२ किरातार्जुनीयम् Click on words to see what they mean. विहितां प्रियया मनःप्रियाम् अथ निश्चित्य गिरं गरीयसीम् ।उपपत्तिमद् ऊर्जिताश्रयं नृपम् ऊचे वचनं वृकोदरः ॥ ▼ Permalink Bookmark यद् अवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ॥ ▼ Permalink Bookmark विषमो ऽपि विगाह्यते नयः कृततीर्थः पयसाम् इवाशयः ।स तु तत्र विशेषदुर्लभः सद् उपन्यस्यति कृत्यवर्त्म यः ॥ ▼ Permalink Bookmark परिणामसुखे गरीयसि व्यथके ऽस्मिन् वचसि क्षतौजसाम् ।अतिवीर्यवतीव भेषजे बहुर् अल्पीयसि दृश्यते गुणः ॥ ▼ Permalink Bookmark इयम् इष्टगुणाय रोचतां रुचिरार्था भवते ऽपि भारती ।ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥ ▼ Permalink Bookmark चतसृष्व् अपि ते विवेकिनी नृप विद्यासु निरूढिम् आगता ।कथम् एत्य मतिर् विपर्ययं करिणी पङ्कम् इवावसीदति ॥ ▼ Permalink Bookmark विधुरं किम् अतः परं परैर् अवगीतां गमिते दशाम् इमाम् ।अवसीदति यत् सुरैर् अपि त्वयि सम्भावितवृत्ति पौरुषम् ॥ ▼ Permalink Bookmark द्विषताम् उदयः सुमेधसा गुरुर् अस्वन्ततरः सुमर्षणः ।न महान् अपि भूतिम् इच्छता फलसम्पत्प्रवणः परिक्षयः ॥ ▼ Permalink Bookmark अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।क्षययुक्तिम् उपेक्षते कृती कुरुते तत्प्रतिकारम् अन्यथा ॥ ▼ Permalink Bookmark अनुपालयताम् उदेष्यतीं प्रभुशक्तिं द्विषताम् अनीहया ।अपयान्त्य् अचिरान् महीभुजां जननिर्वादभयाद् इव श्रियः ॥ ▼ Permalink Bookmark क्षययुक्तम् अपि स्वभावजं दधतं धाम शिवं समृद्धये ।प्रणमन्त्य् अनपायम् उत्थितं प्रतिपच्चन्द्रम् इव प्रजा नृपम् ॥ ▼ Permalink Bookmark प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥ ▼ Permalink Bookmark अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षतः ।विनिपातनिवर्तनक्षमं मतम् आलम्बनम् आत्मपौरुषम् ॥ ▼ Permalink Bookmark विपदो ऽभिभवन्त्य् अविक्रमं रहयत्य् आपदुपेतम् आयतिः ।नियता लघुता निरायतेर् अगरीयान् न पदं नृपश्रियः ॥ ▼ Permalink Bookmark तद् अलं प्रतिपक्षम् उन्नतेर् अवलम्ब्य व्यवसायवन्ध्यताम् ।निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ ▼ Permalink Bookmark अथ चेद् अवधिः प्रतीक्ष्यते कथम् आविष्कृतजिह्मवृत्तिना ।धृतराष्ट्रसुतेन सुत्यज्याश् चिरम् आस्वाद्य नरेन्द्रसम्पदः ॥ ▼ Permalink Bookmark द्विषता विहितं त्वयाथवा यदि लब्धा पुनर् आत्मनः पदम् ।जननाथ तवानुजन्मनां कृतम् आविष्कृतपौरुषैर् भुजैः ॥ ▼ Permalink Bookmark मदसिक्तमुखैर् मृगाधिपः करिभिर् वर्तयति स्वयं हतैः ।लघयन् खलु तेजसा जगन् न महान् इच्छति भूतिम् अन्यतः ॥ ▼ Permalink Bookmark अभिमानधनस्य गत्वरैर् असुभिः स्थास्नु यशश् चिचीषतः ।अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलम् आनुषङ्गिकम् ॥ ▼ Permalink Bookmark ज्वलितं न हिरण्यरेतसं चयम् आस्कन्दति भस्मनां जनः ।अभिभूतिभयाद् असून् अतः सुखम् उज्झन्ति न धाम मानिनः ॥ ▼ Permalink Bookmark किम् अवेक्ष्य फलं पयोधरान् ध्वनतः प्रार्थयते मृगाधिपः ।प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥ ▼ Permalink Bookmark कुरु तन् मतिम् एव विक्रमे नृप निर्धूय तमः प्रमादजम् ।ध्रुवम् एतद् अवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥ ▼ Permalink Bookmark द्विरदान् इव दिग्विभावितांश् चतुरस् तोयनिधीन् इवायतः ।प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ ▼ Permalink Bookmark ज्वलतस् तव जातवेदसः सततं वैरिकृतस्य चेतसि ।विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ ▼ Permalink Bookmark इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसम् ।उपसान्त्वयितुं महीपतिर् द्विरदं दुष्टम् इवोपचक्रमे ॥ ▼ Permalink Bookmark अपवर्जितविप्लवे शुचय् हृदयग्राहिणि मङ्गलास्पदे ।विमला तव विस्तरे गिरां मतिर् आदर्श इवाभिदृश्यते ॥ ▼ Permalink Bookmark स्फुटता न पदैर् अपाकृता न च न स्वीकृतम् अर्थगौरवम् ।रचिता पृथगर्थता गिरां न च सामर्थ्यम् अपोहितं क्वचित् ॥ ▼ Permalink Bookmark उपपत्तिर् उदाहृता बलाद् अनुमानेन न चागमः क्षतः ।इदम् ईदृग् अनीदृगाशयः प्रसभं वक्तुम् उपक्रमेत कः ॥ ▼ Permalink Bookmark अवितृप्ततया तथापि मे हृदयं निर्णयम् एव धावति ।अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ ▼ Permalink Bookmark सहसा विदधीत न क्रियाम् अविवेकः परम् आपदां पदम् ।वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयम् एव सम्पदः ॥ ▼ Permalink Bookmark अभिवर्षति यो ऽनुपालयन् विधिबीजानि विवेकवारिणा ।स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ ▼ Permalink Bookmark शुचि भूषयति श्रुतं वपुः प्रशमस् तस्य भवत्य् अलंक्रिया ।प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ ▼ Permalink Bookmark मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् ॥ ▼ Permalink Bookmark स्पृहणीयगुणैर् महात्मभिश् चरिते वर्त्मनि यच्छतां मनः ।विधिहेतुर् अहेतुर् आगसां विनिपातो ऽपि समः समुन्नतेः ॥ ▼ Permalink Bookmark शिवम् औपयिकं गरीयसीं फलनिष्पत्तिम् अदूषितायतिम् ।विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ ▼ Permalink Bookmark अपनेयम् उदेतुम् इच्छता तिमिरं रोषमयं धिया पुरः ।अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्य् उदीयते ॥ ▼ Permalink Bookmark बलवान् अपि कोपजन्मनस् तमसो नाभिभवं रुणद्धि यः ।क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥ ▼ Permalink Bookmark समवृत्तिर् उपैति मार्दवं समये यश् च तनोति तिग्मताम् ।अधितिष्ठति लोकम् ओजसा स विवस्वान् इव मेदिनीपतिः ॥ ▼ Permalink Bookmark क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।शरदभ्रचलाश् चलेन्द्रियैर् असुरक्षा हि बहुच्छलाः श्रियः ॥ ▼ Permalink Bookmark किम् असामयिकं वितन्वता मनसः क्षोभम् उपात्तरंहसः ।क्रियते पतिर् उच्चकैर् अपां भवता धीरतयाधरीकृतः ॥ ▼ Permalink Bookmark श्रुतम् अप्य् अधिगम्य ये रिपून् विनयन्ते स्म न शरीरजन्मनः ।जनयन्त्य् अचिराय सम्पदाम् अयशस् ते खलु चापलाश्रयम् ॥ ▼ Permalink Bookmark अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।जनवन् न भवन्तम् अक्षमा नयसिद्धेर् अपनेतुम् अर्हति ॥ ▼ Permalink Bookmark उपकारकम् आयतेर् भृशं प्रसवः कर्मफलस्य भूरिणः ।अनपायि निबर्हणं द्विषां न तितिक्षासमम् अस्ति साधनम् ॥ ▼ Permalink Bookmark प्रणतिप्रवणान् विहाय नः सहजस्नेहनिबद्धचेतसः ।प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥ ▼ Permalink Bookmark सुहृदः सहजास् तथेतरे मतम् एषां न विलङ्घयन्ति ये ।विनयाद् इव यापयन्ति ते धृतराष्ट्रात्मजम् आत्मसिद्धये ॥ ▼ Permalink Bookmark अभियोग इमान् महीभुजो भवता तस्य ततः कृतावधेः ।प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरान् इव ॥ ▼ Permalink Bookmark उपजापसहान् विलङ्घयन् स विधाता नृपतीन् मदोद्धतः ।सहते न जनो ऽप्य् अधःक्रियां किम् उ लोकाधिकधाम राजकम् ॥ ▼ Permalink Bookmark असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।प्रभवन्त्य् अभिमानशालिनां मदम् उत्तम्भयितुं विभूतयः ॥ ▼ Permalink Bookmark मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।अतिमूढ उदस्यते नयान् नयहीनाद् अपरज्यते जनः ॥ ▼ Permalink Bookmark अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।सुकरस् तरुवत् सहिष्णुना रिपुर् उन्मूलयितुं महान् अपि ॥ ▼ Permalink Bookmark अणुर् अप्य् उपहन्ति विग्रहः प्रभुम् अन्तःप्रकृतिप्रकोपजः ।अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजो ऽनलः ॥ ▼ Permalink Bookmark मतिमान् विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।सुजयः खलु तादृग् अन्तरे विपदन्ता ह्य् अविनीतसम्पदः ॥ ▼ Permalink Bookmark लघुवृत्तितया भिदां गतं बहिर् अन्तश् च नृपस्य मण्डलम् ।अभिभूय हरत्य् अनन्तरः शिथिलं कूलम् इवापगारयः ॥ ▼ Permalink Bookmark अनुशासतम् इत्य् अनाकुलं नयवर्त्माकुलम् अर्जुनाग्रजम् ।स्वयम् अर्थ इवाभिवाञ्छितस् तम् अभीयाय पराशरात्मजः ॥ ▼ Permalink Bookmark मधुरैर् अवशानि लम्भयन्न् अपि तिर्यञ्चि शमं निरीक्षितैः ।परितः पटु बिभ्रद् एनसां दहनं धाम विलोकनक्षमम् ॥ ▼ Permalink Bookmark सहसोपगतः सविस्मयं तपसां सूतिर् असूतिर् एनसाम् ।ददृशे जगतीभुजा मुनिः स वपुष्मान् इव पुण्यसंचयः ॥ ▼ Permalink Bookmark अथोच्चकैर् आसनतः परार्ध्याद् उद्यन् स धूतारुणवल्कलाग्रः ।रराज कीर्णाकपिशांशुजालः शृङ्गात् सुमेरोर् इव तिग्मरश्मिः ॥ ▼ Permalink Bookmark अवहितहृदयो विधाय स अर्हाम् ऋषिवद् ऋषिप्रवरे गुरूपदिष्टाम् ।तदनुमतम् अलंचकार पश्चात् प्रशम इव श्रुतम् आसनं नरेन्द्रः ॥ ▼ Permalink Bookmark व्यक्तोदितस्मितमयूखविभासितोष्ठस् तिष्ठन् मुनेर् अभिमुखं स विकीर्णधाम्नः ।तन्वन्तम् इद्धम् अभितो गुरुम् अंशुजालं लक्ष्मीम् उवाह सकलस्य शशाङ्कमूर्तेः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha