अथ तृतीयोऽङ्कः ।

( ततः प्रविशति शङ्कुकर्णः )
शङ्कुकर्णः —क इह भोः ! काञ्चनतोरणद्वारमशून्यं कुरुते ।
( प्रविश्य )
प्रतिहारी —अय्य! अहं विजआ । किं करीअदु ।[ आर्य ! अहं विजया । किं क्रियताम् । ]
शङ्कुकर्णः —विजये ! निवेद्यतां निवेद्यतां महाराजाय लङ्केश्वराय--भग्नप्रायाशोकवनिकेति । कुतः,यस्यां न प्रियमण्डनापि महिषी देवस्य मण्डोदरीस्नेहाल्लुम्पति पल्लवान्न च पुनर्वीजन्ति यस्यां भयात् ।वीजन्तो मलयानिला अपि करैरस्पृष्टबालद्रुमासेयं शक्ररिपोरशोकवनिका भग्नेति विज्ञाप्यताम् ॥ १ ॥
प्रतिहारी —अय्य ! णिच्चं भट्टिपादमूले वत्तमाणस्स जणस्स अदिट्ठपुरुवो अअं सम्भमो । किं एदं ।[ आर्य ! नित्यं भर्तृपादमूले वर्तमानस्य जनस्यादृष्टपूर्वोऽयं संभ्रमः । किमेतद् । ]
शङ्कुकर्णः —भवति ! अतिपाति कार्यमिदम् । शीघ्रं निवेद्यतां निवेद्यताम् ।
प्रतिहारी —अय्य ! इयं णिवेदेमि ।( निष्क्रान्ता ) [ आर्य ! इयं निवेदयामि । ]
शङ्कुकर्णः —( पुरतो विलोक्य ) अये अयं महाराजो लङ्केश्वर इत एवाभिवर्तते । य एषः,अमलकमलसन्निभोग्रनेत्रःकनकमयोज्ज्वलदीपिकापुरोगः ।त्वरितमभिपतत्यसौ सरोषोयुगपरिणामसमुद्यतो यथार्कः ॥ २ ॥
( ततः प्रविशति यथानिर्दिष्टो रावणः । )
रावण: —कथं कथं भो नववाक्यवादिञ्छृणोमि शीघ्रं वद केन चाद्य ।मुमूर्षुणा मुक्तभयेन धृष्टं वनाभिमर्दात् परिधर्षितोऽहम् ॥ ३ ॥
शङ्कुकर्णः —( उपसृत्य ) जयतु महाराजः । अविदितागमनेन केनचिद् वानरेण ससंरम्भमभिमृदिताशोकवनिका ।
रावणः —( सावज्ञम् ) कथं वानरेणेति । गच्छ, शीघ्रं निगृह्यानय ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावणः —भवतु भवतु ।युधि जगत्त्रयभीतिकृतोऽपि मे यदि कृतं त्रिदशैरिदमप्रियम् ।अनुभवन्त्वचिरादमृताशिनः फलमतो निजशाठ्यसमुद्भवम् ॥ ४ ॥
( प्रविश्य )
शङ्कुकर्णः —जयतु महाराजः । महाराज ! महाबलः खलु स वानरः । तेन खलु मृणालवदुत्पाटिताः सालवृक्षाः, मुष्टिना भग्नो दारुपर्वतकः, पाणितलाभ्यामभिमृदितानि लतागृहाणि, नादेनैव विसंज्ञीकृताः प्रमदवनपालाः । तस्य ग्रहणसमर्थं बलमाज्ञापयितुमर्हति महाराजः ।
रावणः —तेन हि किङ्कराणां सहस्रं बलमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्णः —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) जयतु महाराजः ।अस्मदीयैर्महावृक्षैरस्मदीया महाबलाः ।क्षिप्रमेव हतास्तेन किङ्करा द्रुमयोधिना ॥ ५ ॥
रावणः —कथं हता इति । तेन हि कुमारमक्षमाज्ञापय वानरग्रहणाय ।
शङ्कुकर्ण: —यदाज्ञापयति महाराज: ।( निष्क्रान्तः । )
रावण: —( विचिन्त्य )कुमारो हि कृतास्त्रश्च शूरश्च बलवानपि ।प्रसह्य चापि गृह्णीयाद्धन्याद् वा तं वनौकसम् ॥ ६ ॥
( प्रविश्य )
शङ्कुकर्णः —अनन्तरीयं बलमाज्ञापयितुमर्हति महाराजः ।
रावणः —किमर्थम् ।
शङ्कुकर्णः —श्रोतुमर्हति महाराजः । कुमारं वानरमभिगच्छन्तं दृष्ट्वा महाराजेनानाज्ञापिता अप्यनुगताः पञ्च सेनापतयः ।
रावणः —ततस्ततः ।
शङ्कुकर्णः —- ततस्तानभिद्रुतान् दृष्ट्वा किञ्चिद् भीत इव तोरणमाश्रित्य काञ्चपरिघमुद्यम्य निपातितास्तेन हरिणा पञ्च सेनापतयः ।
रावणः —ततस्ततः ।
शङ्कुकर्णः —ततः कुमारमक्षंक्रोधात् संरक्तनेत्रं त्वरिततरहयं स्यन्दनं वाहयन्तंप्रावृट्कालाभ्रकल्पं परमलघुतरं बाणजालान् वमन्तम् ।तान् बाणान् निर्विधुन्वन् कपिरपि सहसा तद्रथं लङ्घयित्वाकण्ठे सङ्गृह्य धृष्टं मुदिततरमुखो मुष्टिना निर्जघान ॥ ७ ॥
रावणः —( सरोषम् ) आः, कथं कथं निर्जघानेति ।तिष्ठ त्वमहमेवैनमासाद्य कपिजन्तुकम् ।एष भस्मीकरोम्यस्मत्क्रोधानलकणैः क्षणात् ॥ ८ ॥
शङ्कुकर्ण: —प्रसीदतु प्रसीदतु महाराजः । कुमारमक्षं निहतं श्रुत्वा क्रोधाविष्टहृदयः कुमारेन्द्रजिदभिगतवांस्तं वनौकसम् ।
रावण: —तेन हि गच्छ । भूयो ज्ञायतां वृत्तान्तः ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावण: —कुमारो हि कृतास्त्रश्च,अवश्यं युधि वीराणां वधो वा विजयोऽथवा ।तथापि क्षुद्रकर्मेदं मह्यमीषन्मनोज्वरः ॥ ९ ॥
( प्रविश्य )
शङ्कुकर्णः —जयतु महाराजः । जयतु लङ्केश्वरः । जयतु भद्रमुखः ।संवृत्तं तुमुलं युद्धं कुमारस्य च तस्य च ।ततः स वानरः शीघ्रं बद्धः पाशेन साम्प्रतम् ॥ १० ॥
रावणः —कोऽत्र विस्मय इन्द्रजिता शाखामृगो बद्ध इति । कोऽत्र भोः ! ।
( प्रविश्य )
राक्षसः —जयतु महाराजः ।
रावणः —गच्छ विभीषणस्तावदाहूयताम् ।
राक्षसः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
रावणः —त्वमपि तावद् वानरमानय ।
शङ्कुकर्णः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । ) ( विचिन्त्य ) भोः ! कष्टम् ।अचिन्त्या मनसा लङ्का सहितैः सुरदानवैः ।अभिभूय दशग्रीवं प्रविष्टः किल वानरः ॥ ११ ॥अपि च, जित्वा त्रैलोक्यमाजौ ससुरदनुसुतं यन्मया गर्वितेनक्रान्त्वा कैलासमीशं स्वगणपरिवृतं साकमाकम्प्य देव्या ।लब्ध्वा तस्मात् प्रसादं पुनरगसुतया नन्दिनानादृतत्वाद्दत्तं शप्तं च ताभ्यां यदि कपिविकृतिच्छद्मना तन्मम स्यात् ॥ १२ ॥
( ततः प्रविशति विभीषणः । )
विभीषणः —( सविमर्शम् ) अहोतुखलु महाराजस्य विपरीता खलु बुद्धिः संवृत्ता । कुतः,मयोक्तो मैथिली तस्मै बहुशो दीयतामिति ।न मे शृणोति वचनं सुहृदां शोककारणात् ॥ १३ ॥
( उपेत्य )
जयतु महाराजः ।
रावणः —विभीषण ! एह्येहि । उपविश ।
विभीषण: —एष एष उपविशामि ।( उपविशति )
रावणः —विभीषण ! निर्विण्णमिव त्वां लक्षये ।
विभीषणः —निर्वेद एव खल्वनुक्तग्राहिणं स्वामिनमुपाश्रितस्य भृत्यजनस्य ।
रावणः —छिद्यतामेषा कथा । त्वमपि तावद् वानरमानय ।
विभीषणः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
( ततः प्रविशति राक्षसैर्गृहीतो हनूमान् । )
सर्वे —आः इत इतः ।
हनूमान् —नैवाहं धर्षितस्तेन नैर्ऋतेन दुरात्मना ।स्वयं ग्रहणमापन्नो राक्षसेशदिदृक्षया ॥ १४ ॥
( उपगम्य )
भो राजन् ! अपि कुशली भवान् ।
रावणः —( सावज्ञम् ) विभीषण ! किमस्य तत् कर्म ।
विभीषणः —महाराज ! अतोऽप्यधिकम् ।
रावणः —कथं त्वमवगच्छसि ।
विभीषणः —प्रष्टुमर्हति महाराजः कस्त्वमिति ।
रावणः —भो वानर ! कस्त्वम् । केन कारणेन धर्षितोऽस्माकमन्तःपुरं प्रविष्टः ।
हनूमान् —भोः ! श्रूयताम्,अञ्जनायां समुत्पन्नो मारुतस्यौरसः सुतः ।प्रेषितो राघवेणाहं हनूमान् नाम वानरः ॥ १५ ॥
विभीषणः —महाराज ! किं श्रुतम् ।
रावणः —किं श्रुतेन ।
विभीषणः —हनूमन् ! किमाह तत्रभवान् राघवः ।
हनूमान् —भोः ! श्रूयतां रामशासनम् ।
रावणः —कथं कथं रामशासनमित्याह । आः हन्यतामयं वानरः ।
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । सर्वापराधेष्ववध्याः खलु दूताः । अथवा रामस्य वचनं श्रुत्वा पश्चाद् यथेष्टं कर्तुमर्हति महाराजः ।
रावणः —भो वानर ! किमाह स मानुषः ।
हनूमान् —भोः ! श्रूयतां,वरशरणमुपेहि शङ्करं वा प्रविश च दुर्गतमं रसातलं वा ।शरवरपरिभिन्नसर्वगात्रं यमसदनं प्रतियापयाम्यहं त्वाम् ॥ १६ ॥इति ।
रावणः —ह ह ह ।दिव्यास्त्रैस्त्रिदशगणा मयाभिभूतादैत्येन्द्रा मम वशवर्तिनः समस्ताः ।पौलस्त्योऽप्यपहृतपुष्पकोऽवसन्नोभो ! रामः कथमभियाति मानुषो माम् ॥ १७ ॥
हनूमान् —एवंविधेन भवता किमर्थं प्रच्छन्नं तस्य दारापहरणं कृतम् ।
विभीषणः —सम्यगाह हनूमान् ।अपास्य मायया रामं त्वया राक्षसपुङ्गव ! ।भिक्षुवेषं समास्थाय च्छलेनापहृता हि सा ॥ १८ ॥
रावणः —विभीषण ! किं विपक्षपक्षमवलम्बसे ।
विभीषण: —प्रसीद राजन् ! वचनं हितं मे प्रदीयतां राघवधर्मपत्नी ।इदं कुलं राक्षसपुङ्गवेन त्वया हि नेच्छामि विपद्यमानम् ॥ १९ ॥
रावण : —विभीषण ! अलमलं भयेन ।कथं लम्बसटः सिंहो मृगेण विनिपात्यते ।गजो वा सुमहान् मत्तः शृगालेन निहन्यते ॥ २० ॥
