशक्नुवन्न शुभकर्मनिरतः परिपाकदारुणम् ।</l><l>जेतुमकुशलमतिर्नरकं यशसे ऽधिलोकमजयः सुतं भुवः ॥ ३१ ॥</l></lg><lg n="15.32">
<l>सकलैर्वपुः सकलदोषसमुदितमिदं गुणैस्तव ।</l><l>त्यक्तमपगुण गुणस्त्रितयत्यजनप्रयासमुपयासि किं मुधा ॥ ३२ ॥</l></lg><lg n="15.33">
<l>त्वयि पूजनं जगति जाल्म कृतमिदमपाकृते गुणैः ।</l><l>हासकरमघटते नितरां शिरसीव कङ्कतमपेतमूर्धजे ॥ ३३ ॥</l></lg><lg n="15.34">
<l>मृगविद्विषामिव यदित्थमजनि मिषतां पृथासुतैः ।</l><l>अस्य वनशुन इवापचितिः परिभाव एव भवतां भुवो ऽधिपाः ॥ ३४ ॥</l></lg><lg n="15.35">
<l>अवधीज्जनङ्गम इवैष यदि हतवृषो वृषं ननु ।</l><l>स्पर्शमशुचिवपुरर्हति न प्रतिमाननां तु नितरां नृपोचिताम् ॥ ३५ ॥</l></lg><lg n="15.36">
<l>यदि नाङ्गनेति मतिरस्य मृदुरजनि पूतनां प्रति ।</l><l>स्तन्यमघृणमनसः पिबतः किल धर्मतो भवति सा जनन्यपि ॥ ३६ ॥</l></lg><lg n="15.37">
<l>शकटव्युदासतरुभङ्गधरणिधरधारणादिकम् ।</l><l>कर्म यदयमकरोत्तरलः स्थिरचेतसां क इव तेन विस्मयः ॥ ३७ ॥</l></lg><lg n="15.38">
<l>अयमुग्रसेनतनयस्य नृपशुरपरः पशूनवन् ।</l><l>स्वमिवधमसुकरं पुरुषैः कुरुते स्म यत्परममेतदद्भुतम् ॥ ३८ ॥</l></lg><lg n="15.39">
<l>इतिवाचमुद्धतमुदीर्य सपदि सह वेणुदारिणा ।</l><l>सोढरिपुबलभरो ऽसहनः स जहास दत्तकरतालमुच्चकैः ॥ ३९ ॥</l></lg><lg n="15.40">
<l>कटुनापि चैद्यवचनेन विकृतिमगमन्न माधवः ।</l><l>सत्यनियतवचसं वचसा सुजनं जनाश्चलयितुं क ईशते ॥ ४० ॥</l></lg><lg n="15.41">
<l>न चतं तदेति शपमानमपि यदुनृपाः प्रचुक्रुधुः ।</l><l>शौरिसमयनिगृहीतधियः प्रभुचित्तमेव हि जनो ऽनुवर्तते ॥ ४१ ॥</l></lg><lg n="15.42">
<l>विहितागसो मुहुरसङ्घ्यनिजवचनदामसंयतः ।</l><l>तस्य कतिथ इति तत्प्रथमं मनसा समाख्यदपराधमच्युतः ॥ ४२ ॥</l></lg><lg n="15.43">
<l>स्मृतिवर्त्म तस्य न समस्तमपकृतमियाय विद्विषः ।</l><l>स्मर्तुमधिगतगुणस्मरणाः पटवो न दोषमखिलं खलूत्तमाः ॥ ४३ ॥</l></lg><lg n="15.44">
<l>नृपतावधिक्षिपति शौरिमथ सुरसरित्सुतो वचः ।</l><l>स्माह चलयति भुवं मरुति क्षुभितस्य नादमनुकुर्वदम्बुधेः ॥ ४४ ॥</l></lg><lg n="15.45">
<l>अथ गौरवेण परिवादमपरिगणयंस्तमात्मनः ।</l><l>प्राह मुररिपुतिरस्करणक्षुभितः स्म वाचमिति जाह्नवीसुतः ॥ ४५ ॥</l></lg><lg n="15.46">
<l>विहितं मयाद्य सदसीदमपमृषितमच्युतार्चनम् ।</l><l>यस्य नमयतु स चापमयं चरणः कृतः शिरसि सर्वभूभृताम् ॥ ४६ ॥</l></lg><lg n="15.47">
<l>इतिभीष्मभाषितवचोर्ऽथमधिगतवतामिव क्षणात् ।</l><l>क्षोभमगमदतिमात्रमथो शिशुपालपक्षपृथिवीभृतां गणः ॥ ४७ ॥</l></lg><lg n="15.48">
<l>शितितारकानुमितताम्रनयनमरुणीकृतं क्रुधा ।</l><l>बाणवदनमुददीपि भिये जगतः सकीलमिव सूर्यमण्डलम् ॥ ४८ ॥</l></lg><lg n="15.49">
<l>प्रविदारितारुणतरोग्रनयनकुसुमोज्ज्वलः स्फुरन् ।</l><l>प्रातरहिमकरताम्रतनुर्विषजद्रुमो ऽपर इवाभवद्द्रुमः ॥ ४९ ॥</l></lg><lg n="15.50">
<l>अनिशान्तवैरदहनेन विरहितवतान्तरार्द्रताम् ।</l><l>कोपमरुदभिहितेन भृशं नरकात्मजेन तरुणेव जज्वले ॥ ५० ॥</l></lg><lg n="15.51">
<l>अभिधित्सतः किमपि राहुवदनविकृतं व्यभाव्यत ।</l><l>ग्रस्तशशधरमिवोपलसत्सितदन्तपङ्क्ति मुखमुत्तमौजसः ॥ ५१ ॥</l></lg><lg n="15.52">
<l>कुपिताकृतिं प्रथममेव हसितमशनैरसूचयत् ।</l><l>क्रुद्धमशनिदलिताद्रितटध्वनि दन्तवक्रमरिचक्रभीषणम् ॥ ५२ ॥</l></lg><lg n="15.53">
<l>प्रतिघः कुतो ऽपि समुपेत्य नरपतिगणं समाश्रयत् ।</l><l>जामिहरणजनितानुशयः समुदाचचार निज एव रुक्मिणः ॥ ५३ ॥</l></lg><lg n="15.54">
<l>चरणेन हन्ति सुबलः स्म शिथिलितमहीध्रबन्धनाम् ।</l><l>तीरतरलजलराशिजलामवभुग्नभोगिफणमण्डलां भुवम् ॥ ५४ ॥</l></lg><lg n="15.55">
<l>कुपितेषु राजषु तथापि रथचरणपाणिपूजया ।</l><l>चित्तकलितकलहागमनो मुदमाहुकिः सुहृदिवाधिकां दधौ ॥ ५५ ॥</l></lg><lg n="15.56">
<l>गुरुकोपरुद्धपदमापदसितयवनस्य रोद्रताम् ।</l><l>व्यात्तमशितुमिव सर्वजगद्विकरालमास्यकुहरं विवक्षतः ॥ ५६ ॥</l></lg><lg n="15.57">
<l>विवृतोरुबाहुपरिघेण सरभसपदं निधित्सता ।</l><l>हन्तुमखिलनृपतीन्वसुना वसने विलम्बिनि निजे विचस्खले ॥ ५७ ॥</l></lg><lg n="15.58">
<l>इति तत्तदा विकृतरूपमभजत्तदविभिन्नचेतसम् ।</l><l>मारबलमिव भयङ्करतां हरिबोधिसत्वमभि राजमण्डलम् ॥ ५८ ॥</l></lg><lg n="15.59">
<l>रमसादुदस्थुरथ युद्धमनुचितभियो ऽभिलाषुकाः ।</l><l>सान्द्रमुकुटकिरणोच्छलितस्फटिकांशवः सदसि मेदिनीभृतः ॥ ५९ ॥</l></lg><lg n="15.60">
<l>स्फुरमाणनेत्रकुसुमोष्ठदलमभृतभूभृदङ्घ्रिपैः ।</l><l>धूतपृथुभुजलतं चलितैर्द्रुतवातपातवनविभ्रमं सदः ॥ ६० ॥</l></lg><lg n="15.61">
<l>हरिमप्यमंसत तृणाय कुरुपतिमजीगणन्न वा ।</l><l>मानतुलितभुवनत्रितयाः सरितः सुतादबिभयुर्नभूभृतः ॥ ६१ ॥</l></lg><lg n="15.62">
<l>गुरुनिःश्वसन्नथ विलोलसदवथुवपुर्वचोविषम् ।</l><l>कीर्णदशनकिरणाग्निकणः फणवानिवैष विससर्ज चेदिपः ॥ ६२ ॥</l></lg><lg n="15.63">
<l>किमहो नृपाः समममीभिरुपपतिसुतैर्न पञ्चभिः ।</l><l>वध्यमभिहत भुजिष्यममुं सह चानया स्थविरराजकन्यया ॥ ६३ ॥</l></lg><lg n="15.64">
<l>अथवाध्वमेव खलु यूयमगणितमरुद्गणौजसः ।</l><l>वस्तु कियदिदमयं न मृधे मम केवलमस्य मुखमीक्षितुं क्षमः ॥ ६४ ॥</l></lg><lg n="15.65">
<l>विदतुर्यमुत्तमशेषपरिषदि नदीजधर्मजौ ।</l><l>यातु निकषमधियुद्धमसौ वचनेन किं भवतु साध्वसाधु वा ॥ ६५ ॥</l></lg><lg n="15.66">
<l>अचिरान्मया सह गतस्य समरमुरगारिलक्ष्मणः ।</l><l>तीक्ष्णविशिखमुखपीतमसृक्पततां गणैः पिबतु सार्धमुर्वरा ॥ ६६ ॥</l></lg><lg n="15.67">
<l>अभिधाय रूक्षमिति मा स्म गम इति पृथासुतेरिताम् ।</l><l>वाचमनुनयपरां स ततः सहसावकर्ण्य निरियाय संसदः ॥ ६७ ॥</l></lg><lg n="15.68">
<l>गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः ।</l><l>क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ॥ ६८ ॥</l></lg><lg n="15.69">
<l>चलितं ततो ऽनभिहतेच्छमवनिपतियज्ञभूमितः ।</l><l>तूर्णमथ ययुमिवानुययुर्दमघोषसूनुमवनीशसूनवः ॥ ६९ ॥</l></lg><lg n="15.70">
<l>विशिखान्तराण्यतिपपात सपदि जवनैः स वाजिभिः ।</l><l>द्रष्टुमलघुरभसापातिता वनिताश्चकार न सकामचेतसः ॥ ७० ॥</l></lg><lg n="15.71">
<l>क्षणमीक्षतः पथि जनेन किमिदमिति जल्पता मिथः ।</l><l>प्राप्य शिबिरमविशङ्किमनाः समनीनहद्द्रुतमनीकिनीमसौ ॥ ७१ ॥</l></lg><lg n="15.72">
<l>त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः ।</l><l>शैलकटकतटभिन्नरवः प्रणनाद सांनहनिको ऽस्य वारिजः ॥ ७२ ॥</l></lg><lg n="15.73">
<l>जगदन्तकालसमवेतविषदविषमेरितारवम् ।</l><l>धीरनिजरवविलीनगुरुप्रतिशब्दमस्य रणतूर्यमावधि ॥ ७३ ॥</l></lg><lg n="15.74">
<l>सहसा ससभ्रमविलोलसकलजनतासमाकुलम् ।</l><l>स्थानमगमदथ तत्परितश्चलितोडुमण्डलनभःस्थलोपमाम् ॥ ७४ ॥</l></lg><lg n="15.75">
<l>दधतो भयानकतरत्वमुपगतवतः समानताम् ।</l><l>धूमपटलपिहितस्य गिरेः समवर्मयन्सपदि मेदिनीभृतः ॥ ७५ ॥</l></lg><lg n="15.76">
<l>परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।</l><l>वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥</l></lg><lg n="15.77">
<l>रणसंमदोदयविकासिबलकलकलाकुलीकृते ।</l><l>शारिमशकधिरोपयितुं द्विरदे मदच्युति जनः कथञ्चन ॥ ७७ ॥</l></lg><lg n="15.78">
<l>परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।</l><l>तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः ॥ ७८ ॥</l></lg><lg n="15.79">
<l>प्रधिमण्डलोद्धतपरागघनवलयमध्यवर्तिनः ।</l><l>पेतुरशनाय इवाशनकैर्गुरुनिःस्वनव्यथितजन्तवो रथाः ॥ ७९ ॥</l></lg><lg n="15.80">
<l>दधतः शशाङ्कितशशाङ्करुचि लसदुरश्छदं वपुः ।</l><l>चक्रुरथ सह पुरन्धिजनैरयथार्थसिद्धिं सरकं महीभृतः ॥ ८० ॥</l></lg><lg n="15.81">
<l>दयिताय सासवमुदस्तमपतदवसादिनः करात् ।</l><l>कांस्यमुपहितसरोजपतद्भ्रमरौघभारगुरु राजयोषितः ॥ ८१ ॥</l></lg><lg n="15.82">
<l>भृशमङ्गसादकरुणत्वमविशददृशः कपोलयोः ।</l><l>वाक्यमसकलमपास्य मदं विदधुस्तदीयगुणमात्मना शुचः ॥ ८२ ॥</l></lg><lg n="15.83">
<l>सुदृशः समीकगमनाय युवभिरथ संबभाषिरे ।</l><l>शोकपिहितगलरुद्धगिरस्तरसागताश्रुजलकेवलोत्तराः ॥ ८३ ॥</l></lg><lg n="15.84">
<l>विपुलाचलस्थलघनेन जिगमिषुभिरङ्गनाः प्रियैः ।</l><l>पीनकुचतटनिपीडदलद्वरवारबाणमुरसालिलिङ्गिरे ॥ ८४ ॥</l></lg><lg n="15.85">
<l>न मुमोच लोचनजलानि दयितजयमङ्गलैषिणि ।</l><l>यातमवनिभवसन्नभुजान्न गलद्विवेद वलयं विलासिनी ॥ ८५ ॥</l></lg><lg n="15.86">
<l>प्रविवत्सतः प्रियतमस्य निगडमिव चक्षुरक्षिपत् ।</l><l>नीलनलिनदलदामरुचि प्रतिपादयुग्ममचिरोढसुन्दरी ॥ ८६ ॥</l></lg><lg n="15.87">
<l>व्रजतः क्व तात वजसीति परिचयगतार्थमस्फुटम् ।</l><l>धैर्यमभिनदुदितं शिशुना जननीनिर्भत्सनविवृद्धमन्युना ॥ ८७ ॥</l></lg><lg n="15.88">
<l>शठ नाकलोकललनाभिरविरतरतं रिरंससे ।</l><l>तेन वहसि मुदमित्यवदद्रणरागिणं रमणमीर्ष्ययापरा ॥ ८८ ॥</l></lg><lg n="15.89">
<l>ध्रियमाणमप्यगलदश्रु चलति दयिते नतभ्रुवः ।</l><l>स्नेहमकृतकरसं दधतामिदमेव युक्तमतिमुग्धचेतसाम् ॥ ८९ ॥</l></lg><lg n="15.90">
<l>सह कज्जलेन विरराज नयनकमलाम्बुसन्ततिः ।</l><l>गण्डफलकमभितः सुतनोः पदवीव शोकमयकृष्णवर्त्मनः ॥ ९० ॥</l></lg><lg n="15.91">
<l>क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः ।</l><l>स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥ ९१ ॥</l></lg><lg n="15.92">
<l>अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका ।</l><l>भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥ ९२ ॥</l></lg><lg n="15.93">
<l>समरोन्मुखे नृपगणे ऽपि तदनुमरणोद्यतैकधीः ।</l><l>दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥ ९३ ॥</l></lg><lg n="15.94">
<l>विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः ।</l><l>यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥ ९४ ॥</l></lg><lg n="15.95">
<l>सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता ।</l><l>सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥ ९५ ॥</l></lg><lg n="15.96">
<l>काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीर् अश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः ।</l><l>भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥ ९६ ॥</l></lg><lg n="16.1">
<l>दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।</l><l>उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥ १ ॥</l></lg><lg n="16.2">
