तत उदग्र इव द्विरदे मुनौ रणम् उपेयुषि भीमभुजायुधे ।धनुर् अपास्य सबाणधि शंकरः प्रतिजघान घनैर् इव मुष्टिभिः ॥
हरपृथासुतयोर् ध्वनिर् उत्पतन्न् अमृदुसंवलिताङ्गुलिपाणिजः ।स्फुटदनल्पशिलारवदारुणः प्रतिननाद दरीषु दरीभृतः ॥
शिवभुजाहतिभिन्नपृथुक्षतीः सुखम् इवानुबभूव कपिध्वजः ।क इव नाम बृहन्मनसां भवेद् अनुकृतेर् अपि सत्त्ववतां क्षमः ॥
व्रणमुखच्युतशोणितशीकरस्थगितशैलतटाभभुजान्तरः ।अभिनवौषसरागभृता बभौ जलधरेण समानम् उमापतिः ॥
उरसि शूलभृतः प्रहिता मुहुः प्रतिहतिं ययुर् अर्जुनमुष्टयः ।भृशरया इव सह्यमहीभृतः पृथुनि रोधसि सिन्धुमहोर्मयः ॥
निपतिते ऽधिशिरोधरम् आयते समम् अरत्नियुगे ऽयुगचक्षुषः ।त्रिचतुरेषु पदेषु किरीटिना लुलितदृष्टि मदाद् इव चस्खले ॥
अभिभवोदितमन्युविदीपितः समभिसृत्य भृशं जवम् ओजसा ।भुजयुगेन विभज्य समाददे शशिकलाभरणस्य भुजद्वयम् ॥
प्रववृते ऽथ महाहवमल्लयोर् अचलसंचलनाहरणो रणः ।करणशृङ्खलसंकलनागुरुर् गुरुभुजायुधगर्वितयोस् तयोः ॥
अयम् असौ भगवान् उत पाण्डवः स्थितम् अवाङ् मुनिना शशिमौलिना ।समधिरूढम् अजेन नु जिष्णुना स्विद् इति वेगवशान् मुमुहे गणैः ॥
प्रचलिते चलितं स्थितम् आस्थिते विनमिते नतम् उन्नतम् उन्नतौ ।वृषकपिध्वजयोर् असहिष्णुना मुहुर् अभावभयाद् इव भूभृता ॥
करणशृङ्खलनिःसृतयोस् तयोः कृतभुजध्वनि वल्गु विवल्गतोः ।चरणपातनिपातितरोधरसः प्रससृपुः सरितः परितः स्थलीः ॥
वियति वेगपरिप्लुतम् अन्तरा समभिसृत्य रयेण कपिध्वजः ।चरणयोश् चरणानमितक्षितिर् निजगृहे तिसृणां जयिनं पुराम् ॥
विस्मितः सपदि तेन कर्मणा कर्मणां क्षयकरः परः पुमान् ।क्षेप्तुकामम् अवनौ तम् अक्लमं निष्पिपेष परिरभ्य वक्षसा ॥
तपसा तथा न मुदम् अस्य ययौ भगवान् यथा विपुलसत्त्वतया ।गुणसंहतेः समतिरिक्तम् अहो निजम् एव सत्त्वम् उपकारि सताम् ॥
अथ हिमशुचिभस्मभूषितं शिरसि विराजितम् इन्दुलेखया ।स्ववपुर् अतिमनोहरं हरं दधतम् उदीक्ष्य ननाम पाण्डवः ॥
सहशरधि निजं तथा कार्मुकं वपुर् अतनु तथैव संवर्मितम् ।निहितम् अपि तथैव पश्यन्न् असिं वृषभगतिर् उपाययौ विस्मयम् ॥
सिषिचुर् अवनिम् अम्बुवाहाः शनैः सुरकुसुमम् इयाय चित्रं दिवः ।विमलरुचि भृशं नभो दुन्दुभेर् ध्वनिर् अखिलम् अनाहतस्यानशे ॥
आसेदुषां गोत्रभिदो ऽनुवृत्त्या गोपायकानां भुवनत्रयस्य ।रोचिष्णुरत्नावलिभिर् विमानैर् द्यौर् आचिता तारकितेव रेजे ॥
हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।चक्रुः प्रयत्नेन विकीर्यमाणैर् व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः ॥
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः ।जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥
कृतधृति परिवन्दितेनोच्चकैर् गणपतिभिर् अभिन्नरोमोद्गमैः ।तपसि कृतफले फलज्यायसी स्तुतिर् इति जगदे हरेः सूनुना ॥
शरणं भवन्तम् अतिकारुणिकं भव भक्तिगम्यम् अधिगम्य जनाः ।जितमृत्यवो ऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥
विपद् एति तावद् अवसादकरी न च कामसम्पद् अभिकामयते ।न नमन्ति चैकपुरुषं पुरुषास् तव यावद् ईश न नतिः क्रियते ॥
संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः ।यन्निःसङ्गस् त्वं फलस्यानतेभ्यस् तत् कारुण्यं केवलं न स्वकार्यम् ॥
प्राप्यते यद् इह दूरम् अगत्वा यत् फलत्य् अपरलोकगताय ।तीर्थम् अस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस् तत् ॥
व्रजति शुचि पदं त्व् अति प्रीतिमान् प्रतिहतम् अतिर् एति घोरां गतिम् ।इयम् अनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥
दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीम् अविदित्वा ।रागिणापि विहिता तव भक्त्या संस्मृतिर् भव भवत्य् अभवाय ॥
दृष्ट्वा दृश्यान्य् आचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तम् अपायैः ।सम्यग्दृष्टिस् तस्य परं पश्यति यस् त्वां यश् चोपास्ति साधु विधेयं स विधत्ते ॥
युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैर् उपकारवन्तः ।समुच्छिनत्सि त्वम् अचिन्त्यधामा कर्माण्य् उपेतस्य दुरुत्तराणि ॥
संनिबद्धम् अपहर्तुम् अहार्यं भूरि दुर्गतिभयं भुवनानाम् ।अद्भुताकृतिम् इमाम् अतिमायस् त्वं बिभर्षि करुणामय मायाम् ॥
न रागि चेतः परमा विलासिता वधूः शरीरे ऽस्ति न चास्ति मन्मथः ।नमस्क्रिया चोषसि दातुर् इत्य् अहो निसर्गदुर्बोधम् इदं तवेहितम् ॥
तवोत्तरीयं करिचर्म साङ्गजं ज्वलन्मणिः सारशनं महानहिः ।स्रग् आस्यपङ्क्तिः शवभस्म चन्दनं कला हिमांशोश् च समं चकासति ॥
अविग्रहस्याप्य् अतुलेन हेतुना समेतभिन्नद्वयमूर्ति तिष्ठतः ।तवैव नान्यस्य जगत्सु दृश्यते विरुद्धवेषाभरणस्य कान्तता ॥
आत्मलाभपरिणामनिरोधैर् भूतसंघ इव न त्वम् उपेतः ।तेन सर्वभुवनातिग लोके नोपमानम् असि नाप्य् उपेमयः ॥
त्वम् अन्तकः स्थावरजङ्गमानां त्वया जगत् प्राणिति देव विश्वम् ।त्वं योगिनां हेतुफले रुणत्सि त्वं कारणं कारणकारणानाम् ॥
रक्षोभिः सुरमनुजैर् दितेः सुतैर् वा यल् लोकेष्व् अविकलम् आप्तम् आधिपत्यम् ।पाविन्याः शरणगतार्तिहारिणे तन् माहात्म्यं भव भवते नमस्क्रियायाः ॥
तरसा भुवनानि यो बिभर्ति ध्वनति ब्रह्म यतः परं पवित्रम् ।परितो दुरितानि यः पुनीते शिव तस्मै पवनातने नमस् ते ॥
भवतः स्मरतां सदासने जयिनि ब्रह्ममये निषेदुषाम् ।दहते भवबीजसंततिं शिखिने ऽनेकशिखाय ते नमः ॥
आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन ।निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमो ऽस्तु जीवनाय ॥
यः सर्वेषाम् आवरीता वरीयान् सर्वैर् भावैर् नावृतो ऽनादिनिष्ठः ।मार्गातीतायेन्द्रियाणां नमस् ते ऽविज्ञेयाय व्योमरूपाय तस्मै ॥
अणीयसे विश्वविधारिणे नमो नमो ऽन्तिकस्थाय नमो दवीयसे ।अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वम् अर्हसि ।विरोध्य मोहात् पुनर् अभ्युपेयुषां गतिर् भवान् एव दुरात्मनापि ॥
आस्तिक्यशुद्धम् अवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे ।सम्प्राप्नुयां विजयम् ईश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥
इति निगदितवन्तं सूनुम् उच्चैर् मघोनः प्रणतशिरसम् ईशः सादरं सान्त्वयित्वा ।ज्वलदनलपरीतं रौद्रम् अस्त्रं दधानं धनुरुपपदम् अस्मै वेदम् अभ्यादिदेश ॥
स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः ।परीत्येशानं त्रिः स्तुतिभिर् उपगीतः सुरगणैः सुतं पाण्डोर् वीरं जलदम् इव भास्वान् अभिययौ ॥
अथ शशधरमौलेर् अभ्यनुज्ञाम् अवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।अवितथफलम् आशिर्वादम् आरोपयन्तो विजयि विविधम् अस्त्रं लोकपाला वितेरुः ॥
असंहार्योत्साहं जयिनम् उदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितम् अनवसादाय जगतः ।स्वधाम्ना लोकानां तम् उपरि कृतस्थानम् अमरास् तपोलक्ष्म्या दीप्तं दिनकृतम् इवोच्चैर् उपजगुः ॥
व्रज जय रिपुलोकं पादपद्मानतः सन् गदित इति शिवेन श्लाघितो देवसंघैः ।निजगृहम् अथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर् धर्मसूनुं ननाम ॥