११ किरातार्जुनीयम् Click on words to see what they mean. अथामर्षान् निसर्गाच् च जितेन्द्रियतया तया ।आगजामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ ▼ Permalink Bookmark मुनिरूपो ऽनुरूपेण सूनुना ददृशे पुरः ।द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ ▼ Permalink Bookmark जटानां कीर्णया केशैः संहत्या परितः सितैः ।पृक्तयेन्दुकरैर् अह्नः पर्यन्त इव संध्यया ॥ ▼ Permalink Bookmark विशदभ्रूयुगच्छन्नवलितापाङ्गलोचनः ।प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः ॥ ▼ Permalink Bookmark आसक्तभरनीकाशैर् अङ्गैः परिकृशैर् अपि ।अद्यूनः सद्गृहिण्य् एव प्रायो यष्ट्यावलम्बितः ॥ ▼ Permalink Bookmark गूढो ऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।अंशुमान् इव तन्वभ्रपटलच्छन्नविग्रहः ॥ ▼ Permalink Bookmark जरतीम् अपि बिभ्राणस् तनुम् अप्राकृताकृतिः ।चकाराक्रान्तलक्ष्मीकः ससाध्वसम् इवाश्रयम् ॥ ▼ Permalink Bookmark अभितस् तं पृथासूनुः स्नेहेन परितस्तरे ।अविज्ञाते ऽपि बन्धौ हि बलात् प्रह्लादते मनः ॥ ▼ Permalink Bookmark आतिथेयीम् अथासाद्य सुतादपचितिं हरिः ।विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ▼ Permalink Bookmark त्वया साधु समारम्भि नवे वयसि यत् तपः ।ह्रियते विषयैः प्रायो वर्षीयान् अपि मादृशः ॥ ▼ Permalink Bookmark श्रेयसीं तव सम्प्राप्ता गुणसम्पदम् आकृतिः ।सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ▼ Permalink Bookmark शरदम्बुधरच्छाया गत्वर्यो यौवनश्रियः ।आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ▼ Permalink Bookmark अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।इति त्याज्ये भवे भव्यो मुक्ताव् उत्तिष्ठते मनः ॥ ▼ Permalink Bookmark चित्तवान् असि कल्याणी यत् त्वां मतिर् उपस्थिता ।विरुद्धः केवलं वेषः संदेहयति मे मनः ॥ ▼ Permalink Bookmark युयुत्सुनेव कवचं किम् आमुक्तम् इदं त्वया ।तपस्विनो हि वसते केवलाजिनवल्कले ॥ ▼ Permalink Bookmark प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।महेषुधी धनुर् भीमं भूतानाम् अनभिद्रुहः ॥ ▼ Permalink Bookmark भयंकरः प्राणभृतां मृत्योर् भुज इवापरः ।असिस् तव तपस्थस्य न समर्थयते शमम् ॥ ▼ Permalink Bookmark जयम् अत्रभवान् नूनम् अरातिष्व् अभिलाषुकः ।क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ ▼ Permalink Bookmark यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्य् अपः ॥ ▼ Permalink Bookmark मूलं दोषस्य हिंसादेर् अर्थकामौ स्म मा पुषः ।तौ हि तत्त्वावबोधस्य दुरुच्छेदाव् उपप्लवौ ॥ ▼ Permalink Bookmark अभिद्रोहेण भूतानाम् अर्जयन् गत्वरीः श्रियः ।उदन्वान् इव सिन्धूनाम् आपदाम् एति पात्रताम् ॥ ▼ Permalink Bookmark या गम्याः सत्सहायानां यासु खेदो भयं यतः ।तासां किं यन् न दुःखाय विपदाम् इव सम्पदाम् ॥ ▼ Permalink Bookmark दुरासदान् अरीन् उग्रान् धृतेर् विश्वासजन्मनः ।भोगान् भोगान् इवाहेयान् अध्यास्यापन् न दुर्लभा ॥ ▼ Permalink Bookmark नान्तरज्ञाः श्रियो जातु प्रियैर् आसां न भूयते ।आसक्तास् तास्व् अमी मूढा वामशीला हि जन्तवः ॥ ▼ Permalink Bookmark को ऽपवादः स्तुतिपदे यद् अशीलेषु चञ्चलाः ।साधुवृत्तान् अपि क्षुद्रा विक्षिपन्त्य् एव सम्पदः ॥ ▼ Permalink Bookmark कृतवान् अन्यदेहेषु कर्ता च विधुरं मनः ।अप्रियैर् इव संयोगो विप्रयोगः प्रियैः सह ॥ ▼ Permalink Bookmark शून्यम् आकीर्णताम् एति तुल्यं व्यसनम् उत्सवैः ।विप्रलम्भो ऽपि लाभाय सति प्रियसमागमे ॥ ▼ Permalink Bookmark तदा रम्याण्य् अरम्याणि प्रियाः शल्यं तदासवः ।तदैकाकी सबन्धुः सन्न् इष्टेन रहितो यदा ॥ ▼ Permalink Bookmark युक्तः प्रमाद्यसि हिताद् अपेतः परितप्यसे ।यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ▼ Permalink Bookmark जन्मिनो ऽस्य स्थितिं विद्वांल् लक्ष्मीम् इव चलाचलाम् ।भवान् मा स्म वधीन् न्याय्यं न्यायाधारा हि साधवः ॥ ▼ Permalink Bookmark विजहीहि रणोत्साहं मा तपः साधि नीनशः ।उच्छेदं जन्मनः कर्तुम् एधि शान्तस् तपोधन ॥ ▼ Permalink Bookmark जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः ।जितेषु ननु लोको ऽयं तेषु कृत्स्नस् त्वया जितः ॥ ▼ Permalink Bookmark परवान् अर्थसंसिद्धौ नीचवृत्तिर् अपत्रपः ।अविधेयेन्द्रियः पुंसां गौर् इवैतेइ विधेयताम् ॥ ▼ Permalink Bookmark श्वस् त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।इति स्वप्नोपमान् मत्वा कामान् मा गास् तदङ्गताम् ॥ ▼ Permalink Bookmark श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।सुदुस्त्यजास् त्यजन्तो ऽपि कामाः कष्टा हि शत्रवः ॥ ▼ Permalink Bookmark विविक्ते ऽस्मिन् नगे भूयः प्लाविते जह्नुकन्यया ।प्रत्यासीदति मुक्तिस् त्वां पुरा मा भूर् उदायुधः ॥ ▼ Permalink Bookmark व्याहृत्य मरुतां पत्याव् इति वाचम् अवस्थिते ।वचः प्रश्रयगम्भीरम् अथोवाच कपिध्वजः ॥ ▼ Permalink Bookmark प्रसादरम्यम् ओजस्वि गरीयो लाघवान्वितम् ।साकाङ्क्षम् अनुपस्कारं विष्वग्गति निराकुलम् ॥ ▼ Permalink Bookmark न्यायनिर्णीतसारत्वान् निरपेक्षम् इवागमे ।अप्रकम्प्यतयान्येषाम् आम्नायवचनोपमम् ॥ ▼ Permalink Bookmark अलङ्घ्यत्वाज् जनैर् अन्यैः क्षुभितोदन्वदूर्जितम् ।औदार्याद् अर्थसम्पत्तेः शान्तं चित्तम् ऋषेर् इव ॥ ▼ Permalink Bookmark इदम् ईदृग्गुणोपेतं लब्धावसरसाधनम् ।व्याकुर्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ▼ Permalink Bookmark न ज्ञातं तात यत्नस्य पौर्वापर्यम् अमुष्य ते ।शासितुं येन मां धर्मं मुनिभिस् तुल्यम् इच्छसि ॥ ▼ Permalink Bookmark अविज्ञातप्रबन्धस्य वचो वाचस्पतेर् इव ।व्रजत्य् अफलताम् एव नयद्रुह इवेहितम् ॥ ▼ Permalink Bookmark श्रेयसो ऽप्य् अस्य ते तात वचसो नास्मि भाजनम् ।नभसः स्फुटतारस्य रात्रेर् इव विपर्ययः ॥ ▼ Permalink Bookmark क्षत्रियस् तनयः पाण्डोर् अहं पार्थो धनंजयः ।स्थितः प्रास्तस्य दायादैर् भ्रातुर् ज्येष्ठस्य शासने ॥ ▼ Permalink Bookmark कृष्णद्वैपायनादेशाद् बिभर्मि व्रतम् ईदृशम् ।भृशम् आराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ ▼ Permalink Bookmark दुरक्षान् दीव्यता राज्ञा राज्यम् आत्मा वयं वधूः ।नीतानि पणतां नूनम् ईदृशी भवितव्यता ॥ ▼ Permalink Bookmark तेनानुजसहायेन द्रौपद्या च मया विना ।भृशम् आयामियामासु यामिनीष्व् अभितप्यते ॥ ▼ Permalink Bookmark हृतोत्तरीयां प्रसभं सभायाम् आगतह्रियः ।मर्मच्छिदा नो वचसा निरतक्षन्न् अरातयः ॥ ▼ Permalink Bookmark उपाधत्त सपत्नेषु कृष्णाया गुरुसंनिधौ ।भावम् आनयने सत्याः सत्यंकारम् इवान्तकः ॥ ▼ Permalink Bookmark ताम् ऐक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् ।अभिसायार्कम् आवृत्तां छायाम् इव महातरोः ॥ ▼ Permalink Bookmark अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।अरुध्येताम् इतीवास्या नयने बाष्पवारिणे ॥ ▼ Permalink Bookmark सोढवान् नो दशाम् अन्त्यां ज्यायान् एव गुणप्रियः ।सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्व् अवाच्यता ॥ ▼ Permalink Bookmark स्थित्यतिक्रान्तिभीरूणि स्वच्छान्य् आकुलितान्य् अपि ।तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ▼ Permalink Bookmark धार्तराष्ट्रैः सह प्रीतिर् वैरम् अस्मास्व् असूयत ।असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ▼ Permalink Bookmark अपवादाद् अभीतस्य समस्य गुणदोषयोः ।असद्वृत्तेर् अहोवृत्तं दुर्विभावं विधेर् इव ॥ ▼ Permalink Bookmark ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ▼ Permalink Bookmark अवधूयारिभिर् नीता हरिणैस् तुल्यवृत्तिताम् ।अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ▼ Permalink Bookmark शक्तिवैकल्यनम्रस्य निःसारत्वाल् लघीयसः ।जन्मिनो मानहिनस्य तृणस्य च समा गतिः ॥ ▼ Permalink Bookmark अलङ्घ्यं तत् तद् उद्वीक्ष्य यद् यद् उच्चैर् महीभृताम् ।प्रियतां ज्यायसीं मा गान् महतां केन तुङ्गता ॥ ▼ Permalink Bookmark तावद् आश्रीयते लक्ष्म्या तावद् अस्य स्थिरं यशः ।पुरुषस् तावद् एवासौ यावन् मानान् न हीयते ॥ ▼ Permalink Bookmark स पुमान् अर्थवज् जन्मा यस्य नाम्नि पुरःस्थिते ।नान्याम् अङ्गुलिम् अभ्येति संख्यायाम् उद्यताङ्गुलिः ॥ ▼ Permalink Bookmark दुरासदवनज्यायान् गम्यस् तुङ्गो ऽपि भूधरः ।न जहाति महौजस्कं मानप्रांशुम् अलङ्घ्यता ॥ ▼ Permalink Bookmark गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर् वसुंधरा ।येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ▼ Permalink Bookmark उदाहरणम् आशीःषु प्रथमे ते मनस्विनाम् ।शुष्के ऽशनिर् इवामर्षो यैर् अरातिषु पात्यते ॥ ▼ Permalink Bookmark न सुखं प्रार्थये नार्थम् उदन्वद्वीचिचञ्चलम् ।नानित्यताशनेस् त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ▼ Permalink Bookmark प्रमार्ष्टुम् अयशःपङ्कम् इच्छेयं छद्मना कृतम् ।वैधव्यतापितारातिवनितालोचनाम्बुभिः ॥ ▼ Permalink Bookmark अपहस्ये ऽथवा सद्भिः प्रमादो वास्तु मे धियः ।अस्थानविहितायासः कामं जिह्रेतु वा भवान् ॥ ▼ Permalink Bookmark वंशलक्ष्मीम् अनुद्धृत्य समुच्छेदेन विद्विषाम् ।निर्वाणम् अपि मन्ये ऽहम् अन्तरायं जयश्रियः ॥ ▼ Permalink Bookmark अजन्मा पुरुषस् तावद् गतासुस् तृणम् एव वा ।यावन् नेषुभिर् आदत्ते विलुप्तम् अरिभिर् यशः ॥ ▼ Permalink Bookmark अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ ▼ Permalink Bookmark कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।यो ऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयम् उदाहृतः ॥ ▼ Permalink Bookmark ग्रसमानम् इवौजांसि सदसा गौरवेरितम् ।नाम यस्याभिनन्दन्ति द्विषो ऽपि स पुमान् पुमान् ॥ ▼ Permalink Bookmark यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।ममैवाध्येति नृपतिस् तृष्यन्न् इव जलाञ्जलेः ॥ ▼ Permalink Bookmark स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुर् आज्ञया ॥ ▼ Permalink Bookmark कथं वादीयताम् अर्वाङ् मुनिता धर्मरोधिनी ।आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ▼ Permalink Bookmark आसक्ता धूर् इयं रूढा जननी दूरगा च मे ।तिरस्करोति स्वातन्त्र्यं ज्यायांश् चाचारवान् नृपः ॥ ▼ Permalink Bookmark स्वधर्मम् अनुरुन्धन्ते नातिक्रमम् अरातिभिः ।पलायन्ते कृतध्वंसा नाहवान् मानशालिनः ॥ ▼ Permalink Bookmark विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।आराध्य वा सहस्राक्षम् अयशःशल्यम् उद्धरे ॥ ▼ Permalink Bookmark इत्य् उक्तवन्तं परिरभ्य दोर्भ्यां तनूजम् आविष्कृतदिव्यमूर्तिः ।अघोपघातं मघवा विभूत्यै भवोद्भवाराधनम् आदिदेश ॥ ▼ Permalink Bookmark प्रीते पिनाकिनि मया सह लोकपालैर् लोकत्रये ऽपि विहिताप्रतिवार्यवीर्यः ।लक्ष्मीं समुत्सुकयितासि भृशं परेषाम् उच्चार्य वाचम् इति तेन तिरोबभूवे ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha