Click on words to see what they mean.

वपुषां परमेण भूधराणाम् अथ सम्भाव्यपराक्रमं विभेदे ।मृगम् आशु विलोकयांचकार स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥
स्फुटबद्धसटोन्नतिः स दूराद् अभिधावन्न् अवधीरितान्यकृत्यः ।जयम् इच्छति तस्य जातशङ्के मनसीमं मुहुर् आददे वितर्कम् ॥
घनपोत्रविदीर्णशालमूलो निबिडस्कन्धनिकाषरुग्णवप्रः ।अयम् एकचरो ऽभिवर्तते मां समरायेव समाजुहूषमाणः ॥
इह वीतभयास् तपोनुभावाज् जहति व्यालमृगाः परेषु वृत्तिम् ।मयि तां सुतराम् अयं विधत्ते विकृतिः किं नु भवेद् इयं नु माया ॥
अथवैष कृतज्ञयेव पूर्वं भृशम् आसेवितया रुषा न मुक्तः ।अवधूय विरोधिनीः किम् आरान् मृगजातीर् अभियाति मां जवेन ॥
न मृगः खलु को ऽप्य् अयं जिघांसुः स्खलति ह्य् अत्र तथा भृशं मनो मे ।विमलं कलुषीभवच् च चेतः कथयत्य् एव हितैषिणं रिपुं वा ॥
मुनिर् अस्मि निरागसः कुतो मे भयम् इत्य् एष न भूतये ऽभिमानः ।परवृद्धिषु बद्धमत्सराणां किम् इव ह्य् अस्ति दुरात्मनाम् अलङ्घ्यम् ॥
दनुजः स्विद् अयं क्षपाचरो वा वनजे नेति बलं बद् अस्ति सत्त्वे ।अभिभूय तथा हि मेघनीलः सकलं कम्पयतीव शैलराजम् ॥
अयम् एव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया शमस्थे ।पृथुभिर् ध्वजिनीस्रवैर् अकार्षीच् चकितोद्भ्रान्तमृगाणि काननानि ॥
बहुशः कृतसत्कृतेर् विधातुं प्रियम् इच्छन्न् अथवा सुयोधनस्य ।क्षुभितं वनगोचराभियोगाद् गणम् आशिश्रियद् आकुलं तिरश्चाम् ॥
अवलीढसनाभिर् अश्वसेनः प्रसभं खाण्डवजातवेदसा वा ।प्रतिकर्तुम् उपागतः समन्युः कृतमन्युर् यदि वा वृकोदरेण ॥
बलशालितया यथा तथा वा धियम् उच्छेदपरामयं दधानः ।नियमेन मया निबर्हणीयः परमं लाभम् अरातिभङ्गम् आहुः ॥
कुरु तात तपांस्य् अमार्गदायी विजयायेत्य् अलम् अन्वशान् मुनिर् माम् ।बलिनश् च वधाद् ऋते ऽस्य शक्यं व्रसंरक्षणम् अन्यथा न कर्तुम् ॥
इति तेन विचिन्त्य चापनाम प्रथमं पौरुषचिह्नम् आललम्बे ।उपलब्धगुणः परस्य भेदे सचिवः शुद्ध इवाददे च बाणः ॥
अनुभाववता गुरु स्थिरत्वाद् अविसंवादि धनुर् धनंजयेन ।स्वबलव्यसने ऽपि पीड्यमानं गुणवन् मित्रम् इवानतिं प्रपेदे ॥
प्रविकर्षनिनादभिन्नरन्ध्रः पदविष्टम्भनिपीडितस् तदानीम् ।अधिरोहति गाण्डिवं महेषौ सकलः संशयम् आरुरोह शैलः ॥
ददृशे ऽथ सविस्मयं शिवेन स्थिरपूर्णायतचापमण्डलस्थः ।रचितस् तिसृणां पुरां विधातुं वधम् आत्मेव भयानकः परेषाम् ॥
विचकर्ष च संहितेषुर् उच्चैश् चरणास्कन्दननामिताचलेन्द्रः ।धनुरायतभोगवासुकिज्यावदनग्रन्थिविमुक्तवह्नि शम्भुः ॥
स भवस्य भवक्षयैकहेतोः सितसप्तेश् च विधास्यतोः सहार्थम् ।रिपुर् आप पराभवाय मध्यं प्रकृतिप्रत्यययोर् इवानुबन्धः ॥
अथ दीपितवारिवाहवर्त्मा रववित्रासितवारणाद् अवार्यः ।निपपात जवादिषु पिनाकान् महतो ऽभ्राद् इव वैद्युतः कृशानुः ॥
व्रजतो ऽस्य बृहत् पतत्त्रजन्मा कृततार्क्ष्योपनिपातवेगशङ्कः ।प्रतिनादमहान् महोरगाणां हृदयश्रोत्रभिद् उत्पपात नादः ॥
नयनाद् इव शूलिनः प्रवृत्तैर् मनसो ऽप्य् आशुतरं यतः पिशङ्गैः ।विदधे विलसत्तडिल्लताभैः किरणैर् व्योमनि मार्गणस्य मार्गः ॥
अपयन् धनुषः शिवान्तिकस्थैर् विवरेसद्भिर् अभिख्यया जिहानः ।युगपद् ददृशे विशन् वराहं तदुपोढैश् च नभश्चरैः पृषत्कः ॥
स तमालनिभे रिपौ सुराणां घननीहार इवाविषक्तवेगः ।भयविप्लुतम् ईक्षितो नभःस्थैर् जगतीं ग्राह इवापगां जगाहे ॥
सपदि प्रियरूपपर्वरेखः सितलोहाग्रनखः खम् आससाद ।कुपितान्तकतर्जनाङ्गुलिश्रीर् व्यथयन् प्राणभृतः कपिध्वजेषु ॥
परमास्त्रपरिग्रहोरुतेजः स्फुरदुल्काकृति विक्षिपन् वनेषु ।स जवेन पतन् परःशतानां पततां व्रात इवारवं वितेने ॥
अविभावितनिष्क्रमप्रयाणः शमितायाम इवातिरंहसा सः ।सह पूर्वतरं नु चित्तवृत्तेर् अपतित्वा नु चकार लक्ष्यभेदम् ॥
स वृषध्वजसायकावभिन्नं जयहेतुः प्रतिकायम् एषणीयम् ।लघु साधयितुं शरः प्रसेहे विधिनेवार्थम् उदीरितं प्रयत्नः ॥
अविवेकवृथाश्रमाव् इवार्थं क्षयलोभाव् इव संश्रितानुरागम् ।विजिगीषुम् इवानयप्रमादाव् अवसादं विशिखौ विनिन्यतुस् तम् ॥
अथ दीर्घतमं तमः प्रवेक्ष्यन् सहसा रुग्ण्रयः स सम्भ्रमेण ।निपतन्तम् इवोष्णरश्मिम् उर्व्यां वलयीभूततरुं धरां च मेने ॥
स गतः क्षितिम् उष्णशोणितार्द्रः खुरदंष्ट्राग्रनिपातदारिताश्मा ।असुभिः क्षणम् ईक्षितेन्द्रसूनिर् विहितामर्षगुरुध्वनिर् निरासे ॥
स्फुटपौरुषम् आपपात पार्थस् तम् अथ प्राज्यशरः शरं जिघृक्षुः ।न तथा कृतवेदिनां करिष्यन् प्रियताम् एति यथा कृतावदानः ॥
उपकार इवासति प्रयुक्तः स्थितिम् अप्राप्य मृगे गतः प्रणाशम् ।कृतशक्तिर् अवाङ्मुखो गुरुत्वाज् जनितव्रीड इवात्मपौरुषेण ॥
स समुद्धरता विचिन्त्य तेन स्वरुचं कीर्तिम् इवोत्तमां दधानः ।अनुयुक्त इव स्ववार्तम् उच्चैः परिरेभे नु भृशं विलोचनाभ्याम् ॥
तत्र कार्मुकभृतं महाभुजः पश्यति स्म सहसा वनेचरम् ।संनिकाशयितुम् अग्रतः स्थितं शासनं कुसुमचापविद्विषः ॥
