२ बोधिचर्यावतारः Click on words to see what they mean. तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानां सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां ॥ ▼ Permalink Bookmark यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥ ▼ Permalink Bookmark महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥ ▼ Permalink Bookmark देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥ ▼ Permalink Bookmark अकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥ ▼ Permalink Bookmark आदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥ ▼ Permalink Bookmark अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥ ▼ Permalink Bookmark ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या ॥ ▼ Permalink Bookmark परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥ ▼ Permalink Bookmark रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥ ▼ Permalink Bookmark मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं ॥ ▼ Permalink Bookmark प्रधूपितैर्धौतमलैरतुल्यैर् वर्स्त्रैश्च तेषां तनुमुन्मृशामि ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥ ▼ Permalink Bookmark दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलङ्कारवरैश्च तैस्तैः समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि ॥ ▼ Permalink Bookmark सर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् ॥ ▼ Permalink Bookmark मन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः ॥ ▼ Permalink Bookmark स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् तेभ्यो निविद्यं च निवेदयामि ॥ ▼ Permalink Bookmark रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन् गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥ ▼ Permalink Bookmark प्रलम्बमुक्तामणिहारशोभान् आभास्वरान्दिग्मुखमण्डनांस्तान् विमानमेघान् स्तुतिगीतरम्यान् मैत्रीमयेभ्यो ऽपि निवेदयामि ॥ ▼ Permalink Bookmark सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥ ▼ Permalink Bookmark अतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः ॥ ▼ Permalink Bookmark सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् ॥ ▼ Permalink Bookmark मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् ॥ ▼ Permalink Bookmark स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥ ▼ Permalink Bookmark सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् ॥ ▼ Permalink Bookmark सर्चचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयांस्तथा नमः करोम्युपाध्यायान् अभिवन्द्यान्यतींस्तथा ॥ ▼ Permalink Bookmark बुद्धं गच्छामि शरणं यावदाबोधिमण्डतः धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा ॥ ▼ Permalink Bookmark विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः ॥ ▼ Permalink Bookmark अनादिमति संसारे जन्मन्यत्रैव वा पुनः यन्मया पशुना पापं कृतं कारितमेव वा ॥ ▼ Permalink Bookmark यच्चानुमोदितं किंचिद् आत्मघाताय मोहतः तदत्ययं देशयामि पश्चात्तापेन तापितः ॥ ▼ Permalink Bookmark रत्नत्रये ऽपकारो यो मातापितृषु वा मया गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः ॥ ▼ Permalink Bookmark अनेकदोषदुष्टेन मया पापेन नायकाः यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥ ▼ Permalink Bookmark कथं च निःसराम्यस्मान् नित्योद्वेगो ऽस्मि नायकाः मा भून्मे मृत्युरचिराद् अक्षीणे पापसंचये ॥ ▼ Permalink Bookmark कथं च निःसराम्यस्मात् परित्रायत सत्वरं मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति ॥ ▼ Permalink Bookmark कृताकृतापरीक्षो ऽयं मृत्युर्विश्रम्भघातकः स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः ॥ ▼ Permalink Bookmark प्रियाप्रियनिमित्तेन पापं कृतमनेकधा सर्वमुत्सृज्य गन्तव्यम् इति न ज्ञातमीदृशम् ॥ ▼ Permalink Bookmark तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥ ▼ Permalink Bookmark अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति अहं च न भविष्यामि सर्वं च न भविष्यति ॥ ▼ Permalink Bookmark इहैव तिष्ठतस्तावद् गता नैके प्रियाप्रियाः तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥ ▼ Permalink Bookmark एवमागन्तुको ऽस्मीति न मया प्रत्यवेक्षितं मोहानुनयविद्वैषैः कृतं पापमनेकधा ॥ ▼ Permalink Bookmark रात्रिन्दिवमविश्रामम् आयुषो वर्धते व्ययः आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥ ▼ Permalink Bookmark इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥ ▼ Permalink Bookmark यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥ ▼ Permalink Bookmark अनित्यजीवितासङ्गाद् इदं भयमजानता प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥ ▼ Permalink Bookmark अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति पिपासितो दीनदृष्टिर् अन्यदेवेक्षते जगत् ॥ ▼ Permalink Bookmark किं पुनर्भैरवाकारैर् यमदूतैरधिष्ठितः महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥ ▼ Permalink Bookmark कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं को मे महाभयादस्मात् साधुस्त्राणं भविष्यति ॥ ▼ Permalink Bookmark त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये ॥ ▼ Permalink Bookmark अद्यैव शरणं यामि जगन्नाथान्महाबलान् जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् ॥ ▼ Permalink Bookmark तैश्चाप्यधिगतं धर्मं संसारभयनाशनं शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥ ▼ Permalink Bookmark समस्तभद्रायात्मानं ददामि भयविह्वलः पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना ॥ ▼ Permalink Bookmark तं चावलोकितं नाथं कृपाव्याकुलचारिणं विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥ ▼ Permalink Bookmark आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥ ▼ Permalink Bookmark यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं यमदूतादयो दुष्टास् तं नमस्यामि वज्रिणम् ॥ ▼ Permalink Bookmark अतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात् शरणं यामि वो भीतो भयं नाशयत द्रुतम् ॥ ▼ Permalink Bookmark इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् किमु व्याधिशतैर्ग्रस्तश् चतुर्भिश्चतुरुत्तरैः ॥ ▼ Permalink Bookmark एकेनापि यतः सर्वे जम्बुद्वीपगता नराः नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते ॥ ▼ Permalink Bookmark तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥ ▼ Permalink Bookmark अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके ॥ ▼ Permalink Bookmark अद्यैव मरणं नेति न युक्ता मे सुखासिका अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥ ▼ Permalink Bookmark अभयं केन मे दत्तं निःसरिष्यामि वा कथं अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः ॥ ▼ Permalink Bookmark पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥ ▼ Permalink Bookmark जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥ ▼ Permalink Bookmark इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥ ▼ Permalink Bookmark मया बालेन मूढेन यत्किंचित्पापमाचितं प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥ ▼ Permalink Bookmark तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥ ▼ Permalink Bookmark अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया ॥ ▼ Permalink Bookmark इति द्वितीयः परिच्छेदः ॥ ▼ Permalink Bookmark ▼ Edit Permalink Bookmark × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha