अथ चतुर्थोऽङ्कः ।

( ततः प्रविशति वानरकाञ्चुकीयः । )
काञ्चुकीयः —भो भो बलाध्यक्ष ! सन्नाहमाज्ञापय वानरवाहिनीम् ।
( प्रविश्य )
बलाध्यक्षः —आर्य ! किंकृतोऽयं समुद्योगः ।
काल्चुकीयः —तत्रभवता हनूमतानीतः खल्वार्यरामस्य देव्याः सीताया वृत्तान्तः ।
बलाध्यक्ष : —किमिति किमिति ।
काञ्चुकीयः —श्रूयतां,लङ्कायां किल वर्तते नृपसुता शोकाभिभूता भृशंपौलस्त्येन विहाय धर्मसमयं संक्लेश्यमाना ततः ।श्रुत्वैतद् भृशशोकतप्तमनसो रामस्य कार्यार्थिनाराज्ञा वानरवाहिनी प्रतिभया सन्नाहमाज्ञापिता ॥ १ ॥
बलाध्यक्षः —एवम् । यदाज्ञापयति महाराजः ।
काञ्चुकीयः —यावदहमपि सन्नद्धा वानरवाहिनीति महाराजाय निवेदयामि ।
( निष्क्रान्तौ । )
विष्कम्भकः ।
( ततः प्रविशति राम्रो लक्ष्मणः सुग्रीवो हनुमांश्च । )
रामः —आक्रान्ताः पृथुसानुकुञ्जगहना मेघोपमाः पर्वताःसिंहव्याघ्रगजेन्द्रपीतसलिला नद्यश्व तीर्णा मया ।क्रान्तं पुष्पफलाढ्यपादपयुतं चित्रं महत् काननंसम्प्राप्तोऽस्मि कपीन्द्रसैन्यसहितो वेलातटं साम्प्रतम् ॥ २ ॥
लक्ष्मणः —एष एष भगवान् वरुणः,सजलजलधरेन्द्रनीलनीरो विलुलितफेनतरङ्गचारुहारः ।समधिगतनदीसहस्रबाहुर्हरिरिव भाति सरित्पतिः शयानः ॥ ३ ॥
रामः —कथं कथं भोः !रिपुमुद्धर्तुमुद्यन्तं मामयं सक्तसायकम् ।सजीवमद्य तं कर्तुं निवारयति सागरः ॥ ४ ॥
सुग्रीवः —अये वियतिसजलजलदसन्निभप्रकाशःकनकमयामलभूषणोज्ज्वलाङ्गः ।अभिपतति कुतो नु राक्षसोऽसौशलभ इवाशु हुताशनं प्रवेष्टुम् ॥ ५ ॥
हनूमान् —भो भो वानरवीराः ! अप्रमत्ता भवन्तु भवन्तः ।शैलैर्द्रुमैः सम्प्रति मुष्टिबन्धैर्दन्तैर्नखैर्जानुभिरुग्रनादैः ।रक्षोवधार्थं युधि वानरेन्द्रास्तिष्ठन्तु रक्षन्तु च नो नरेन्द्रम् ॥ ६ ॥
रामः —राक्षस इति । हनूमन् ! अलमलं सम्भ्रमेण ।
हनूमान् —यदाज्ञापयति देवः ।
( ततः प्रविशति विभीषणः । )
विभीषणः —भोः ! प्राप्तोऽस्मि राघवस्य शिबिरसन्निवेशम् ।( विचिन्त्य ) अकृतदूतसम्प्रेषणमविदितागमनममित्रसम्बन्धिनं कथंनुखलु मामवगच्छेत् तत्रभवान् राघवः । कुतः,क्रुद्धस्य यस्य पुरतः सहितोऽप्यशक्तःस्थातुं सुरैः सुररिपोर्युधि वज्रपाणिः ।तस्यानुजं रघुपतिः शरणागतं मांकिं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ ७ ॥अथवा, दृष्टधर्मार्थतत्त्वोऽयं साधुः संश्रितवत्सलः ।शङ्कनीयः कथं रामो विशुद्धमनसा मया ॥ ८ ॥( अधोऽवलोक्य ) इदं रघुकुलवृषभस्य स्कन्धावारम् । यावदवतरामि । ( अवतीर्य ) हन्त इह स्थित्वा ममागमनं देवाय निवेदयामि ।
हनूमान् —( ऊर्ध्वमवलोक्य ) अये कथं तत्रभवान् विभीषणः ।
विभीषण: —अये हनूमान् । हनूमन् ! ममागमनं देवाय निवेदय ।
हनूमान् —बाढम् ।( उपगम्य ) जयतु जयतु देवः ।राजंस्त्वत्कारणादेव भ्रात्रा निर्विषयीकृतः ।विभीषणोऽयं धर्मात्मा शरणार्थमुपागतः ॥ ९ ॥
रामः —कथं विभीषणः शरणागत इति । वत्स लक्ष्मण ! गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।
लक्ष्मण: —यदाज्ञापयत्यार्यः ।
रामः —सुग्रीव वक्तुकाममिव त्वां लक्षये ।
सुग्रीवः —देव ! बहुमायाश्छलयोधिनश्च राक्षसाः । तस्मात् सम्प्रधार्य प्रवेश्यतां विभीषणः ।
हनूमान् —महाराज ! मा मैवं,देवे यथा वयं भक्तास्तथा मन्ये विभीषणम् ।भ्रात्रा विवदमानोऽपि दृष्टः पूर्वं पुरे मया ॥ १० ॥
राम: —यद्येवं, गच्छ, सत्कृत्य प्रवेश्यतां विभीषणः ।
लक्ष्मणः —यदाज्ञापयत्यार्यः ।( परिक्रम्य ) अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः —अये कुमारो लक्ष्मणः। कुमार ! अद्य कुशली संवृत्तोऽस्मि ।
लक्ष्मणः —विभीषण ! उपसर्पावस्तावदार्यम् ।
विभीषण: —बाढम् ।
( उपसर्पतः । )
लक्ष्मणः —जयत्वार्यः ।
विभीषणः —प्रसीदतु देवः । जयतु देवः ।
राम: —अये विभीषणः । विभीषण ! अपि कुशली भवान् ।
विभीषणः —देव ! अद्य कुशली संवृत्तोऽस्मि ।भवन्तं पद्मपत्राक्षं शरण्यं शरणागतः ।अद्यास्मि कुशली राजंस्त्वद्दर्शनविकल्मषः ॥ ११ ॥
रामः —अद्यप्रभृति मद्वचनाल्लङ्केश्वरो भव ।
विभीषणः —अनुगृहीतोऽस्मि ।
रामः —विभीषण ! त्वदागमनादेव सिद्धमस्मत्कार्यम् । सागरतरणे खलूपायो नाधिगम्यते ।
विभीषणः —देव ! किमत्रावगन्तव्यम् । यदि मार्गं न ददाति, समुद्रे दिव्यमस्त्रं तावद् विस्रष्टुमर्हति देवः ।
राम: —साधु विभीषण! साधु । भवतु, एवं तावत् करिष्ये ।
( सहसोत्तिष्ठन् सरोषम् )
मम शरपरिदग्धतोयपङ्कं हतशतमत्स्यविकर्णभूमिभागम् ।यदि मम न ददाति मार्गमेनं प्रतिहतवीचिरवं करोमि शीघ्रम् ॥ १२ ॥
( ( त )( )( )तः( प्रविशति वरुणः । ) )
वरुण: —( ससम्भ्रमम् )नारायणस्य नररूपमुपाश्रितस्यकार्यार्थमभ्युपगतस्य कृतापराधः ।देवस्य देवरिपुदेहहरात् प्रतूर्णंभीतः शराच्छरणमेनमुपाश्रयामि ॥ १३ ॥( विलोक्य ) अये अयं भगवान्, मानुषं रूपमास्थाय चक्रशार्ङ्गगदाधरः ।स्वयं कारणभूतः सन् कार्यार्थी समुपागतः ॥ १४ ॥नमो भगवते त्रैलोक्यकारणाय नारायणाय ।
लक्ष्मण: —( विलोक्य ) अये कोनुखल्वेषः ।मणिविरचितमौलिश्चारुताम्रायताक्षोनवकुवलयनीलो मत्तमातङ्गलीलः ।सलिलनिचयमध्यादुत्थितस्त्वेष शीघ्र-मवनतमिव कुर्वंस्तेजसा जीवलोकम् ॥ १५ ॥
विभीषणः —देव ! अयं खलु भगवान् वरुणः प्राप्तः ।
रामः —किं वरुणोऽयम् । भगवन् ! वरुण ! नमस्ते ।
वरुणः —न मे नमस्कारं कर्तुमर्हति देवेशः । अथवा,राजपुत्र ! कुतः कोपो रोषेण किमलं तव ।कर्तव्यं तावदस्माभिर्वद शीघ्रं नरोत्तम ! ॥ १६ ॥
राम: —लङ्कागमने मार्गं दातुमर्हति भवान् ।
वरुणः —एष मार्गः । प्रयातु भवान् ।( अन्तर्हितः । )
राम: —कथमन्तर्हितो भगवान् वरुणः । विभीषण! पश्य पश्य भगवत्प्रसादान्निष्कम्पवीचिमन्तं सलिलाधिपतिम् ।
विभीषणः —देव ! साम्प्रतं द्विधाभूत इव दृश्यते जलनिधिः ।
राम: —क्व हनूमान् ।
हनूमान् —जयतु देवः ।
रामः —हनूमन् ! गच्छाग्रतः ।
हनूमान् —यदाज्ञापयति देवः ।
( सर्वे परिक्रामन्ति । )
रामः —( विलोक्य सविस्मयम् ) वत्स लक्ष्मण ! वयस्य विभीषण !महाराज सुग्रीव ! सखे हनूमन् ! पश्यन्तु पश्यन्तु भवन्तः । अहो विचित्रता सागरस्य । इह हि, क्वचित् फेनोद्गारी क्वचिदपि च मीनाकुलजल:क्वचिच्छङ्खाकीर्णः क्वचिदपि च नीलाम्बुदनिभः ।क्वचिद् वीचीमालः क्वचिदपि च नक्रप्रतिभयःक्वचिद् भीमावर्तः क्वचिदपि च निष्कम्पसलिलः ॥ १७ ॥भगवत्प्रसादादतीतः सागरः ।
हनूमान् —देव ! इयमियं लङ्का ।
रामः —( चिरं विलोक्य ) अहो राक्षसनगरस्य श्रीरचिराद् विपत्स्यते ।मम शरवरवातपातभग्ना कपिवरसैन्यतरङ्गताडितान्ता ।उदधिजलगतेव नौर्विपन्ना निपतति रावणकर्णधारदोषात् ॥ १८ ॥सुग्रीव ! अस्मिन् सुवेलपर्वते क्रियतां सेनानिवेशः । ( उपविशति । )
सुग्रीवः —यदाज्ञापयति देवः । नील ! एवं क्रियताम् ।
( प्रविश्य )
नील: —यदाज्ञापयति महाराज: ।( निष्क्रम्य प्रविश्य ) जयतु देवः । क्रमान्निवेश्यमानासु सेनासु वृन्दपरिग्रहेषु परीक्ष्यमाणेषु पुस्तकप्रामाण्यात् कुतश्चिदप्यविज्ञायमानौ द्वौ वनौकसौ गृहीतौ । वयं न जानीमः कर्तव्यम् । देवस्तस्मात् प्रमाणम् ।
रामः —शीघ्रं प्रवेशयत्वेतौ ।
नील: —यदाज्ञापयति देवः ।( निष्क्रान्तः )
( ( तत: प्रविशति नीलो वानरैर्गृह्यमाणौ वानररूपधारिणौ सम्पुटिकाहस्तौ शुकसारणौ च । ) )
वानराः —अङ्घो भणथ । तुम्हे भणथ ।[ अङ्घो भणतं कौ युवां भणतम् । ]
उभौ —भट्टा ! अम्हे अय्यकुमुदस्स सेवआ[ भर्तः ! आवामार्यकुमुदस्य सेवकौ । ]
वानराः —भट्टा ! अय्यकुमुदस्स सेवअत्ति अत्ताणं अवदिसन्ति ।( सावधानं शुकसारणौ विलोक्य )भर्तः ! आर्यकुमुदस्य सेवकावित्यात्मानमपदिशतः ।स्वसैनिकौ न चाप्येतौ न चाप्येतौ वनौकसौ ।प्रेषितौ रावणेनैतौ राक्षसौ शुकसारणौ ॥ १९ ॥
उभौ —( आत्मगतम् ) हन्त कुमारेण विज्ञातौ स्वः । ( प्रकाशम् ) आर्य ! आवां खलु राक्षसराजस्य विप्रतिपत्त्या विपद्यमानं राक्षसकुलं दृष्ट्वास्पदमलभमानौ आर्यसंश्रयार्थं वानररूपेण सम्प्राप्तौ ।
रामः —वयस्य ! विभीषण ! कथमिव भवान् मन्यते ।
विभीषणः —देव !एतौ हि राक्षसेन्द्रस्य सम्मतौ मन्त्रिणौ नृप ! ।प्राणान्तिकेऽपि व्यसने लङ्केशं नैव मुञ्चतः ॥ २० ॥तस्माद् यथार्हं दण्डमाज्ञापयतु देवः ।
रामः —विभीषण ! मा मैवम् ।अनयोः शासनादेव न मे वृद्धिर्भविष्यति ।क्षयो वा राक्षसेन्द्रस्य तस्मादेतौ विमोचय ॥ २१ ॥
लक्ष्मण: —यदि विमुञ्चेत्, सर्वस्कन्धावारं प्रविश्य परीक्ष्य पुनर्मोक्षमाज्ञापयत्वार्यः ।
रामः —सम्यगभिहितं लक्ष्मणेन । नील ! एवं क्रियताम् ।
नील: —यदाज्ञापयति देवः ।
रामः —अथवा एहि तावत् ।
उभौ —इमौ स्वः ।
रामः —अभिधीयतां मद्वचनात् स राक्षसेन्द्रः ।मम दारापहारण स्वयङ्ग्राहितविग्रहः । आगतोऽहं न पश्यामि द्रष्टुकामो रणातिथिः ॥ २२ ॥ इति ।
उभौ —यदाज्ञापयति देवः ।( निष्क्रान्तौ । )
रामः —विभीषण ! वयमपि तावदानन्तरीयं बलं परीक्षिष्यामहे ।
विभीषणः —यदाज्ञापयति देवः ।
राम: —( परिक्रम्य विलोक्य ) अये अस्तमितो भगवान् दिवाकरः । सम्प्रति हि,अस्ताद्रिमस्तकगतः प्रतिसंहृतांशुःसन्ध्यानुरञ्जितवपुः प्रतिभाति सूर्यः ।रक्तोज्ज्वलांशुकवृते द्विरदस्य कुम्भेजाम्बूनदेन रचितः पुलको यथैव ॥ २३ ॥
( निष्क्रान्ताः सर्वे । )
चतुर्थोऽङ्कः ।

Settings