<l>अभिधाय तदा तदप्रियं शिशुपालो ऽनुशयं परं गतः ।</l><l>भवतो ऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २ ॥</l></lg><lg n="16.3">
<l>विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।</l><l>प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ ३ ॥</l></lg><lg n="16.4">
<l>प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।</l><l>तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ ४ ॥</l></lg><lg n="16.5">
<l>अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।</l><l>तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥ ५ ॥</l></lg><lg n="16.6">
<l>जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।</l><l>तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ ६ ॥</l></lg><lg n="16.7">
<l>अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।</l><l>विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥ ७ ॥</l></lg><lg n="16.8">
<l>कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरके ऽपि संप्रति ।</l><l>प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८ ॥</l></lg><lg n="16.9">
<l>विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।</l><l>भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ ९ ॥</l></lg><lg n="16.10">
<l>घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।</l><l>नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ १० ॥</l></lg><lg n="16.11">
<l>सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।</l><l>रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥</l></lg><lg n="16.12">
<l>विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।</l><l>यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १२ ॥</l></lg><lg n="16.13">
<l>चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।</l><l>समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥</l></lg><lg n="16.14">
<l>समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।</l><l>सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ १४ ॥</l></lg><lg n="16.15">
<l>विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।</l><l>असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १५ ॥</l></lg><lg n="16.16">
<l>इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।</l><l>वदति स्म वचो ऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥ १६ ॥</l></lg><lg n="16.17">
<l>मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।</l><l>सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥</l></lg><lg n="16.18">
<l>अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।</l><l>वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८ ॥</l></lg><lg n="16.19">
<l>प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।</l><l>शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥ १९ ॥</l></lg><lg n="16.20">
<l>हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव को ऽत्र मत्सरः ।</l><l>न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २० ॥</l></lg><lg n="16.21">
<l>सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।</l><l>सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥ २१ ॥</l></lg><lg n="16.22">
<l>उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।</l><l>असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २२ ॥</l></lg><lg n="16.23">
<l>परितप्यत एव नोत्तमः परितप्तो ऽप्यपरः सुसंवृतिः ।</l><l>परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयो ऽधमः ॥ २३ ॥</l></lg><lg n="16.24">
<l>अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।</l><l>खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ २४ ॥</l></lg><lg n="16.25">
<l>प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।</l><l>अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥</l></lg><lg n="16.26">
<l>जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।</l><l>विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ २६ ॥</l></lg><lg n="16.27">
<l>वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।</l><l>किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ २७ ॥</l></lg><lg n="16.28">
<l>परितोषयिता न कश्चन स्वगतो यस्य गुणो ऽस्ति देहिनः ।</l><l>परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥</l></lg><lg n="16.29">
<l>सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।</l><l>स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ २९ ॥</l></lg><lg n="16.30">
<l>प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।</l><l>विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३० ॥</l></lg><lg n="16.31">
<l>किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।</l><l>वदिता न लघीयसो ऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ ३१ ॥</l></lg><lg n="16.32">
<l>विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।</l><l>दधतो ऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ ३२ ॥</l></lg><lg n="16.33">
<l>नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।</l><l>द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥</l></lg><lg n="16.34">
<l>समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।</l><l>हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥ ३४ ॥</l></lg><lg n="16.35">
<l>महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।</l><l>कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ३५ ॥</l></lg><lg n="16.36">
<l>यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् ।</l><l>अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ ३६ ॥</l></lg><lg n="16.37">
<l>यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।</l><l>विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ ३७ ॥</l></lg><lg n="16.38">
<l>निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।</l><l>पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥ ३८ ॥</l></lg><lg n="16.39">
<l>विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।</l><l>यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥</l></lg><lg n="16.40">
<l>विदुरेष्यदपायमात्मना परतः श्रद्दधते ऽथवा बुधाः ।</l><l>न परोपहितं न च स्वतः प्रमिमीते ऽनुभवादृते ऽल्पधीः ॥ ४० ॥</l></lg><lg n="16.41">
<l>कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।</l><l>उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ॥</l></lg><lg n="16.42">
<l>उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।</l><l>प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥</l></lg><lg n="16.43">
<l>अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।</l><l>रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥</l></lg><lg n="16.44">
<l>अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।</l><l>अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥ ४४ ॥</l></lg><lg n="16.45">
<l>त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।</l><l>प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ ४५ ॥</l></lg><lg n="16.46">
<l>क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।</l><l>शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ ४६ ॥</l></lg><lg n="16.47">
<l>अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।</l><l>सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥</l></lg><lg n="16.48">
<l>अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।</l><l>हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ ४८ ॥</l></lg><lg n="16.49">
<l>गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।</l><l>जनको ऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥</l></lg><lg n="16.50">
<l>अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।</l><l>तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ ५० ॥</l></lg><lg n="16.51">
<l>क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।</l><l>प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ ५१ ॥</l></lg><lg n="16.52">
<l>प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।</l><l>न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ॥</l></lg><lg n="16.53">
<l>तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।</l><l>अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥ ५३ ॥</l></lg><lg n="16.54">
<l>परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।</l><l>तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४ ॥</l></lg><lg n="16.55">
<l>न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।</l><l>भजते कुपितो ऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥ ५५ ॥</l></lg><lg n="16.56">
<l>हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।</l><l>अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥ ५६ ॥</l></lg><lg n="16.57">
<l>प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।</l><l>ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ ५७ ॥</l></lg><lg n="16.58">
<l>अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।</l><l>क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥ ५८ ॥</l></lg><lg n="16.59">
<l>निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।</l><l>न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥ ५९ ॥</l></lg><lg n="16.60">
<l>न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।</l><l>द्रवतां ननु पृष्ठमीक्षते वदनं सो ऽपि न जातु विद्विषाम् ॥ ६० ॥</l></lg><lg n="16.61">
