दमघोषसुतेन कश्चन प्रतिशिष्टः प्रतिभानवानथ ।उपगम्यहरिं सदस्यदः स्फुटभिन्नार्थमुदाहरद्वचः ॥ १ ॥
अभिधाय तदा तदप्रियं शिशुपालो ऽनुशयं परं गतः ।भवतो ऽभिमनाः समीहते सरुषः कर्तुमुपेत्य माननाम् ॥ २ ॥
विपुलेन निपीड्य निर्दयं मुदमायातु नितान्तमुन्मनाः ।प्रचुराधिगताङ्गनिर्वृतिं परितस्त्वां खलु विग्रहेण सः ॥ ३ ॥
प्रणतः शिरसा करिष्यते सकलैरेत्य समं धराधिपैः ।तव शासनमाशु भूपतिः परवानद्य यतस्त्वयैव सः ॥ ४ ॥
अधिवह्निपतङ्गतेजसो नियतस्वान्तसमर्थकर्मणः ।तव सर्वविधेयवर्तिनः प्रणतिं बिभ्रति केन भूभृतः ॥ ५ ॥
जनतां भयशून्यधीः परैरभिभूतामवलम्बसे यतः ।तव कृष्ण गुणास्ततो नरैरसमानस्य दधत्यगण्यताम् ॥ ६ ॥
अहितादनपत्रपस्त्रसन्नतिमात्रोज्झितभीरनास्तिकः ।विनयोपहितस्त्वया कुतः सदृशोन्यो गुणवानविस्मयः ॥ ७ ॥
कृतगोपवधूरतेर्घ्नतो वृषमुग्रे नरके ऽपि संप्रति ।प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते ॥ ८ ॥
विहितापचितिर्महीभृतां द्विषतामाहितसाध्वसो बलैः ।भव सानुचरस्त्वमुच्चकैर्महतामप्युपरि क्षमाभृताम् ॥ ९ ॥
घनजालनिभैर्दुरासदाः परितो नागकदम्बकैस्तव ।नगरेषु भवन्तु वीथयः परिकीर्णा वनजैर्मृगादिभिः ॥ १० ॥
सकलापिहितस्वपौरुषो नियतव्यापदवर्धितोदयः ।रिपुरुन्नतधीरचेतसः सततव्याधिरनीतिरस्तु ते ॥ ११ ॥
विकचोत्पलचारुलोचनस्तव चैद्येन घटामुपेयुषः ।यदुपुङ्गव बन्धुसौहृदात्त्वयि पाता ससुरो नवासवः ॥ १२ ॥
चलितानकदुन्दुभिः पुरः सबलस्त्वं सह सारणेन तम् ।समितौ रभसादुपागतः सगदः संप्रतिपत्तुमर्हसि ॥ १३ ॥
समरेषु रिपून्विनिघ्नता शिशुपालेन समेत्य संप्रति ।सुचिरं सह सर्वसात्वतैर्भव विश्वस्तविलासिनीजनः ॥ १४ ॥
विजितक्रुधमीक्षतामसौ महतां त्वामहितं महीभृताम् ।असकृज्जितसंयतं पुरो मुदितः सप्रमदं महीपतिः ॥ १५ ॥
इति जोषमवस्थितं द्विषः प्रणिधिं गामभिधाय सात्यकिः ।वदति स्म वचो ऽथ चोदितश्चलितैकभ्रू रथाङ्गपाणिना ॥ १६ ॥
मधुरं बहिरन्तरप्रियं कृतिनावाचि वचस्तथा त्वया ।सकलार्थतया विभाव्यते प्रियमन्तर्बहिरप्रियं यथा ॥ १७ ॥
अतिकोमलमेकतोन्यतः सरसाम्भोरुहवृन्तकर्कशम् ।वहति स्फुटमेकमेव ते वचनं शाकपलाशदेश्यताम् ॥ १८ ॥
प्रकटं मृदु नाम जल्पतः परुषं सूचयतोर्थमन्तरा ।शकुनादिव मार्गवर्तिभिः परुषादुद्विजितव्यमीदृशात् ॥ १९ ॥
हरिमर्चितवान्महीपतिर्यदि राज्ञस्तव को ऽत्र मत्सरः ।न्यसनाय ससौरभस्य कस्तरुसूनस्य शिरस्यसूयति ॥ २० ॥
सुकुमारमहो लघीयसां हृदयं तद्गतमप्रियं यतः ।सहसैव समुद्गिरन्त्यमी जरयन्त्येव हि तन्मनीषिणः ॥ २१ ॥
उपकारपरः स्वभावतः सततं सर्वजनस्य सज्जनः ।असतामनिशं तथाप्यहो गुरुहृद्रोगकरी तदुन्नतिः ॥ २२ ॥
परितप्यत एव नोत्तमः परितप्तो ऽप्यपरः सुसंवृतिः ।परवृद्धिभिराहितव्यथः स्फुटनिर्भिन्नदुराशयो ऽधमः ॥ २३ ॥
अनिराकृततापसंपदं फलहीनां सुमनोभिरुज्झिताम् ।खलतां खलतामिवासतीं प्रतिपद्येत कथं बुधो जनः ॥ २४ ॥
प्रतिवाचमदत्त केशवः शपमानाय न चेदिभूभुजे ।अनुहुङ्कुरुते घनध्वनिं न हि गोमायुरुतानि केसरी ॥ २५ ॥
जितरोषरया महाधियः सपदि क्रोधजितो लघुर्जनः ।विजितेन जितस्य दुर्मतेर्मतिमद्भिः सह का विरोधिता ॥ २६ ॥
वचनैरसतां महीयसो न खलु व्येति गुरुत्वमुद्धतैः ।किमपैति रजोभिरौर्वरैरवकीर्णस्य मणेर्महार्घता ॥ २७ ॥
परितोषयिता न कश्चन स्वगतो यस्य गुणो ऽस्ति देहिनः ।परदोषकथाभिरल्पकः स्वजनं तोषयितुं किलेच्छति ॥ २८ ॥
सहजान्धदृशः स्वदुर्नये परदोषेक्षणदिव्यचक्षुषः ।स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥ २९ ॥
प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् ।विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥ ३० ॥
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः ।वदिता न लघीयसो ऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥ ३१ ॥
विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् ।दधतो ऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥ ३२ ॥
नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः ।द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥ ३३ ॥
समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना ।हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥ ३४ ॥
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति ।कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥ ३५ ॥
यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् ।अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥ ३६ ॥
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् ।विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥ ३७ ॥
निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् ।पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥ ३८ ॥
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः ।यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥ ३९ ॥
विदुरेष्यदपायमात्मना परतः श्रद्दधते ऽथवा बुधाः ।न परोपहितं न च स्वतः प्रमिमीते ऽनुभवादृते ऽल्पधीः ॥ ४० ॥
कुशलं खलु तुभ्यमेव तद्वचनं कृष्ण यदभ्यधामहम् ।उपदेशपराः परेष्वपि स्वविनाशाभिमुखेषु साधवः ॥ ४१ ॥
उभयं युगपन्मयोदितं त्वरया सान्त्वमथेतरच्च ते ।प्रविभज्य पृथङ्मनीषया स्वगुणं यत्किल तत्करिष्यसि ॥ ४२ ॥
अथवाभिनिविष्टबुद्धिषु व्रजति व्यर्थकतां सुभाषितम् ।रविरागिषु शीतरोचिषः करजालं कमलाकरेष्विव ॥ ४३ ॥
अनपेक्ष्य गुणागुणौ जनः स्वरुचिं निश्चयतोनुधावति ।अपहाय महीशमर्चिचत्सदति त्वां ननु भीमपूर्वजः ॥ ४४ ॥
त्वयि भक्तिमता न सत्कृतः कुरुराजा गुरुरेव चेदिपः ।प्रियमांसमृगाधिपोज्झितः किमवद्यः करिकुम्भजो मणिः ॥ ४५ ॥
क्रियते धवलः खलूच्चकैर्धवलैरेव सितेतरैरधः ।शिरसौधमधत्त श्ङ्करः सुरसिन्धोर्मधुजित्तमङ्घ्रिणा ॥ ४६ ॥
अबुधैः कृतमानसम्विदस्तव पार्थैः कुत एव योग्यता ।सहसि प्लवगैरुपासितं न हि गुञ्जाफलमेति सोष्मताम् ॥ ४७ ॥
अपराधशतक्षमं नृपः क्षमयात्येति भवन्तमेकया ।हृतवत्यपि भीष्मकात्मजां त्वयि चक्षाम समर्थ एव यत् ॥ ४८ ॥
गुरुभिः प्रतिपादितां वधूमपहृत्य स्वजनस्य भूपतेः ।जनको ऽसि जनार्दन स्फुटं हतधर्मार्थतया मनोभुवः ॥ ४९ ॥
अनिरूपिरूपसंपदस्तमसो वान्यभृतच्छदच्छवेः ।तव सर्वगतस्य संप्रति क्षितिपः क्षिप्नुरभीशुमानिव ॥ ५० ॥
क्षुभितस्य महीभृतस्त्वयि प्रशमोपन्यसनं वृथा मम ।प्रलयोल्लसितस्य वारिधेः परिवाहो जगतः करोति किम् ॥ ५१ ॥
प्रहितः प्रधनाय माधवानहमाकारयितुं महीभृता ।न परेषु महौजसश्छलादपकुर्वन्ति मलिम्लुचा इव ॥ ५२ ॥
तदयं समुपैति भूपतिः पयसां पूर इवानिवारितः ।अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः ॥ ५३ ॥
परिपाति स केवलं शिशूनिति तन्नामनि मा स्म विश्वसीः ।तरुणानपि रक्षति क्षमी स शरण्यः शरणागतान्द्विषः ॥ ५४ ॥
न विदध्युरशङ्कमप्रियं महतः स्वार्थपराः परे कथम् ।भजते कुपितो ऽप्युदारधीरनुनीतिं नतिमात्रकेण सः ॥ ५५ ॥
हितमप्रियमिच्छसि श्रुतं यदि संधत्स्व पुरा न नश्यसि ।अनृतैरथ तुष्यसि प्रियैर्जयताज्जीव भवावनीश्वरः ॥ ५६ ॥
प्रतिपक्षजिदप्यसंशयं युधि चैद्येन विजेष्यते भवान् ।ग्रसते हि तमोपहं मुहुर्ननु राह्वाह्वमहर्पतिं तमः ॥ ५७ ॥
अचिराज्जितमीनकेतनो विलसन्वृष्णिगणैर्नमस्कृतः ।क्षितिपः क्षयितोद्धतान्तको हरलीलां स विडम्बयिष्यति ॥ ५८ ॥
निहतोन्मददुष्टकुञ्जराद्दधतो भूरि यशः क्रमार्जितम् ।न बिभेति रणे हरेरपि क्षितिपः का गणनास्य वृष्णिषु ॥ ५९ ॥
न तदद्भुतमस्य यन्मुखं युधि पश्यन्ति भिया न शत्रवः ।द्रवतां ननु पृष्ठमीक्षते वदनं सो ऽपि न जातु विद्विषाम् ॥ ६० ॥
प्रतनूल्लसिताचिरद्युतः शरदं प्राप्य विखण्डितायुधाः ।दधते ऽरिभिरस्य तुल्यतां यदि नासारभृतः पयोभृतः ॥ ६१ ॥
मलिनं रणरेणुभिर्मुहुर्द्विषतां क्षालितमङ्गनाश्रुभिः ।नृपमौलिमरीचिवर्णकैरथ यस्याङ्घियुगं विलिप्यते ॥ ६२ ॥
समराय निकामकर्कशं क्षणमाकृष्टमुपैति यस्य च ।धनुषा सममाशु विद्विषां कुलमाशङ्कितभङ्गमानतिम् ॥ ६३ ॥
तुहिनांशुममुं सुहृज्जनाः कलयन्त्युष्णकरं विरोधिनः ।कृतिभिः कृतदृष्टिविभ्रमाः स्रजमेके भुजगं यथापरे ॥ ६४ ॥
दधतो ऽसुलभक्षयागमास्तनुमेकान्तरताममानुषीम् ।भुवि सम्प्रति न प्रतिष्ठिताः सदृशा यस्य सुरैररातयः ॥ ६५ ॥
अतिविस्मयनीयकर्मणो नृपतेर्यस्य विरोधि किञ्चन ।यदुमुक्तनयो नयत्यसावहितानां कुलमक्षयं क्षयम् ॥ ६६ ॥
चलितोर्ध्वकबन्धसम्पदो मकरव्यूहनिरूद्धवर्त्मनः ।अतरत्स्वभुजौजसा मुहुर्महतः सङ्गरसागरानसौ ॥ ६७ ॥
न चिकीर्षति यः स्मयोद्धतो नृपतित्तच्चरणोपपगं शिरः ।चरणं कुरुते गतस्मयः स्मसावेव तदीयमूर्धनि ॥ ६८ ॥
स्वभुजद्वयकेवलायुधश्चतुरङ्गामपहाय वाहिनीम् ।बहुशः सह शक्रदन्तिना स चतुर्दन्तमगच्छदाहवम् ॥ ६९ ॥
अविचालितचारुचक्रयोरनुरागादुपगूढयोः श्रिया ।युवयोरिदमेव भिद्यते यदुपेन्द्रस्त्वमतीन्द्र एव सः ॥ ७० ॥
भूतभूतिरहीनभोगभाग्विजितानेकपुरो ऽपि विद्विषाम् ।रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः ॥ ७१ ॥
नयति द्रुतमुद्धतिश्रितः प्रसभं भङ्गमभङ्गुरोदयः ।गमयत्यवनीतलस्फुरद्भुजशाखं भृशमन्यमुन्नतिम् ॥ ७२ ॥
अधिगम्य च रन्ध्रमन्तरा जनयन्मण्डलभेदमन्यतः ।खनति क्षतसंहति क्षणादपि मूलानि महान्ति कस्यचित् ॥ ७३ ॥
घनपत्रभृतो ऽनुगामिनस्तरसाकृष्य करोति कांश्चन ।दृढमप्यपरं प्रतिष्ठितं प्रतिकूलं नितरां निरस्यति ॥ ७४ ॥
इति पूर इवोदकस्य यः सरितां प्रावृषिजस् तटद्रुमैः ।क्वचनापि महानखण्डितप्रसरः क्रीडति भूभृतां गणैः ॥ ७५ ॥
अलघूपलपङ्क्तिशालिनीः परितो रुद्धनिरन्तराम्बराः ।अधिरूढनितम्बभूमयो न विमुञ्चन्ति चिराय मेखलाः ॥ ७६ ॥
कटकानि भजन्ति चारुभिर्नवमुक्ताफलभूषणैर्भुजैः ।नियतं दधते च चित्रकैरवियोगं पृथुगण्डशैलतः ॥ ७७ ॥
इतियस्य ससंपदः पुरा यदवापुर्भवनेष्वरिस्त्रियः ।स्फुटमेव समस्तमापदा तदिदानीमवनीध्रमूर्धसु ॥ ७८ ॥
महतः कुकुरान्धकद्रुमानतिमात्रं दववद्दहन्नपि ।अतिचित्रमिदं महीपतिर्यदकृष्णामवनीं करिष्यति ॥ ७९ ॥
परितः प्रमिताक्षरापि सर्वं विषयं व्याप्तवती गता प्रतिष्ठाम् ।न खलु प्रतिहन्यते कुतश्चित्परिभाषेव गरीयसी यदाज्ञा ॥ ८० ॥
यामूढवानूढवराहमूर्तिर्मुहूर्तमादौ पुरुषः पुराणः ।तेनोह्यते सांप्रतमक्षतैव क्षतारिणा सम्यगसौ पुनर्भूः ॥ ८१ ॥
भूयांस क्वचिदपि काममस्खलन्तस्तुङ्गत्वं दधति च यद्यपि द्वये ऽपि ।कल्लोलाः सलिलनिधेरवाप्य पारं शीर्यन्ते न गुणमहोर्मयस्तदीयाः ॥ ८२ ॥
लोकालोकव्याहतं घर्मरश्मेः शालीनं वा धाम नालं प्रसर्तुम् ।लोकस्याग्रे पश्यतो धृष्टमाशु क्रामत्युच्चैर्भूभृतो यस्य तेजः ॥ ८३ ॥
विच्छित्तिर्नवचन्दनेन वपुषो भिन्नो ऽधरो ऽलक्तकैर् अच्छाच्छे पतिताञ्जने च नयने श्रोण्यो ऽलसन्मेखलाः ।प्राप्तो मौक्तिकहारमुन्नतकुचाभोगस्तदीयद्विषाम् इत्थं नित्यविभूषणा युवतयः संपत्सु चापत्स्वपि ॥ ८४ ॥
विनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् ।रुदतां भवदङ्गनागणानाङ्करुणान्तःकरणः करिष्यते ऽसौ ॥ ८५ ॥