विभीषणः —भोः ! प्राप्तोऽस्मि राघवस्य शिबिरसन्निवेशम् ।( विचिन्त्य ) अकृतदूतसम्प्रेषणमविदितागमनममित्रसम्बन्धिनं कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तःस्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।तस्यानुजं रघुपतिः शरणागतं मांकिं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥अथवा, दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥( अधोऽवलोक्य ) इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवतरामि । ( अवतीर्य ) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।