श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जम् ।प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ १ ॥
रतिरभसविलासाभ्यासतान्तं न यावन् नयनयुगममीलत्तावदेवाहतो ऽसौ ।रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥ २ ॥
स्फुटतरमुपरिष्टादल्पमूर्तेर्ध्रुवस्य स्फुरति सुरमुनीनां मण्डलं व्यस्तमेत् ।शकटमिव महीयः शैशवे शार्ङ्गपाणेश् चपलचरणकाब्जप्रेरणोत्तुङ्गिताग्रम् ॥ २ ॥
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति ।मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥ ४ ॥
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशो ऽवकाशम् ।रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद् गमयति शयनीये शर्वरी किं करोतु ॥ ५ ॥
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगान् उदधिमहति राज्ये काव्यवद्दुर्विगाहे ।गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥ ६ ॥
क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः ।मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥ ७ ॥
द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव ।शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥ ८ ॥
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे ।कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥ ९ ॥
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः ।असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥ १० ॥
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव ।रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥ ११ ॥
उदयमुदितदीप्तिर्याति यः संगतौ मे पतति न वरमिन्दुः सो ऽपरामेष गत्वा ।स्मितरुचिरिव सद्यः साभ्यसूयं प्रभेति स्फुरति विशदमेषा पूर्वकाष्ठाङ्गनायाः ॥ १२ ॥
चिररतिपरिखेद प्राप्तनिद्रासुखानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः ।अपरिचलितगात्राः कुर्वतेन प्रियाणामशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥ १३ ॥
कृतधवलिमभेदैः कुङ्कुमेनेव किञ्चिन्मलयरुहरजोभिर्भूषयन्पश्चिमाशाम् ।हिमरुचिररुणिम्ना राजते रज्यमानैर्जरठकमलकन्दच्छेदगौरैर्मयूखैः ॥ १४ ॥
दधदसकलमेकं खण्डितामानमद्भिः श्रियमपरमपूर्णामुच्छ्वसद्भिः पलाशैः ।कलरवमुपगीते षट्पदौघेन धत्तः कुमुदकमल षण्डे तुल्यरूपामवस्थाम् ॥ १५ ॥
मदरुचिमरुणेनोद्गच्छता लम्भितस्य त्यजत इव चिराय स्थायिनीमाशु लज्जाम् ।वसनमिव मुखस्य स्रंसते संप्रतीदं सितकरकरजालं वासवाशायुवत्याः ॥ १६ ॥
अविरतरतलीलायाःसजातश्रमाणाम् उपशममुपयान्तं निःसहे ऽङ्गे ऽङ्गनानाम् ।पुनरुषसि विविक्तैमर्मातरिश्वावचूर्ण्य ज्वलयति मदनाग्निं मालतीनां रजोभिः ॥ १७ ॥
अनिमिषमविरामा रागिणां सर्वरात्रं नवनिधुवनलीलाः कौतुकेनातिवीक्ष्य ।इदमुदवसितानामस्फुटालोकसंपन्नयनमिव सनिद्रं घूर्णते दैपमर्चिः ॥ १८ ॥
विकचकमलगन्धैरन्धयन्भृङ्गमालाः सुरभितमकरन्दं मन्दमावाति वातः ।प्रमदनमदनमाद्यद्यौवनोद्दामरामारमणरभसखेदस्वेदविच्छेददक्षः ॥ १९ ॥
लुलितनयनताराः क्षामवक्त्रेन्दुबिम्बा रजनय इव निन्द्राक्लान्तनीलोत्पलाक्ष्यः ।तिमिरमिव दधानाः स्रंसिनः केशपाशान् अवनिपतिगृहेभ्यो यान्त्यमूर्वारवध्वः ॥ २० ॥
शिशिरकिरणकान्तं वासरान्ते ऽभिसार्य श्वसनसुरभिगन्धिः साम्प्रतं सत्वरेव ।व्रजति रजनिरेषा तन्मयूखाङ्गरागैः परिमलितमनिन्द्यैरम्बरान्तं वहन्ती ॥ २१ ॥
नवकुमुदवनश्रीहासकेलिप्रसङ्गाद् अधिकरुचिरशेषामप्युषां जागरित्वा ।अयमपरदिशो ऽङ्गे मुञ्चति स्रस्तहस्तः शिशयिषुरपि पाण्डुं म्लानमात्मानमिन्दुः ॥ २२ ॥
सरभसपरिरम्भारम्भसंरम्भभाजा यदधिनिशमपास्तं वल्लभेनाङ्गनायाः ।वसनमपि निशान्ते नेष्यते तत्प्रदातु रथचरणविशालश्रेणिलोलेक्षणेन ॥ २३ ॥
सपदि कुमुदिनीभिर्मीलितं हा क्षपापि क्षयमगमदपेतास्तारकास्ताः समस्ताः ।इति दयितकलत्रश्चिन्तयन्नङ्गमिन्दुर् वहति कृशमशेषं भ्रष्टशोभं शुचेव ॥ २४ ॥
व्रजतिविषयमक्ष्णामंशुमाली न यावत् तिमिरमखिलमस्तं तावदेवारुणेन ।परपरिभवि तेजस्तन्वतामाशु कर्तुं प्रभवति हि विपक्षोच्छेदमग्रेसरो ऽपि ॥ २५ ॥
विगततिमिरपङ्गं पश्यति व्योम यावद् धुवति विरहखिन्नः पक्षती यावदेव ।रथचरणसमाह्वस्तावदौत्सुक्यनुन्ना सरिदपरतटान्तादागता चक्रवाकी ॥ २६ ॥
मुदितयुवमनस्कास्तुल्यमेव प्रदोषे रुचमदधुरुभय्यः कल्पिता भूषिताश्च ।परिमलरुचिराभिर्न्यक्कृतास्तु प्रभाते युवतिभिरुपभोगान्नीरुचः पुष्पमालाः ॥ २७ ॥
विलुलितकमलौघः कीर्णवल्लीवितानः प्रतिवनमवधूताशेषशाखिप्रसूनः ।क्वचिदयमनवस्थः स्थास्नुतामेति वायुर्वधुकुसुमविमर्देद्गन्धिवेश्मान्तरेषु ॥ २८ ॥
नखपदवलिनाभीसन्धिभागेषु लक्ष्यः क्षतिषु च दशनानामङ्गनायाः सशेषः ।अपि रहसि कृतानां वाग्विहीनो ऽपिजातः सुरतविलसितानां वर्णको वर्णको ऽसौ ॥ २९ ॥
प्रकटमलिनलक्ष्मा मृष्टपत्रावलीकैर् अधिगतरतिशोभैः प्रत्युषः प्रोषितश्रीः ।उपहसित इवासौ चान्द्रमाः कामिनीनां परिणतशरकाण्डापाण्डुभिर्गण्डभागैः ॥ ३० ॥
सकलमपि निकामं कामलोलान्यनारीरतिरभसविमर्दैर्भिन्नवत्यङ्गरागे ।इदमतिमहदेवाश्चर्यमाश्चर्यधाम्नस्तव खलु मुखरागो यन्न भेदं प्रयातः ॥ ३१ ॥
प्रकटतरमिमं मा द्राक्षुरन्या रमण्यः स्फुटमिति सविशङ्गं कान्तया तुल्यवर्णः ।चरणतलसरोजाक्रान्तिसंक्रान्तयासौ वपुषि नखविलेखो लाक्षया रक्षितस्ते ॥ ३२ ॥
तदवितथमवादीर्यन्मम त्वं प्रियजनपरिभुक्तं यद्दुकूलं दधानः ।मदधिवसतिमागाःकामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥ ३३ ॥
नवनखपदमङ्गं गोपयस्यंशुकेन स्थगयसि पुनरोष्ठं पाणिना दन्तदष्टम् ।प्रतिदिशमपरस्त्रीसङ्गशंसी विसर्पन्नवपरिमलगन्धः केन शक्यो वरीतुम् ॥ ३४ ॥
इतिकृतवचनायाः कश्चिदभेत्य बिभ्यद्गलितनयनवारेर्याति पादावनामम् ।करुणमपि समर्थं मानिनां मानभेदे रुदितमुदितमस्त्रं योषितां विग्रहेषु ॥ ३५ ॥
मदनमदनविकासस्पष्टधार्ष्ट्येदयानां रतिकलहविकीर्णैर्भूषणैरर्चितेषु ।विदधति न गृहेषूत्फुल्लपुष्पोपहारं विफलविनययत्नाः कामिनीनां वयस्याः ॥ ३६ ॥
करजदशनचिह्नं निशमङ्गे ऽन्यनारीजनितमिति सरोषमीर्ष्यया शङ्कमानाम् ।स्मरसि न खलु दत्तं मत्तयैतत्त्वयैव स्त्रियमनुनयतीत्थं व्रीडमानां विलासी ॥ ३७ ॥
कृतगुरुतरहारच्छेदमालिङ्ग्य पत्यौ परिशिथिलितगात्रे गन्तुमापृच्छमाने ।विगलितनवमुक्तास्थूलभाष्पाम्बुबिन्दु स्तनयुगमबलायास्तत्क्षणं रोदितीव ॥ ३८ ॥
बहुजगदपुरस्तात्तस्य मत्ता किलाहं चकर च किल चाटु प्रौढयोषिद्वदस्य ।विदितमिति सखीभ्यो रात्रिवृत्तं विचिन्त्य व्यपगतमदयाह्नि व्रीडितं मुग्धवध्वा ॥ ३९ ॥
अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसन्ध्या सुतेव ॥ ४० ॥
प्रतिशरणमशीर्णज्योतिरग्न्याहितानां विधिविहितविरिब्धैः सामिधेनीरधीत्य ।कृतगुरुदुरितौघध्वंसमध्वर्युवर्यैर् हुतमयमुपलीढे साधु साम्नाय्यमग्निः ॥ ४१ ॥
प्रकृतजपविधीनामास्यमुद्रश्मिदन्तं मुहुरपिहितमोष्ठ्यैरक्षरैर्लक्ष्यमन्यैः ।अनुकृतिमनुवेलं घट्टितोद्घट्टितस्य व्रजति नियमभाजां मुग्धमुक्तापुटस्य ॥ ४२ ॥
नवकनकपिशङ्गं वासराणां विधातुः ककुभि कुलिशपाणेर्भाति भासां वितानम् ।जनितभुवनदाहारम्भमम्भांसि दग्ध्वा ज्वलितमिव महाब्धेरूर्ध्वमौर्वानलार्चिः ॥ ४३ ॥
विततपृथुवरत्रातुल्यरूपैर्मयूखैः कलश इव गरीयान्दिग्भिराकृष्यमाणः ।कृतचपलविहङ्गालापकोलाहलाभिर् जलनिधिजलमध्यादेष उत्तार्यतेर्ऽकः ॥ ४४ ॥
पयसि सलिलराशेर्नक्तमन्तर्निमग्नः स्फुटमनिशमतापि ज्वालया बाडवाग्नेः ।यदयमिदमिदानीमङ्गमुद्यन्दधाति ज्वलितखदिरकाष्ठाङ्गारगौरं विवस्वान् ॥ ४५ ॥
अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।नवकरनिकरेण स्पष्टबन्धूकसूनस्तबकरचितमेते शेखरं बिभ्रतीव ॥ ४६ ॥
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्गन् सकमलमुखहासं वीक्षितः पद्मिनीभिः ।विततमृदुकराग्रः शब्दयन्त्या वयोभिः परिपतति दिवो ऽङ्गके हेलया बालसूर्यः ॥ ४७ ॥
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् ।भुवनतलमशेषं प्रत्यवेक्षिष्यमाणः क्षितिधरपीठादुत्थितः सप्तसप्तिः ॥ ४८ ॥
परिणतमदिराभं भास्करेणोंशुबाणैस् तिमिरकरिघटायाः सर्वदिक्षु क्षतायाः ।रुधिरमिव वहन्त्यो भान्ति बालातपेनच्छुरितमुभयरोधोवारितं वारि नद्यः ॥ ४९ ॥
दधतिपरिपतन्त्यो जालवातायनेभ्यस् तरुणतपनभासो मन्दिराभ्यन्तरेषु ।प्रणयिषु वनितानां प्रातरिच्छत्सु गन्तुं कुपितमदनमुक्तोत्तप्तनाराचलीलाम् ॥ ५० ॥