<l>प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।</l><l>दधते ऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ॥</l></lg><lg n="16.62">
<l>मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।</l><l>नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥ ६२ ॥</l></lg><lg n="16.63">
<l>समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।</l><l>धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥</l></lg><lg n="16.64">
<l>तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।</l><l>कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥</l></lg><lg n="16.65">
<l>दधतो ऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।</l><l>भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥ ६५ ॥</l></lg><lg n="16.66">
<l>अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।</l><l>यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥</l></lg><lg n="16.67">
<l>चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः ।</l><l>अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥ ६७ ॥</l></lg><lg n="16.68">
<l>न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।</l><l>चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥ ६८ ॥</l></lg><lg n="16.69">
<l>स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।</l><l>बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ ६९ ॥</l></lg><lg n="16.70">
<l>अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।</l><l>युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ ७० ॥</l></lg><lg n="16.71">
<l>भूतभूतिरहीनभोगभाग्विजितानेकपुरो ऽपि विद्विषाम् ।</l><l>रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ ७१ ॥</l></lg><lg n="16.72">
<l>नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।</l><l>गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥</l></lg><lg n="16.73">
<l>अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।</l><l>खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ ७३ ॥</l></lg><lg n="16.74">
<l>घनपत्रभृतो ऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।</l><l>दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥</l></lg><lg n="16.75">
<l>इति पूर इवोदकस्य यः सरितां प्रावृषिजस् तटद्रुमैः ।</l><l>क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ ७५ ॥</l></lg><lg n="16.76">
<l>अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।</l><l>अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ ७६ ॥</l></lg><lg n="16.77">
<l>कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।</l><l>नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ ७७ ॥</l></lg><lg n="16.78">
<l>इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।</l><l>स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ ७८ ॥</l></lg><lg n="16.79">
<l>महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।</l><l>अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ ७९ ॥</l></lg><lg n="16.80">
<l>परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।</l><l>न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ ८० ॥</l></lg><lg n="16.81">
<l>यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।</l><l>तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥ ८१ ॥</l></lg><lg n="16.82">
<l>भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वये ऽपि ।</l><l>कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ ८२ ॥</l></lg><lg n="16.83">
<l>लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।</l><l>लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ ८३ ॥</l></lg><lg n="16.84">
<l>विच्छित्तिर्नवचन्दनेन वपुषो भिन्नो ऽधरो ऽलक्तकैर् अच्छाच्छे पतिताञ्जने च नयने श्रोण्यो ऽलसन्मेखलाः ।</l><l>प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषाम् इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥ ८४ ॥</l></lg><lg n="16.85">
<l>विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।</l><l>रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यते ऽसौ ॥ ८५ ॥</l></lg><lg n="17.1">
<l>इतीरिते वचसि वचस्विनामुना युगक्षयक्षुभितमरुद्गरीयसि ।</l><l>प्रचक्षुभे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः ॥ १ ॥</l></lg><lg n="17.2">
<l>सरागया स्रुतघनघर्मतोयया कराहतिध्वनितपृथूरुपीठया ।</l><l>मुहुर्मुहुर्दशनविखण्डितोष्ठया रुषा नृपाः प्रियतमयेव भेजिरे ॥ २ ॥</l></lg><lg n="17.3">
<l>अलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि ।</l><l>समुल्लसच्छकलितपाटलोपलैः स्फुलिङ्गवान्स्फुटमिव कोपपावकः ॥ ३ ॥</l></lg><lg n="17.4">
<l>अवज्ञया यदहसदुच्चकैर्बलः समुल्लसद्दशनमयूखमण्डलः ।</l><l>रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरयन्निजां रुचिम् ॥ ४ ॥</l></lg><lg n="17.5">
<l>यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः ।</l><l>बृहच्छिलातलकठिनांसघट्टितं ततो ऽभवद्भ्रमितामिवाखिलं सदः ॥ ५ ॥</l></lg><lg n="17.6">
<l>प्रकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः ।</l><l>युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमस्विदत् ॥ ६ ॥</l></lg><lg n="17.7">
<l>प्रजापतिक्रतुनिधनार्थमुत्थितंव्यतर्कयज्ज्वरमिव रौद्रमुद्धतम् ।</l><l>समुद्यतं सपदि वधाय विद्विषामतिक्रुधं निषधमनौषधं जनः ॥ ७ ॥</l></lg><lg n="17.8">
<l>परस्परं परिकुपितस्य पिंषतः क्षतोर्मिकाकनकपरागपङ्किलम् ।</l><l>करद्वयं सपदि सुधन्वनो निजैरनारतस्रुतिभिरधाव्यताम्बुभिः ॥ ८ ॥</l></lg><lg n="17.9">
<l>निरायतामनलशिखोज्ज्वलां ज्वलन्नखप्रभाकृतपरिवेषसंपदं ।</l><l>अविभ्रमद्भ्रमदनलोल्मुकाकृतिं प्रदेशिनीं जगदिव दग्धुमाहुकिः ॥ ९ ॥</l></lg><lg n="17.10">
<l>दुरीक्षतामभजत मन्मथस्तथा यथा पुरा परिचितदाहधार्ष्ट्याया ।</l><l>ध्रुवं पुरः सशरममुं तृतीयया हरो ऽपि न व्यसहत वीक्षितुं दृशा ॥ १० ॥</l></lg><lg n="17.11">
<l>विचिन्तयन्नुपनतमाहवं रसादुरः स्फुरत्तनुरुहमग्रपाणिना ।</l><l>परामृशत्कठिनकठोरकामिनीकुचस्थलप्रमुषितचन्दनं पृथुः ॥ ११ ॥</l></lg><lg n="17.12">
<l>विलङ्घितस्थितिमभिवीक्ष्य रुक्षया रिपोर्गिरागुरुमपि गान्दिनीसुतम् ।</l><l>जनैस्तदा युगपरिवर्तवायुभिर्विवर्तिता गिरिपतयः प्रतीयिरे ॥ १२ ॥</l></lg><lg n="17.13">
<l>विवर्तयन्मदकलुषीकृते दृशौ कराहतक्षितिकृतभैरवावरवः ।</l><l>क्रुधा दधत्तनुमतिलोहिनीमभूत्प्रसेनजिद्गज इव गैरिकारुणः ॥ १३ ॥</l></lg><lg n="17.14">
<l>सकुङ्कुमैरविरलमम्बुबिन्दुभिर्गवेषणः परिणतदाडिमारुणैः ।</l><l>स मत्सरस्फुटितवपुर्विनिःसृतैर्बभौ चिरं निचित इवासृजां लवैः ॥ १४ ॥</l></lg><lg n="17.15">
<l>ससंभ्रमं चरणतलाभिताडनस्फुटन्महीविवरवितीर्णवर्त्मभिः ।</l><l>रवेः करैरनुचिततापितोरगं प्रकाशतां शिनिरनयद्रसातलम् ॥ १५ ॥</l></lg><lg n="17.16">
<l>प्रतिक्षणं विधुवति शारणे शिरः शिखिद्युतः कनककिरीटरश्मयः ।</l><l>अशङ्कितं युधमधुना विशन्त्वमी क्षमापतीनिति निरराजयन्निव ॥ १६ ॥</l></lg><lg n="17.17">
<l>दधौ चलत्पृथुरसनं विवक्षया विदारितं विततबृहद्भुजालतः ।</l><l>विदूरथः प्रतिभयमास्यकन्दरं चलत्फणाधरमिव कोटरं तरुः ॥ १७ ॥</l></lg><lg n="17.18">
<l>समाकुले सदसि तथापि विक्रियां मनो ऽगमन्न मुरभिदः परोदितैः ।</l><l>घनाम्बुभिर्बहुलितनिम्नगाजलैर्जलं न हि व्रजति विकारमम्बुधेः ॥ १८ ॥</l></lg><lg n="17.19">
<l>परानमी यदपवदन्त आत्मनः स्तुवन्ति च स्थितिरसतामसाविति ।</l><l>निनाय नो विकृतिमविस्मितः स्मितं मुखं शरच्छशधरमुग्धमुद्धवः ॥ १९ ॥</l></lg><lg n="17.20">
<l>निराकृते यदुभिरिति प्रकोपिभिः स्पशे शनैर्गतवति तत्र विद्विषाम् ।</l><l>मुरद्विषः स्वनितभयानकानकं बलं क्षणादथ समनह्यताजये ॥ २० ॥</l></lg><lg n="17.21">
<l>मुहुः प्रतिस्खलितपरायुधा युधि स्थवीयसीरचलनितम्बनिर्भराः ।</l><l>अदंशयन्नरहितशौर्यदंशनास्तनूरयं नय इति वृष्णिभूभृतः ॥ २१ ॥</l></lg><lg n="17.22">
<l>दुरुद्वहाः क्षणमपरैस्तदन्तरे रणश्रवादुपचयमाशु बिभ्रति ।</l><l>महीभुजां महिमभृतां न संममुर्मुदो ऽन्तरावपुषि बहिश्च कञ्चुकाः ॥ २२ ॥</l></lg><lg n="17.23">
<l>संकल्पं द्विरदगणं वरूथिनस्तुरङ्गिणो जयनयुजश्च वाजिनः ।</l><l>त्वरायुजः स्वयमपि कुर्वतो नृपाः पुनः पुनस्तदधिकृतानतत्वरन् ॥ २३ ॥</l></lg><lg n="17.24">
<l>युधे परैः सह दृढबद्धकक्षया कलक्वणन्मधुपकुलोपगीतया ।</l><l>अदीयत द्विपघटया सवारिभिः करोदरैः स्वयमथ दानमक्षयम् ॥ २४ ॥</l></lg><lg n="17.25">
<l>सुमेखलाः सिततरदन्तचारवः समुल्लसत्तनुपरिधानसंपदः ।</l><l>रणैषिणां पुलकभृतो ऽधिकन्धरं ललम्बिरे सदसिलताः प्रिया इव ॥ २५ ॥</l></lg><lg n="17.26">
<l>मनोहरैः प्रकृतिमनोरमाकृतिर्भयप्रदैः समितिषु भीमदर्शनः ।</l><l>सदैवतैः सततमथानपायिभिर्निजाङ्गवन्मुरजिदसेव्यतायुधैः ॥ २६ ॥</l></lg><lg n="17.27">
<l>अवारितं गतमुभयेषु भूरिशः क्षमाभृतामथ कटकान्तरेष्वपि ।</l><l>मुहुर्युधि क्षतसुरशत्रुशोणितप्लुतप्रधिं रथमधिरोहति स्म सः ॥ २७ ॥</l></lg><lg n="17.28">
<l>उपेत्यच स्वनगुरुपक्षमारुतं दिवस्त्विषा कपिशितदूरदिङ्मुखः ।</l><l>प्रकम्पितस्थिरतरयष्टि तत्क्षणं पतत्पतिः पदमधिकेतनं दधौ ॥ २८ ॥</l></lg><lg n="17.29">
<l>गभीरताविजितमृदङ्गनादया स्वनश्रिया हतरिपुहंसहर्षया ।</l><l>प्रमोदयन्नथ मुखरान्कलापिनः प्रतिष्ठते नवघनवद्रथः स्म सः ॥ २९ ॥</l></lg><lg n="17.30">
<l>निरन्तरस्थगितदिगन्तरं ततः समुच्चलद्बलमवलोकयञ्जनः ।</l><l>विकौतुकः प्रकृतमहाप्लवे ऽभवद्विशृङ्खलं प्रचलितसिन्धुवारिणि ॥ ३० ॥</l></lg><lg n="17.31">
<l>बबृंहिरे गजपतयो महानकाः प्रदध्वनुर्जयतुरगा जिहेषिरे ।</l><l>असंभवद्गिरिवरगह्वरैरभूत्तदा रवैर्दलित इव स्व आश्रयः ॥ ३१ ॥</l></lg><lg n="17.32">
<l>अनारतं रसति जयाय दुन्दुभौ मधुद्विषः फलदलघुप्रतिस्वनैः ।</l><l>विनिष्पतन्मृगपतिभिर्गुहामुखैर्गताः परां मुदमहसन्निवाद्रयः ॥ ३२ ॥</l></lg><lg n="17.33">
<l>जडीकृतश्रवणपथे दिवौकसां चमूरवे विशति सुराद्रिकन्दराः ।</l><l>अनर्थकैरजनि विदग्धकामिनीरतान्तरक्वणितविलासकौशलैः ॥ ३३ ॥</l></lg><lg n="17.34">
<l>अरातिभिर्युधि सहयुध्वनो हताञ्जिघृक्षवः श्रुतरणतूर्यनिःस्वनाः ।</l><l>अकुर्वत प्रथमसमागमोचितं चिरोज्झितं सुरगणिकाः प्रसाधनम् ॥ ३४ ॥</l></lg><lg n="17.35">
<l>प्रचोदिताः परिचितयन्तृकर्मभिर्निषादिभिर्विदितयताङ्कुशक्रियैः ।</l><l>गजाः सकृत्करतललोलनालिकाहता मुहुः प्रणदितघण्डमाययुः ॥ ३५ ॥</l></lg><lg n="17.36">
<l>सविक्रमक्रमणचलैरितस्ततः प्रकीर्णकैः क्षिपत इव क्षिते रजः ।</l><l>व्यरंसिषुर्न खलु जनस्य दृष्टयस्तुरङ्गमादभिनवभाण्डभारिणः ॥ ३६ ॥</l></lg><lg n="17.37">
<l>चलाङ्गुलीकिसलयमुद्धतैः करैरनृत्यत स्फुटकृतकर्णतालया ।</l><l>मदोदकद्रवकटभित्तिसङ्गिभिः कलस्वरं मधुपगणैरगीयत ॥ ३७ ॥</l></lg><lg n="17.38">
<l>असिच्यत प्रशमितपांशुभिर्मही मदाम्बुभिर्धृतनवपूर्णकुम्भया ।</l><l>अवाद्यत श्रवणसुखं समुन्नमत्पयोधरध्वनिगुरु तूर्यमाननैः ॥ ३८ ॥</l></lg><lg n="17.39">
<l>उदासिरे पवनविधूतवाससस्ततस्ततो गगनलिहश्च केतवः ।</l><l>यतः पुरः प्रतिरिपु शार्ङ्गिणः स्वयं व्यधीयत द्विपघटयेति मङ्गलम् ॥ ३९ ॥</l></lg><lg n="17.40">
<l>न शून्यतामगमदसौ निवेशभूः प्रभूततां दधति बले चलत्यपि ।</l><l>पयस्यभिद्रवति भुवं युगावधौ सरित्पतिर्न हि समुपैति रिक्तताम् ॥ ४० ॥</l></lg><lg n="17.41">
<l>यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् ।</l><l>पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥ ४१ ॥</l></lg><lg n="17.42">
<l>मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः ।</l><l>यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥ ४२ ॥</l></lg><lg n="17.43">
<l>यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः ।</l><l>तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥ ४३ ॥</l></lg><lg n="17.44">
<l>प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता ।</l><l>व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥ ४४ ॥</l></lg><lg n="17.45">
<l>क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना ।</l><l>भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥ ४५ ॥</l></lg><lg n="17.46">
<l>पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः ।</l><l>समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥ ४६ ॥</l></lg><lg n="17.47">
<l>ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् ।</l><l>विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥ ४७ ॥</l></lg><lg n="17.48">
<l>भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः ।</l><l>मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥ ४८ ॥</l></lg><lg n="17.49">
<l>ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः ।</l><l>यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥ ४९ ॥</l></lg><lg n="17.50">
<l>हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः ।</l><l>विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥ ५० ॥</l></lg><lg n="17.51">
<l>उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः ।</l><l>निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥ ५१ ॥</l></lg><lg n="17.52">
<l>अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति ।</l><l>वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥ ५२ ॥</l></lg><lg n="17.53">
<l>विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः ।</l><l>चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥ ५३ ॥</l></lg><lg n="17.54">
<l>गरीयसः प्रचुरमुखस्य रागिणो रजो ऽभवद्व्यवहितसत्वमुत्कटम् ।</l><l>सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥ ५४ ॥</l></lg><lg n="17.55">
<l>पुरा शरक्षतिजनितानि संयुगे नयन्ति नः प्रसभमसृञ्जि पङ्कताम् ।</l><l>इति ध्रुवं व्यलगिषुरात्तभीतयः खमुच्चकैरनलसखस्य केतवः ॥ ५५ ॥</l></lg><lg n="17.56">
<l>क्वचिल्लसद्घननिकुरम्बकर्बुरः क्वचिद्धिरण्मयकणपुञ्जपिञ्जरः ।</l><l>क्वचिच्छरच्छशधरखण्डपाण्डुरः खुरक्षतक्षितितलरेणुरुद्ययौ ॥ ५६ ॥</l></lg><lg n="17.57">
<l>महीयसा महति दिगन्तदन्तिनामनीकजे रजसि मुखानुषङ्गिणि ।</l><l>विसारितामजिहत कोकिलावलीमलीमसा जलदमदाम्बुराजयः ॥ ५७ ॥</l></lg><lg n="17.58">
<l>शिरोरुहैरलिकुलकोमलैरमी मुधा मृधे मृषत युवान एव मा ।</l><l>बलोद्धतं धवलितमूर्धजानिति ध्रुवं जनाञ्जरत इवाकरोद्रजः ॥ ५८ ॥</l></lg><lg n="17.59">
<l>सुसंहतैर्दधदपि धाम नीयते तिरस्कृतिं बहुभिरसंशयं परैः ।</l><l>यतः क्षितेरवयवसंपदो ऽणवस्त्विषां निधेरपि वपुरावरीषत ॥ ५९ ॥</l></lg><lg n="17.60">
<l>द्रुतद्रवद्रथचरणक्षतक्षमातलोल्लसद्बहुलरजो ऽवगुण्ठितम् ।</l><l>युगक्षयक्षणनिरवग्रहे जगत्पयोनिधेर्जल इव मग्नमाबभौ ॥ ६० ॥</l></lg><lg n="17.61">
<l>समुल्लसद्दिनकरवक्त्रकान्तयो रजस्वलाः परिमलिताम्बरश्रियः ।</l><l>दिगङ्गनाः क्षणमविलोकनक्षमाः शरीरिणां परिहरणीयतां ययुः ॥ ६१ ॥</l></lg><lg n="17.62">
<l>निरीक्षितुं वियति समेत्यकौतुकात्पराक्रमं समरमुखे महीभृताम् ।</l><l>रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ॥ ६२ ॥</l></lg><lg n="17.63">
<l>विषङ्गिणि प्रतिपदमापिबत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।</l><l>शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥ ६३ ॥</l></lg><lg n="17.64">
<l>नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।</l><l>चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः ॥ ६४ ॥</l></lg><lg n="17.65">
<l>गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।</l><l>नभस्तलं भहुलतरेण रेणुना ततो ऽगमत्त्रिजगदिवैकतां स्फुटम् ॥ ६५ ॥</l></lg><lg n="17.66">
<l>समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः ।</l><l>रहस्त्रपाविधुरवघूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ ६६ ॥</l></lg><lg n="17.67">
<l>गते मुखच्छदपटसादृशीं दृशः पथस्थिरो दधति घने रजस्यपि ।</l><l>मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥ ६७ ॥</l></lg><lg n="17.68">
<l>मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः ।</l><l>उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८ ॥</l></lg><lg n="17.69">
<l>अन्यूनोन्नतयो ऽतिमात्रपृथवः पृथ्वीधरश्रीभृतः स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।</l><l>वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥ ६९ ॥</l></lg><lg n="18.1">
<l>सञ्जग्माते तावपायनपेक्षौ सेनाम्भोधी धीरनादौ रयेण ।</l><l>पक्षच्छेदात्पूर्वमेकत्र देशे वाञ्छन्तौ वा विन्ध्यसह्यौ निलेतुम् ॥ १ ॥</l></lg><lg n="18.2">
<l>पत्तिः पत्तिं वाहमेयाय वाजी नागं नागः स्यन्दनस्थो रथस्थम् ।</l><l>इत्थं सेना वल्लभस्येव रागादङ्गेनाङ्गं प्रत्यनीकस्य भेजे ॥ २ ॥</l></lg><lg n="18.3">
<l>रथ्याघोषैर्बृंहणैर्वारणानामैक्यं गच्छन्वाजिनां ह्रेषया च ।</l><l>व्योमव्यापी सन्ततं दुन्दुभीनामव्यक्तो ऽभूदीशितेव प्रणादः ॥ ३ ॥</l></lg><lg n="18.4">
<l>रोषावेशाद्गच्छतां प्रत्यमित्रं दूरोत्क्षिप्तस्थूलबाहुध्वजानाम् ।</l><l>दीर्घास्तिर्यग्वैजयन्तीसदृश्यः पादातानां भ्रेजिरे खड्गलेखाः ॥ ४ ॥</l></lg><lg n="18.5">
<l>वर्ध्राबद्धा धौरितेन प्रयातामश्वीयानामुच्चकैरुच्चलन्तः ।</l><l>रौक्मा रेजुः स्थासका मूर्तिभाजो दर्पस्येव व्याप्तदेहस्यशेषाः ॥ ५ ॥</l></lg><lg n="18.6">
<l>सान्द्रत्वक्कास्तल्पलाश्लिष्टकक्षा आङ्गीं शोभामाप्नुवन्तश्चतुर्थीम् ।</l><l>कल्पस्यान्ते मारुतेनोपनुन्नाश्चेलुश्चण्डं गण्डशैला इवेभाः ॥ ६ ॥</l></lg><lg n="18.7">
<l>संक्रीडन्ती तेजिताश्वस्य रागादुद्यम्यारामग्रकायोत्थितस्य ।</l><l>रंहोभाजामक्षधूः स्यन्दनानां हाहाकारं प्राजितुः प्रत्यनन्दत् ॥ ७ ॥</l></lg><lg n="18.8">
<l>कुर्वाणानां साम्परायान्तरायं भूरेणूनां मृत्युना मार्जनाय ।</l><l>सम्मार्जन्यो नूनमुद्धूयमाना भान्ति स्मोच्चैः केतनानां पताका ॥ ८ ॥</l></lg><lg n="18.9">
<l>उद्यन्नादं धन्विभिर्निष्ठुराणि स्थूलान्युच्चैर्मण्डलत्वं दधन्ति ।</l><l>आस्फाल्यन्ते कार्मुकाणि स्म कामं हस्त्यारोहैः कुञ्जराणां शिरांसि ॥ ९ ॥</l></lg><lg n="18.10">
<l>घण्डानादो निस्वनो डिण्डिमानां ग्रैवेयाणामारवो बृंहितानि ।</l><l>आमेतीव प्रत्यवोचन् गजानामुत्साहार्थं वाचमाधोरणस्य ॥ १० ॥</l></lg><lg n="18.11">
<l>यातैश्चातुर्विध्यमस्त्रादिभेदादव्यासङ्गैः सौष्ठवाल्लाघवाच्च ।</l><l>शिक्षाशक्तिं प्राहरन्दर्शयन्तो मुक्तामुक्तैरायुधैरायुधीयाः ॥ ११ ॥</l></lg><lg n="18.12">
<l>रोषावेशादाभिमुख्येन कौचित्पाणिग्राहं रंहसैवोपयातौ ।</l><l>हित्वा हेतीर्मल्लवन्मुष्टिघातं घ्नन्तौ बाहूबाहवि व्यासृजेताम् ॥ १२ ॥</l></lg><lg n="18.13">
<l>शुद्धाः सङ्गं न कौचित्प्राप्तवन्तो दूरान्मुक्ता शीघ्रतां दर्शयन्तः ।</l><l>अन्तःसेनं विद्विषामाविशन्तो युक्तं चक्रुः सायका वाजितायाः ॥ १३ ॥</l></lg><lg n="18.14">
<l>आक्रम्याजेरग्रिमस्कन्धमुच्चैरास्थायाथो वीतशङ्कं शिरश्च ।</l><l>हेलालोला वर्त्म गत्वातिमर्त्यं द्यामारोहन्मानभाजः सुखेन ॥ १४ ॥</l></lg><lg n="18.15">
<l>रोदोरन्ध्रं व्यश्नुवानानि लोलैरङ्गस्यान्तर्मादितैः स्थावराणि ।</l><l>केचित्गुर्वीमेत्य संयन्निषद्यां क्रीणन्ति स्म प्राणमूल्यैर्यशांसि ॥ १५ ॥</l></lg><lg n="18.16">
<l>वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।</l><l>अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥ १६ ॥</l></lg><lg n="18.17">
<l>आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।</l><l>वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥ १७ ॥</l></lg><lg n="18.18">
<l>मिश्रीभूते तत्र सैन्यद्वये ऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।</l><l>आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परो ऽसौ ॥ १८ ॥</l></lg><lg n="18.19">
<l>सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा ।</l><l>नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥ १९ ॥</l></lg><lg n="18.20">
<l>नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।</l><l>सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥ २० ॥</l></lg><lg n="18.21">
<l>आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।</l><l>प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥ २१ ॥</l></lg><lg n="18.22">
<l>भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः ।</l><l>शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखो ऽपि ॥ २२ ॥</l></lg><lg n="18.23">
<l>कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म ।</l><l>कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥ २३ ॥</l></lg><lg n="18.24">
<l>जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तो ऽधो लोकमस्तेषुजालाः ।</l><l>नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥ २४ ॥</l></lg><lg n="18.25">
<l>विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् ।</l><l>बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥ २५ ॥</l></lg><lg n="18.26">
<l>यावच्चक्रे नाञ्जनं बोधनाय व्युत्थानज्ञो हस्तिचारी मदस्य ।</l><l>सेनास्वानाद्दन्तिनामात्मनैव स्थूलास्तावत्प्रावहन्दानकुल्याः ॥ २६ ॥</l></lg><lg n="18.27">
<l>क्रुध्यन् गन्धादन्यनागाय दूरादारोढारं धूतमूर्धावमत्य ।</l><l>घोरारावध्वनिताशेषदिक्के विष्के नागः पर्याणंसीत्स्व एव ॥ २७ ॥</l></lg><lg n="18.28">
<l>प्रत्यासन्ने दन्तिनि प्रातिपक्षे यन्त्रा नागः प्रास्तवक्त्रच्छदो ऽपि ।</l><l>क्रोधाक्रान्तः क्रूरनिर्दारिताक्षः प्रेक्षांचक्रे नैव किञ्चिन्मदान्धः ॥ २८ ॥</l></lg><lg n="18.29">
<l>तूर्णं यावन्नापनिन्ये निषादी वासश्चक्षुर्वारणं वारणस्य ।</l><l>तावत्पूगैरन्यनागाधिरूढः कादम्बानामेकपातैरसीव्यत् ॥ २९ ॥</l></lg><lg n="18.30">
<l>आस्थद्दृष्टेराच्छदं च प्रमत्तो यन्ता यातुः प्रत्यरीभं द्विपस्य ।</l><l>भग्नस्योच्चैर्बर्हभारेण शङ्कोरवव्राते वीक्षणे च क्षणेन ॥ ३० ॥</l></lg><lg n="18.31">
<l>यत्नाद्रक्षन्सुस्थितत्वादनाशं निश्चत्यन्यश्चेतसा भावितेन ।</l><l>अन्त्यावस्थाकालयोग्योपयोगं दध्रे ऽभीष्टं रागमापद्धनं वा ॥ ३१ ॥</l></lg><lg n="18.32">
<l>अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैभुग्नवालाः ।</l><l>उन्मूर्धानः सन्निपत्यपरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥ ३२ ॥</l></lg><lg n="18.33">
<l>द्राधीयांस संहताः स्थेमभाजश्चारूदग्रास्तीक्ष्णतामत्यजन्तः ।</l><l>दन्ता दन्तैराहताः सामजानां भङ्गं जग्मुर्न स्वयं सामजाताः ॥ ३३ ॥</l></lg><lg n="18.34">
<l>मातङ्गानां दन्तसंघट्टजन्मा हेमच्छेदछ्छायाचञ्चच्छिखाग्रः ।</l><l>लग्नो ऽप्यग्निश्चामरेषु प्रकामं माञ्जिष्ठेषु व्यज्यते न स्म सैन्यैः ॥ ३४ ॥</l></lg><lg n="18.35">
<l>ओषामासे मत्सरोत्पातवाताश्लिष्यद्दन्तक्ष्मारुहां घर्षणोत्थैः ।</l><l>योगान्तैर्वा वह्निभिर्वारणानामुच्चैर्मूर्धव्योम्नि नक्षत्रमाला ॥ ३५ ॥</l></lg><lg n="18.36">
<l>सान्द्राण्भोदश्यामले सामजानां वृन्दे नीताः शोणितैः शोणिमानम् ।</l><l>दन्ताः शोभामापुरम्भोनिधीनां कन्दोद्भेदा वैद्रुमा वारिणीव ॥ ३६ ॥</l></lg><lg n="18.37">
<l>आकम्पाग्रैः केतुभिः सन्निपातं तारोदीर्णग्रैवनादं व्रजन्तः ।</l><l>मग्नानङ्गे गाढमन्यद्विपानां दन्तान्दुःखादुत्त्खनन्ति स्म नागाः ॥ ३७ ॥</l></lg><lg n="18.38">
<l>उत्क्षप्योच्चैः प्रस्फुरन्तं रदाभ्यामीषादन्तः कुञ्जरं शात्रवीयम् ।</l><l>शृङ्गप्रोतप्रावृषेण्याम्बुदस्य स्पष्टं प्रापत्साम्यमुर्वीधरस्य ॥ ३८ ॥</l></lg><lg n="18.39">
<l>भग्ने ऽपीभे स्वे परावर्त्य देहं योद्ध्रा सार्धं व्रीडया मुञ्चतेषून् ।</l><l>साकं यन्तुः संमदेनानुबन्धी दूनो ऽभीक्ष्णं वारणः प्रत्यरोधि ॥ ३९ ॥</l></lg><lg n="18.40">
<l>व्याप्तं लोकैर्दुःखलभ्यापसारं संरंभित्वादेत्य धीरो महीयः ।</l><l>सेनामध्यं गाहते वारणः स्म ब्रह्मैव प्रागादिदेवोदरान्तः ॥ ४० ॥</l></lg><lg n="18.41">
<l>भृङ्गश्रेणीश्यामभासां समूहैर्नाराचानां विद्धनीरन्ध्रदेहः ।</l><l>निर्भीकत्वादाहवेनाहतेच्छो हृष्यन्हस्ती हृष्टरोमेव रेजे ॥ ४१ ॥</l></lg><lg n="18.42">
<l>आताम्राभा रोषभाजः कटान्तादाशूत्खाते मार्गणे धूर्गतेन ।</l><l>निश्च्योतन्ती नागराजस्य जज्ञे दानस्याहो लोहितस्येव धारा ॥ ४२ ॥</l></lg><lg n="18.43">
<l>क्रामन्दन्तौ दन्तिनः साहसिक्यादीषादण्डौ मृत्युशय्यातलस्य ।</l><l>सैन्यैरन्यस्तत्क्षणादाशशङ्के स्वर्गस्योच्चैरर्धमार्गाधिरूढः ॥ ४३ ॥</l></lg><lg n="18.44">
<l>कुर्वञ्ज्योत्स्नाविप्रुषां तुल्यरूपस्तारस्ताराजालसारामिव द्याम् ।</l><l>खड्गाघातैर्दारिताद्दन्तिकुम्भादाभाति स्म प्रोच्छलन्मौक्तिकौघः ॥ ४४ ॥</l></lg><lg n="18.45">
<l>दूरोत्क्षिप्तक्षिप्रचक्रेण कृत्तं मत्तो हस्तं हस्तिराजः स्वमेव ।</l><l>भीमं भूमौ लोलमानं सरोषः पादेनासृक्पङ्कपेषं पिपेष ॥ ४५ ॥</l></lg><lg n="18.46">
<l>आपस्काराल्लूनगात्रस्य भूमिं निःसाधारं गच्छतोपाङ्मुखस्य ।</l><l>लब्धायामं दन्तयोर्युग्ममेव स्वं नागस्य प्रापदुत्तम्भनत्वम् ॥ ४६ ॥</l></lg><lg n="18.47">
<l>लब्धस्पर्शं भूव्यधादव्यथेन स्थित्वा किंचिद्दन्तयोरन्तराले ।</l><l>ऊर्ध्वार्धासिच्छिन्नदन्तप्रवेष्टं जित्वोत्तस्थे नागमन्येन सद्यः ॥ ४७ ॥</l></lg><lg n="18.48">
<l>हस्तेनाग्रे वीतभीतिं गृहीत्वा कञ्चिद्व्यालः क्षिप्तवानूर्ध्वमुच्चैः ।</l><l>आसीनानां व्योम्नि तस्यैव हेतोः स्वर्गस्त्रीणामर्पयामास नूनम् ॥ ४८ ॥</l></lg><lg n="18.49">
<l>कंचिद्दूरादायतेन द्रढीयःप्रासप्रोतस्रोतसान्तःक्षतेन ।</l><l>हस्ताग्रेण प्राप्तमप्यग्रतो ऽभूदानैश्वर्यं वारणस्य ग्रहीतुम् ॥ ४९ ॥</l></lg><lg n="18.50">
<l>तन्वाः पुंसो नन्द गोपात्मजायाः कंसेनेव स्फोटितायाः गजेन ।</l><l>दिव्या मूर्तिर्व्योमगैरुत्पतन्ती वीक्षामासे विस्मितैश्चण्डिकेव ॥ ५० ॥</l></lg><lg n="18.51">
<l>आक्रम्यैकामग्रपादेन जङ्घामन्यामुच्चैराददानः करेण ।</l><l>संस्थितस्वानं दारुवद्दारुणात्मा कञ्चिन्मध्यात्पाटयामास दन्ती ॥ ५१ ॥</l></lg><lg n="18.52">
<l>शोचित्वाग्रे भृत्ययोर्मृत्युभाजोरर्यः प्रेम्णा नो तथा वल्लभस्य ।</l><l>पूर्वं कृत्वा नेतरस्य प्रसादं पश्चात्तापादाप दाहं यथान्तः ॥ ५२ ॥</l></lg><lg n="18.53">
<l>उत्प्लुत्यारादर्धचन्द्रेण लूने वक्त्रे ऽन्यस्य क्रोधदष्टोष्ठदन्ते ।</l><l>सैन्यैः कण्ठच्छेदलीने कबन्धाद्भूयो बिभ्ये वल्गतः सासिपाणेः ॥ ५३ ॥</l></lg><lg n="18.54">
<l>तूर्यारावैराहितोत्तालतालैर्गायन्तीभिः काहलं काहलाभिः ।</l><l>नृत्ते चक्षुःशून्यहस्तप्रयोगं काये कूजन्कम्बुरुच्चैर्जहास ॥ ५४ ॥</l></lg><lg n="18.55">
<l>प्रत्यावृत्तं भङ्गभाजि स्वसैन्ये तुल्यं मुक्तैराकिरन्ति स्म कश्चित् ।</l><l>एकौघेन स्वर्णपुङ्खैर्द्विषन्तः सिद्धाः माल्यैः साधुवादैर्द्वये ऽपि ॥ ५५ ॥</l></lg><lg n="18.56">
<l>बाणाक्षिप्तारोहशून्यासनानां प्रक्रान्तानामन्यसैन्यैग्रहीतुम् ।</l><l>संरब्धानां भ्राम्यतामाजिभूमौ वारी वारैः सस्मरे वारणानाम् ॥ ५६ ॥</l></lg><lg n="18.57">
<l>पौनः पुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्यां ।</l><l>पादे लग्नमत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥ ५७ ॥</l></lg><lg n="18.58">
<l>कश्चिन्मूर्च्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।</l><l>उच्छ्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥ ५८ ॥</l></lg><lg n="18.59">
<l>लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।</l><l>त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ ५९ ॥</l></lg><lg n="18.60">
<l>वृत्तं युद्धे शूरमाश्लिष्य काचिद्रन्तुं तूर्णं मेरुकुञ्जं जगाम ।</l><l>त्यक्त्वा नाग्नौ देहमेति स्म यावत्पत्नी सद्यस्तद्वियोगासमर्था ॥ ६० ॥</l></lg><lg n="18.61">
<l>त्यक्तप्राणं संयुगे हस्तिनीस्था वीक्ष्य प्रेम्णा तत्क्षणादुद्गतासु ।</l><l>प्राप्याखण्डं देवभूयं सतीत्वादाशिश्लेष स्वैव कञ्चित्पुरन्ध्री ॥ ६१ ॥</l></lg><lg n="18.62">
<l>स्वर्गेवासं कारयन्त्या चिराय प्रत्यग्रत्वं प्रत्यहं धारयन्त्या ।</l><l>कश्चिद्भेजे दिव्यनार्या परस्मिंल्लोके लोकं प्रीणयन्त्येह कीर्त्या ॥ ६२ ॥</l></lg><lg n="18.63">
<l>गत्वा नूनं वैबुधं सद्म रम्यं मूच्छाभाजामाजगामान्तरात्मा ।</l><l>भूयो दृष्टप्रत्ययाः प्राप्तसंज्ञाः साधीयस्ते यद्रणायाद्रियन्ते ॥ ६३ ॥</l></lg><lg n="18.64">
<l>कश्चिच्छ्स्त्रापातमूढो ऽपवोढुर्लब्ध्वा भूयश्चेतनामाहवाय ।</l><l>व्यावर्तिष्ट क्रोशतः सख्युरुच्चैस्त्यक्तश्चात्मा का च लोकानुवृत्तिः ॥ ६४ ॥</l></lg><lg n="18.65">
<l>भिन्नोरस्कौशत्रुणाकृष्य दूरादासन्नत्वात्कौचिदेकेषेणैव ।</l><l>अन्यो ऽन्यावष्टम्भसामर्थ्ययोगार्ध्वावेव स्वर्गतावप्यभूताम् ॥ ६५ ॥</l></lg><lg n="18.66">
<l>भिन्नानस्त्रैर्मोहभाजो ऽभिजातान्हन्तुं लोलं वारयन्तः स्ववर्गम् ।</l><l>जीवग्राहं ग्राहयामासुरन्ये योग्येनार्थाः कस्य न स्याज्जनेन ॥ ६६ ॥</l></lg><lg n="18.67">
<l>भग्नैर्दण्डैरातपत्राणि भूमौ पर्यस्तानि प्रौढचन्द्रद्युतीनि ।</l><l>आहाराय प्रेतराजस्य रौप्यस्थालानीव स्थापितानि स्म भान्ति ॥ ६७ ॥</l></lg><lg n="18.68">
<l>रेजुर्भ्रष्टा वक्षसः कुङ्कुमाङ्का मुक्ताहाराः पार्थिवानां व्यसूनाम् ।</l><l>हासाल्लक्ष्याः पूर्णकामस्य मन्ये मृत्योर्दन्ताः पीतरक्तासवस्य ॥ ६८ ॥</l></lg><lg n="18.69">
<l>निम्नेष्वोधीभूतमस्त्रक्षतानामस्रं भूमौ यच्चकासाञ्चकार ।</l><l>रागार्थं तत्किं नु कौसुम्भमम्भः संव्यानानामन्तकान्तः पुरस्य ॥ ६९ ॥</l></lg><lg n="18.70">
<l>रामेण त्रिःसप्तकृत्वो ह्रदानां चित्रं चक्रे पञ्चकं क्षत्रियास्त्रैः ।</l><l>रक्ताम्भोभिःस्तत्क्षणादेव तस्मिन्संख्ये ऽसंख्याः प्रवहन्द्वीपवत्यः ॥ ७० ॥</l></lg><lg n="18.71">
<l>संदानान्तादस्त्रिभिः शिक्षितास्त्रैरविश्याधः शातशस्त्रावलूनाः ।</l><l>कूर्मौपम्यं व्क्तमन्तर्नदीनामैभाः प्रापन्नङ्घ्रयो ऽसृङ्मयीनाम् ॥ ७१ ॥</l></lg><lg n="18.72">
<l>पद्माकारैर्योधवक्त्रैरिभानां कर्णभ्रष्टैश्चामरैरेव हंसैः ।</l><l>सोपस्काराः प्रावहन्नस्रतोयाः स्रोतस्विन्यो वीचिषुच्चैस्तरद्भिः ॥ ७२ ॥</l></lg><lg n="18.73">
<l>उत्क्रान्तानामामिषायोपरिष्टादध्याकाशं बभ्रुमुः पत्रवाहाः ।</l><l>मूर्ताः प्राणाः नूनमद्याप्यवेक्षामासुः कायं त्यजिताः दारुणास्त्रैः ॥ ७३ ॥</l></lg><lg n="18.74">
<l>आतन्वद्भिर्दिक्षु पत्राग्रनादं प्राप्तैदूरादाशु तीक्ष्णैर्मुखाग्रैः ।</l><l>आदौ रक्तं सैनिकानामजीवैर्जीवैः पश्चात्पत्रिपूगैरपायि ॥ ७४ ॥</l></lg><lg n="18.75">
<l>ओजोभाजां यद्रणे संस्थितानामादत्तीव्रं सार्धमङ्गेन नूनम् ।</l><l>ज्वालाव्याजादुद्वमन्ती तदन्तस्तेजस्तारं दीप्तजिह्वा ववाशे ॥ ७५ ॥</l></lg><lg n="18.76">
<l>नैरन्तर्यच्छिन्नदेहान्तरालं दुर्भक्षस्य ज्वालिना वाशितेन ।</l><l>योद्धुर्बाणप्रोतमादीप्य मांसं पाकापूर्वस्वादमादे शिवाभिः ॥ ७६ ॥</l></lg><lg n="18.77">