स प्रयुज्य तनये महीपतेर् आत्मजातिसदृशीं किलानतिम् ।सान्त्वपूर्वम् अभिनीतिहेतुकं वक्तुम् इत्थम् उपचक्रमे वचः ॥
शान्तता विनययोगि मानसं भूरिधाम विमलं तपः श्रुतम् ।प्राह ते नु सदृशी दिवौकसाम् अन्ववायम् अवदातम् आकृतिः ॥
दीपितस् त्वम् अनुभावसम्पदा गौरवेण लघयन् महीभृतः ।राजसे मुनिर् अपीह कारयन्न् आधिपत्यम् इव शातमन्यवम् ॥
तापसो ऽपि विभुताम् उपेयिवान् आस्पदं त्वम् असि सर्वसम्पदाम् ।दृश्यते हि भवतो विना जनैर् अन्वितस्य सचिवैर् इव द्युतिः ॥
विस्मयः क इव वा जयश्रिया नैव मुक्तिर् अपि ते दवीयसी ।ईप्सितस्य न भवेद् उपाश्रयः कस्य निर्जितरजस्तमोगुणः ॥
ह्रेपयन्न् अहिमतेजसं त्विषा स त्वम् इत्थम् उपपन्नपौरुषः ।हर्तुम् अर्हसि वराहभेदिनं नैनम् अस्मदधिपस्य सायकम् ॥
स्मर्यते तनुभृतां सनातनं न्याय्यम् आचरितम् उत्तमैर् नृभिः ।ध्वंसते यदि भवादृशस् ततः कः प्रयातु वद तेन वर्त्मना ॥
आकुमारम् उपदेष्टुम् इच्छवः संनिवृत्तिम् अपथान् महापदः ।योगशक्तिजितजन्ममृत्यवः शीलयन्ति यतयः सुशीलताम् ॥
तिष्ठतां तपसि पुण्यम् आसजन् सम्पदो ऽनुगुणयन् सुखैषिणाम् ।योगिनां परिणमन् विमुक्तये केन नास्तु विनयः सतां प्रियः ॥
नूनम् अत्रभवतः शराकृतिं सर्वथायम् अनुयाति सायकः ।सो ऽयम् इत्य् अनुपपन्नसंशयः कारितस् त्वम् अपथे पदं यया ॥
अन्यदीयविशिखे न केवलं निःस्पृहस्य भवितव्यम् आहृते ।निघ्नतः परनिबर्हितं मृगं व्रीडितव्यम् अपि ते सचेतसः ॥
संततं निशमयन्त उत्सुका यैः प्रयान्ति मुदम् अस्य सूरयः ।कीर्तितानि हसिते ऽपि तानि यं व्रीडयन्ति चरितानि मानिनम् ॥
अन्यदोषम् इव सः स्वकं गुणं ख्यापयेत् कथम् अधृष्टताजडः ।उच्यते स खलु कार्यवत्तया धिग् विभिन्नबुधसेतुम् अर्थिताम् ॥
दुर्वचं तद् अथ मा स्म भून् मृगस् त्वाव् असौ यद् अकरिष्यद् ओजसा ।नैनम् आशु यदि वाहिनीपतिः प्रत्यपत्स्यत शितेन पत्त्रिणा ॥
को न्व् इमं हरितुरङ्गम् आयुधस्थेयसीं दधतम् अङ्गसंहतिम् ।वेगवत्तरमृते चमूपतेर् हन्तुम् अर्हति शरेण दंष्ट्रिणम् ॥
मित्रम् इष्टम् उपकारि संशये मेदिनीपतिर् अयं तथा च ते ।तं विरोध्य भवता निरासि मा सज्जनैकवसतिः कृतज्ञता ॥
लभ्यम् एकसुकृतेन दुर्लभा रक्षितारम् असुरक्ष्यभूतयः ।स्वन्तम् अन्तविरसा जिगीषतां मित्रलाभम् अनु लाभसम्पदः ॥
चञ्चलं वसु नितान्तम् उन्नता मेदिनीम् अपि हरन्त्य् अरातयः ।भूधरस्थिरम् उपेयम् आगतं मावमंस्त सुहृदं महीपतिम् ॥