अधिरजनि वधूभिः पीतमैरेयरिक्तं कनकचषकमेतद्रोचनालोहितेन ।उदयदहिमरोचिर्ज्योतिषाक्रान्तमन्तर्मधुन इव तथैवापूर्णमद्यापि भाति ॥ ५१ ॥
सितरुचिशयनीये नक्तमेकान्तमुक्तं दिनकरकरसङ्गव्यक्तकौसुम्भकान्ति ।निजमिति रतिबन्धोर्जानतीमुत्तरीयं परिहसति सखी स्त्रीमाददानां दिनादौ ॥ ५२ ॥
प्लुतमिव शिशिरांशोरंशुभिर्यन्निशासु स्फटिकमयराजद्राजताद्रिस्थलाभम् ।अरुणितमकठोरैर्वेश्म काश्मीरजाम्भःस्नपितमिव तदेतद्भानुभिर्भाति भानोः ॥ ५३ ॥
सरसनखपदान्तर्दष्टकेशप्रमोकं प्रणयिनि विदधाने योषितामुल्लसन्त्यः ।विदधति दशनानां सीत्कृताविष्कृतानाम् अभिनवरविभासः पद्मरागानुकारम् ॥ ५४ ॥
अविरतदयिताङ्गासङ्गसञ्चरितेन छुरितमभिनवासृक्कान्तिना कुङ्कुमेन ।कनकनिकषरेखा कोमलं कामिनीनां भवति वपुरवाप्तच्छायमेवातपे ऽपि ॥ ५५ ॥
सरसिजवनकान्तं बिभ्रदभ्रान्तवृत्तिः करनयनसहस्रं हेतुमालोकशक्तेः ।अखिलमतिमहिम्ना लोकमाक्रान्तवन्तं हरिरिव हरिदश्वः साधु वृत्रं हिनस्ति ॥ ५६ ॥
अवतमसभिदायै भास्वताम्युद्गतेन प्रसभमुडुगणो ऽसौ दर्शनीयो ऽप्यपास्तः ।निरसितुमरिमिच्छोर्ये तदीयाश्रयेण श्रियमधिगतवन्तस्ते ऽपि हन्तव्यपक्षे ॥ ५७ ॥
प्रतिफलति करौघे संमुखावस्थितायां रजतकटकभित्तौ सान्द्रचन्द्रांशुगौर्याम् ।बहिरभिहतमद्रेः संहतं कन्दरान्तर्गतमपि तिमिरौघं घर्मभानुर्भिनत्ति ॥ ५८ ॥
बहिरपि विलसन्त्यः काममानिन्यिरे यद् दिवसकररुचो ऽन्तं ध्वान्तमन्तर्गृहेषु ।नियतविषयवृत्तेरप्यनल्पप्रतापक्षतसकलविपक्षस्तेजसः स स्वभावः ॥ ५९ ॥
चिरमतिरसलौल्याद्बन्धनं लम्भितानां पुनरयमुदयाय प्राप्य धाम स्वमेव ।दलितदलकपाटः षट्पदानां सरोजे सरभस इव गुप्तिस्फोटमर्कः करोति ॥ ६० ॥
युगपदयुगसप्तिस्तुल्यसंख्यैर्मयूखैर् दशशतदलभेदं कौतुकेनाशुकृत्वा ।श्रियमलिकुलगीतैर्लालितां पङ्कजान्तर्भवनमधिशयानामादरात्पश्यतीव ॥ ६१ ॥
अदयमिव कराग्रैरेष निपीड्य सद्यः शशधरमहरादौ रागवानुष्णरश्मिः ।अवकिरति नितान्तं कान्तिनिर्यासमब्दस्रुतनवजलपाण्डुं पुण्डरीकोदरेषु ॥ ६२ ॥
प्रविकसति चिराय द्योतिताशेषलोके दशशतकरमूर्तावक्षिणीव द्वितीये ।सितकरवपुषासौ लक्ष्यते संप्रति द्यौर् विगलितकिरणेन व्यङ्गितैकेक्षणेव ॥ ६३ ॥
कुमुदवनमपश्रि श्रीमदम्भोजषण्डं त्यजति मुदमुलूकः प्रीतिमाश्चक्रवाकः ।उदयमहिमरश्मिर्याति शीतांशुरस्तं हतविधिलसितानां ही विचित्रो विपाकः ॥ ६४ ॥
क्षणमतुहिनधाम्नि प्रेष्य भूयः पुरस्ताद् उपगतवति पाणिग्राहवद्दिग्वधूनाम् ।द्रुततरमुपयाति स्रंसमानांशुको ऽसाव् उपपातिरिति नीचैः पश्चिमान्तेन चन्द्रः ॥ ६५ ॥
प्रलयमखिलतारालोकमह्नाय नीत्वा श्रियमनतिशयश्रीः सानुरागां दधानः ।गगनसलिलराशिं रात्रिकल्पावसाने मधुरिपुरिव भास्वानेष एको ऽधिशेते ॥ ६६ ॥
कृतसकलजगद्विबोधो ऽवधूतान्धकारोदयः क्षयितकुमुदतारकश्रीर्वियोगं नयन्कामिनः ।बहुतरगुणदर्शनादभ्युपेताल्पदोषः कृती तव वरद करोतु सुप्रातमह्नामयं नायकः ॥ ६७ ॥