<l>ग्लानिच्छेदि क्षुत्प्रबोधाय पीत्वा रक्तारिष्टं शोषिताजीर्णशेषम् ।</l><l>स्वादुंकारं कालखण्डोपदंशं क्रोष्टा डिम्बं व्यष्वणद्व्यस्वनञ्च ॥ ७७ ॥</l></lg><lg n="18.78">
<l>क्रव्यात्पूगैः पुष्कराण्यनकानां प्रत्याशाभिर्मेदसो दारितानि ।</l><l>आभीलानि प्राणिनः प्रत्यवस्यन्कालो नूनं व्यददावाननानि ॥ ७८ ॥</l></lg><lg n="18.79">
<l>कीर्णा रेजे साजिभूमिः समन्तादप्राणद्भिः प्राणभाजां प्रतीकैः ।</l><l>बह्वारम्भैरर्धसंयोजितैर्वा रूपैः स्रष्टुः सृष्टिकर्मान्तशाला ॥ ७९ ॥</l></lg><lg n="18.80">
<l>आयन्तीनामविरतरयंराजकानीकिनीनाम् इत्थं सैन्यैः सममलुघुभिः श्रीपतेरूर्मिमद्भिः ।</l><l>आसीदोघैर्मुहुरिव महद्वारिधेरापगानां दोलायुद्धं कृतगुरुतरध्वानमौद्धत्यभाजाम् ॥ ८० ॥</l></lg><lg n="19.1">
<l>अथोत्तस्थे रणाटव्यामसुहृद्वेणुदारिणा ।</l><l>नृपाङ्घ्रिपौघसंघर्षादग्निवद्वेणुदारिणा ॥ १ ॥</l></lg><lg n="19.2">
<l>आपतन्तममुन्दूरादूरीकृतपराक्रमः ।</l><l>बलो ऽवलोकयामास मातङ्गमिव केसरी ॥ २ ॥</l></lg><lg n="19.3">
<l>जजौजोजाजिजिज्जाजी तं ततो ऽतिततातितुत् ।</l><l>भाभो ऽभीभाभिभूभारारारिररिरीररः ॥ ३ ॥</l></lg><lg n="19.4">
<l>भवन्भवाय लोकानामाकम्पितमहीतलः ।</l><l>निर्घात इव निर्घोषभीमस्तस्यापतद्रथः ॥ ४ ॥</l></lg><lg n="19.5">
<l>रामे रिपुः शरानाजिमहेष्वास विचक्षणे ।</l><l>कोपादथैनं शितमा महेष्वा स विचक्षणे ॥ ५ ॥</l></lg><lg n="19.6">
<l>दिशमर्कमिवावाचीम् मूर्च्छागतमपाहरत् ।</l><l>मन्दप्रतापं तं सूतः शीघ्रमाजिविहायसः ॥ ६ ॥</l></lg><lg n="19.7">
<l>कृत्वा शिनेः शाल्वचमूं सप्रभावा चमूर्जिताम् ।</l><l>ससर्ज वक्त्रैः फुल्लाब्जसप्रभा वाचमूर्जिताम् ॥ ७ ॥</l></lg><lg n="19.8">
<l>उल्मुकेन द्रुमं प्राप्य संकुचत्पत्रसंपदम् ।</l><l>तेजः प्रकिरता दिक्षु सप्रतापमदीप्यत ॥ ८ ॥</l></lg><lg n="19.9">
<l>पृथोरध्यक्षिपधृद्रुक्मी यया चापमुदायुधः ।</l><l>तयैव वाचापगमं ययाचापमुदायुधः ॥ ९ ॥</l></lg><lg n="19.10">
<l>समं समन्ततो राज्ञामापतन्तीरनीकिनीः ।</l><l>कार्ष्णिः प्रत्यग्रहीदेकः सारस्वानिव निम्नगाः ॥ १० ॥</l></lg><lg n="19.11">
<l>दधानैर्घनसादृश्यं लसदायसदंशनैः ।</l><l>तत्र काञ्चनसच्छाया ससृजे तैः शराशनिः ॥ ११ ॥</l></lg><lg n="19.12">
<l>नखांशुमञ्जरीकीर्णमसौतरुरिवोच्चकैः ।</l><l>बभौ विभ्रमद्धनुःशाखामधिरूढशिलीमुखाम् ॥ १२ ॥</l></lg><lg n="19.13">
<l>प्रप्य भीममसौ जन्यं सौजन्यं दधदानते ।</l><l>विध्यन्मुमोच न रिपूनरिपूगान्तकः शरैः ॥ १३ ॥</l></lg><lg n="19.14">
<l>कृतस्य सर्वक्षितिपैर्विजयाशंसया पुरः ।</l><l>अनेकस्य चकारासौ बाणैर्बाणस्य खण्डनम् ॥ १४ ॥</l></lg><lg n="19.15">
<l>याबभार कृतानेकमाया सेना ससारताम् ।</l><l>धनुः स कर्षन्रहितमायासेनाससार ताम् ॥ १५ ॥</l></lg><lg n="19.16">
<l>ओजो महौजाः कृत्वाधस्तत्क्षणादुत्तमौजसः ।</l><l>कुर्वन्नाजावमुख्यत्वमनमन्नाम मुख्यताम् ॥ १६ ॥</l></lg><lg n="19.17">
<l>दूरादेव चमूर्भल्लैः कुमारो हन्ति स स्म याः ।</l><l>न पुनः सांयुगीं ताः स्म कुमारो हन्ति सस्मयाः ॥ १७ ॥</l></lg><lg n="19.18">
<l>निपीड्य तरसा तेन मुक्ताः काममनास्थया ।</l><l>उपाययुर्विलक्षत्वं विद्विषो न शिलीमुखाः ॥ १८ ॥</l></lg><lg n="19.19">
<l>तस्यावदानैः समरे सहसा रोमहर्षिभिः ।</l><l>सुरैरशंसि व्योमस्थैः सह सारो महर्षिभिः ॥ १९ ॥</l></lg><lg n="19.20">
<l>सुगन्धयद्दिशः शुभ्रमम्लानि कुसुमं दिवः ।</l><l>भूरि तत्रापतत्तस्मादुत्पपात दिवं यशः ॥ २० ॥</l></lg><lg n="19.21">
<l>सोढुं तस्य द्विषो नालमवयोधरवा रणम् ।</l><l>ऊर्णुनाव यशश्च द्यामपयोधरवारणम् ॥ २१ ॥</l></lg><lg n="19.22">
<l>केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।</l><l>शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ॥ २२ ॥</l></lg><lg n="19.23">
<l>सादरं युद्धमानापि तेनान्यनरसादरम् ।</l><l>सा दरं पृतना निन्ये हीयमाना रसादरम् ॥ २३ ॥</l></lg><lg n="19.24">
<l>इत्यालिङ्गतामालोक्य जयलक्ष्म्या झषध्वजम् ।</l><l>क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ॥ २४ ॥</l></lg><lg n="19.25">
<l>अहितानभि वाहिन्या स मानी चतुरङ्गया ।</l><l>चचाल वल्ल्गत्कलभसमानीचतुरङ्गया ॥ २५ ॥</l></lg><lg n="19.26">
<l>ततस्ततधनुर्मौर्वीविस्फारस्फारिनिःस्वनैः ।</l><l>तूर्यैर्युगक्षये क्षुभ्यदकूपारानुकारिणी ॥ २६ ॥</l></lg><lg n="19.27">
<l>सकारनानारकास कायसाददसायका ।</l><l>रसाहवावाहसार नादवाददवादना ॥ २७ ॥</l></lg><lg n="19.28">
<l>लोलासिकालियकुला यमस्यैव स्वसा स्वयम् ।</l><l>चिकीर्षुरुल्लसल्लोहवर्मश्यामा सहायताम् ॥ २८ ॥</l></lg><lg n="19.29">
<l>सासेनागमनारम्भे रसेनासीदनारता ।</l><l>तारनादजनामत्त धीरनागमनामया ॥ २९ ॥</l></lg><lg n="19.30">
<l>धूतधौतासयः प्रष्ठाः प्रतिष्ठन्तक्षमाभृताम् ।</l><l>शौर्यनुरागनिकषः सा हि वेलानुजीविनाम् ॥ ३० ॥</l></lg><lg n="19.31">
<l>दिवमिन्युधा गन्तुं कोमलामलसम्पदम् ।</l><l>दधौ दधानो ऽसिलतां को ऽमलामलसम्पदम् ॥ ३१ ॥</l></lg><lg n="19.32">
<l>कृतोरुवेगं युगपद्व्यजिगीषन्त सैनिकाः ।</l><l>विपक्षं बाहुपरिघैर्जङ्घाभिरितरेतरम् ॥ ३२ ॥</l></lg><lg n="19.33">
<l>वाहनाजनि मानासे साराजावनमा ततः ।</l><l>मत्तसारगराजेभे भारीहावज्जनध्वनि ॥ ३३ ॥</l></lg><lg n="19.34">
<l>निध्वनज्जवहारीभा भेजे रागरसात्तमः ।</l><l>ततमानवजारासा सेना मानिजनाहवा ॥ ३४ ॥</l></lg><lg n="19.35">
<l>अभग्नवृत्ताः प्रसभादाकृष्टा यौवनोद्धतैः ।</l><l>चक्रन्दुरुच्चकैर्मुष्टिग्राह्यमध्या धनुर्लताः ॥ ३५ ॥</l></lg><lg n="19.36">
<l>करेणुः प्रम्थितो ऽनेको रेणुर्घण्टाः सहस्रशः ।</l><l>करेणुः शीकरो जज्ञे रेणुस्तेन शमं ययौ ॥ ३६ ॥</l></lg><lg n="19.37">
<l>धृतप्रत्यग्रशृङ्गाररसरागरपि द्विपैः ।</l><l>सरोषसम्भ्रमैर्बर्भ्रे रौद्र एव रणे रसः ॥ ३७ ॥</l></lg><lg n="19.38">
<l>न तस्थौ भर्तृतः प्राप्तमानसम्प्रतिपत्तिषु ।</l><l>रणैकसर्गेषु भयं मानसं प्रति पत्तिषु ॥ ३८ ॥</l></lg><lg n="19.39">
<l>बाणाहितपूर्णतूणीरकोटरैर्धन्विशाखिभिः ।</l><l>गोधाश्लिष्टभुजाशाखैरभूद्भीमा रणाटवी ॥ ३९ ॥</l></lg><lg n="19.40">
<l>नानाजाववजानाना सा जनौघघनौजसा ।</l><l>परानिहऽहानिराप तान्वियाततयान्विता ॥ ४० ॥</l></lg><lg n="19.41">
<l>विषमं सर्वतोभद्रचक्रगोमूत्रिकादिभिः ।</l><l>श्लोकैरिवमहाकाव्यं व्यूहैस्तदभवद्बलम् ॥ ४१ ॥</l></lg><lg n="19.42">
<l>संहत्या सात्वतां चैद्यं प्रति भास्वरसेनया ।</l><l>ववले योद्धुमुत्पन्नप्रतिमा स्वरसेन या ॥ ४२ ॥</l></lg><lg n="19.43">
<l>विस्तीर्णमायामवती लोललोकनिरन्तरा ।</l><l>नरेन्द्रमार्गं रथ्येव पपात द्विषतां बलम् ॥ ४३ ॥</l></lg><lg n="19.44">
<l>वारणागगभीरा सा साराभीगगणारवा ।</l><l>कारितारिवधा सेना नासेधा वारितारिका ॥ ४४ ॥</l></lg><lg n="19.45">
<l>अधिनागं प्रजविनो विकसत्पिच्छचारवः ।</l><l>पेतुर्बर्हिणदेशीयाः शङ्कवः प्राणहारिणः ॥ ४५ ॥</l></lg><lg n="19.46">
<l>प्रवृत्तेविकसद्ध्वानंसाधनेप्यविषादिभिः ।</l><l>ववृषेविकसद्दानंयुधमाप्यविषाणिभिः ॥ ४६ ॥</l></lg><lg n="19.47">
<l>पुरः प्रयुक्तैर्युद्धं तच्चलितैर्लब्धशुद्धिभिः ।</l><l>आलापैरिव गान्धर्वमदीप्यत पदातिभिः ॥ ४७ ॥</l></lg><lg n="19.48">
<l>केनचित्स्वासिनान्येषां मण्डलाग्रानवद्यता ।</l><l>प्रापे कीर्तिप्लुतमहीमण्डलाग्रानवद्यत ॥ ४८ ॥</l></lg><lg n="19.49">
<l>विहन्तुं विद्विषस्तीक्ष्णः सममेव सुसंहतेः ।</l><l>परिवारात्पृथक्चक्रे खड्गश्चात्मा च केनचित् ॥ ४९ ॥</l></lg><lg n="19.50">
<l>अन्येन विदधे ऽरीणामतिमात्रा विलासिना ।</l><l>उद्गूर्णेन चमूस्तूर्णमतिमात्राविलासिना ॥ ५० ॥</l></lg><lg n="19.51">
<l>सहस्रपूरणः कश्चिल्लूनमूर्धासिना द्विषः ।</l><l>तथोर्ध्व एव काबन्धीमभजन्नर्तनक्रियाम् ॥ ५१ ॥</l></lg><lg n="19.52">
<l>शस्त्रव्रणमयश्रीमदलङ्करणभूषषितः ।</l><l>ददृशे ऽन्यो रावणवदलङ्करणभूषितः ॥ ५२ ॥</l></lg><lg n="19.53">
<l>द्विषद्विशसनच्छेदनिरस्तोरुयुगो ऽपरः ।</l><l>सिक्तश्चास्त्रैरुभयथा बभूवारुणविग्रहः ॥ ५३ ॥</l></lg><lg n="19.54">
<l>भीमतामपरो ऽम्भोधिसमे ऽधित महाहवे ।</l><l>दाक्षे कोपः शिवस्येव समेधितमहा हवे ॥ ५४ ॥</l></lg><lg n="19.55">
<l>दन्तौश्चिच्छिदिरे कोपात्प्रतिपक्षं गजा इव ।</l><l>परनिस्त्रिंशनिर्लूनकरवालाः पदातयः ॥ ५५ ॥</l></lg><lg n="19.56">
<l>रणे रभसनिर्भिन्नद्विपपाटविकासिनि ।</l><l>न तत्र गतभीः कश्चिद्विपपाट विकासिनि ॥ ५६ ॥</l></lg><lg n="19.57">
<l>यावन्न सत्कृतैर्भर्तुः स्नेहस्यानृण्यमिच्छुभिः ।</l><l>अमर्षादितरैस्तावत्तत्यजे युधि जीवितम् ॥ ५७ ॥</l></lg><lg n="19.58">
<l>अयशोभिदुरालोके कोपधामरणादृते ।</l><l>अयशोभिदुरा लोके कोपधा मरणादृते ॥ ५८ ॥</l></lg><lg n="19.59">
<l>स्खलन्ती नक्वचित्तैक्ष्णादभ्यग्रफलशालिनी ।</l><l>अमोचि शक्तिः शक्तिकैर्लोहजा न शरीरजा ॥ ५९ ॥</l></lg><lg n="19.60">
<l>अपादि व्यापृतनयांस्तथा युयुधिरे नृपाः ।</l><l>आप दिव्या पृतनया विस्मयं जनता यथा ॥ ६० ॥</l></lg><lg n="19.61">
<l>स्वगुणैराफलप्राप्तेराकृष्य गणिका इव ।</l><l>कामुकानिव नालीकांस्त्रिणन्ताः सहसामुचन् ॥ ६१ ॥</l></lg><lg n="19.62">
<l>वाजिनः शत्रुसैन्यस्य समारब्धनवाजिनः ।</l><l>वाजिनश्च शरा मध्यमविशन्द्रुतवाजिनः ॥ ६२ ॥</l></lg><lg n="19.63">
<l>पुरस्कृत्य फलं प्राप्तैः सत्पक्षाश्रययशालिभिः ।</l><l>कृतपुङ्खतया लेभे लक्षमप्याशु मार्गणैः ॥ ६३ ॥</l></lg><lg n="19.64">
<l>रक्तश्रुतिं जपासूनसमरागामिषुव्यधात् ।</l><l>कश्चित्पुरः सपत्नेषु समरागमिषुव्यधात् ॥ ६४ ॥</l></lg><lg n="19.65">
<l>रयेण रणकाम्यन्तौ दूरादुपगतविभौ ।</l><l>गतासुरन्तरा दन्ती वरण्डक इवाभवत् ॥ ६५ ॥</l></lg><lg n="19.66">
<l>भूरिभिर्भारिभिर्भीरैर्भूभारैरभिरेभिरे ।</l><l>भेरीरेभिभिरभ्राभैरभीरुभिरिभैरिभाः ॥ ६६ ॥</l></lg><lg n="19.67">
<l>निशितासिलतालूनैस्तथा हस्तैर्न हस्तिनः ।</l><l>युध्यमाना यथा दन्तैर्भग्नैरापुर्विहस्ततां ॥ ६७ ॥</l></lg><lg n="19.68">
<l>निपीडनादिव मिथो दानतोयनारतम् ।</l><l>वपुषामदयापातादिभानामभितो ऽगलत् ॥ ६८ ॥</l></lg><lg n="19.69">
<l>रणाङ्गणं सर इव प्लावितं मदवारिभिः ।</l><l>गजः पृथुकराकृष्टशतपत्रमलोडयत् ॥ ६९ ॥</l></lg><lg n="19.70">
<l>शरक्षते गजे भृङ्गैः सविषादिविषादिनि ।</l><l>रुतव्याजेन रुदितं तत्रासीदतिसीदति ॥ ७० ॥</l></lg><lg n="19.71">
<l>अन्तकस्य पृथौ तत्र शयनीय इवाहवे ।</l><l>दशनव्यसनादीयुर्मत्कुणत्वं मतङ्गजाः ॥ ७१ ॥</l></lg><lg n="19.72">
<l>अभीकमतिकेनेद्धे भीतानन्दस्यनाशने ।</l><l>कनत्सकामसेनाके मन्दकामकमस्यति ॥ ७२ ॥</l></lg><lg n="19.73">
<l>दधतो ऽपि रणे भीममभीक्ष्णं भावमासुरम् ।</l><l>हताः परैरभिमुखाः सुरभूयमुपाययुः ॥ ७३ ॥</l></lg><lg n="19.74">
<l>येनाङ्गमूहे व्रणवत्सरुचा परतो ऽमरैः ।</l><l>समत्वं स ययौ खड्गत्सरुचापरतो ऽमरैः ॥ ७४ ॥</l></lg><lg n="19.75">
<l>निपातितसुहृत्स्वामिपितृव्यभ्रातृमातुलम् ।</l><l>पाणिनीयमिवावलोकि धीरैस्तत्समराजिरम् ॥ ७५ ॥</l></lg><lg n="19.76">
<l>अभावि सिन्ध्वा सन्ध्याभ्रसदृग्रुधिरतोयया ।</l><l>हृते योद्धुं जनः पांशौ स दृग्रुधि रतो यथा ॥ ७६ ॥</l></lg><lg n="19.77">
<l>विदलत्पुष्कराकीर्णाः पतच्छङ्खकुलाकुलाः ।</l><l>तरत्पत्ररथा नद्यः प्रासर्पन्रक्तवारिजाः ॥ ७७ ॥</l></lg><lg n="19.78">
<l>असृग्जनो ऽस्त्रक्षतिमानवमज्जवसादनम् ।</l><l>रक्षःपिशाचं मुमुदे नवमज्जवसादनम् ॥ ७८ ॥</l></lg><lg n="19.79">
<l>चित्रं चापैरपेतज्यैः स्फुरद्रक्तशतहृदम् ।</l><l>पयोदजालमिव तद्वीराशंसनमाबभौ ॥ ७९ ॥</l></lg><lg n="19.80">
<l>बन्धौ विपन्ने ऽनेकेन नरेणेह तदन्तिके ।</l><l>अशोचि सैन्ये घण्टाभिर्न रेणे हतदन्तिके ॥ ८० ॥</l></lg><lg n="19.81">
<l>कृत्तैः कीर्णा मही रेजे दन्तैर्गात्रैश्च दन्तिनाम् ।</l><l>क्षुण्णलोकासुभिर्मृत्योर्मुसलोलूखलैरिव ॥ ८१ ॥</l></lg><lg n="19.82">
<l>युद्धमित्थं विधूतान्यमानवानभियो गतः ।</l><l>चैद्यः परान्पराजिग्ये मानवानभियोगतः ॥ ८२ ॥</l></lg><lg n="19.83">
<l>अथ वक्षोमणिच्छायाच्छुरितापीतवाससा ।</l><l>स्फुरदिन्द्रधनुर्भिन्नतडितेव तडित्त्वता ॥ ८३ ॥</l></lg><lg n="19.84">
<l>नीलेनानालनलिननिलीनोल्ललनालिना ।</l><l>ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥</l></lg><lg n="19.85">
<l>अपूर्वयेव तत्कालसमागमसकामया ।</l><l>दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ ८५ ॥</l></lg><lg n="19.86">
<l>विभावी विभवी भाभो विभाभावी विवो विभीः ।</l><l>भवाभिभावी भावावो भवाभावो भुवो विभुः ॥ ८६ ॥</l></lg><lg n="19.87">
<l>उपैतुकामैस्तत्पारं निश्चितैर्योगिभिः परैः ।</l><l>देहत्यागकृतोद्योगैरदृश्यत परः पुमान् ॥ ८७ ॥</l></lg><lg n="19.88">
<l>तं श्रिया घनयानस्तरुचा सारतया तया ।</l><l>यातया तरसा चारुस्तनयानघया श्रितम् ॥ ८८ ॥</l></lg><lg n="19.89">
<l>विद्विषो ऽद्विषुरुद्वीक्ष्य तथाप्यासन्निरेनसः ।</l><l>अरुच्यमपि रोगघ्नं निसर्गादेव भेषजम् ॥ ८९ ॥</l></lg><lg n="19.90">
<l>विदितं दिवि के ऽनीके तं यातं निजिताजिनि ।</l><l>विगदं गवि रोद्धारो योद्धा यो नतिमेति नः ॥ ९० ॥</l></lg><lg n="19.91">
<l>नियुज्यमानेन पुरः कर्मण्यतिगरीयसि ।</l><l>आरोप्यमाणोरुगुणं भर्त्रा कार्मुकमानमत् ॥ ९१ ॥</l></lg><lg n="19.92">
<l>तत्र बाणाः सुपरुषः समधीयन्त चारवः ।</l><l>द्विषामभूत्सुपरुषस्तस्याकृष्टस्य चारवः ॥ ९२ ॥</l></lg><lg n="19.93">
<l>पश्चात्कृतानामप्यस्य नराणामिव पत्रिणाम् ।</l><l>योयो गुणेन संयुक्तः स स कर्णान्तमाययौ ॥ ९३ ॥</l></lg><lg n="19.94">
<l>प्रपे रूपी पुरारेपाः परिपूरी परः परैः ।</l><l>रोपैरपारैरुपरि पुपूरे ऽपि पुरो ऽपरैः ॥ ९४ ॥</l></lg><lg n="19.95">
<l>दिङ्मुखव्यापिनस्तीक्ष्णान्ह्रदिनो मर्मभेदिनः ।</l><l>चिक्षेपैकक्षणेनैव सायकानहितांश्च सः ॥ ९५ ॥</l></lg><lg n="19.96">
<l>शरवर्षी महानादः स्फुरत्कार्मुककेतनः ।</l><l>नीलच्छविरसौ रेजे केशवच्छलनीरदः ॥ ९६ ॥</l></lg><lg n="19.97">
<l>न केवलं जनैस्तस्य लघुसंधायिनो धनुः ।</l><l>मण्डलीकृतमोकान्ताद्बलमैक्षि द्विषामपि ॥ ९७ ॥</l></lg><lg n="19.98">
<l>लोकालोकी कलो ऽकल्ककलिलो ऽलिकुलालकः ।</l><l>कालो ऽकलो ऽकलिः काले कोलकेलिकिलः किल ॥ ९८ ॥</l></lg><lg n="19.99">
<l>अक्षितारासु विव्याध द्विषतः स तनुत्रिणः ।</l><l>दानेषु स्थूललक्ष्यत्वं न हि तस्य शरासने ॥ ९९ ॥</l></lg><lg n="19.100">
<l>वररो ऽविवरो वैरिविवारी वारिरारवः ।</l><l>विववार वरो वैरं वीरो रविरिवौर्वरः ॥ १०० ॥</l></lg><lg n="19.101">
<l>मुक्तानेकशरं प्रणानहरद्भूयसां द्विषां ।</l><l>तदीयं धनुरन्यस्य न हि सेहे सजीवताम् ॥ १०१ ॥</l></lg><lg n="19.102">
<l>राजराजी रुरोजाजेरजिरे ऽजो ऽजरो ऽरजाः ।</l><l>रेजारिजूरजोर्जार्जी रराजर्जुरजर्जरः ॥ १०२ ॥</l></lg><lg n="19.103">
<l>उद्धतान्द्विषतस्तस्य निध्नतो द्वितयं ययुः ।</l><l>पानार्थे रुधिरं धातौ रक्षार्थे भुवनं शराः ॥ १०३ ॥</l></lg><lg n="19.104">
<l>क्रूरारिकारि कीरेककारकः कारिकाकरः ।</l><l>कोरकाकारकरकः करीरः कर्करोर्ऽकरुक् ॥ १०४ ॥</l></lg><lg n="19.105">
<l>विधातुमवतीर्णो ऽपि लघिमानमसौ भुवः ।</l><l>अनेकमरिसंघातमकरोद्भूमिवर्धनम् ॥ १०५ ॥</l></lg><lg n="19.106">
<l>दारी दरदरिद्रो ऽरिदारूदारो ऽद्रिदूरदः ।</l><l>दूरादरौद्राददरद्रोदोरुद्दारुरादरी ॥ १०६ ॥</l></lg><lg n="19.107">
<l>एकेषुणा सङ्घतिथान्द्विषो भिन्दन्द्रुमानिव ।</l><l>स जन्मान्तररामस्य चक्रे सदृशमात्मनः ॥ १०७ ॥</l></lg><lg n="19.108">
<l>शूरः शौरिरशिशिरैराशाशैराशु राशिशः ।</l><l>शरारुः श्रीशरीरेशः शुशूरे ऽरिशिरः शरैः ॥ १०८ ॥</l></lg><lg n="19.109">
<l>व्क्तासीदरितारिणां यत्तदीयास्तदा मुहुः ।</l><l>मनोहृतो ऽपि हृदये लेगुरेषां न पत्रिणः ॥ १०९ ॥</l></lg><lg n="19.110">
<l>नामाक्षराणां मलना मा भूद्भर्तुरतः स्फुटम् ।</l><l>अगृह्णत पराङ्गनामसूनस्रं न मार्गणाः ॥ ११० ॥</l></lg><lg n="19.111">
<l>आच्छिद्य योधसार्थस्य प्राणसर्वस्वमाशुगाः ।</l><l>ऐकागारिकवद्भूमौ दूराज्जग्मुरदर्शनम् ॥ १११ ॥</l></lg><lg n="19.112">
<l>भीमास्त्रराजिनस्तस्य बलस्य ध्वजराजिनः ।</l><l>कृतघोराजिनश्चक्रे भुवः सरुधिरा जिनः ॥ ११२ ॥</l></lg><lg n="19.113">
<l>मांसव्यधोचितमुखैः शून्यतां दधदक्रियम् ।</l><l>शकुन्तिभिः शत्रुबलं व्यापि तस्येषुभिर्नभः ॥ ११३ ॥</l></lg><lg n="19.114">
<l>दाददो दद्ददुद्दादी दादादो दूददीददोः ।</l><l>दुद्दादं दददे दुद्दे ददाददददो ऽददः ॥ ११४ ॥</l></lg><lg n="19.115">
<l>प्लुतेभकुम्भोरसिजैर्हृदयक्षतिजन्मभिः ।</l><l>प्रावर्तयन्नदीरस्रैर्द्विषां तद्योषितां च सः ॥ ११५ ॥</l></lg><lg n="19.116">
<l>सदामदबलप्रायः समुद्धृरसो बभौ ।</l><l>प्रतीतविक्रमः श्रीमन्हारिर्हरिरिवापरः ॥ ११६ ॥</l></lg><lg n="19.117">
<l>द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।</l><l>पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ ११७ ॥</l></lg><lg n="19.118">
<l>सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु ।</l><l>महो दधे ऽस्तारि महानितान्तं महोदधेस्तारिमहा नितान्तम् ॥ ११८ ॥</l></lg><lg n="19.119">
<l>इष्टं कृत्वार्थं पत्रिणः शार्ङ्गपाणेर् एत्याधोमुख्यं प्रविशन्भूमिमाशु ।</l><l>शुद्धया युक्तानां वैरिवर्गस्य मध्ये भर्त्रा क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥</l></lg><lg n="19.120">
<l>सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।</l><l>मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेर् एकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥</l></lg><lg n="20.1">
<l>मुखमुल्लसितत्रिरेखमुच्चैर्भिदुरभ्रूयुगभीषणं दधानः ।</l><l>समिताविति विक्रमानमृष्यन्गतभीराह्वतचेदिराण्मुरारिम् ॥ १ ॥</l></lg><lg n="20.2">
<l>शितचक्रनिपातसंप्रतीक्ष्यं वहतः स्कन्धगतं च तस्य मृत्युम् ।</l><l>अभिशौरि रथो ऽथनोदिताश्वः प्रययौ सारथिरूपया नियत्या ॥ २ ॥</l></lg><lg n="20.3">
<l>अभिचैद्यमगाद्रथो ऽपि शौरेरवनिं जागुडकुङ्कुमाभिताम्रैः ।</l><l>गुरनेमिनिपीडनावदीर्णव्यसुदेहस्रुतशोणितैर्विलिम्पन् ॥ ३ ॥</l></lg><lg n="20.4">
<l>स निरायतकेतनांशुकान्तः कलनिक्वाणकरालकिङ्किणीकः ।</l><l>विरराज रिपुक्षयप्रतिज्ञामुखरो मुक्तशिखः स्वयं नु मृत्युः ॥ ४ ॥</l></lg><lg n="20.5">
<l>सजलाम्बुधरारवानुकारी ध्वनिरापूरितदिङ्मुखो रथस्य ।</l><l>प्रगुणीकृतकेकमूर्ध्वकण्ठैः शितिकण्ठैरुपकर्णयाम्बभूवे ॥ ५ ॥</l></lg><lg n="20.6">
<l>अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः ।</l><l>चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥ ६ ॥</l></lg><lg n="20.7">
<l>जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण ।</l><l>चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्ज्यम् ॥ ७ ॥</l></lg><lg n="20.8">
<l>समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवर्गैः ।</l><l>अथ साभिसारं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमध्यवर्षत् ॥ ८ ॥</l></lg><lg n="20.9">
<l>ऋजुताफलयोगशुद्धिभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् ।</l><l>गुणिना नतिमागतेन सन्धिः सह चापेन समञ्जसो बभूव ॥ ९ ॥</l></lg><lg n="20.10">
<l>अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन ।</l><l>अरसद्धनुरुच्चकैदृढार्तिप्रसभाकर्षणवेपमानजीवम् ॥ १० ॥</l></lg><lg n="20.11">
<l>अनुसन्ततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः ।</l><l>वदनादिव वादिनो ऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ॥ ११ ॥</l></lg><lg n="20.12">
<l>गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् ।</l><l>ददृशे कुपितान्तकोन्न्मद्भ्रूयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥</l></lg><lg n="20.13">
<l>तडिदुज्ज्वलजातरूपपुङ्खैः खमयःश्याममुखैरभिध्वनद्भिः ।</l><l>जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥ १३ ॥</l></lg><lg n="20.14">
<l>शितशल्यमुखावदीर्णमेघक्षरदम्भः स्फुटतीव्रवेदनानाम् ।</l><l>स्रवदस्रुततीव चक्रवालं ककुभामौर्णविषुः सुवर्णपुङ्खाः ॥ १४ ॥</l></lg><lg n="20.15">
<l>अमनोरमतां यती जनस्य क्षणमालोकपथान्नभः सदां वा ।</l><l>रुरुधे पिहिताहिमद्युतिर्धीर्विशिखैरन्तरिता च्युता धरित्रत्री ॥ १५ ॥</l></lg><lg n="20.16">
<l>विनिवारितभानुतापमेकं सकलस्यापि मुरद्विषो बलस्य ।</l><l>शरजालमयं समं समन्तादुरु सद्मेव नराधिपेन तेने ॥ १६ ॥</l></lg><lg n="20.17">
<l>इति चेदिमहीभृता तदानीं तदनीकं दनुसूनुसूदनस्य ।</l><l>वयसमिव चक्रमक्रियाकं परितो ऽरोधि विपाटपञ्चरेण ॥ १७ ॥</l></lg><lg n="20.18">
<l>इषुवर्षमनेकमेकवीरस्तदरिप्रच्युतमच्युतः पृषत्कैः ।</l><l>अथ वादिकृतं प्रमाणमन्यैः प्रतिवादीव निराकरोत्प्रमाणैः ॥ १८ ॥</l></lg><lg n="20.19">
<l>प्रतिकुञ्चितकूर्परेण तेन श्रवणोपान्तिकनीयमानगव्यम् ।</l><l>ध्वनति स्म धनुर्घनान्तमत्तप्रचुरक्रौञ्चरवानुकारमुच्चैः ॥ १९ ॥</l></lg><lg n="20.20">
<l>उरसा विततेन पातितांसः स मयूराञ्चितमस्तकस्तदानीम् ।</l><l>क्षणमालिखितो नु सौष्ठवेन स्थिरपूर्वापरमुष्टिराबभौ वा ॥ २० ॥</l></lg><lg n="20.21">
<l>ध्वनतो नितरां रयेण गुर्व्यस्तडिदाकारचलद्गुणादसंख्याः ।</l><l>इषवो धनुषः सशब्दमाशु न्यपतन्नम्बुधरादिवाम्बुधराः ॥ २१ ॥</l></lg><lg n="20.22">
<l>शिखरोन्नतनिष्ठुरांसपीठः स्थगयन्नेकदिगन्तमायतान्तः ।</l><l>निरवर्णि सकृत्प्रसारितो ऽस्य क्षितिभर्तेव चमूभिरेकबाहुः ॥ २२ ॥</l></lg><lg n="20.23">
<l>तमकुण्ठमुखाः सुपर्णकेतोरिषवः क्षिप्तमिषुव्रजं परेण ।</l><l>विभिदामनयन्त कृत्यपक्षं नृपतेर्नेतुरिवायथार्थवर्णाः ॥ २३ ॥</l></lg><lg n="20.24">
<l>दयितैरिव खण्डिता मुरारेर्विशिखैः संमुखमुज्ज्वलाङ्गलेखैः ।</l><l>लघिमानमुपेयुषी पृथिव्यां विफला शत्रुशरावलिः पपात ॥ २४ ॥</l></lg><lg n="20.25">
<l>प्रमुखे ऽभिहताश्च पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः ।</l><l>परिपूर्णतरं भुवो गतायाः परतः कातरवत्प्रतीपमीयुः ॥ २५ ॥</l></lg><lg n="20.26">
<l>इतरेतरत्सन्निकर्षजन्मा गलसंघट्टविकीर्णविस्फुलिङ्गः ।</l><l>पटलानि लिहन्वलाहकानामपरेषु क्षणमज्ज्वलत्कृशानुः ॥ २६ ॥</l></lg><lg n="20.27">
<l>शरदीव शरश्रिया विभिन्ने विभुना शत्रुशिलीमुखाभ्रजाले ।</l><l>विकसन्मुखवारिजाः प्रकामं बभुराशा इव यादवध्वजिन्यः ॥ २७ ॥</l></lg><lg n="20.28">
<l>स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः ।</l><l>ददृशे ऽथ च तस्य चापयष्ट्यामिषुरेकैव जनै सकृद्विसृष्टा ॥ २८ ॥</l></lg><lg n="20.29">
<l>भवति स्फुटमागतो विपक्षान्न सपक्षो ऽपि हि निर्वृतेर्विधाता ।</l><l>शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २९ ॥</l></lg><lg n="20.30">
<l>गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलभासः ।</l><l>विनतासुतवत्तलं भुवः स्म व्यथितभ्रान्तभुजङ्गमं विशन्ति ॥ ३० ॥</l></lg><lg n="20.31">
<l>शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः ।</l><l>परमर्मभिदो ऽपि दानवारेरपराधा इव न व्यथां वितेनुः ॥ ३१ ॥</l></lg><lg n="20.32">
<l>विहिताद्भुतलोकसृष्टिमाये जममिच्छन्किल मायया मुरारौ ।</l><l>भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥</l></lg><lg n="20.33">
<l>सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् ।</l><l>प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धकारः ॥ ३३ ॥</l></lg><lg n="20.34">
<l>गुरवो ऽपि निषद्य यन्निदद्रुर्धनुषि क्ष्मापतयो न वाच्यमेतत् ।</l><l>क्षयितापदि जाग्रतो ऽपि नित्यं ननु तत्रैव हि ते ऽभवन्निषण्णाः ॥ ३४ ॥</l></lg><lg n="20.35">
<l>श्लथतां व्रजतस्तथा परेषामगद्धारणाशक्तिमुज्झतः स्वाम् ।</l><l>सुगृहीतमपि प्रमदभाजां मनसः शास्त्रमिवामस्त्रमग्रपाणेः ॥ ३५ ॥</l></lg><lg n="20.36">
<l>उचितस्वपनो ऽपि नीरराशौ स्वबलाम्भोनिधिमध्यगस्तदीनीम् ।</l><l>भुवनत्रयकार्यजागरूकः स परं तत्र परः पुमानजागः ॥ ३६ ॥</l></lg><lg n="20.37">
<l>अथसूर्यरुचीव तस्य दृष्टावुद्भूत्कौस्तुभदर्पणं गतायाम् ।</l><l>पटुः धाम ततो न चाद्भुतं तद्विभुरिन्द्वर्कविलोचनः किलासौ ॥ ३७ ॥</l></lg><lg n="20.38">
<l>महतः प्रणतेष्विव प्रसादः स मणेरंशुचयः ककुंमुखेषु ।</l><l>व्यकसद्विकसद्विलोचनेभ्यो दददालोकमनाविलं बलेभ्यः ॥ ३८ ॥</l></lg><lg n="20.39">
<l>प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢषे भानुमतः पुनः प्रसर्तुम् ।</l><l>तमसो ऽभिभवादपास्य मूर्च्छामुपजीवत्सहसैव जीवलोकः ॥ ३९ ॥</l></lg><lg n="20.40">
<l>घनसंतमसैर्जवेन भूयो यदुयोधैर्युधि रेधिरे द्विषन्तः ।</l><l>ननु वारिधरोपरोधमुक्तः सुतरामुत्तपते पतिः प्रभाणाम् ॥ ४० ॥</l></lg><lg n="20.41">
<l>व्यवहार इवानृताभियोगं तिमिरं निर्जितवत्यथप्रकाशे ।</l><l>रिपुरुल्बणभीमभोगभाजां भुजगानां जननीं जजाप विद्याम् ॥ ४१ ॥</l></lg><lg n="20.42">
<l>पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ।</l><l>अभवन्युगपद्विलोलजिह्वायुगलीढोभयसृक्कभागमाविः ॥ ४२ ॥</l></lg><lg n="20.43">
<l>कृतकेशविडम्बनैर्विहायो विजयं तत्क्षणमिच्छुभिश्छलेन ।</l><l>अमृताग्रभुवः पुरेव पुच्छं बडवाभर्तुरवारि काद्रवेयैः ॥ ४३ ॥</l></lg><lg n="20.44">
<l>दधतस्तनिमानमानपूर्व्या बभुरक्षिश्रवसो मुखे विशालाः ।</l><l>भरतज्ञकविप्रणीतकाव्यग्रथिताङ्का इव नाटकप्रपञ्चाः ॥ ४४ ॥</l></lg><lg n="20.45">
<l>सविषश्वसनोद्धतोरुधूमव्यवधिम्लानमरीचि पन्नगानाम् ।</l><l>उपरागवतेव तिग्मभासा वपुरौदुम्बरमण्डलाभमूहे ॥ ४५ ॥</l></lg><lg n="20.46">
<l>शिखिपिच्छकृतध्वजावचूडक्षणसाशङ्कविवर्तमानभोगाः ।</l><l>यमपाशवदाशुबन्धनाय न्यपतन्वृष्णिगणेषु लेलिहानाः ॥ ४६ ॥</l></lg><lg n="20.47">
<l>पृथुवारिधिवीचिमण्डलान्तर्विलसत्फेनवितानपाण्डुराणि ।</l><l>दधति स्म भुजङ्गमाङ्गमध्ये नवनिर्मोकरुचिं ध्वजांशुकानि ॥ ४७ ॥</l></lg><lg n="20.48">
<l>कृतमण्डलबन्धमुल्लसद्भिः शिरसि प्रत्युरसं विलम्बमानैः ।</l><l>व्यरुचज्जनता भुजङ्गभोगैर्दलितेन्दीवरमालभारिणीव ॥ ४८ ॥</l></lg><lg n="20.49">
<l>परिवेष्टितमूर्तयश्च मूलादुरगैराशिरसः सरत्नपुष्पैः ।</l><l>दधुरायतवल्लिवेष्टितानामुपमानं मनुजा महीरुहाणाम् ॥ ४९ ॥</l></lg><lg n="20.50">
<l>बहुलाञ्जनपङ्कपट्टनीलद्युतयो देहमितस्ततः श्रमन्तः ।</l><l>दधिरे फणिनस्तुरङ्गमेषु स्फुटपल्याणनिबद्धवर्ध्रलीलाम् ॥ ५० ॥</l></lg><lg n="20.51">
<l>प्रसृतं रभसादयोभिनीला प्रतिपदं परितो ऽभिवेष्टयन्ती ।</l><l>तनुरायतिशालिनी महाहेर्गजमन्दुरिव निश्चलं चकार ॥ ५१ ॥</l></lg><lg n="20.52">
<l>अथ सस्मितवीक्षितादवज्ञाचलितैकोन्नमितभ्रु माधवेन ।</l><l>निजकेतुशिरःश्रितः सुपर्णादुदपप्तन्नयुतानि पक्षिराजाम् ॥ ५२ ॥</l></lg><lg n="20.53">
<l>द्रुतहेमरुचः खगाः खगेन्द्रादलघूदीरितनादमुत्पतन्तः ।</l><l>क्षणमैक्षिषतोच्चकैश्चमूभिर्ज्वलतः सप्तरुचेरिव स्फुलिङ्गाः ॥ ५३ ॥</l></lg><lg n="20.54">
<l>उपमानमलाभि लोलपक्षक्षणविक्षिप्तमहाम्बुवाहमत्स्यैः ।</l><l>गगनार्णवमन्तरासुमेरोः कुलजानां गरुडैरिलाधराणाम् ॥ ५४ ॥</l></lg><lg n="20.55">
<l>पततां परितः परिस्फुरद्भिः परिपिङ्गीकृतदिङ्मुखैर्मयूखैः ।</l><l>सुतरामभवदद्दुरीक्ष्यबिम्बस्तपनस्तत्किरणैरिवात्मदर्शः ॥ ५५ ॥</l></lg><lg n="20.56">
<l>दधुरम्बुधिमन्थनाद्रिमन्थभ्रमणायस्तफणीन्द्रपित्तजानाम् ।</l><l>रुचमुल्लसमानवैनतेयद्युतिभिन्नाः फणभारिणो मणीनाम् ॥ ५६ ॥</l></lg><lg n="20.57">
<l>अभितः क्षुभिताम्बुराशिधीरध्वनिराकृष्टसमूलपादपौघः ।</l><l>जनयन्नभवद्युगान्तशङ्कामनिलो नागविपक्षपक्षजन्मा ॥ ५७ ॥</l></lg><lg n="20.58">
<l>प्रचलत्पतगेन्द्रपत्रवातप्रसभोन्मूलितशैलदत्तमार्गैः ।</l><l>भयविह्वलमाशु दन्दशूकैर्विवशैराविविशे स्वमेव धाम ॥ ५८ ॥</l></lg><lg n="20.59">
<l>खचरैः क्षयमक्षये ऽहिसैन्ये सुकृतैर्दुष्कृतवत्तदोपनीते ।</l><l>अयुगाचिरिव ज्वलन्रुषाथो रिपुरौदर्चिषमाजुहाव मन्त्रम् ॥ ५९ ॥</l></lg><lg n="20.60">
<l>सहसा दधदुद्धताट्टहासश्रियमुत्त्रासितजन्तुना स्वनेन ।</l><l>वियतायतहेतिबाहुरुच्चैरथ वेताल इवोत्पपात वह्निः ॥ ६० ॥</l></lg><lg n="20.61">
<l>चलितोद्धतधूमकेतनो ऽसौ रभसादम्बररोहिरोहिताश्वः ।</l><l>द्रुतमारुतसारथिः शिखावान्कनकस्यन्दनसुन्दरश्चचाल ॥ ६१ ॥</l></lg><lg n="20.62">
<l>ज्वलदम्बरकोटरान्तरालं बहुलार्द्राम्बुदपत्रबद्धधूमम् ।</l><l>परिदीपितदीर्घकाष्ठमुच्चैस्तरुवद्विश्वमुवोष जातवेदाः ॥ ६२ ॥</l></lg><lg n="20.63">
<l>गुरुतापविशुष्यदम्बुशुभ्राः क्षणमालग्नकृशानुताम्रभासः ।</l><l>स्वमसारतया मषीभवन्तः पुनराकारमवापुराम्बुवाहाः ॥ ६३ ॥</l></lg><lg n="20.64">
<l>ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः ।</l><l>क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः ॥ ६४ ॥</l></lg><lg n="20.65">
<l>निखिलामिति कुर्वतश्चिरायद्रुतचामीकरचारुतामिव द्याम् ।</l><l>प्रतिघातसमर्थमस्त्रमग्नेरथ मेघङ्करमस्मरन्मुरारिः ॥ ६५ ॥</l></lg><lg n="20.66">
<l>चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः सन्धिषु लीनसर्वसिन्धोः ।</l><l>उदगुः सलिलात्मनस्त्रिधाम्नो जलवाहावलयः शिरोरुहेभ्यः ॥ ६६ ॥</l></lg><lg n="20.67">
<l>ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासम् ।</l><l>उदनंसिषुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥ ६७ ॥</l></lg><lg n="20.68">
<l>तपनीयनिकर्षराजिगौरस्फुरदुत्तालतडिच्छटाट्टहासम् ।</l><l>अनुबद्धसमुद्धताम्बुवाहध्वनिताडम्बरमम्बरं बभूव ॥ ६८ ॥</l></lg><lg n="20.69">
<l>सवितुः परिभावुकैर्मरीचीनचिराभ्यक्तमतङ्गजाङ्गभाभिः ।</l><l>जलदैरभितः स्फुरद्भिरुच्चैर्विदधे केतनतेव धूमकेतोः ॥ ६९ ॥</l></lg><lg n="20.70">
<l>ज्वलतः शमनाय चित्रभानोः प्रलयाप्लावमिवाभिदर्शयन्तः ।</l><l>ववृषुर्वृषनादिनो नदीनां प्रतटारोपितवारि वारिवाहाः ॥ ७० ॥</l></lg><lg n="20.71">
<l>मधुरैरपि भूयसा स मेध्यैः प्रथमं प्रत्युत वारिभिर्दिदीपे ।</l><l>पवमानसखस्ततः क्रमेण प्रणयक्रोध इवाशमद्विवादैः ॥ ७१ ॥</l></lg><lg n="20.72">
<l>परितः प्रसभेन नीयमानः शरवर्षैरवसायमाश्रयाशः ।</l><l>प्रबलेषु कृती चकार विद्युद्व्यपदेशेन घनेष्वनुप्रवेशम् ॥ ७२ ॥</l></lg><lg n="20.73">
<l>प्रयतः प्रशमं हुताशनस्य क्वचिदालक्ष्यत मुक्तमूलमर्चिः ।</l><l>बलभित्प्रहितायुधाभिघातात्त्रुटितं पत्रिपतेरिवैकपत्रम् ॥ ७३ ॥</l></lg><lg n="20.74">
<l>व्यगमन्सहसा दिशां मुखेभ्यः शमयित्वा शिखिनाङ्घनाघनौघाः ।</l><l>उपकृत्यनिसर्गतः परेषामुपरोधं न हि कुर्वते महान्तः ॥ ७४ ॥</l></lg><lg n="20.75">
<l>कृतदाहमुदर्चिषः शिखाभिः परिषिक्तं मुहुरम्भसा नवेन ।</l><l>विहिताम्बुधरव्रणं प्रपेदे गगनं तापितपायितासिलक्ष्मीम् ॥ ७५ ॥</l></lg><lg n="20.76">
<l>इति नरपतिरस्त्रं यद्यदाविश्चकार प्रकुपित इव रोगः क्षिप्रकारी विकारम् ।</l><l>भिषगिव गुरुदोषच्छेदिनोपक्रमेण क्रमविदथ मुरारिः प्रत्यहंस्तत्तदाशु ॥ ७६ ॥</l></lg><lg n="20.77">
<l>शुद्धिं गतैरपि परामृजुभिर्विदित्वा बाणैरजय्यमविघट्टितमर्मभिस्तम् ।</l><l>मर्मातिगैरनृजुभिर्नितरामशुद्धैर् वाक्सायकैरथ तुतोद तदा विपक्षः ॥ ७७ ॥</l></lg><lg n="20.78">
<l>राहुस्त्रीस्तनयोरकारि सहसा येनाश्लथालिङ्गनव्यापारैकविनोददुर्ललितयोः कार्कश्यलक्ष्मीर्वृथा ।</l><l>तेनाक्रोशत एव तस्य मुरजित्तत्काललोलानलज्वालापल्लवितेन मूर्धविकलं चक्रेण चक्रे वपुः ॥ ७८ ॥</l></lg><lg n="20.79">
<l>श्रिया जुष्टं दिव्यैः सपटहरवैरन्वितं पुष्पवर्षैर् वपुष्टचैद्यस्य क्षणमृषिगणैः स्तूयमानं निरीय ।</l><l>प्रकाशेनाकाशे दिनकरकरान्विक्षिपद्विस्मिताक्षैर् नरेन्द्रैरौपेन्द्रं वपुरथ विशद्धाम वीक्षांबभूवे ॥ ७९ ॥</l></lg></body></text></TEI>