हनूमान् —भो रावण ! विपद्यमानभाग्येन भवता किं युक्तं राघवमेवं वक्तुम् । मा तावद् भोः !नक्तञ्चरापसद ! रावण ! राघवं तंवीराग्रगण्यमतुलं त्रिदशेन्द्रकल्पम् ।प्रक्षीणपुण्य ! भवता भुवनैकनाथंवक्तुं किमेवमुचितं गतसार ! नीचैः ॥ २१ ॥
रावणः —कथं कथं नामाभिधत्ते । हन्यतामयं वानरः । अथवा दूतवधः खलु वचनीयः । शङ्कुकर्ण ! लाङ्गूलमादीप्य विसृज्यतामयं वानरः ।
शङ्कुकर्ण: —यदाज्ञापयति महाराजः । इत इतः ।
रावणः —अथवा एहि तावत् ।
हनूमान् —अयमस्मि ।
रावण: —अभिधीयतां मद्वचनात् स मानुषः ।अभिभूतो मया राम ! दारापहरणादसि ।यदि तेऽस्ति धनुःश्लाघा दीयतां मे रणो महान् ॥ २२ ॥
हनूमान् —अचिराद् द्रक्ष्यसि,अभिहतवरवप्रगोपुराट्टांरघुवरकार्मुकनादनिर्जितस्त्वम् ।हरिगणपरिपीडितैः समन्तात्प्रमदवनैरभिसंवृतां स्वलङ्काम् ॥ २३ ॥
रावण : —आः निर्वास्यतामयं वानरः ।
राक्षसाः —इत इतः ।
( रक्षोभि: सह निष्क्रान्तो हनूमान् । )
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । अस्ति काचिद् विवक्षा महाराजस्य हितमन्तरेण ।
रावणः —उच्यतां, तच्छ्रेयो वयमपि श्रोतारः ।
विभीषणः —सर्वथा राक्षसकुलस्य विनाशोऽभ्यागत इति मन्ये ।
रावणः —केन कारणेन ।
विभीषणः —महाराजस्य विप्रतिपत्त्या ।
रावणः —का मे विप्रतिपत्तिः ।
विभीषणः —ननु सीतापहरणमेव ।
रावण: —सीतापहरणेन को दोषः स्यात् ।
विभीषणः —अधर्मश्च ।
रावणः —चशब्देन सावशेषमिव ते वचनम् । तद् ब्रूहि ।
विभीषणः —तदेव ननु ।
रावणः —विभीषण ! किं गूहसे । मम खलु प्राणैः शापिताः स्याः, यदि सत्यं न ब्रूयाः ।
विभीषण: —अभयं दातुमर्हति महाराजः ।
रावणः —दत्तमभयम् । उच्यताम् ।
विभीषण: —बलवद्विग्रहश्च ।
२रावणः —( सरोषम् ) कथं कथं बलवद्विग्रहो नाम ।शत्रुपक्षमुपाश्रित्य मामयं राक्षसाधमः ।क्रोधमाहारयंस्तीव्रमभीरुरभिभाषते ॥ २४ ॥कोऽत्र । ममानवेक्ष्य सौभ्रात्रं शत्रुपक्षमुपाश्रितम् ।नोत्सहे पुरतो द्रष्टुं तस्मादेष निरस्यताम् ॥ २५ ॥
विभीषणः —प्रसीदतु प्रसीदतु महाराजः । अहमेव यास्यामि ।शासितोऽहं त्वया राजन् ! प्रयामि न च दोषवान् ।त्यक्त्वा रोषं च कामं च यथा कार्यं तथा कुरु ॥ २६ ॥( परिक्रम्य ) अयमिदानीम् - अद्यैव तं कमललोचनमुग्रचापंरामं हि रावणवधाय कृतप्रतिज्ञम् ।संश्रित्य संश्रितहितप्रथितं नृदेवंनष्टं निशाचरकुलं पुनरुद्धरिष्ये ॥ २७ ॥
( निष्क्रान्तः । )
रावणः —हन्त निर्गतो विभीषणः । यावदहमपि नगररक्षां सम्पादयामि ।( निष्क्रान्तः । )
तृतीयोऽङ्कः ।

Settings