Click on words to see what they mean.

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम् तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः ॥
सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् ॥
आसंसारं सुखज्यानिर् माभूत्तेषां कदाचन बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् ॥
यावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु सुखावती सुखामोदैर् मोदन्तां तेषु देहिनः ॥
शीतार्ताः प्राप्नुवन्तूष्णम् उष्णार्ताः सन्तु शीतलाः बोधिसत्त्वमहामेघसंभवैर्जलसागरैः ॥
असिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः ॥
दात्यूहकारण्डवचक्रवाकहंसादिकोलाहलरम्यशोभैः सरोभिरुद्यामसरोजगन्धैर् भवन्तु हृद्याः नरकप्रदेशाः ॥
सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात् भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः ॥
अङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् ॥
पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः ॥
त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् ॥
पततु कमलवृष्टिर्गन्धपानीयमिश्राच् छमिति नरकवह्निं दृश्यते नाशयन्ती किमिदमिति सुखेनाह्लादितं नाम कस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम् ॥
आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च ॥
पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम् कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् ॥
इति मत्कुशलैः समन्तभद्रप्रमुखानावृतबोधिसत्त्वमेघान् सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते ॥
शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः ॥
अन्योन्यभक्षणभयं तिरश्चामपगच्छतु भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः ॥
संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा ।आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः ॥
अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः ॥
वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम् मनो ऽभिलषितं सर्वं लभन्तां हितसंहितम् ॥
भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च ॥
आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात् दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् ॥
सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम् येन कार्येण गच्छन्ति तदुपायेन सिध्यतु ॥
नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः ॥
कान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम् अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः ॥
सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः ॥
सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा ॥
भवन्त्वक्षयकोशाश्च यावद् नगनगञ्जवत् निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः ॥
अल्पौजसश्च ये सत्त्वास् ते भवन्तु महौजसः भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः ॥
याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च ॥
अनेन मम पुण्येन सर्वसत्त्वा अशेषतः विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा ॥
बोधिचित्ताविरहिता बोधिचर्यापरायणाः बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः ॥
अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु ॥
रम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः ॥
शर्करादिव्यपेता च समा पाणितलोपमा मृद्वी च वैदूर्यमयी भूमिः सर्वत्र तिष्ठतु ॥
बोधिसत्त्वमहापर्षन्मण्डलानि समन्ततः निषीदन्तु स्वशोभामिर् मण्डयन्तु महीतलम् ॥
पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः ॥
बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम् पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् ॥
देवो वर्षतु कालेन शस्यसंपत्तिरस्तु च स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः ॥
शक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम् भवन्तु करुणाविष्टा डाकिनीराक्षसादयः ॥
मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः मा हीनः परिभूतो वा मा भूत् कश्चिच्च दुर्मनाः ॥
पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः नित्यं स्यात् संघसामग्री संघकार्यं च सिध्यतु ॥
विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः ॥
लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा ॥
दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः ॥
पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः ॥
अभुक्त्वापायिकं दुःखं विना दुस्करचर्यया दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् ॥
पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा ॥
सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः यच्चिन्तयन्ति ते नाथास् तत् सत्त्वानां समृध्यतु ॥
प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः ॥
जातिस्मरत्वं प्रव्रज्याम् अहं च प्राप्नुयां सदा यावत् प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् ॥
येन तेनासनेनाहं यापयेयं बलान्वितः विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु ॥
यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः ॥
दशदिग्व्योमपर्यन्तसर्वसत्त्वार्थसाधने यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम ॥
आकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः तावन्मम स्थितिर्भूयाज् जगद्दुःखानि निघ्नतः ॥
यत्किंचिज्जगतो दुःखं तत् सर्वं मयि पच्यताम् बोधिसत्त्वशुभैः सर्वैर् जगत् सुखितमस्तु च ॥
जगद्दुःखैकभैषज्यं सर्वसंपत् सुखाकरम् लाभसत्कारसहितं चिरं तिष्ठतु शासनम् ॥
मञ्जुघोषं नमस्यामि यत् प्रसादान्मतिः शुभे कल्याणमित्रं वन्दे ऽहं यत् प्रसादाच्च वर्धत इति ॥
बोधिचर्यावतारे परिणामना परिच्छेदो दशमः ॥