Click on words to see what they mean.

औम् नमो बुद्धाय ।

सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥
न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं ॥
मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः अथ मत्समधातुरेव पश्येद् अपरो ऽप्येनमतो ऽपि सार्थको ऽयं ॥
क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥
रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं बुद्धानुभावेन तथा कदाचिल्लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥
तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं तज्जीयते ऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥
कल्पाननल्पान् प्रविचिन्तयद्भिर् दृष्टं मुनीन्द्रैर्हितमेतदेव यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान् ॥
भवदुःखशतानि तर्तुकामैर् अपि सत्त्वव्यसनानि हर्तुकामैः बहुसौख्यशतानि भोक्तुकामैर् न विमोच्यं हि सदैव बोधिचित्तं ॥
भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन् न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥
अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥
सुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहैः गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं ॥
कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥
कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥
युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥
तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥
गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते तथा भेदो ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥
बोधिप्रणिधिचित्तस्य संसारे ऽपि फलं महत् न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥
यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे समाददाति तच्चित्तम् अनिवर्त्येन चेतसा ॥
ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥
इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥
शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥
किमुताप्रमितं शूलम् एकैकस्य जिहीर्षतः अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः ॥
कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥
तेषामेव च सत्त्वानां स्वार्थे ऽप्येष मनोरथः नोत्पन्नपूर्वः स्वप्ने ऽपि परार्थे संभवः कुतः ॥
सत्त्वरत्नविशेषो ऽयम् अपूर्वो जायते कथं यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते ॥
जगदानन्दबीजस्य जगद्दुःखौषधस्य च चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥
हिताशंसनमात्रेण बुद्धपूजा विशिष्यते किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥
दुःखमेवाभिधावन्ति दुःखनिःसरणाशया सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् ॥
यस्तेषां सुखरङ्काणां पीडितानामनेकशः तृप्तिं पूर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च ॥
नाशयत्यपि संमोहं साधुस्तेन समः कुतः कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥
कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां ॥
कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥
किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं ॥
इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च कलुषोदयसंख्यया स कल्पान् नरकेष्वावसतीति नाथ आह ॥
अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलं महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥
तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं यत्रापकारो ऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥
बोधिचर्यावतारे बोधिचित्तानुशंसा नाम प्रथमः परिच्छेदः ॥