Click on words to see what they mean.

ततः किरातस्य वचोभिर् उद्धतैः पराहतः शैल इवार्णवाम्बुभिः ।जहौ न धैर्यं कुपितो ऽपि पाण्डवः सुदुर्ग्रहान्तःकरणा हि साधवः ॥
सलेशम् उल्लिङ्गितशात्रवेङ्गितः कृती गिरां विस्तरतत्त्वसंग्रहे ।अयं प्रमाणीकृतकालसाधनः प्रशान्तसंरम्भ इवाददे वचः ॥
विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्य् अपि द्विषाम् ।प्रवर्तते नाकृतपुण्यकर्मणां प्रसन्नगम्भीरपदा सरस्वती ॥
भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये ।नयन्ति तेष्व् अप्य् उपपन्ननैपुणा गम्भीरम् अर्थं कतिचित् प्रकाशताम् ॥
स्तुवन्ति गुर्वीम् अभिधेयसम्पदं विशुद्धिमुक्तेर् अपरे विपश्चितः ।इति स्थितायां प्रतिपूरुषं रुचौ सुदुर्लभाः सर्वमनोरमा गिरः ॥
समस्य सम्पादयता गुणैर् इमां त्वया समारोपितभार भारतीम् ।प्रगल्भम् आत्मा धुरि धुर्य वाग्मिनां वनचरेणापि सताधिरोपितः ॥
प्रयुज्य सामाचरितं विलोभनं भयं विभेदाय धियः प्रदर्शितम् ।तथाभियुक्तं च शिलीमुखार्थिना यथेतरन् न्याय्यम् इवावभासते ॥
विरोधि सिद्धेर् इति कर्तुम् उद्यतः स वारितः किं भवता न भूपतिः ।हिते नियोज्यः खलु भूतिम् इच्छता सहार्थनाशेन नृपो ऽनुजीविना ॥
ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः शिलोच्चये तस्य विमार्गणं नयः ।न युक्तम् अत्रार्यजनातिलङ्घनं दिशत्य् अपायं हि सताम् अतिक्रमः ॥
अतीतसंख्या विहिता ममाग्निना शिलामुखाः खाण्डवम् अत्तुम् इच्छता ।अनादृतस्यामरसायकेष्व् अपि स्थिता कथं शैलजनाशुगे धृतिः ॥
यदि प्रमाणीकृतम् आर्यचेष्टितं किम् इत्य् अदोषेण तिरस्कृता वयम् ।अयातपूर्वा परिवादगोचरं सतां हि वाणी गुणम् एव भाषते ॥
गुणापवादेन तदन्यरोपणाद् भृशाधिरूढस्य समञ्जसं जनम् ।द्विधेव कृत्वा हृदयं निगूहतः स्फुरद् असाधोर् विवृणोति वागसिः ॥
वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस् तान् प्रसभेन तस्य ते ।प्रहीयताम् अत्र नृपेण मानिता न मानिता चास्ति भवन्ति च श्रियः ॥
न वर्त्म कस्मैचिद् अपि प्रदीयताम् इति व्रतं मे विहितं महर्षिणा ।जिघांसुर् अस्मान् निहतो मया मृगो व्रताभिरक्षा हि सताम् अलंक्रिया ॥
मृगान् विनिघ्नन् मृगयुः स्वहेतुना कृतोपकारः कथम् इच्छतां तपः ।कृपेति चेद् अस्तु मृगः क्षतः क्षणाद् अनेन पूर्वं न मयेति का गतिः ॥
अनायुधे सत्त्वजिघांसिते मुनौ कृपेति वृत्तिर् महताम् अकृत्रिमा ।शरासनं बिभ्रति सज्यसायकं कृतानुकम्पः स कथं प्रतीयते ॥
अथो शरस् तेन मदर्थम् उज्झितः फलं च तस्य प्रतिकायसाधनम् ।अविक्षते तत्र मयात्मसात्कृते कृतार्थता नन्व् अधिका चमूपतेः ॥
यद् आत्थ कामं भवता स याच्यताम् इति क्षमं नैतद् अनल्पचेतसाम् ।कथं प्रसह्याहरणैषिणां प्रियः परावनत्या मलिनीकृताः श्रियः ॥
अभूतम् आसज्य विरुद्धम् ईहितं बलाद् अलभ्यं तव लिप्सते नृपः ।विजानतो ऽपि ह्य् अनयस्य रौद्रतां भवत्य् अपाये परिमोहिनी मतिः ॥
असिः शरा वर्म धनुश् च नोच्चकैर् विविच्य किं प्रार्थितम् ईश्वरेण ते ।अथास्ति शक्तिः कृतम् एव याच्ञया न दूषितः शक्तिमतां स्वयंग्रहः ॥
सखा स युक्तः कथितः कथं त्वया यदृच्छयासूयति यस् तपस्यते ।गुणार्जनोच्छ्रायविरुद्धबुद्धयः प्रकृत्यमित्रा हि सताम् असाधवः ॥
वयं क्व वर्णाश्रमरक्षणोचिताः क्व जातिहीना मृगजीवितच्छिदः ।सहापकृष्टैर् महतां न संगतं भवन्ति गोमायुसखा न दन्तिनः ॥
परो ऽवजानाति यद् अज्ञताजडस् तद् उन्नतानां न विहन्ति धीरताम् ।समानवीर्यान्वयपौरुषेषु यः करोत्य् अतिक्रान्तिम् असौ तिरस्क्रिया ॥
यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः ।स्थितिं समीक्ष्योभयथा परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥
मया मृगान् हन्तुर् अनेन हेतुना विरुद्धम् आक्षेपवचस् तितिक्षितम् ।शरार्थम् एष्यत्य् अथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥
इतीरिताकूतम् अनीलवाजिनं जयाय दूतः प्रतितर्ज्य तेजसा ।ययौ समीपं ध्वजिनीम् उपेयुषः प्रसन्नरूपस्य विरूपचक्षुषः ॥
ततो ऽपवादेन पताकिनीपतेश् चचाल निर्ह्रादवती महाचमूः ।युगान्तवाताभिहतेव कुर्वती निनादम् अम्भोनिधिवीचिसंहतिः ॥
रणाय जैत्रः प्रदिशन्न् इव त्वरां तरङ्गितालम्बितकेतुसंततिः ।पुरो बलानां सघनाम्बुशीकरः शनैः प्रतस्थे सुरभिः समीरणः ॥
जयारवक्ष्वेडितनादमूर्छितः शरासनज्यातलवारणध्वनिः ।असम्भवन्भूधरराजकुक्षिषु प्रकम्पयन् गाम् अवतस्तरे दिशः ॥
निशातरौद्रेषु विकासतां गतैः प्रदीपयद्भिः ककुभाम् इवान्तरम् ।वनेसदां हेतिषु भिन्नविग्रहैर् विपुस्फुरे रश्मिमतो मरीचिभिः ॥
उदूढवक्षःस्थगितैकदिङ्मुखो विकृष्टविस्फारितचापमण्डलः ।वितत्य पक्षद्वयम् आयतं बभौ विभुर् गुणानाम् उपरीव मध्यगः ॥
सुगेषु दुर्गेषु च तुल्यविक्रमैर् जवाद् अहंपूर्विकया यियासुभिः ।गणैर् अविच्छेदनिरुद्धम् आबभौ वनं निरुच्छ्वासम् इवाकुलाकुलम् ॥
तिरोहितश्वभ्रनिकुञ्चरोधसः समश्नुवानाः सहसातिरिक्तताम् ।किरातसैन्यैर् अपिधाय रेचिता भुवः क्षणं निम्नतयेव भेजिरे ॥
पृथूरुपर्यस्तबृहल्लताततिर् जवानिलाघूर्णितशालचन्दना ।गणाधिपानां परितः प्रसारिणी वनान्य् अवाञ्चीव चकार संहतिः ॥
ततः सदर्पं प्रतनुं तपस्यया मदस्रुतिक्षामम् इवैकवारणम् ।परिज्वलन्तं निधनाय भूभृतां दहन्तम् आशा इव जातवेदसम् ॥
अनादरोपात्तधृतैकसायकं जये ऽनुकूले सुहृदीव सस्पृहम् ।शनैर् अपूर्णप्रतिकारपेलवे निवेशयन्तं नयने बलोदधौ ॥
निषण्णम् आपत्प्रतिकारकारणे शरासने धैर्य इवानपायिनि ।अलङ्घनीयं प्रकृताव् अपि स्थितं निवातनिष्कम्पम् इवापगापतिम् ॥
उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः ।पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ॥
निजेन नीतं विजितान्यगौरवं गभीरतां धैर्यगुणेन भूयसा ।वनोदयेनेव घनोरुवीरुधा समन्धकारीकृतम् उत्तमाचलम् ॥
महर्षभस्कन्धम् अनूनकंधरं बृहच्छिलावप्रघनेन वक्षसा ।समुज्जिहीर्षुं जगतीं महाभरां महावराहं महतो ऽर्णवाद् इव ॥
हरिन्मणिश्यामम् उदग्रविग्रहं प्रकाशमानं परिभूय देहिनः ।मनुष्यभावे पुरुषं पुरातनं स्थितं जलादर्श इवांशुमालिनम् ॥
गुरुक्रियारम्भफलैर् अलंकृतं गतिं प्रतापस्य जगत्प्रमाथिनः ।गणाः समासेदुर् अनीलवाजिनं तपात्यये तोयघना घना इव ॥
यथास्वम् आशंसितविक्रमाः पुरा मुनिप्रभावक्षततेजसः परे ।ययुः क्षणाद् अप्रतिपत्तिमूढतां महानुभावः प्रतिहन्ति पौरुषम् ॥
ततः प्रजह्रे समम् एव तत्र तैर् अपेक्षितान्योन्यबलोपपत्तिभिः ।महोदयानाम् अपि संघवृत्तितां सहायसाध्याः प्रदिशन्ति सिद्धयः ॥