जेतुम् एव भवता तपस्यते नायुधानि दधते मुमुक्षवः ।प्राप्स्यते च सकलं महीभृता संगतेन तपसः फलं त्वया ॥
वाजिभूमिर् इभराजकाननं सन्ति रत्ननिचयाश् च भूरिशः ।काञ्चनेन किम् इवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥
सावलेपम् उपलिप्सते परैर् अभ्युपैति विकृतिं रजस्य् अपि ।अर्थितस् तु न महान् समीहते जीवितं किमु धनं धनायितुम् ॥
तत् तदीयविशिखातिसर्जनाद् अस्तु वां गुरु यदृच्छयागतम् ।राघवप्लवगराजयोर् इव प्रेम युक्तम् इतरेतराश्रयम् ॥
नाभियोक्तुम् अनृतं त्वम् इष्यते कस् तपस्विविशिखेषु चादरः ।सन्ति भूभृति शरा हि नः परे ये पराक्रमवसूनि वज्रिणः ॥
मार्गणैर् अथ तव प्रयोजनं नाथसे किमु पतिं न भूभृतः ।त्वद्विधं सुहृदम् एत्य स अर्थिनं किं न यच्छति विजित्य मेदिनीम् ॥
तेन सूरिर् उपकारिताधनः कर्तुम् इच्छति न याचितं वृथा ।सीदताम् अनुभवन्न् इवार्थिनां वेद यत् प्रणयभङ्गवेदनाम् ॥
शक्तिर् अर्थपतिषु स्वयंग्रहं प्रेम कारयति वा निरत्ययम् ।कारणद्वयम् इदं निरस्यतः प्रार्थनाधिकबले विपत्फला ॥
अस्त्रवेदम् अधिगम्य तत्त्वतः कस्य चेह भुजवीर्यशालिनः ।जामदग्न्यम् अपहाय गीयते तापसेषु चरितार्थम् आयुधम् ॥
अभ्यघानि मुनिचापलात् त्वया यन् मृगः क्षितिपतेः परिग्रहः ।अक्षमिष्ट तद् अयं प्रमाद्यतां संवृणोति खलु दोषम् अज्ञता ॥
जन्मवेषतपसां विरोधिनीं मा कृथाः पुनर् अमूम् अपक्रियाम् ।आपद् एत्य् उभयलोकदूषणी वर्तमानम् अपथे हि दुर्मतिम् ॥
यष्टुम् इच्छसि पितॄन् न साम्प्रतं संवृतो ऽर्चिचयिषुर् दिवौकसः ।दातुम् एव पदवीम् अपि क्षमः किं मृगे ऽङ्ग विशिखं न्यवीविशः ॥
सज्जनो ऽसि विजहीहि चापलं सर्वदा क इव वा सहिष्यते ।वारिधीन् इव युगान्तवायवः क्षोभयन्त्य् अनिभृता गुरून् अपि ॥
अस्त्रवेदविद् अयं महीपतिः पर्वतीय इति मावजीगणः ।गोपितुं भुवम् इमां मरुत्वता शैलवासम् अनुनीय लम्भितः ॥
तत् तितिक्षितम् इदं मया मुनेर् इत्य् अवोचत वचश् चमूपतिः ।बाणम् अत्रभवते निजं दिशन्न् आप्नुहि त्वम् अपि सर्वसम्पदः ॥
आत्मनीनम् उपतिष्ठते गुणाः सम्भवन्ति विरमन्ति चापदः ।इत्य् अनेकफलभाजि मा स्म भूद् अर्थिता कथम् इवार्यसंगमे ॥
दृश्यताम् अयम् अनोकहान्तरे तिग्महेतिपृतनाभिर् अन्वितः ।साहिवीचिर् इव सिन्धुर् उद्धतो भूपतिः समयसेतुवारितः ॥
सज्यं धनुर् वहति यो ऽहिपतिस्थवीयः स्थेयाञ् जयन् हरितुरङ्गमकेतुलक्ष्मीम् ।अस्यानुकूलय मतिं मतिमन्न् अनेन सख्या सुखं समभियास्यसि चिन्तितानि ॥