Click on words to see what they mean.

अथ मोहपरायणा सती विवशा कामवधूर् विबोधिता ।विधिना प्रतिपादयिष्यता नववैधव्यम् असह्यवेदनम् ॥
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।न विवेद तयोर् अतृप्तयोः प्रियम् अत्यन्तविलुप्तदर्शनम् ॥
अयि जीवितनाथ जीवसीत्य् अभिधायोत्थितया तया पुरः ।ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥
अथ सा पुनर् एव विह्वला वसुधालिङ्गनधूसरस्तनी ।विललाप विकीर्णमूर्धजा समदुःखाम् इव कुर्वती स्थलीम् ॥
उपमानम् अभूद् विलासिनां करणं यत् तव कान्तिमत्तया ।तद् इदं गतम् ईदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।नलिनीं क्षतसेतुबन्धनो जलसंघात इवासि विद्रुतः ॥
कृतवान् असि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।किम् अकारणम् एव दर्शनं विलपन्त्यै रतये न दीयते ॥
स्मरसि स्मर मेखलागुणैर् उत गोत्रस्खलितेषु बन्धनम् ।च्युतकेशरदूषितेक्षणान्य् अवतंसोत्पलताडनानि वा ॥
हृदये वससीति मत्प्रियं यद् अवोचस् तद् अवैमि कैतवम् ।उपचारपदं न चेद् इदं त्वम् अनङ्गः कथम् अक्षता रतिः ॥
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीम् अहं तव ।विधिना जन एष वञ्चितस् त्वदधीनं खलु देहिनां सुखम् ॥
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।वसतिं प्रिय कामिनां प्रियास् त्वद् ऋते प्रापयितुं क ईश्वरः ॥
नयनान्य् अरुणानि घूर्णयन् वचनानि स्खलयन् पदेपदे ।असति त्वयि वारुणीमदः प्रमदानाम् अधुना विडम्बना ॥
अवगम्य कथीकृतं वपुः प्रियबन्धोस् तव निष्फलोदयः ।बहुले ऽपि गते निशाकरस् तनुतां दुःखम् अनङ्ग मोक्ष्यति ॥
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥
अलिपङ्क्तिर् अनेकशस् त्वया गुणकृत्ये धनुषो नियोजिता ।विरुतैः करुणस्वनैर् इयं गुरुशोकाम् अनुरोदितीव माम् ॥
प्रतिपद्य मनोहरं वपुः पुनर् अप्य् आदिश तावद् उत्थितः ।रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥
शिरसा प्रणिपत्य याचितान्य् उपगूढानि सवेपथूनि च ।सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिर् अस्ति मे ॥
रचितं रतिपण्डित त्वया स्वयम् अङ्गेषु ममेदम् आर्तवम् ।ध्रियते कुसुमप्रसाधनं तव तच् चारु वपुर् न दृश्यते ॥
विबुधैर् असि यस्य दारुणैर् असमाप्ते परिकर्मणि स्मृतः ।तम् इमं कुरु दक्षिणेतरं चरणं निर्मितरागम् एहि मे ॥
अहम् एत्य पतङ्गवर्त्मना पुनर् अङ्काश्रयिणी भवामि ते ।चतुरैः सुरकामिनीजनैः प्रिय यावन् न विलोभ्यसे दिवि ॥
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।वचनीयम् इदं व्यवस्थितं रमण त्वाम् अनुयामि यद्य् अपि ॥
क्रियतां कथम् अन्त्यमण्डनं परलोकान्तरितस्य ते मया ।समम् एव गतो ऽस्य् अतर्कितां गतिम् अङ्गेन च जीवितेन च ॥
ऋजुतां नयतः स्मरामि ते शरम् उत्सङ्गनिषण्णधन्वनः ।मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥
क्व नु ते हृदयंगमः सखा कुसुमायोजितकार्मुको मधुः ।न खलूग्ररुषा पिनाकिना गमितः सो ऽपि सुहृद्गतां गतिम् ॥
अथ तैः परिदेविताक्षरैर् हृदये दिग्धशरैर् इवार्दितः ।रतिम् अभ्युपपत्तुम् आतुरां मधुर् आत्मानम् अदर्शयत् पुरः ॥
तम् अवेक्ष्य रुरोद सा भृशं स्तनसंबाधम् उरो जघान च ।स्वजनस्य हि दुःखम् अग्रतो विवृतद्वारम् इवोपजायते ॥
इति चैनम् उवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।यद् इदं कणशः प्रकीर्यते पवनैर् भस्म कपोतकर्बुरम् ॥
अयि संप्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।दयितास्व् अनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥
अमुना ननु पार्श्ववर्तिना जगद् आज्ञां ससुरासुरं तव ।बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।अहम् अस्य दशेव पश्य माम् अविषह्यव्यसनप्रधूषिताम् ॥
विधिना कृतम् अर्धवैशसं ननु माम् कामवधे विमुञ्चता ।अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥
तद् इदं क्रियताम् अनन्तरं भवता बन्धुजनप्रयोजनम् ।विधुरां ज्वलनातिसर्जनान् ननु मां प्रापय पत्युर् अन्तिकम् ॥
शशिना सह याति कौमुदी सह मेघेन तडित् प्रलीयते ।प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैर् अपि ॥
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥
कुसुमास्तरणे सहायतां बहुशः सौम्य गतस् त्वम् आवयोः ।कुरु संप्रति तावद् आशु मे प्रणिपाताञ्जलियाचितश् चिताम् ॥
तद् अनु ज्वलनं मदर्पितं त्वरयेर् दक्षिणवातवीजनैः ।विदितं खलु ते यथा स्मरः क्षणम् अप्य् उत्सहते न मां विना ॥
इति चापि विधाय दीयतां सलिलस्याञ्जलिर् एक एव नौ ।अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥
परलोकविधौ च माधव स्मरम् उद्दिश्य विलोलपल्लवाः ।निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥
इति देवविमुक्तये स्थितां रतिम् आकाशभवा सरस्वती ।शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिर् इवान्वकम्पत ॥
कुसुमायुधपत्नि दुर्लभस् तव भर्ता न चिराद् भविष्यति ।शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥
अभिलाषम् उदीरितेन्द्रियः स्वसुतायाम् अकरोत् प्रजापतिः ।अथ तेन निगृह्य विक्रियाम् अभिशप्तः फलम् एतद् अन्वभूत् ॥
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।उपलब्धसुखस् तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥
इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।अशनेर् अमृतस्य चोभयोर् वशिनश् चाम्बुधराश् च योनयः ॥
तद् इदं परिरक्ष शोभने भवितव्यप्रियसंगमं वपुः ।रविपीतजला तपात्यये पुनर् ओघेन हि युज्यते नदी ॥
इत्थं रतेः किम् अपि भूतम् अदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् ।तत्प्रत्ययाच् च कुसुमायुधबन्धुर् एनाम् आश्वासयत् सुचरितार्थपदैर् वचोभिः ॥
अथ मदनवधूर् उपप्लवान्तं व्यसनकृशा परिपालयां बभूव ।शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