किरातसैन्याद् उरुचापनोदिताः समं समुत्पेतुर् उपात्तरंहसः ।महावनाद् उन्मनसः खगा इव प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥
गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैर् उन्नमितेन सानुषु ।धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर् दिशः ॥
विधूनयन्ती गहनानि भूरुहां तिरोहितोपान्तनभोदिगन्तरा ।महीयसी वृष्टिर् इवानिलेरिता रवं वितेने गणमार्गणावलिः ॥
त्रयीम् ऋतूनाम् अनिलाशिनः सतः प्रयाति पोषं वपुषि प्रहृष्यतः ।रणाय जिष्णोर् विदुषेव सत्वरं घनत्वम् ईये शिथिलेन वर्मणा ॥
पतत्सु शस्त्रेषु वितत्य रोदसी समन्ततस् तस्य धनुर् दुधूषतः ।सरोषम् उल्केव पपात भीषणा बलेषु दृष्टिर् विनिपातशंसिनी ॥
दिशः समूहन्न् इव विक्षिपन्न् इव प्रभां रवेर् आकुलयन्न् इवानिलम् ।मुनिश् चचाल क्षयकालदारुणः क्षितिं सशैलां चलयन्न् इवेषुभिः ॥
विमुक्तम् आशंसितशत्रुनिर्जयैर् अनेकम् एकावसरं वनेचरैः ।स निर्जघानायुधम् अन्तरा शरैः क्रियाफलं काल इवातिपातितः ॥
गतैः परेषाम् अविभावनीयतां निवारयद्भिर् विपदं विदूरगैः ।भृशं बभूवोपचितो बृहत्फलैः शरैर् उपायैर् इव पाण्डुनन्दनः ॥
दिवः पृथिव्याः ककुभां नु मण्डलात् पतन्ति बिम्बाद् उत तिग्मतेजसः ।सकृद् विकृष्टाद् अथ कार्मुकान् मुनेः शराः शरीराद् इति ते ऽभिमेनिरे ॥
गणाधिपानाम् अविधाय निर्गतैः परासुतां मर्मविदारणैर् अपि ।जवाद् अतीये हिमवान् अधोमुखैः कृतापराधैर् इव तस्य पत्त्रिभिः ॥
द्विषां क्षतीर् याः प्रथमे शिलामुखा विभिद्य देहावरणानि चक्रिरे ।न तासु पेते विशिखैः पुनर् मुनेर् अरुंतुदत्वं महतां ह्य् अगोचरः ॥
समुज्झिता यावदराति निर्यती सहैव चापान् मुनिबाणसंहतिः ।प्रभा हिमांशोर् इव पङ्कजावलिं निनाय संकोचम् उमापतेश् चमूम् ॥
अजिह्मम् ओजिष्ठम् अमोघम् अक्लमं क्रियासु बह्वीषु पृथङ् नियोजितम् ।प्रसेहिरे सादयितुं न सादिताः शरौघम् उत्साहम् इवास्य विद्विषः ॥
शिवध्वजिन्यः प्रतियोधम् अग्रतः स्फुरन्तम् उगेषुमयूखमालिनम् ।तम् एकदेशस्थम् अनेकदेशगा निदध्युर् अर्कं युगपत् प्रजा इव ॥
मुनेः शरौघेण तदुग्ररंहसा बलं प्रकोपाद् इव विष्वग् आयता ।विधूनितं भ्रान्तिम् इयाय सङ्गिनीं महानिलेनेव निदाघजं रजः ॥
तपोबलेनैष विधाय भूयसीस् तनूर् अदृश्याः स्विद् इषून् निरस्यति ।अमुष्य मायाविहतं निहन्ति नः प्रतीपम् आगत्य किम् उ स्वम् आयुधम् ॥
हृता गुणैर् अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः ।कथं न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेर् इवोर्मयः ॥
जयेन कच्चिद् विरमेद् अयं रणाद् भवेद् अपि स्वस्ति चराचराय वा ।तताप कीर्णा नृपसूनुमार्गणैर् इति प्रतर्काकुलिता पताकिनी ॥
अमर्षिणा कृत्यम् इव क्षमाश्रयं मदोद्धतेनेव हितं प्रियं वचः ।बलीयसा तद् विधिनेव पौरुषं बलं निरस्तं न रराज जिष्णुना ॥
प्रतिदिशं प्लवगाधिपलक्ष्मणा विशिखसंहतितापितमूर्तिभिः ।रविकरग्लपितैर् इव वारिभिः शिवबलैः परिमण्डलता दधे ॥
प्रविततशरजालच्छन्नविश्वान्तराले विधुवति धनुर् आविर् मण्डलं पाण्डुसूनौ ।कथम् अपि जयलक्ष्मीर् भूतभूता विहातुं विषमनयनसेनापक्षपातं विषेहे ॥