( नान्द्यन्ते ततः प्रविशति सूत्रधारः )
सूत्रधारः —यो गाधिपुत्रमखविघ्नकराभिहन्तायुद्धे विराधखरदूषणवीर्यहन्ता ।दर्पोद्यतोल्बणकबन्धकपीन्द्रहन्तापायात् स वो निशिचरेन्द्रकुलाभिहन्ता ॥ १ ॥एवमार्यमिश्रान् विज्ञापयामि । ( परिक्रम्यावलोक्य ) अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्ये )
सुग्रीव ! इत इतः ।
( प्रविश्य )
पारिपार्श्विकः —भाव !कुतोनुखल्वेष समुत्थितो ध्वनिःप्रवर्तते श्रोत्रविदारणो महान् ।प्रचण्डवातोद्धतभीमगामिनांबलाहकानामिव खेऽभिगर्जताम् ॥ २ ॥
सूत्रधारः —मार्ष ! किं नावगच्छसि । एष खलु सीतापहरणजनितसन्तापस्य रघुकुलप्रदीपस्य सर्वलोकनयनाभिरामस्य रामस्य च,दाराभिमर्शननिर्विषयीकृतस्य सर्वहर्यृक्षराजस्य सुविपुलमहाग्रीवस्य सुग्रीवस्य च परस्परोपकारकृतप्रतिज्ञयोः सर्ववानराधिपतिं हेममालिनं वालिनं हन्तुं समुद्योगः प्रवर्तते । तत एतौ हि,इदानीं राज्यविभ्रष्टं सुग्रीवं रामलक्ष्मणौ ।पुनः स्थापयितुं प्राप्ताविन्द्रं हरिहराविव ॥ ३ ॥
( निष्क्रान्तौ )
स्थापना ।
( ततः प्रविशति रामो लक्ष्मणसुग्रीवौ, हनुमांश्च । )
राम: —सुग्रीव ! इत इतः ।मत्सायकान्निहतभिन्नविकीर्णदेहंशत्रुं तवाद्य सहसा भुवि पातयामि ।राजन् ! भयं त्यज ममापि समीपवर्तीदृष्टस्त्वया च समरे निहतः स वाली ॥ ४ ॥
सुग्रीवः —देव ! अहं खल्वार्यस्य प्रसादाद् देवानामपि राज्यमाशङ्के, किं पुनर्वानराणाम् । कुतः,मुक्तो देव ! तवाद्य वालिहृदयं भेत्तुं न मे संशयःसालान् सप्त महावने हिमगिरेः शृङ्गोपमालीधर ! ।भित्त्वा वेगवशात् प्रविश्य धरणीं गत्वा च नागालयंमज्जन् वीर ! पयोनिधौ पुनरयं सम्प्राप्तवान् सायकः ॥ ५ ॥
हनुमान् —तव नृप ! मुखनिःसृतैर्वचोभि-र्विगतभया हि वयं विनष्टशोकाः ।रघुवर ! हरये जयं प्रदातुंगिरिमभिगच्छ सनीरनीरदाभम् ॥ ६ ॥
लक्ष्मणः —आर्य ! सोपस्नेहतया वनान्तरस्याभितः खलु किष्किन्धया भवितव्यम् ।
सुग्रीवः —सम्यगाह कुमारः ।सम्प्राप्ता हरिवरबाहुसम्प्रगुप्ताकिष्किन्धा तव नृप ! बाहुसम्प्रगुप्ता ।तिष्ठ त्वं नृवर ! करोम्यहं विसंज्ञंनादेन प्रचलमहीधरं नृलोकम् ॥ ७ ॥
रामः —भवतु, गच्छ ।
सुग्रीवः —यदाज्ञापयति देवः ।( परिक्रम्य ) भोः !अपराधमनुद्दिश्य परित्यक्तस्त्वया विभो ! ।युद्धे त्वत्पादशुश्रूषां सुग्रीवः कर्तुमिच्छति ॥ ८ ॥
( नेपथ्ये )
कथं कथं सुग्रीव इति ।
( ततः प्रविशति वाली, गृहीतवस्त्रया तारया सह । )
वाली — —कथं कथं सुग्रीव इति ।तारे ! विमुञ्च मम वस्त्रमनिन्दिताङ्गि !प्रस्रस्तवक्त्रनयने ! किमसि प्रवृत्ता ।सुग्रीवमद्य समरे विनिपात्यमानंतं पश्य शोणितपरिप्लुतसर्वगात्रम् ॥ ९ ॥
तारा —पसीअउ पसीअउ महाराओ । अप्पेण कारणेण ण आगमिस्सइ सुग्गीओ । ता अमञ्चवग्गेण सह सम्मन्तिअ गन्तव्वं ।[ प्रसीदतु प्रसीदतु महाराजः । अल्पेन कारणेन नागमिष्यति सुग्रीवः । तदमात्यवर्गेण सह संमन्त्र्य गन्तव्यम् । ]
वाली —आः,शक्रो वा भवतु गतिः शशाङ्कवक्त्रे !शत्रोर्मे निशितपरश्वधः शिवो वा ।नालं मामभिमुखमेत्य सम्प्रहर्तुंविष्णुर्वा विकसितपुण्डरीकनेत्रः ॥ १० ॥
तारा —पसीअउ पसीअउ महाराओ । इमस्स जणस्स अणुग्गहं दाव करेउं अरिहदि महाराओ । [ प्रसीदतु प्रसीदतु महाराजः । अस्य जनस्यानुग्रहं तावत् कर्तुमर्हति महाराज: । ]
वाली —श्रूयतां मत्पराक्रमः ।तारे ! मया खलु पुरामृतमन्थनेऽपिगत्वा प्रहस्य सुरदानवदैत्यसङ्घान् ।उत्फुल्लनेत्रमुरगेन्द्रमुग्ररूप-माकृष्यमाणमवलोक्य सुविस्मितास्ते ॥ ११ ॥
तारा —पसीअउ पसीअउ महाराओ।प्रसीदतु प्रसीदतु महाराज: ।
वाली —आः, मम वशानुवर्तिनी भव । प्रविश त्वमभ्यन्तरम् ।
तारा —एसा गच्छामि मन्दभाआ ।( निष्क्रान्ता ) [ एषा गच्छामि मन्दभागा । ]
वाली —हन्त प्रविष्टा तारा । यावदहं सुग्रीवं भग्नग्रीवं करोमि ।( द्रुतमुपगम्य ) सुग्रीव ! तिष्ठ तिष्ठ ।इन्द्रो वा शरणं तेऽस्तु प्रभुर्वा मधुसूदनः ।मच्चक्षुष्पथमासाद्य सजीवो नैव यास्यसि ॥ १२ ॥इत इतः ।
सुग्रीवः —यदाज्ञापयति महाराज: ।
( उभौ नियुद्धं कुरुतः । )
राम: —एष एष वाली,सन्दष्टोष्ठश्चण्डसंरक्तनेत्रोमुष्टिं कृत्वा गाढमुद्वृत्तदंष्ट्रः ।गर्जन् भीमं वानरो भाति युद्धेसंवर्त्ताग्निः सन्दिधक्षुर्यथैव ॥ १३ ॥
लक्ष्मणः —सुग्रीवमपि पश्यत्वार्यः,विकसितशतपत्ररक्तनेत्रःकनकमयाङ्गदनद्धपीनबाहुः ।हरिवरमुपयाति वानरत्वाद्गुरुमभिभूय सतां विहाय वृत्तम् ॥ १४ ॥वालिना ताडितः पतितः सुग्रीवः ।
हनुमान् —हा ! धिक् ।( ससम्भ्रमं राममुपगम्य ) जयतु देवः । अस्यैषावस्था ।बलवान् वानरेन्द्रस्तु दुर्बलश्च पतिर्मम ।अवस्था शपथश्चैव सर्वमार्येण चिन्त्यताम् ॥ १५ ॥
रामः —हनूमन् ! अलमलं सम्भ्रमेण । एतदनुष्ठीयते ।( शरं मुक्त्वा ) हन्त पतितो वाली ।
लक्ष्मणः —एष एष वाली,रुधिरकलितगात्रः स्रस्तसंरक्तनेत्रःकठिणविपुलबाहुः काललोकं विविक्षुः ।अभिपतति कथञ्चिद् धीरमाकर्षमाणःशरवरपरिवीतं शान्तवेगं शरीरम् ॥ १६ ॥
वाली —( ( मोहमुपगम्य पुनः समाश्वस्य शरे नामाक्षराणि वाचयित्वा राममुद्दिश्य ) )युक्तं भो ! नरपतिधर्ममास्थितेनयुद्धे मां छलयितुमक्रमेण राम ! ।वीरेण व्यपगतधर्मसंशयेनलोकानां छलमपनेतुमुद्यतेन ॥ १७ ॥हन्त भोः ! भवता सौम्यरूपेण यशसो भाजनेन च ।छलेन मां प्रहरता प्ररूढमयशः कृतम् ॥ १८ ॥भो राघव ! चीरवल्कलधारिणा वेषविपर्यस्तचित्तेन मम भ्रात्रा सह युद्धव्यग्रस्याधर्म्यः खलु प्रच्छन्नो वधः ।
रामः —कथमधर्म्यः खलु प्रच्छन्नो वध इति ।
वाली —कः संशयः ।
रामः —न खल्वेतत् । पश्य,वागुराच्छन्नमाश्रित्य मृगाणामिष्यते वधः ।वध्यत्वाच्च मृगत्वाच्च भवाञ्छन्नेन दण्डितः ॥ १९ ॥
वाली —दण्ड्य इति मां भवान् मन्यते ।
रामः —कः संशयः ।
वाली —केन कारणेन ।
रामः —अगम्यागमनेन ।
वाली —अगम्यागमनेनेति । एषोऽस्माकं धर्मः ।
रामः —ननु युक्तं भोः !भवता वानरेन्द्रेण धर्माधर्मौ विजानता ।आत्मानं मृगमुद्दिश्य भ्रातृदाराभिमर्शनम् ॥ २० ॥
वाली —भ्रातृदाराभिमर्शनेन तुल्यदोषयोरहमेव दण्डितो, न सुग्रीवः ।
रामः —दण्डितस्त्वं हि दण्ड्यत्वाद्, अदण्डयो नैव दण्ड्यते ।
वाली —सुग्रीवेणाभिमृष्टाभूद् धर्मपत्नी गुरोर्मम ।तस्य दाराभिमर्शेन कथं दण्ड्योऽस्मि राघव ! ॥ २१ ॥
रामः —न त्वेव हि कदाचिज्ज्येष्ठस्य यवीयसो दाराभिमर्शनम् ।
वाली —हन्त अनुत्तरा वयम् । भवता दण्डितत्वाद् विगतपापोऽहं ननु ।
रामः —एवमस्तु
सुग्रीवः —हा धिक् ।करिकरसदृशौ गजेन्द्रगामि-स्तव रिपुशस्त्रपरिक्षताङ्गदौ च ।अवनितलगतौ समीक्ष्य बाहूहरिवर ! हा पततीव मेऽद्य चित्तम् ॥ २२ ॥
वाली —मुग्रीव ! अलमलं विषादेन । ईदृशो लोकधर्मः ।
( नेपथ्ये )
हा हा महाराओ ।
वाली —सुग्रीव ! संवार्यतां संवार्यतां स्त्रीजनः । एवंगतं नार्हति मां द्रष्टुम् ।
सुग्रीवः —यदाज्ञापयति महाराजः । हनूमन् ! एवं क्रियताम् ।हनूमान् - यदाज्ञापयति कुमारः । ( निष्क्रान्तः । )
( ततः प्रविशत्यङ्गदो हनूमांश्च )
हनूमान् —अङ्गद ! इत इतः ।
अङ्गदः —श्रुत्वा कालवशं यान्तं हरिमृक्षगणेश्वरम् ।समापतितसन्तापः प्रयामि शिथिलक्रमः ॥ २३ ॥हनूमन् ! कुत्र महाराजः ।
हनूमान् —एष महाराजः,शरनिर्भिन्नहृदयो विभाति धरणीतले ।गुहशक्तिसमाक्रान्तो यथा क्रौञ्चाचलोत्तमः ॥ २४ ॥
अङ्गदः —( उपसृत्य ) हा महाराज !अतिबलमुखशायी पूर्वमासीर्हरीन्द्रःक्षितितलपरिवर्ती क्षीणसर्वाङ्गचेष्टः ।शरवरपरिवीतं व्यक्तमुत्सृज्य देहंकिमभिलषसि वीर स्वर्गमद्याभिगन्तुम् ॥ २५ ॥
( इति भूमौ पतितः । )
वाली —अङ्गद ! अलमलं विषादेन । भोः सुग्रीव !मया कृतं दोषमपास्य बुद्ध्यात्वया हरीणामधिपेन सम्यक् ।विमुच्य रोषं परिगृह्य धर्मंकुलप्रवालं परिगृह्यतां नः ॥ २६ ॥
सुग्रीवः —यदाज्ञापयति महाराजः ।
वाली —भो राघव ! यस्मिन् कस्मिन् वापराधेऽनयोर्वानरचापलं क्षन्तुमर्हसि ।
रामः —बाढम् ।
वाली —सुग्रीव ! प्रतिगृह्यतामस्मत्कुलधनं हेममाला ।
सुग्रीवः —अनुगृहीतोऽस्मि ।( प्रतिगृह्णाति । )
वाली —हनूमन् ! आपस्तावत् ।
हनूमान् —यदाज्ञापयति महाराजः ।( निष्क्रम्य प्रविश्य ) इमा आपः ।
वाली —( आचम्य ) परित्यजन्तीव मां प्राणाः । इमा गङ्गाप्रभृतयो महानद्य एता उर्वश्यादयोऽप्सरसो मामभिगताः । एष सहस्र-हंसप्रयुक्तो वीरवाही विमानः कालेन प्रेषितो मां नेतुमागतः । १भवतु । अयमयमागच्छामि । ( स्वर्यातः । )
सर्वे —हा हा महाराज !
रामः —हन्त स्वर्गं गतो वाली । सुग्रीव ! क्रियतामस्य संस्कारः ।
सुग्रीवः —यदाज्ञापयति देवः ।
रामः —लक्ष्मण ! सुग्रीवस्याभिषेकः कल्प्यताम् ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।
( निष्क्रान्ताः सर्वे । )
प्रथमोऽङ्कः ।

Settings