This page has not been fully proofread.

न्यायकोशः ।
 
५३९
 
-
 
प्रत्यक्षम् – १ ( अनुभवः ) [क] इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यप-
देश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ( गौ० ११११४) (त० सं० )
(मु० १।३ पृ० १०८ ) । तदर्थस्तु अव्यपदेश्यम् अशाब्दं ज्ञानम्
( वात्स्या० ११ १९१४ ) । निर्विकल्पकज्ञानम् ( गौ० वृ० ११११४ )
( दि० ११३ ) । अव्यभिचारि भ्रमभिन्नं ज्ञानम् ( वात्स्या० )
( गौ० वृ० ) । व्यवसायात्मकम् सविकल्पकम् ( वात्स्या० १।१।४ )
(गौ० वृ० १ । १ ४ ) । अत्र इन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानम् इति
प्रत्यक्षलक्षणे आत्ममनःसंयोगजन्यसुखादिवारणाय ज्ञानम् इति पदं
दत्तम् ( गौ० वृ० १९९१४ ) । इन्द्रियत्वावच्छिन्नकारणता निरूपित-
कार्यताशालिज्ञानत्वम् इत्यर्थः इति प्राञ्च आहुः ( म० प्र० १ पृ० ८ ) ।
इदं च जन्यप्रत्यक्षस्यैव लक्षणम् इति बोध्यम् । तदुत्पत्तिप्रकारस्तु
आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेन । ततः प्रत्यक्षं
ज्ञानमुत्पद्यते ( वात्स्या० १।१४) (तर्कमा०पू० ६) (त० कौ०) ।
अत्र प्रत्यक्षत्वं च ज्ञानत्वव्याप्य जातिविशेषः । अत्र व्युत्पत्तिः अक्षमक्षं
प्रतीत्योत्पद्यते इति प्रत्यक्षम् इति । अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्
श्रोत्रमनांसि षट् ( प्रशस्त० गु० पृ० २५) । प्रतिगतमाश्रितमक्षम् ।
अत्यादयः क्रान्ताद्यर्थे द्वितीयया (२।२।१८ पा० सूत्रे वार्तिकम् )
इत्यनेन समासः । प्राप्तापन्नालंगतिसमासेषु परवलिङ्गप्रतिषेधात् अभि-
धेयवलिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः (न्या०बि० १ पृ० ७) ।
अत्र भाष्यम् । इन्द्रियस्यार्थेन संनिकर्षादुत्पद्यते यज्ज्ञानं तत्प्रत्यक्षम् ।
न तहदानीमिदं भवति । आत्मा मनसा संयुज्यते मन इन्द्रियेण
इन्द्रियमर्थेनेति (वात्स्या० ११११४ ) । अत्रेदं बोध्यम् । इन्द्रियाणां
वस्तु प्राप्य प्रकाशकारित्वम् इति नियमोत्र द्रष्टव्यः ( म०प्र० )
( त० मा० पृ० ६ ) । प्रत्यक्षं प्रति विषयस्य तादात्म्येन हेतुत्वम् इति
नैयायिकानुभवसिद्धः कार्यकारणभावः । भट्टास्तु विषयस्य कार्यकाल -
वृत्तित्वेन हेतुत्वम् न तु नैयायिकमत इव कार्य पूर्ववृत्तित्वेन हेतुत्वम्
इत्यङ्गीचक्रुः (त० प्र० ४ पृ० १२४ ) । [ख] ज्ञानाकरणकं ज्ञानम्
 
Sub