श्रियः पति श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि ।वसन् ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ १ ॥
गतं तिरश्चीनमनूरुसारधेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः ।पतत्यधो धाम विसारि सर्वतः किमेदतित्याकुलमीक्षितं जनैः ॥ २ ॥
चयस्तविषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् ।विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः ॥ ३ ॥
नवानधो ऽधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फुटोपमं भूतिसितेन शम्घुना ॥ ४ ॥
दधानमम्भोरुहकेसरद्युतीर्जटाः शरच्चन्द्र मरीचिरोचिषम् ।विपाकस्तुङ्गास्तुहिनस्थलीरुहो धरादरेन्द्रं व्रततीततीरिव ॥ ५ ॥
पिशङ्गमौञ्जीयुजमर्जुनच्छविं वसानमेणाजिनमञ्नद्युति ।सुवर्मसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ॥ ६ ॥
विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितत्नुभिः ।कृतोपवीतं हिमशुभ्रमुच्चकैर्घनं घनान्ते तटितां गणैरिव ॥ ७ ॥
निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसद्बिसच्छेदसिताङ्गसङ्गिना ।चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८ ॥
अजस्रमास्फालितवल्लकीगुणक्षतोज्वलाङ्गुष्ठनखांशुभिन्नया ।पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥ ९ ॥
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥ १० ॥
निवर्त्य सो ऽनुव्रजतः कृतानतीनतीन्द्रयज्ञाननिधिर्नभः सदः ।समासदत्सादितदैत्यसंपदः पदं महेन्द्रलायचारु चक्रिणः ॥ ११ ॥
पतत्पतङ्गप्रतिमस्तपोनिधिः पुरो ऽस्य यावन्न भुवि व्लीयत ।गिरेस्तडित्वानिव तावदुच्चकैर्जवेन पीठादुतिष्ठदच्युतः ॥ १२ ॥
अथ प्रयत्नोन्नमितानत्फणैर्धृते कथञ्चित्फणिनां गणैरधः ।न्यधायिषातामभि देवकीसुतं सुतेन धातुश्चरणौ भुवस्तले ॥ १३ ॥
तमर्घ्यमर्घ्यादिकयादिपुरुषः सपर्यया साधु स पर्यपूजयत् ।गृहानुपैतुं प्रणयादभीप्सवो भवन्ति नापुण्यकृतां मनीषिणः ॥ १४ ॥
न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव ।स्वहस्तदत्ते मुनिमासने मुनिश्चिरंस्तावदभिन्यवीविशत् ॥ १५ ॥
महामहानीलशिलारुचः पुरो निषेदिवान् कंसकृषः स विष्टरे ।श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसो ऽभिरामताम् ॥ १६ ॥
विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः ।ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः ॥ १७ ॥
अशेषतीर्थोपहृताः कमण्डलोर्निधाय पाणावृषीणाभ्युदीरिताः ।अघौघविध्वंसविधौ पटीयसीर्नतेन मूर्द्ना हरिरग्रहीदापः ॥ १८ ॥
स काञ्चने यत्र मुनेरनुज्ञया नवाम्बुदशयामवपुर्न्यविक्षत ।जिगाय जम्बूजनितश्रियः श्रियं सुमेरुशृङ्गस्य तदा तदासनम् ॥ १९ ॥
स तप्ताकार्तस्वरभास्वराम्बरः कठोरधाराधिपलाञ्छनच्छविः ।विदिद्युते बाडवजातवेदसः शिखाभिराश्लिष्ट इवाम्भसां निधिः ॥ २० ॥
रथाङ्गपाणेः पटलेन रोचिषामृषित्विषः संवलिता विरेजिरे ।चलत्पलाशान्तरगोचरस्तरोतुषारमूर्तेरिव नक्तमंशवः ॥ २१ ॥
प्रफुल्लतापिच्छनिभैरभीषुभिः शुभैश्च सप्तच्छदपांसुपाण्डुभिः ।परम्परेण च्छुरितामलच्छवी तदेकवर्णाविव तौ बभूवतुः ॥ २२ ॥
युगान्तकालमतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत ।तनौ ममुस्तत्र न कैटभद्विषस्तपोधनभ्यागमसंभवा मुदः ॥ २३ ॥
निदाधधामानमिवाधिदीधितिं मुदाविकासं मुनिमभ्युपेयुषी ।विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डराकाक्ष इति स्फुटाभवत् ॥ २४ ॥
सितंसितिम्ना सुतरां मुनेर्वपुः विसारिभिः सौधमिवाथ लम्भयन् ।द्विजावलिव्याजनिशाकरांशुभिः शुचिस्मितां वाचमवोचदच्युतः ॥ २५ ॥
हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितै कृतर्ं शुभै ।शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितये ऽपि योग्यताम् ॥ २६ ॥
जगत्पर्याप्तसहस्रभानुना न यन्नियन्तुं समभावि भानुना ।प्रसह्य तेजोभिरसंख्यतां गतैर् अदस्त्वया नुन्नमनुत्तमं तमः ॥ २७ ॥
कृतः प्रजाक्षेमकृता प्रजासृजा सुपात्रनिक्षेनिराकुलात्मना ।सदोपयोगे ऽपि गुरुस्त्वमक्षयो निधिः श्रुतीनां धनसंपदामिव ॥ २८ ॥
विलोकनेनैव तवामुना मुने कृतः कृतार्थोस्मि निबर्हितांहसा ।तथापिशुश्रूषुरहं गरीयसीर्गिरो ऽथवा श्रेयसि केन वा तृप्यते ॥ २९ ॥
गतस्पृहो ऽप्यागमनप्रयोजनं वदेति वक्तुं व्यवसीयते यया ।तनोति नस्तामुदित्मगौरवो गुरुस्तवैवागम एव धृष्यताम् ॥ ३० ॥
इतिब्रुवन्तं उवाच स व्रती न वाच्यमित्थं पुरुषोत्तम त्वया ।त्वमेव साक्षात्करणीय इत्यतः किमस्ति कार्यं गुरु योगिनामपि ॥ ३१ ॥
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।उपेयुषोमोक्षपथं मनस्विनस्त्वमग्रमूर्तिर्निरपायसंश्रया ॥ ३२ ॥
उदासितारं निग्रहीतमानसैर्गृहीतमध्यात्मदृशा कथञ्चन ।बहिर्विकरं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुषं पुराविदः ॥ ३३ ॥
निवेशयामासिथ हेलयोद्धृतं फणाभृतां छादनमेकमोकसः ।जगतैकस्थपतिस्त्वमुच्चकैरहीश्वरस्तम्भशिरःसुभूतलम् ॥ ३४ ॥
अनन्यगुर्वास्तव केन केवलः पुराणमूर्तेमहिमावगम्यते ।मनुष्यजन्मापि सुरासुरान्गुणैर्भवान्भवच्छेदकरै करोत्यधः ॥ ३५ ॥
लघूकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः ।उदूढलोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ ३६ ॥
निजोजसोज्जासयितुं जगद्रहामुपजिहीथा न महीतले यदि ।समाहितैरप्यनिरूपितस्ततः पदं दृशः स्याः कथम् ईश मादृशाम् ॥ ३७ ॥
उपप्लुतं पातुमदो मदोद्धतैस्त्वमेव विश्वंभर विश्वमीशिषे ।ऋते रवेः क्षालयितुं क्षमेत कः क्षपातमस्काण्डमलीमसं तमः ॥ ३८ ॥
करोति कंसादिमहीभृतां वधाज्जनो मृगाणामिव यत्तव स्तवम् ।हरे हिरण्याक्षपुरःसरासुरद्विपद्विषः प्रत्युत सा तिरस्क्रिया ॥ ३९ ॥
प्रवृत्त एव स्वयमुज्झिश्रमः क्रमेण पेष्टुं भुवनद्वषामसि ।तथापि वाचालतया युनक्ति मां मिथस्त्वदाभाषणलोलुपं मनः ॥ ४० ॥
तदिन्द्रसंदिष्टमुपेन्द्र यद्वचः क्षणं मया विश्वजनीनमुच्यते ।समस्तकार्येषु गतेन धुर्यतामहिद्विषस्तद्भवता निशम्यताम् ॥ ४१ ॥
अभूदभूमि प्रतिपक्षजन्मनां भियां तनूजस्पनद्युतिर्दितेः ।यमिन्द्रशब्दार्थनिषूदनं हरेर्हरण्यपूर्वं कशिपुं प्रचक्षते ॥ ४२ ॥
समत्सरेणासुर इत्युपेयुषा चिराय नाम्नः प्रथमाभिधेयतां ।भयस्यपूर्वावतरस्तरस्विना मनस्तु येन द्युसदां न्यधीयत ॥ ४३ ॥
दिशामधीशांश्चतुरो यतः सुरानपास्य तं रागाहृताः सिषेविरे ।अवापुरारभ्य ततश्चला इति प्रवादमुच्चैरयशस्करं श्रियः ॥ ४४ ॥
पुराणि दुर्गाणि निशातमायुधं बलानि शूराणि घनाश्चकञ्चुकाः ।स्वरूपशोभैकफलानि नाकिनां गणैर्यमाशङ्क्य तदादि चक्रिरे ॥ ४५ ॥
स संचरिष्णु भुवनान्तरेषु यां यदृच्छयाशिश्रियादाश्रयः श्रियः ।अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ॥ ४६ ॥
सटाच्छटभिन्नघनेन बिभ्रता नृसिंह सैंहीमतनुं तनुं त्वया ।स मुग्धकान्तास्तनसङ्गभङ्गुरैरुरोविदारं प्रतिचस्किरे नखैः ॥ ४७ ॥
विनोदमिच्छन्नथ दर्पजन्मनो रणेन कण्ड्वास्त्रिदशै समं पुनः ।स रावणो नाम निकामभीषणं बभूव रक्षः क्षतरक्षणं दिवः ॥ ४८ ॥
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरो ऽतिरागाद्दशमं चिकर्तिषुः ।अतर्कयद्विघ्नमिवेष्टसाधसः प्रसादमिच्छासद्दृशं पिनाकिनः ॥ ४९ ॥
समुत्क्षिपन्यः पृथिवीभृतां वरं वरप्रदानस्य चकार शूलिनः ।त्रसत्तुषाराद्रिसुताससंभ्रमस्वयङ्ग्रहाश्लेषसुखेन निष्क्रयम् ॥ ५० ॥
पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ।विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिवः ॥ ५१ ॥
सलीलयातानि न भर्तुरभ्रमोर्न चित्रमुच्चैश्रवसः पदक्रमम् ।अनुद्रुतः संयति येन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम् ॥ ५२ ॥
अशुक्नुवन् सोढुमधीरलोचनः सहस्ररश्मेरिव यस्य दर्शनम् ।प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यद्दिवसानि कौशिकः ॥ ५३ ॥
बृहच्छलानिष्ठुरकण्ठघट्टनाविकीर्णलोलाग्निकणं सुरद्विषः ।जगत्प्रभोरप्रसिहिष्णु वैष्णवं न चक्रमस्याक्रमताधिकन्धरं ॥ ५४ ॥
बिभिन्नशङ्खः कलुषीभवन्मुहुर्मदेन दन्तीव मनुष्यधर्मणः ।निरस्तघांभीर्यमपास्तपुष्पकं प्रकम्पयामास न मानसं न सः ॥ ५५ ॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुङ्कारपराङ्मुखीकृताः ।प्रहर्तुरेवोरगराजरज्जवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ ५६ ॥
परेभर्तुर्महिषो ऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः ।हृते ऽपिभारे महतस्त्रपाभरादुवाह दुःखेन भृशानृतं शिरः ॥ ५७ ॥
सृपशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः ।अघघर्मोदकबिन्दुमौक्तिकैरलञ्चकारास्य वधूरहस्करः ॥ ५८ ॥
कलासमग्रेणगृहानमुञ्चता मनस्विनीरुत्कयितुं पटीयसा ।विसासिनस्तस्य वितन्वतारतिं न नर्मसाचिव्यमकारिनेन्दुना ॥ ५९ ॥
विदग्धलीलोचितदन्तपत्रिकाविधित्सया नूनमनेन मानिना ।न जातु वैनायकमेकमुद्धृतं विषाणमद्यापि पुनः प्ररोहति ॥ ६० ॥
निशान्तनारीपरिधानधूननस्फुटागसाप्यूरुषु लोलचक्षुषः ।प्रियेण तस्यानपराधबाधिताः प्रकम्पनेनानुचकम्पिरे सुराः ॥ ६१ ॥
तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसां ।बभार बाष्पैर्द्वगुणीकृतं तनुतनूनपाद्धूममवितानमाधिजैः ॥ ६२ ॥
परस्यमर्मविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजङ्गता ॥ ६३ ॥
तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्बि दिग्गजैः ॥ ६४ ॥
अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रवन्दीश्वसितानिलैर्यथा ।सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्वबौ ॥ ६५ ॥
तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।प्रसूनकॢप्तिं दधतः सदर्तवः पुरोस्य वास्तव्यकुटुम्बितां ययौ ॥ ६६ ॥
अमानवं जातमजं कुले मनोः प्रभाविनं भाविन्नमन्तमात्मनः ।मुमोच जानन्नपि जानकीं न यः सदभिमानैकधना हि मानिनः ॥ ६७ ॥
स्मरत्यदो दाशरथिर्भवानमुं वनान्ताद्वनितापहारिणम् ।पयोधिमाबद्धचलज्जलाबिलं विलङ्घ्यलङ्गां निकषा हनिष्यति ॥ ६८ ॥
अतोपपत्तिं छलनापरो ऽपरामवाप्य शैलूष इवैष भूमिकां ।तिरोहितात्मा शिशुपालसंज्ञया प्रतीयते संप्रति साप्यसः परैः ॥ ६९ ॥
स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः ।युवाकराक्रान्तमहीभृदुच्चकैरसंशयं संप्रति तेजसा रविः ॥ ७० ॥
स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया ।दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान् हसत्यसौ ॥ ७१ ॥
बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा ।सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥ ७२ ॥
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् ।शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥ ७३ ॥
हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य ।घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥ ७४ ॥
ओमित्युक्तवतो ऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति ।शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥ ७५ ॥