१५ किरातार्जुनीयम् Click on words to see what they mean. अथ भूतानि वार्त्रघ्नशरेभ्यस् तत्र तत्रसुः ।भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः ॥ ▼ Permalink Bookmark अपश्यद्भिर् इवेशानं रणान् निववृते गणैः ।मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ ▼ Permalink Bookmark खण्डिताशंसया तेषां पराङ्मुखतया तया ।आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ ▼ Permalink Bookmark आस्थाम् आलम्ब्य नीतेषु वशं क्षुद्रेष्व् अरातिषु ।व्यक्तिम् आयाति महतां माहात्म्यम् अनुकम्पया ॥ ▼ Permalink Bookmark स सासिः सासुसूः सासो येयायेयाययाययः ।ललौ लीलां ललो ऽलोलः शशीशशिशुशीः शशन् ॥ ▼ Permalink Bookmark त्रासजिह्मं यतश् चैतान् मन्दम् एवान्वियाय सः ।नातिपीडयितुं भग्नान् इच्छन्ति हि महौजसः ॥ ▼ Permalink Bookmark अथाग्रे हसता साचिस्थितेन स्थिरकीर्तिना ।सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥ ▼ Permalink Bookmark मा विहासिष्ट समरं समरन्तव्यसंयतः ।क्षतं क्षुण्णासुरगणैर् अगणैर् इव किं यशः ॥ ▼ Permalink Bookmark विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः ।अमी वो मोघम् उद्गूर्णा हसन्तीव महासयः ॥ ▼ Permalink Bookmark वने ऽवने वनसदां मार्गं मार्गम् उपेयुषाम् ।वाणैर् बाणैः समासक्तं शङ्के ऽशं केन शाम्यति ॥ ▼ Permalink Bookmark पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।गुर्वीं काम् आपदं हन्तुं कृतम् आवृत्तिसाहसम् ॥ ▼ Permalink Bookmark नासुरो ऽयं न वा नागो धरसंस्थो न राक्षसः ।ना सुखो ऽयं नवाभोगो धरणिस्थो हि राजसः ॥ ▼ Permalink Bookmark मन्दम् अस्यन्न् इषुलतां घृणया मुनिर् एष वः ।प्रणुदत्य् आगतावज्ञं जघनेषु पशून् इव ॥ ▼ Permalink Bookmark न नोननुन्नो ऽनुन्नेनो न ना नानानना ननु ।नुन्नो ऽनुन्नो न नुन्नेनो नानेनानुन्ननुन् न नुत् ॥ ▼ Permalink Bookmark वरं कृतध्वस्तगुणाद् अत्यन्तम् अगुणः पुमान् ।प्रकृत्या ह्य् अमणिः श्रेयान् नालंकारश् च्युतोपलः ॥ ▼ Permalink Bookmark स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ ▼ Permalink Bookmark भवद्भिर् अधुनारातिपरिहापितपौरुषैः ।ह्रदैर् इवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥ ▼ Permalink Bookmark वेत्रशाककुजे शैले ऽलेशैजे ऽकुकशात्रवे ।यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥ ▼ Permalink Bookmark अयं वः क्लैब्यम् आपन्नान् दृष्टपृष्ठान् अरातिना ।इच्छतीशश् च्युताचारान् दारान् इव निगोपितुम् ॥ ▼ Permalink Bookmark ननु हो मथना राघो घोरा नाथमहो नु न ।तयदातवदा भीमा माभीदा बत दायत ॥ ▼ Permalink Bookmark किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः ।ज्वलितान्यगुणैर् गुर्वी स्थिता तेजसि मान्यता ॥ ▼ Permalink Bookmark निशितासिरतो ऽभीको न्येजते ऽमरणा रुचा ।सारतो न विरोधी नः स्वाभासो भरवान् उत ॥ ▼ Permalink Bookmark तनुवारभसो भास्वान् अधीरो ऽविनतोरसा ।चारुणा रमते जन्ये को ऽभीतो रसिताशिनि ॥ ▼ Permalink Bookmark निर्भिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि ।हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥ ▼ Permalink Bookmark देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ ▼ Permalink Bookmark प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ ।मारुतापूर्णतूणीरविक्रुष्टहतसादिनि ॥ ▼ Permalink Bookmark ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।त्वराधिककसन्नादे रमकत्वम् अकर्षति ॥ ▼ Permalink Bookmark आसुरे लोकवित्रासविधायिनि महाहवे ।युष्माभिर् उन्नतिं नीतं निरस्तम् इह पौरुषम् ॥ ▼ Permalink Bookmark इति शासति सेनान्यां गच्छतस् तान् अनेकधा ।निषिध्य हसता किंचित् तत्र तस्थे ऽन्धकारिणा ॥ ▼ Permalink Bookmark मुनीषुदहनातप्तांल् लज्जया निविवृत्सतः ।शिवः प्रह्लादयामास तान् निषेधहिमाम्बुना ॥ ▼ Permalink Bookmark दूनास् ते ऽरिबलाद् ऊना निरेभा बहु मेनिरे ।भीताः शितशराभीताः शंकरं तत्र शंकरम् ॥ ▼ Permalink Bookmark महेषुजलधौ शत्रोर् वर्तमाना दुरुत्तरे ।प्राप्य पारम् इवेशानम् आशश्वास पताकिनी ॥ ▼ Permalink Bookmark स बभार रणापेतां चमूं पश्चाद् अवस्थिताम् ।पुरः सूर्याद् उपावृत्तां छायाम् इव महातरुः ॥ ▼ Permalink Bookmark मुञ्चतीशे शराञ् जिष्णौ पिनाकस्वनपूरितः ।दध्वान ध्वनयन्न् आशाः स्फुटन्न् इव धराधरः ॥ ▼ Permalink Bookmark तद्गणा ददृशुर् भीमं चित्रसंस्था इवाचलाः ।विस्मयेन तयोर् युद्धं चित्रसंस्था इवाचलाः ॥ ▼ Permalink Bookmark परिमोहयमाणेन शिक्षालाघवलीलया ।जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ ▼ Permalink Bookmark अवद्यन् पत्रिणः शम्भोः सायकैर् अवसायकैः ।पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ ▼ Permalink Bookmark चारचुञ्चुश् चिरारेची चञ्चच्चीररुचा रुचः ।चचार रुचिरश् चारु चारैर् आचारचञ्चुरः ॥ ▼ Permalink Bookmark स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।धृतोल्कानलयोगेन तुल्यम् अंशुमता बभौ ॥ ▼ Permalink Bookmark पार्थबाणाः पशुपतेर् आवव्रुर् विशिखावलिम् ।पयोमुच इवारन्ध्राः सावित्रीम् अंशुसंहतिम् ॥ ▼ Permalink Bookmark शरवृष्टिं विधूयोर्वीम् उदस्तां सव्यसाचिना ।रुरोध मार्गणैर् मार्गं तपनस्य त्रिलोचनः ॥ ▼ Permalink Bookmark तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ ▼ Permalink Bookmark द्युवियद्गामिनी तारसंरावविहतश्रुतिः ।हैमीषुमाला शुशुभे विद्युताम् इव संहतिः ॥ ▼ Permalink Bookmark विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥ ▼ Permalink Bookmark जगतीशरणे युक्तो हरिकान्तः सुधासितः ।दानवर्षीकृताशंसो नागराज इवाबभौ ॥ ▼ Permalink Bookmark विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥ ▼ Permalink Bookmark स पिशङ्गजटावलिः किरन्न् उरुतेजः परमेण मन्युना ।ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥ ▼ Permalink Bookmark शतशो विशिखान् अवद्यते भृशम् अस्मै रणवेगशालिने ।प्रथयन्न् अनिवार्यवीर्यतां प्रजिगायेषुम् अघातुकं शिवः ॥ ▼ Permalink Bookmark शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलाद् अंशुम् इवांशुभर्तुः ।निवारयिष्यन् विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीम् ॥ ▼ Permalink Bookmark घनं विदार्यार्जुनबाणपूगं ससारबाणो ऽयुग् अलोचनस्य ।घनं विदार्यार्जुनबाणपूगं ससार बाणो ऽयुगलोचनस्य ॥ ▼ Permalink Bookmark रुजन् परेषून् बहुधाशुपातिनो मुहुः शरौघैर् अपवारयन् दिशः ।चलाचलो ऽनेक इव क्रियावशान् महर्षिसंघैर् बुबुधे धनंजयः ॥ ▼ Permalink Bookmark विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः ।विकाशम् ईयुर् जगतीशमार्गणा विकाशम् ईयुर् जगतीशमार्गणाः ॥ ▼ Permalink Bookmark सम्पश्यताम् इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस् तनयस्य वीर्यम् ।अङ्गान्य् अभिन्नम् अपि तत्त्वविदां मुनीनां रोमाञ्चम् अञ्चिततरं बिभराम्बभूवुः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha