अथ षष्ठोऽङ्कः ।

( ततः प्रविशन्ति विद्याधरास्त्रयः । )
सर्वे —एते स्मो भो ! एते स्मः ।
प्रथमः —इक्ष्वाकुवंशविपुलोज्ज्वलदीप्तकेतोः
द्वितीय: —रामस्य रावणवधाय कृतोद्यमस्य ।
तृतीयः —सङ्ग्रामदर्शनकुतूहलबद्धचित्ताः
सर्वे —प्राप्ता वयं हिमवतः शिखरात् प्रतूर्णम् ॥ १ ॥
प्रथमः —चित्ररथ ! एते देवदेवर्षिसिद्धविद्याधरादयो निरन्तरं नभः कृत्वा स्थिताः । तस्माद् वयमप्येतेषामेतान् गणान् परिहरन्तः स्वैरमेकान्ते स्थित्वा रामरावणयोर्युद्धविशेषं पश्यामः ।
उभौ —बाढम् ।
( तथा कृत्वा )
प्रथमः —अहो प्रतिभयदर्शनीया खल्वियं युद्धभूमिः । इह हि,रजनिचरशरीरनीरकीर्णा कपिवरवीचियुता वरासिनक्रा ।उदधिरिव विभाति युद्धभूमी रघुवरचन्द्रशरांशुवृद्धवेगा ॥ २ ॥
द्वितीयः —एवमेतत् ।एते पादपशैलभग्नशिरसो मुष्टिप्रहारैर्हताःक्रुद्धैर्वानरयूथपैरतिबलैरुत्पुच्छकर्णैर्वृताः ।कण्ठग्राहविवृत्ततुङ्गनयनैर्दष्टोष्ठतीव्रैर्मुखैःशैला वज्रहता इवाशु समरे रक्षोगणाः पातिताः ॥ ३ ॥
तृतीयः —एते चापि द्रष्टव्या भवद्भ्यांनिशितविमलखड्गाः क्रोधविस्फारिताक्षाविमलविकृतदंष्ट्रा नीलजीमूतकल्पाः ।हरिगणपतिसैन्यं हन्तुकामाः समन्ताद्रभसविवृतवक्त्रा राक्षसाः सम्पतन्तिः ॥ ४ ॥
प्रथमः —- अहोतुखलु,बाणाः पात्यन्ते राक्षसैर्वानरेषु
द्वितीय: —शैला क्षिप्यन्ते वानरैर्नैर्ऋतेषु ।
तृतीय: —मुष्टिप्रक्षेपैर्जानुसङ्घट्टनैश्च
सर्वे —भीमश्चित्रं भोः ! सम्प्रमर्दः प्रवृत्तः ॥ ५ ॥
प्रथमः —रावणमपि पश्येतां भवन्तौ,कनकरचितदण्डां शक्तिमुल्लालयन्तंविमलविकृतदंष्ट्रं स्यन्दनं वाहयन्तम् ।उदयशिखरमध्ये पूर्णबिम्बं शशाङ्कंग्रहमिव भगणेशं राममालोक्य रुष्टम् ॥ ६ ॥
द्वितीय: —राममपि पश्येतां भवन्तौ ।सव्येन चापमवलम्ब्य करेण वीर-मन्येन सायकवरं परिवर्तयन्तम् ।भूमौ स्थितं रथगतं रिपुमीक्षमाणंक्रौञ्चं यथा गिरिवरं युधि कार्त्तिकेयम् ॥ ७ ॥
तृतीयः —हहह ।रावणेन विमुक्तेयं शक्तिः कालान्तकोपमा ।रामेण स्मयमानेन द्विधा छिन्ना धनुष्मता ॥ ८ ॥
प्रथमः —शक्तिं निपातितां दृष्TvA क्रोधविस्फारितेक्षणः रामं प्रत्यैषवं वर्षमभिवर्षति रावणः ॥ ९ ॥
द्वितीय: —अहो रामस्य शोभा ।एता रावणजीमूताद् बाणधारा विनिस्सृताः ।विभान्ति राममासाद्य वारिधारा वृषं यथा ॥ १० ॥
तृतीय: —एष एषः,कनकरचितचापं तीक्ष्णमुद्यम्य शीघ्रंरणशिरसि सुघोरं बाणजालं विधून्वन् ।रथगतमभियान्तं रावणं याति पद्भ्यांगजपतिमिव मत्तं तीक्ष्णदंष्ट्रो मृगेन्द्रः ॥ ११ ॥
सर्वे —अये ज्वलित इव प्रभायायं देशः । किन्नुखल्विदम् ।
प्रथमः —आ युद्धसामान्यजनितशङ्केन महेन्द्रेण प्रेषितो मातलिवाहितो रथः ।
द्वितीयः —उपस्थितं मातलिं दृष्ट्वा तस्य वचनाद् रथमारूढवान् रामः ।
तृतीया: —एष हि,सुरवरजयदर्पदेशिकेऽस्मिन् दितिसुतनाशकरे रथे विभाति ।रजनिचरविनाशकारणः संस्त्रिपुरवधाय यथा पुरा कपर्दी ॥ १२ ॥
प्रथमः —अहो महत् प्रवृत्तं युद्धम् ।शरवरपरिपीततीव्रबाणं नरवरनैर्ऋतयोः समीक्ष्य युद्धम् ।विरतविविधशस्त्रपातमेते हरिवरराक्षससैनिकाः स्थिताश्च ॥ १३ ॥
द्वितीय: —अहोतुखलु,चारीभिरेतौ परिवर्तमानौ रथे स्थितौ बाणगणान् वमन्तौ ।स्वरश्मिजालैर्धरणिं दहन्तौ सूर्याविव द्वौ नभसि भ्रमन्तौ ॥ १४ ॥
तृतीयः —रावणमपि पश्येतां भवन्तौ ।शरैर्भीमवेगैर्हयान् मर्दयित्वा ध्वजं चापि शीघ्रं बलेनाभिहत्य ।महद् बाणवर्षं सृजन्तं नदन्तं हसन्तं नृदेवं भृशं भीषयन्तम् ॥ १५ ॥
प्रथमः —एष हि रामः,स्थानाक्रामणवामनीकृततनुः किञ्चित् समाश्वास्य वैतीव्रं वाणमवेक्ष्य रक्तनयनो मध्याह्नसूर्यप्रभः ।व्यक्तं मातलिना स्वयं नरपतिर्दत्तास्पदो वीर्यवान्क्रुद्धः संहितवान् वरास्त्रममितं पैतामहं पार्थिवः ॥ १६ ॥
द्वितीय: —एतदस्त्रं,रघुवरभुजवेगविप्रमुक्तं ज्वलनदिवाकरयुक्ततीक्ष्णधारम् ।रजनिचरवरं निहत्य सङ्ख्ये पुनरभिगच्छति राममेव शीघ्रम् ॥ १७ ॥
सर्वे —हन्त निपातितो रावणः ।
प्रथमः —रावणं निहतं दृष्ट्वा पुष्पवृष्टिर्निपातिता ।एता नदन्ति गम्भीरं भेर्यस्त्रिदिवसद्मनाम् ॥ १८ ॥
द्वितीयः —भवतु । सिद्धं देवकार्यम् ।
प्रथमः —तदागम्यताम् । वयमपि तावत् सर्वहितं रामं सम्भावयिष्यामः ।
उभौ —बाढम् । प्रथमः कल्पः ।
( निष्क्रान्ताः सर्वे । )
विष्कम्भकः ।
( ततः प्रविशति रामः । )
राम: —हत्वा रावणमाहवेऽद्य तरसा मद्बाणवेगार्दितंकृत्वा चापि विभीषणं शुभमतिं लङ्केश्वरं साम्प्रतम् ।तीर्त्वा चैवमनल्पसत्त्वचरितं दोर्भ्यां प्रतिज्ञार्णवंलङ्कामभ्युपयामि बन्धुसहितः सीतां समाश्वासितुम् ॥ १९ ॥
( प्रविश्य )
लक्ष्मणः —जयत्वार्यः । आर्य ! एषा ह्यार्यार्यस्य समीपमुपसर्पति ।
रामः —वत्स ! लक्ष्मण !अपायाच्च हि वैदेह्या उषिताया रिपुक्षये ।दर्शनात् साम्प्रतं धैर्यं मन्युर्मे वारयिष्यति ॥ २० ॥
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( निष्क्रान्तः । )
( प्रविश्य )
विभीषणः —जयतु देवः ।एषा हि राजंस्तव धर्मपत्नी त्वद्बाहुवीर्येण विधूतदुःखा ।लक्ष्मीः पुरा दैत्यकुलच्युतेव तव प्रसादात् समुपस्थिता सा ॥ २१ ॥
रामः —विभीषण ! तत्रैव तावत् तिष्ठतु रजनिचरावमर्शजातकल्मषा इक्ष्वाकुकुलस्याङ्कभूता । राजानं दशरथं पितरमुद्दिश्य न युक्तं भो लङ्काधिपते ! मां द्रष्टुम् । अपिच,मज्जमानमकार्येषु पुरुषं विषयेषु वै ।निवारयति यो राजन् ! स मित्रं रिपुरन्यथा ॥ २२ ॥
विभीषणः —प्रसीदतु देवः ।
रामः —नार्हति भवानतः परं पीडयितुम् ।
( प्रविश्य )
लक्ष्मण: —जयत्वार्यः । आर्यस्याभिप्रायं श्रुत्वैवाग्निप्रवेशाय प्रसादं प्रतिपालयत्यार्या ।
राम: —लक्ष्मण ! अस्याः पतिव्रतायाइछन्दमनुतिष्ठ ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( परिक्रम्य ) भोः ! कष्टम् ।विज्ञाय देव्याः शौचं च श्रुत्वा चार्यस्य शासनम् ।धर्मस्नेहान्तरे न्यस्ता बुद्धिर्दोलायते मम ॥ २३ ।कोऽत्र ।
( प्रविश्य )
हनूमान् —जयतु कुमारः ।
लक्ष्मणः —हनूमन् ! यदि ते शक्तिरस्ति, एवमाज्ञापयत्यार्यः
हनुमान् —अत्र किं तर्कयति कुमारः ।
लक्ष्मणः —निष्फलो मम तर्कः । अथवा वयमार्यस्याभिप्रायमनुवर्तितारः । गच्छामस्तावत् ।
हनूमान् —यदाज्ञापयति कुमारः ।
( निष्क्रान्तौ । )
( प्रविश्य )
लक्ष्मणः —प्रसीदत्वार्यः । आर्य ! आश्चर्यमाश्चर्यम् । एषा ह्यार्यां,विकसितशतपत्रदामकल्पा ज्वलनमिहाशु विमुक्तजीविताशा ।श्रममिह तव निष्फलं च कृत्वा प्रविशति पद्मवनं यथैव हंसी ॥ २४ ॥
रामः —आश्चर्यमाश्चर्यम् । लक्ष्मण ! निवारय निवारय ।
लक्ष्मणः —यदाज्ञापयत्यार्थः ।
( प्रविश्य )
हनूमान् —जयतु देवः ।एषा कनकमालेव ज्वलनाद् वर्धितप्रभा ।पावना पावकं प्राप्य निर्विकारमुपागता ॥ २५ ॥
रामः —( सविस्मयम् ) किमिति किमिति ।
लक्ष्मणः —अहो, आश्चर्यम् ।
( प्रविश्य )
सुग्रीवः —जयतु देवः ।कोनुखल्वेष जीवन्तीमादाय जनकात्मजाम् ।प्रणम्यरूपः सम्भूतो ज्वलतो हव्यवाहनात् ॥ २६ ॥
लक्ष्मणः —अये अयमार्यां पुरस्कृत्येत एवाभिवर्तते भगवान् विभावसुः ।
रामः —अये अयं भगवान् हुताशनः । उपसर्पामस्तावत् ।
( सर्वे उपसर्पन्ति । )
( ततः प्रविश्यत्यग्निः सीतां गृहीत्वा । )
अग्निः —एष भगवान् नारायणः । जयतु देवः ।
रामः —भगवन् ! नमस्ते ।
अग्निः —न मे नमस्कारं कर्तुमर्हति देवेशः ।इमां गृह्णीष्व राजेन्द्र ! सर्वलोकनमस्कृताम् ।अपापामक्षतां शुद्धां जानकी पुरुषोत्तम ! ॥ २७ ॥अपिच, इमां भगवती लक्ष्मीं जानीहि जनकात्मजाम् ।सा भवन्तमनुप्राप्ता मानुषीं तनुमास्थिता ॥ २८ ॥
राम: —अनुगृहीतोऽस्मि ।जानतापि च वैदेह्याः शुचितां धूमकेतन ! ।प्रत्ययार्थं हि लोकानामेवमेव मया कृतम् ॥ २९ ॥
( नेपथ्ये दिव्यगन्धर्वा गायन्ति । )
नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
ब्रह्मा ते हृदयं जगत्रयपते ! रुद्रश्च कोपस्तवनेत्रे चन्द्रदिवाकरौ सुरपते ! जिह्वा च ते भारती ।सब्रह्मेन्द्रमरुद्गणं त्रिभुवनं सृष्टं त्वयैव प्रभो !सीतेयं जलसम्भवालयरता विष्णुर्भवान् गृह्यताम् ॥ ३० ॥
( पुनर्नेपथ्ये अपरे गायन्ति । )
मग्नेयं हि जले वराहवपुषा भूमिस्त्वयैवोद्धृताविक्रान्तं भुवनत्रयं सुरपते ! पादत्रयेण त्वया ।स्वैरं रूपमुपस्थितेन भवता देव्या यथा साम्प्रतंहत्वा रावणमाहवे न हि तथा देवाः समाश्वासिताः ॥ ३१ ॥
अग्निः - भ —द्रमुख ! एते देवदेवर्षिसिद्धविद्याधरगन्धर्वाप्सरोगणाः स्वविभवैर्भवन्तं वर्धयन्ति ।
रामः —अनुगृहीतोऽस्मि ।
अग्निः —भद्रमुख ! अभिषेकार्थमित इतो भवान् ।
रामः —यदाज्ञापयति भगवान् ।
( निष्क्रान्तौ । )
( नेपथ्ये )
जयतु देवः । जयतु स्वामी । जयतु भद्रमुखः । जयतु महाराजः जयतु रावणान्तकः । जयत्वायुष्मान् ।
विभीषण: —एष एष महाराजः,तीर्त्वा प्रतिज्ञार्णवमाहवेऽद्यसम्प्राप्य देवीं च विधूतपापाम् ।देवैः समस्तैश्च कृताभिषेकोविभाति शुभ्रे नभसीव चन्द्रः ॥ ३२ ॥
लक्ष्मणः —अहोतुखल्वार्यस्य वैष्णवं तेजः ।यमवरुणकुबेरवासवाद्यैस्त्रिदशगणैरभिसंवृतो विभाति ।दशरथवचनात् कृताभिषेकस्त्रिदशपतित्वमवाप्य वृत्रहेव ॥ ३३ ॥
( ततः प्रविशति कृताभिषेको रामः सीतया सह । )
रामः —वत्स ! लक्ष्मण !येनाहं कृतमङ्गलप्रतिसरो भद्रासनारोपितो-ऽप्यम्बायाः प्रियमिच्छता नृपतिना भिन्नाभिषेकः कृतः ।व्यक्तं दैवगतिं गतेन गुरुणा प्रत्यक्षतः साम्प्रतंतेनैवाद्य पुनः प्रहृष्टमनसा प्राप्ताभिषेकः कृतः ॥ ३४ ॥
अग्नि: —भद्रमुख ! एता हि महेन्द्रनियोगाद् भरतशत्रुघ्नपुरःसराः प्रकृतयो भवन्तमुपस्थिताः ।
रामः —भगवान् ! प्रहृष्टोऽस्मि ।
अभिः —इमे महेन्द्रादयोऽमृतभुजो भवन्तमभिवर्धयन्ति ।
रामः —अनुगृहीतोऽस्मि ।
अभिः —भद्रमुख ! किं ते भूयः प्रियमुपहरामि ।
राम: —यदि मे भगवान् प्रसन्नः, किमतः परमहमिच्छामि ।
( भरतवाक्यम् । )
भवन्त्वरजसो गावः परचक्रं प्रशाम्यतु ।इमामपि महीं कृत्स्नां राजसिंहः प्रशास्तु नः ॥ ३५ ॥
( निष्क्रान्ताः सर्वे )
षष्ठोऽङ्कः ।
अभिषेकनाटकं समाप्तम् ।

Settings