Click on words to see what they mean.

अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।अभिययौ स हिमाचलम् उच्छ्रितं समुदितं नु विलङ्घयितुं नभः ॥
तपनमण्डलदीतितम् एकतः सततनैशतमोवृतम् अन्यतः ।हसितभिन्नतमिस्रचयं पुरः शिवम् इवानुगतं गजचर्मणा ॥
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् अदृष्टपरस्परैः ।प्रथयितुं विभुताम् अभिनिर्मितं प्रतिनिधिं जगताम् इव शम्भुना ॥
भुजगराजसितेन नभःश्रिया कनकराजिविराजितसानुना ।समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ।दधतम् उच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥
अविरतोज्झितवारिविपाण्डुभिर् विरहितैर् अचिरद्युतितेजसा ।उदितपक्षम् इवारतनिःस्वनैः पृथुनितम्बविलम्बिभिर् अम्बुदैः ॥
दधतम् आकरिभिः करिभिः क्षतैः समवतारसमैर् असमैस् तटैः ।विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।विहितसांध्यमयूखम् इव क्वचिन् निचितकाञ्चनभित्तिषु सानुषु ॥
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् ।लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥
रहितरत्नचयान् न शिलोच्चयान् अफलताभवना न दरीभुवः ।विपुलिनाम्बुरुहा न सरिद्वधूर् अकुसुमान् दधतं न महीरुहः ॥
व्यथितसिन्धुम् अनीरशनैः शनैर् अमरलोकवधूजघनैर् घनैः ।फणभृताम् अभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥
ससुरचापम् अनेकमणिप्रभैर् अपपयोविशदं हिमपाण्डुभिः ।अविचलं शिखरैर् उपबिभ्रतं ध्वनितसूचितम् अम्बुमुचां चयम् ॥
विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।शिवम् अगात्मजया च कृतेर्ष्यया सकलहं सगणं शुचिमानसम् ॥
ग्रहविमानगणान् अभितो दिवं ज्वलयतौषधिजेन कृशानुना ।मुहुर् अनुस्मरयन्तम् अनुक्षपं त्रिपुरदाहम् उपापतिसेविनः ॥
विततशीकरराशिभिर् उच्छ्रितैर् उपलरोधविवर्तिभिर् अम्बुभिः ।दधतम् उन्नतसानुसमुद्धतां धृतसितव्यजनाम् इव जाह्नवीम् ॥
अनुचरेण धनाधिपतेर् अथो नगविलोकनविस्मितमानसः ।स जगदे वचनं प्रियम् आदरान् मुखरतावसरे हि विराजते ॥
अलम् एष विलोकितः प्रजानां सहसा संहतिम् अंहसां विहन्तुम् ।घनवर्त्म सहस्रधेव कुर्वन् हिमगौरैर् अचलाधिपः शिरोभिः ॥
इह दुरधिगमैः किंचिद् एवागमैः सततम् असुतरं वर्णयन्त्य् अन्तरम् ।अमुम् अतिविपिनं वेद दिग्व्यापिनं पुरुषम् इव परं पद्मयोनिः परम् ॥
रुचिरपल्लवपुष्पलतागृहैर् उपलसज्जलजैर् जलराशिभिः ।नयति संततम् उत्सुकताम् अयं धृतिमतीर् उपकान्तम् अपि स्त्रियः ॥
सुलभैः सदा नयवतायवता निधिगुह्यकाधिपरमैः परमैः ।अमुना धनैः क्षितिभृतातिभृता समतीत्य भाति जगती जगती ॥
अखिलम् इदम् अमुष्य गैरीगुरोस् त्रिभुवनम् अपि नैति मन्ये तुलाम् ।अधिवसति सदा यद् एनं जनैर् अविदितविभवो भवानीपतिः ॥
वीतजन्मजरसं परं शुचि ब्रह्मणः पदम् उपैतुम् इच्छताम् ।आगमाद् इव तमोपहाद् इतः सम्भवन्ति मतयो भवच्छिदः ॥
दिव्यस्त्रीणां सचरणलाक्षारागा रागायाते निपतितपुष्पापीडाः ।पीडाभाजः कुसुमचिताः साशंसं शंसन्त्य् अस्मिन् सुरतविशेषं शय्याः ॥
गुणसम्पदा समधिगम्य परं महिमानम् अत्र महिते जगताम् ।नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुम् औषधयः ॥
कुररीगणः कृतरवस् तरवः कुसुमानताः सकमलं कमलम् ।इह सिन्धवश् च वरणावरणाः करिणां मुदे सनलदानलदाः ॥
सादृश्यं गतम् अपनिद्रचूतगन्धैर् आमोदं मदजलसेकजं दधानः ।एतस्मिन् मदयति कोकिलान् अकाले लीनालिः सुरकरिणां कपोलकाषः ॥
सनाकवनितं नितम्बरुचिरं चिरं सुनिनदैर् नदैर् वृतम् अमुम् ।मता फलवतो ऽवतो रसपरा परास्तवसुधा सुधाधिवसति ॥
श्रीमल्लताभवनम् ओषधयः प्रदीपाः शय्या नवानि हरिचन्दनपल्लवानि ।अस्मिन् रतिश्रमनुदश् च सरोजवाताः स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥
ईशार्थम् अम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः ।आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैर् अमृतम् अम्बुनिधिर् ममन्थे ।व्यावर्तनैर् अहिपतेर् अयम् आहिताङ्कः खं व्यालिखन्न् इव विभाति स मन्दराद्रिः ॥
नीतोच्छ्रायं मुहुर् अशिशिररश्मेर् उस्रैर् आनीलाभैर् विरचितपरभागा रत्नैः ।ज्योत्स्नाशङ्काम् इव वितरति हंसश्येनी मध्ये ऽप्य् अह्नः स्फटिकरजतभित्तिच्छाया ॥
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥
अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुर् अधीरविलोचनायाः ।विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥
क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् तेजोभिः शुचिमणिजन्मभिर् विभिन्नः ।उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥
व्यधत्त यस्मिन् पुरम् उच्चगोपुरं पुरां विजेतुर् धृतये धनाधिपः ।स एष कैलास उपान्तसर्पिणः करोत्य् अकालास्तमयं विवस्वतः ॥
नानारत्नज्योतिषां संनिपातैश् छन्नेष्व् अन्तःसानु वप्रान्तरेषु ।बद्धां बद्धां भित्तिशङ्काम् अमुष्मिन् नावानावान् मातरिश्वा निहन्ति ॥
रम्या नवद्युतिर् अपैति न शाद्वलेभ्यः श्यामीभवन्त्य् अनुदिनं नलिनीवनानि ।अस्मिन् विचित्रकुसुमस्तबकाचितानां शाखाभृतां परिणमन्ति न पल्लवानि ॥
परिसरविषयेषु लीढमुक्ता हरिततृणोद्गमशङ्कया मृगीभिः ।इह नवशुककोमला मणीनां रविकरसंवलिताः फलन्ति भासः ॥
उत्फुल्लस्थलनलिनीवनाद् अमुष्माद् उद्धूतः सरसिजसम्भवः परागः ।वात्याभिर् वियति विवर्तितः समन्ताद् आधत्ते कनकमयातपत्रलक्ष्मीम् ॥
इह सनियमयोः सुरापगायाम् उषसि सयावकसव्यपादरेखा ।कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥
संमूर्छतां रजतभित्तिमयूखजालैर् आलोकपादपलतान्तरनिर्गतानाम् ।घर्मद्युतेर् इह मुहुः पटलानि धाम्नाम् आदर्शमण्डलनिभानि समुल्लसन्ति ॥
शुक्लैर् मयूखनिचयैः परिवीतमूर्तिर् वप्राभिघातपरिमण्डलितोरुदेहः ।शृङ्गाण्य् अमुष्य भजते गणभर्तुर् उक्षा कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥
सम्प्रति लब्धजन्म शनकैः कथम् अपि लघुनि क्षीणपयस्य् उपेयुषि भिदां जलधरपटले ।खण्डितविग्रहं बलभिदो धनुर् इह विविधाः पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥
स्नपितनवलतातरुप्रवालैर् अमृतलवस्रुतिशालिभिर् मयूखैः ।सततम् असितयामिनीषु शम्भो अमलयतीह वनान्तम् इन्दुलेखा ॥
क्षिपति यो ऽनुवनं विततां बृहद् बृहतिकाम् इव रौचनिकीं रुचम् ।अयम् अनेकहिरण्मयकंदरस् तव पितुर् दयितो जगतीधरः ॥
सक्तिं लवाद् अपनयत्य् अनिले लतानां वैरोचनैर् द्विगुणिताः सहसा मयूखैः ।रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां भासस् तडिद्विलसितानि विडम्बयन्ति ॥
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।इह मदस्नपितैर् अनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥
जलदजालघनैर् असिताश्मनाम् उपहतप्रचयेह मरीचिभिः ।भवति दीप्तिर् अदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥
भव्यो भवन्न् अपि मुनेर् इह शासनेन क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।प्रायेण सत्य् अपि हितार्थकरे विधौ हि श्रेयांसि लब्धुम् असुखानि विनान्तरायैः ॥
मा भूवन्न् अपथहृतस् तवेन्द्रियाश्वाः संतापे दिशतु शिवः शिवां प्रसक्तिम् ।रक्षन्तस् तपसि बलं च लोकपालाः कल्याणीम् अधिकफलां क्रियां क्रियायुः ॥
इत्य् उक्त्वा सपदि हितं प्रियं प्रियार्हे धाम स्वं गतवति राजराजभृत्ये ।सोत्कण्ठं किम् अपि पृथासुतः प्रदध्यौ संधत्ते भृशम् अरतिं हि सद्वियोगः ॥
तम् अनतिशयनीयं सर्वतः सारयोगाद् अविरहितम् अनेकेनाङ्कभाजा फलेन ।अकृशम् अकृशलक्ष्मीश् चेतसाशंसितं स स्वम् इव पुरुषकारं शैलम् अभ्याससाद ॥