१२ किरातार्जुनीयम् Click on words to see what they mean. अथ वासवस्य वचनेन रुचिरवदनस् त्रिलोचनम् ।क्लान्तिरहितम् अभिराधयितुं विधिवत् तपांसि विदधे धनंजयः ॥ अभिरश्मिमालि विमलस्य धृतजयधृतेर् अनाशुषः ।तस्य भुवि बहुतिथास् तिथयः प्रतिजग्मुर् एकचरणं निषीदतः ॥ वपुरिन्द्रियोपतपनेषु सततम् असुखेषु पाण्डवः ।व्याप नगपतिर् इव स्थिरतां महतां हि धैर्यम् अविभाव्यवैभवम् ॥ न पपात संनिहितपक्तिसुरभिषु फलेषु मानसम् ।तस्य शुचिनि शिशिरे च पयस्य् अमृतायते हि सुतपः सुकर्मणाम् ॥ न विसिस्मिये न विषसाद मुहुर् अलसतां नु चाददे ।सत्त्वम् उरुधृति रजस्तमसी न हतः स्म तस्य हतशक्तिपेलवे ॥ तपसा कृशं वपुर् उवाह स विजितजगत्त्रयोदयम् ।त्रासजननम् अपि तत्त्वविदां किम् इवास्ति यन् न सुकरं मनस्विभिः ॥ ज्वलतो ऽनलाद् अनुनिशीथम् अधिकरुचिर् अम्भसां निधेः ।धैर्यगुणम् अवजयन् विजयी ददृशे समुन्नततरः स शैलतः ॥ जपतः सदा जपम् उपांशु वदनम् अभितो विसारिभिः ।तस्य दशनकिरणैः शुशुभे परिवेषभीषणम् इवार्कमण्डलम् ॥ कवचं स बिभ्रद् उपवीतपदनिहितसज्यकार्मुकः ।शैलपतिर् इव महेन्द्रधनुःपरिवीतभीमगहनो विदिद्युते ॥ प्रविवेश गाम् इव कृशस्य नियमसवनाय गच्छतः ।तस्य पदविनमितो हिमवान् गुरुतां नयन्ति हि गुणा न संहतिः ॥ परिकीर्णम् उद्यतभुजस्य भुवनविवरे दुरासदम् ।ज्योतिर् उपरि शिरसो विततं जगृहे निजान् मुनिदिवौकसां पथः ॥ रजनीषु राजतनयस्य बहुलसमये ऽपि धामभिः ।भिन्नतिमिरनिकरं न जहे शशिरश्मिसंगमयुजा नभः श्रिया ॥ महता मयूखनिचयेन शमितरुचि जिष्णुजन्मना ।ह्रीतम् इव नभसि वीतमले न विराजते स्म वपुर् अंशुमालिनः ॥ तम् उदीरितारुणजटांशुम् अधिगुणशरासनं जनाः ।रुद्रम् अनुदितललाटदृशं ददृशुर् मिमन्थिषुम् इवासुरीः पुरीः ॥ मरुतां पतिः स्विद् अहिमांशुर् उत पृथुशिखः शिखी तपः ।तप्तुम् असुकरम् उपक्रमते न जनो ऽयम् इत्य् अवयये स तापसैः ॥ न ददाह भूरुहवनानि हरितनयधाम दूरगम् ।न स्म नयति परिशोषम् अपः सुसहं बभूव न च सिद्धतापसैः ॥ विनयं गुणा इव विवेकम् अपनयभिदं नया इव ।न्यायम् अवधय इवाशरणाः शरणं ययुः शिवम् अथो महर्षयः ॥ परिवीतम् अंशुभिर् उदस्तदिनकरमयूखमण्डलैः ।शम्भुम् उपहतदृशः सहसा न च ते निचायितुम् अभिप्रसेहिरे ॥ अथ भूतभव्यभवदीशम् अभिमुखयितुं कृतस्तवाः ।तत्र महसि ददृशुः पुरुषं कमनीयविग्रहम् अयुग्मलोचनम् ॥ ककुदे वृषस्य कृतबाहुम् अकृशपरिणाहशालिनि ।स्पर्शसुखम् अनुभवन्तम् उमाकुचयुग्ममण्डल इवार्द्रचन्दने ॥ स्थितम् उन्नते तुहिनशैलशिरसि भुवनातिवर्तिना ।साद्रिजलधिजलवाहपथं सदिगश्नुवानम् इव विश्वम् ओजसा ॥ अनुजानुमध्यमवसक्तविततवपुषा महाहिना ।लोकम् अखिलम् इव भूमिभृता रवितेजसाम् अवधिनाधिवेष्टितम् ॥ परिणाहिना तुहिनराशिविशदम् उपवीतसूत्रताम् ।नीतम् उरगम् अनुरञ्जयता शितिना गलेन विलसन्मरीचिना ॥ प्लुतमालतीसितकपालकमुदम् उपरुद्धमूर्धजम् ।शेषम् इव सुरसरित्पयसां शिरसा विसारि शशिधाम बिभ्रतम् ॥ मुनयस् ततो ऽभिमुखम् एत्य नयनविनिमेषनोदिताः ।पाण्डुतनयतपसा जनितं जगताम् अशर्म भृशम् आचचक्षिरे ॥ तरसैव को ऽपि भुवनैकपुरुष पुरुषस् तपस्यति ।ज्योतिरमलवपुषो ऽपि रवेर् अभिभूय वृत्र इव भीमविग्रहः ॥ स धनुर्महेषुधि निभर्ति कवचम् असितम् उत्तमं जटाः ।वल्कम् अजिनम् इति चित्रम् इदं मुनिताविरोधि न च नास्य राजते ॥ चलने ऽवनिश् चलति तस्य करणनियमे सदिङ्मुखम् ।स्तम्भम् अनुभवति शान्तमरुद्ग्रहतारकागणयुतं नभस्तलम् ॥ स तदोजसा विजितसारम् अमरदितिजोपसंहितम् ।विश्वम् इदम् अपिदधाति पुरा किम् इवास्ति यन् न तपसाम् अदुष्करम् ॥ विजिगीषते यदि जगन्ति युगपद् अथ संजिहीर्षति ।प्राप्तुम् अभवम् अभिवाञ्छति वा वयम् अस्य नो विषहितुं क्षमा रुचः ॥ किम् उपेक्षसे कथय नाथ न तव विदितं न किंचन ।त्रातुम् अलम् अभयदार्हसि नस् त्वयि मा स्म शासति भवत्पराभवः ॥ इति गां विधाय विरतेषु मुनिषु वचनं समाददे ।भिन्नजलधिजलनादगुरु ध्वनयन् दिशां विवरम् अन्धकान्तकः ॥ बदरीतपोवननिवासनिरतम् अवगात मान्यथा ।धातुर् उदयनिधने जगतां नरम् अंशम् आदिपुरुषस्य गां गतम् ॥ द्विषतः परासिसिषुर् एष सकलभुवनाभितापिनः ।क्रान्तकुलिशकरवीर्यबलान् मदुपासनं विहितवान् महत् तपः ॥ अयम् अच्युतश् च वचनेन सरसिरुहजन्मनः प्रजाः ।पातुम् असुरनिधनेन विभू भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः ॥ सुरकृत्यम् एतद् अवगम्य निपुणम् इति मूकदानवः ।हन्तुम् अभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥ विवरे ऽपि नैनम् अनिगूढम् अभिभवितुम् एष पारयन् ।पापनिरतिर् अविशङ्कितया विजयं व्यवस्यति वराहमायया ॥ निहते विडम्बितकिरातनृपतिवपुषा रिपौ मया ।मुक्तनिशितविशिखः प्रसभं मृगयाविवादम् अयम् आचरिष्यति ॥ तपसा निपीडितकृशस्य विरहितसहायसम्पदः ।सत्त्वविहितम् अतुलं भुजयोर् बलम् अस्य पश्यत मृधे ऽधिकुप्यतः ॥ इति तान् उदारम् अनुनीय विषमहरिचन्दनालिना ।घर्मजनितपुलकेन लसद्गजमौक्तिकावलिगुणेन वक्षसा ॥ वदनेन पुष्पितलतान्तनियमितविलम्बितमौलिना ।बिभ्रद् अरुणनयनेन रुचं शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ बृहदुद्वहञ् जलदनादि धनुर् उपहितैकमार्गणम् ।मेघनिचय इव संववृते रुचिरः किरातपृतनापतिः शिवः ॥ अनुकूलम् अस्य च विचिन्त्य गणपतिभिर् आत्तविग्रहैः ।शूलपरशुशरचापभृतैर् महती वनेचरचमूर् विनिर्ममे ॥ विरचय्य काननविभागम् अनुगिरम् अथेश्वराज्ञया ।भीमनिनदपिहितोरुभुवः परितो ऽपदिश्य मृगयां प्रतस्थिरे ॥ क्षुभिताभिनिःसृतविभिन्नशकुनिमृगयूथनिःस्वनैः ।पूर्णपृथुवनगुहाविवरः सहसा भयाद् इव ररास भूधरः ॥ न विरोधिनी रुषम् इयाय पथि मृगविहङ्गसंहतिः ।घ्नन्ति सहजम् अपि भूरिभियः समम् आगताः सपदि वैरम् आपदः ॥ चमरीगणैर् गणबलस्य बलवति भये ऽप्य् उपस्थिते ।वंशविततिषु विषक्तपृथुप्रियबालवालधिभिर् आददे धृतिः ॥ हरसैनिकाः प्रतिभये ऽपि गजमदसुगन्धिकेसरैः ।स्वस्थम् अभिददृशिरे सहसा प्रतिबोधजृम्भमुखैर् मृगाधिपैः ॥ बिभरांबभूवुर् अपवृत्तजठरशफरीकुलाकुलाः ।पङ्कविषमिततटाः सरितः करिरुग्णचन्दनरसारुणं पयः ॥ महिषक्षतागुरुतमालनलदसुरभिः सदागतिः ।व्यस्तशुकनिभशिलाकुसुमः प्रणुदन् ववौ वनसदां परिश्रमम् ॥ मथिताम्भसो रयविकीर्णमृदितकदलीगवेधुकाः ।क्लान्तजलरुहलताः सरसीर् विदधे निदाघ इव सत्त्वसम्प्लवः ॥ इति चालयन्न् अचलसानुवनगहनजान् उमापतिः ।प्राप मुदितहरिणीदशनक्षतवीरुधं वसतिम् ऐन्द्रसूनवीम् ॥ स तम् आससाद घननीलम् अभिमुखम् उपस्थितं मुनेः ।पित्रनिकषणविभिन्नभुवं दनुजं दधानम् अथ सौकरं वपुः ॥ कच्छान्ते सुरसरितो निधाय सेनाम् अन्वतिः सकतिपयैः किरातवर्यैः ।प्रच्छन्नस् तरुगहनैः सगुल्मजालैर् लक्ष्मीवान् अनुपदम् अस्य सम्प्रतस्थे ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha