६ किरातार्जुनीयम् Click on words to see what they mean. रुचिराकृतिः कनकसानुम् अथो परमः पुमान् इव पतिं पतताम् ।धृतसत्पथस् त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ॥ ▼ Permalink Bookmark तम् अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।पवनेरिताकुलविजिह्मशिखा जगतीरुहो ऽवचकरुः कुसुमैः ॥ ▼ Permalink Bookmark अवधूतपङ्कजपरागकणास् तनुजाह्नवीसलिलवीचिभिदः ।परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ॥ ▼ Permalink Bookmark उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।मुदम् अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुर् अनुवप्रम् अपाम् ॥ ▼ Permalink Bookmark अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥ ▼ Permalink Bookmark प्रबभूव नालम् अवलोकयितुं परितः सरोजरजसारुणितम् ।सरिदुत्तरीयम् इव संहतिमत् स तरङ्गरङ्गि कलहंसकुलम् ॥ ▼ Permalink Bookmark दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।अधिकां स रोधसि बबन्ध धृतिं महते रुजन्न् अपि गुणाय महान् ॥ ▼ Permalink Bookmark अनुहेमवप्रम् अरुणैः समतां गतम् ऊर्मिभिः सहचरं पृथुभिः ।स रथाङ्गनामवनितां करुणैर् अनुबध्नतीम् अभिननन्द रुतैः ॥ ▼ Permalink Bookmark सितवाजिने निजगदू रुचयश् चलवीचिरागरचनापटवः ।मणिजालम् अम्भसि निमग्नम् अपि स्फुरितं मनोगतम् इवाकृतयः ॥ ▼ Permalink Bookmark उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।स ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ॥ ▼ Permalink Bookmark बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम् ।अवगाढम् ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ॥ ▼ Permalink Bookmark प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे ।पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुर् इव शुक्तिवधूः ॥ ▼ Permalink Bookmark शुचिर् अप्सु विद्रुमलताविटपस् तनुसान्द्रफेनलवसंवलितः ।स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥ ▼ Permalink Bookmark उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः ।प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान् करिणः ॥ ▼ Permalink Bookmark स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ॥ ▼ Permalink Bookmark स ततार सैकतवतीर् अभितः शफरीपरिस्फुरितचारुदृशः ।ललिताः सखीर् इव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ॥ ▼ Permalink Bookmark अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ॥ ▼ Permalink Bookmark अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः ॥ ▼ Permalink Bookmark प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर् मुनिताम् ।श्रमम् आदधाव् असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ॥ ▼ Permalink Bookmark शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर् गुणैर् अघमयं स तमः ।प्रतिवासरं सुकृतिभिर् ववृधे विमलः कलाभिर् इव शीतरुचिः ॥ ▼ Permalink Bookmark अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियम् अस्तवतः ।प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ ▼ Permalink Bookmark मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः ।सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥ ▼ Permalink Bookmark शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनो ऽभिषवणेन जटाः ।उपमां ययाव् अरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥ ▼ Permalink Bookmark धृतहेतिर् अप्य् अधृतजिह्ममतिश् चरितैर् मुनीन् अधरयञ् शुचिभिः ।रजयांचकार विरजाः स मृगान् कम् इवेशते रमयितुं न गुणाः ॥ ▼ Permalink Bookmark अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम् ।अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ॥ ▼ Permalink Bookmark नवपल्लवाञ्जलिभृतः प्रचये बृहतस् तरून् गमयतावनतिम् ।स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ॥ ▼ Permalink Bookmark पतितैर् अपेतजलदान् नभसः पृषतैर् अपां शमयता च रजः ।स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥ ▼ Permalink Bookmark महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ॥ ▼ Permalink Bookmark तद् अभूरिवासरकृतं सुकृतैर् उपलभ्य वैभवम् अनन्यभवम् ।उपतस्थुर् आस्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥ ▼ Permalink Bookmark विदिताः प्रविश्य विहितानतयः शिथिलीकृते ऽधिकृतकृत्यविधौ ।अनपेतकालम् अभिरामकथाः कथयांबभूवुर् इति गोत्रभिदे ॥ ▼ Permalink Bookmark शुचिवल्कवीततनुर् अन्यतमस् तिमिरच्छिदाम् इव गिरौ भवतः ।महते जयाय मघवन्न् अनघः पुरुषस् तपस्यति तपज् जगतीम् ॥ ▼ Permalink Bookmark स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः ।अमलेन तस्य धृतसच्चरिताश् चरितेन चातिशयिता मुनयः ॥ ▼ Permalink Bookmark मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिर् अपाम् ।गुणसम्पदानुगुणतां गमितः कुरुते ऽस्य भक्तिम् इव भूतगणः ॥ ▼ Permalink Bookmark इतरेतरानभिभवेन मृगास् तम् उपासते गुरुम् इवान्तसदः ।विनमन्ति चास्य तरवः प्रचये परवान् स तेन भवतेव नगः ॥ ▼ Permalink Bookmark उरु सत्त्वम् आह विपरिश्रमता परमं वपुः प्रथयतीव जयम् ।शमिनो ऽपि तस्य नवसंगमने विभुतानुषङ्गि भयम् एति जनः ॥ ▼ Permalink Bookmark ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृताम् ।चरतस् तपस् तव वनेषु सदा न वयं निरूपयितुम् अस्य गतिम् ॥ ▼ Permalink Bookmark विगणय्य कारणम् अनेकगुणं निजयाथवा कथितम् अल्पतया ।असद् अप्य् अदः सहितुम् अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥ ▼ Permalink Bookmark अधिगम्य गुह्यकगणाद् इति तन् मनसः प्रियं प्रियसुतस्य तपः ।निजुगोप हर्षम् उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥ ▼ Permalink Bookmark प्रणिधाय चित्तम् अथ भक्ततया विदिते ऽप्य् अपूर्व इव तत्र हरिः ।उपलब्धुम् अस्य नियमस्थिरतां सुरसुन्दरीर् इति वचो ऽभिदधे ॥ ▼ Permalink Bookmark सुकुमारम् एकम् अणु मर्मभिदाम् अतिदूरगं युतम् अमोघतया ।अविपक्षम् अस्त्रम् अपरं कतमद् विजयाय यूयम् इव चित्तभुवः ॥ ▼ Permalink Bookmark भववीतये हतबृहत्तमसाम् अवबोधवारि रजसः शमनम् ।परिपीयमाणम् इव वो ऽसकलैर् अवसादम् एति नयनाञ्जलिभिः ॥ ▼ Permalink Bookmark बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥ ▼ Permalink Bookmark तद् उपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥ ▼ Permalink Bookmark अविमृष्यम् एतद् अभिलष्यति स द्विषतां वधेन विषयाभिरतिम् ।भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥ ▼ Permalink Bookmark पृथुदाम्नि तत्र परिबोधि च मा भवतीभिर् अन्यमुनिवद् विकृतिः ।स्वयशांसि विक्रमवताम् अवतां न वधूष्व् अघानि विमृष्यन्ति धियः ॥ ▼ Permalink Bookmark आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः ।लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥ ▼ Permalink Bookmark प्रणतिम् अथ विधाय प्रस्थिताः सद्मनस् ताः स्तनभरनमिताङ्गीर् अङ्गनाः प्रीतिभाजः ।अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितम् अमरभर्तुर् द्रष्टुम् अक्ष्णां सहस्रम् ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha