वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥
कायचित्तविवेकेन विक्षेपस्य न संभवः तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥
स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥
शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥
कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥
अपश्यन्नरतिं याति समाधौ न च तिष्ठति न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा ॥
न पश्यति यथाभूतं संवेगादवहीयते दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥
तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः ॥
बालैः सभागचरितो नियतं याति दुर्गतिम् नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥
क्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात् तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः ॥
हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात् अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥
ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥
आत्मोत्कर्षः परावर्णः संसाररतिसंकथा इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥
एवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥
बालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः न संस्तवानुबन्धेन किंतूदासीनसाधुवत् ॥
धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः ॥
लाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम् इति मर्त्यस्य संप्राप्तान् मरणाज्जायते भयम् ॥
यत्र तत्र रतिं याति मनः सुखाभिमोहितम् तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥
तस्मात् प्राज्ञो न तमिच्छेद् इच्छातो जायते भयम् स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् ॥
बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति ॥
मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥
नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः किं पुनर्मादृशैरज्ञैस् तस्मात् किं कोकचिन्तया ॥
निन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनम् प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥
न बालः कस्यचिन्मित्रम् इति चोक्तं तथागतैः न स्वार्थेन विना प्रीतिर् यस्माद्बालस्य जायते ॥
स्वार्थद्वारेण या प्रीतिर् आत्मार्थं प्रीतिरेव सा द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥
नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥
शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा कदानपेक्षो यास्यामि पृष्ठतो ऽनवलोकयन् ॥
अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥
मृत्पात्रमात्रविभवश् चौरासंभोगचीवरः निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥
कायभूमिं निजां गत्वा कङ्कालैरपरैः सह स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥
अयमेव हि कायो मे एवं पूतिर्भविष्यति शृगाला अपि यद्गन्धान् नोपसर्पेयुरन्तिकम् ॥
अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥
एक उत्पद्यते जन्तुर् म्रियते चैक एव हि नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः ॥
अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः तथा भवाध्वगस्यापि जन्मावासपरिग्रहः ॥
चतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥
असंस्तवाविरोधाभ्याम् एक एव शरीरकः पूर्वमेव मृतो लोके म्रियमाणो न शोचति ॥
न चान्तिकचराः केचिच् छोचन्तः कुर्वते व्यथाम् बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥
तस्मादेकाकिता रम्या निरायासा शिवोदया सर्वविक्षेपशमनी सेवितव्या मया सदा ॥
सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥
कामा ह्यनर्थजनका इह लोके परत्र च इह बन्धवधच्छेदैर् नरकादौ परत्र च ॥
यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥
प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम् यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः ॥
तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥
उन्नाम्यमानं यत्नाद् यन् नीयमानमधो ह्रिया पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् ॥
तन्मुखं तूत्परिक्लेशम् असहद्भिरिवाधुना गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे ॥
परचक्षुर्निपातेभ्यो ऽप्यासीद्यत्परिरक्षितम् तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि ॥
मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम् आहारः पूज्यते ऽन्येषां स्रक्चन्दनविभूषणैः ॥
निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात् वेताडेनेव केनापि चाल्यमानाद् भयं न किम् ॥
एकस्मादशनादेषां लालामेध्यं च जायते तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥
तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः दुर्गन्धं न स्रवन्तीति कामिनो ऽमेध्यमोहिताः ॥
यत्र च्छन्ने ऽप्ययं रागस् तदच्छन्नं किमप्रियम् न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥
यदि ते नाशुचौ रागः कस्मादालिङ्गसे ऽपरम् मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥
स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर अमेध्यभस्त्रामपरां गूथघस्मर विस्मर ॥
मांसप्रियो ऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥
यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥
नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम् स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥
विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम् अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥
मृदाद्यमेध्यलिप्तत्वाद् यदि न स्प्रष्टुमिच्छसि यतस्तन्निर्गतं कायात् तं स्प्रष्टुं कथमिच्छसि ॥
यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम् अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥
अमेध्यभवमल्पत्वान् न वाञ्छस्यशुचिं कृमिम् बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि ॥
न केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥
कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥
यदि प्रत्यक्षमप्येतद् अमेध्यं नाधिमुच्यसे श्मशाने पतितान् घोरान् कायान् पश्यापरानपि ॥
चर्मण्युत्पाटिते यस्माद् भयमुत्पद्यते महत् कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥
काये न्यस्तो ऽप्यसौ गन्धश् चन्दनादेव नान्यतः अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥
यदि स्वभावदौर्गन्ध्याद् रागो नात्र शिवं ननु किमनर्थरुचिर्लोकस् तं गन्धेनानुलिम्पति ॥
कायस्यात्र किमायातं सुगन्धि यदि चन्दनम् अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥
यदि केशनखैर्दीर्घैर् दन्तैः समलपाण्डुरैः मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः ॥
स किं संस्क्रियते यत्नाद् आत्मघाताय शस्त्रवत् आत्मव्यामोहनोद्युक्तैर् उन्मत्तैराकुला मही ॥
कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥
एवं चामेध्यमप्येतद् विना मूल्यं न लभ्यते तदर्थमर्जनायासो नरकादिषु च व्यथा ॥
शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥
केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥
दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥
यदर्थमिव विक्रीत आत्मा कामविमोहितैः तन्न प्राप्तं मुधैवायुर् नीतं तु परकर्मणा ॥
विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम् प्रसूयन्ते स्त्रियो ऽन्येषाम् अटवीविटपादिषु ॥
रणं जीवितसंदेहं विशन्ति किल जीवितम् मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः ॥
छिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पिताः दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥
अर्जनरक्षणनाशविषादैर् अर्थमनर्थमनन्तमवैहि व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥
एवमादीनवो भूयान् अल्पास्वादस्तु कामिनाम् शकटं वहतो यद्वत् पशोर्घासलवग्रहः ॥
तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥
अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः कायस्यार्थे कृतो यो ऽयं सर्वकालं परिश्रमः ॥
ततः कोटिशतेनापि श्रमभागेन बुद्धता चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥
न शस्त्रं न विषं नाग्निर् न प्रपातो न वैरिणः कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥
एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम् कलहायासशून्यासु शान्तासु वनभूमिषु ॥
धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥
विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥
स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित् यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥
एवमादिभिराकारैर् विवेकगुणभावनात् उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥
परात्मसमतामादौ भावयेदेवमादरात् समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥
हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः तथा जगद्भिन्नमभिन्नदुःखसुखात्मकं सर्वमिदं तथैव ॥
यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥
तथा यद्यप्यसंवेद्यम् अन्यद्दुःखं मयात्मना तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् ॥
मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत् अनुग्राह्या मयान्ये ऽपि सत्त्वत्वादात्मसत्त्ववत् ॥
यदा मम परेषां च तुल्यमेव सुखं प्रियम् तदात्मनः को विशेषो येनात्रैव सुखोद्यमः ॥
यदा मम परेषां च भयं दुःखं च न प्रियम् तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥
तद्दुःखेन न मे बाधेत्य् अतो यदि न रक्ष्यते नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥
अहमेव तदापीति मिथ्येयं प्रतिकल्पना अन्य एव मृतो यस्माद् अन्य एव प्रजायते ॥
यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम् पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्ष्यते ॥
अयुक्तमपि चेदेतद् अहंकारात्प्रवर्तते यदयुक्तं निवर्त्यं तत् स्वमन्यच्च यथाबलम् ॥
संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा यस्य दुःखं स नास्त्यस्मात् कस्य तत् स्वं भविष्यति ॥
अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥
दुःखं कस्मान्निवार्यं चेत् सर्वेषामविवादतः वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् ॥
कृपया बहु दुःखं चेत् कस्मादुत्पद्यते बलात् जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥
बहूनामेकदुःखेन यदि दुःखं विगच्छति उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥
अतः सुपुष्पचन्द्रेण जानतापि नृपापदम् आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥
एवं भावितसंतानाः परदुःखसमप्रियाः अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥
मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥
अतः परार्थं कृत्वापि न मदो न च विस्मयः न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥
तस्माद्यथान्तशो ऽवर्णाद् आत्मानं गोपयाम्यहम् रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि ॥
अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु भवत्यहमिति ज्ञानम् असत्यपि हि वस्तुनि ॥
तथाकायो ऽन्यदीयो ऽपि किमात्मेति न गृह्यते परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥
ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन् आत्मभावपरित्यागं परादानं च भावयेत् ॥
कायस्यावयवत्वेन यथाभीष्टाः करादयः जगतो ऽवयवत्वेन तथा कस्मान्न देहिनः ॥
यथात्मबुद्धिरभ्यासात् स्वकाये ऽस्मिन् निरात्मके परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥
एवं परार्थं कृत्वापि न मदो न च विस्मयः आत्मानं भोजयित्वैव फलाशा न च जायते ॥
तस्माद्यथार्तिशोकादेर् आत्मानं गोप्तुमिच्छसि रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ॥
अध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः पर्षच्छारद्यभयमप्य् अपनेतुं जनस्य हि ॥
दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः यस्यैव श्रवणात्त्रासस् तेनैव न विना रतिः ॥
आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥
यस्मिन्नात्मन्यतिस्नेहाद् अल्पादपि भयाद्भयम् न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥
यो मन्द्य क्षुत्पिपासादिप्रतीकारचिकीर्षया पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥
यो लाभसत्क्रियाहेतोः पितरावपि मारयेत् रत्नत्रयस्वमादद्याद् येनावीचीन्धनो भवेत् ॥
कः पण्डितस्तमात्मानम् इच्छेद्रक्षेत् प्रपूजयेत् न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥
यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥
आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥
दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥
आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥
ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया ये केचित् सुखिता लोके सर्वे ते ऽन्यसुखेच्छया ॥
बहुना वा किमुक्तेन दृश्यतामिदमन्तरम् स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥
न नाम साध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम् स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥
आस्तां तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् ॥
त्यक्त्वान्यो ऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम् अन्यो ऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥
उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥
आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते ॥
तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥
अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥
न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः न युक्तं स्यन्दितुं स्वार्थम् अन्यदीयैः करादिभिः ॥
तेन सत्त्वपरो भूत्वा काये ऽस्मिन्यद्यदीक्षसे तत्तदेवापहृत्यास्मात् परेभ्यो हितमाचर ॥
हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा ॥
एष सत्क्रियते नाहं लाभी नाहमयं यथा स्तूयते ऽयमहं निन्द्यो दुःखितो ऽहमयं सुखी ॥
अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः अयं किल महा।ल्लोके नीचो ऽहं किल निर्गुणः ॥
किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥
शीलदृष्टिविपत्त्यादिक्लेशशक्त्या न मद्वशात् चिकित्स्यो ऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥
अथाहमचिकित्स्यो ऽस्य कस्मान्मामवमन्यते किं ममैतद्गुणैः कृत्यम् आत्मा तु गुणवानयम् ॥
दुर्गतिव्याडवक्त्रस्थेनैवास्य करुणा जने अपरान् गुणमानेन पण्डितान् विजिगीषते ॥
सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥
अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः अपि नाम गुणा ये ऽस्य न श्रोष्यन्त्यपि केचन ॥
छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत् सुलब्धा अद्य मे लाभाः पूजितो ऽहमयं न तु ॥
पश्यामो मुदितास्तावच् चिरादेनं खलीकृतम् हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥
अस्यापि हि वराकस्य स्पर्धा किल मया सह किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम् ॥
एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥
यद्यप्यस्य भवेल्लाभो ग्राह्यो ऽस्माभिरसौ बलात् दत्वास्मै यापनामात्रम् अस्मत्कर्म करोति चेत् ॥
सुखाच्च च्यावनीयो ऽयं योज्यो ऽस्मद्व्यथया सदा अनेन शतशः सर्वे संसारव्यथिता वयम् ॥
अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥
मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः द्रक्ष्यस्येतद्गुणान् पश्चाद् भूतं हि वचनं मुनेः ॥
अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥
तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥
अन्यदीयश्चरो भूत्वा काये ऽस्मिन् यद्यदीक्षसे तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥
अयं सुस्थः परो दुःस्थो नीचैरन्यो ऽयमुच्चकैः परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥
सुखाच्च च्यावयात्मानं परदुःखे नियोजय कदायं किं करोतीति छलमस्य निरूपय ॥
अन्येनापि कृतं दोषं पातयास्यैव मस्तके अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥
अन्याधिकयशोवादैर् यशो ऽस्य मलिनीकुरु निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय ॥
नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम् यथा कश्चिन्न जानीयाद् गुणमस्य तथा कुरु ॥
संक्षेपाद् यद्यदात्मार्थे परेष्वपकृतं त्वया तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥
नैवोत्साहो ऽस्य दातव्यो येनायं मुखरो भवेत् स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतो ऽथ संवृतः ॥
एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे ॥
अथैवमुच्यमाने ऽपि चित्तं नेदं करिष्यसि त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः ॥
क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते अन्यो ऽसौ पूर्वकः कालस् त्वया यत्रास्मि नाशितः ॥
अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम् त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् ॥
त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥
एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम् निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥
न कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते यद्यात्मा रक्षितव्यो ऽयं रक्षितव्यो न युज्यते ॥
यथा यथास्य कायस्य क्रियते परिपालनम् सुकुमारतरो भूत्वा पतत्येव तथा तथा ॥
अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा नालं पूरयितुं वाञ्छां तत्को ऽस्येच्छां करिष्यति ॥
अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥
तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥
भस्मनिष्ठावसानो ऽयं निश्चेष्टान्येन चाल्यते अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥
किं ममानेन यन्त्रेण जीविना वा मृतेन वा लोष्ट्रादेः को विशेषो ऽस्य हाहंकारं न नश्यसि ॥
शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥
मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा न च स्नेहो न च द्वेषस् तस्मात् स्नेहं करोमि किम् ॥
रोषो यस्य खलीकारात् तोषो यस्य च पूजया स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥
इमं ये कायमिच्छन्ति ते ऽपि मे सुहृदः किल सर्वे स्वकायमिच्छन्ति ते ऽपि कस्मान्न मे प्रियाः ॥
तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् ॥
तेनालं लोकचरितैः पण्डिताननुयाम्यहम् अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥
तस्मादावरणं हन्तुं समाधानं करोम्यहम् विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् ॥
बोधिचर्यावतारे ध्यानपारमिता अष्टमः परिच्छेदः ॥