ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्य् अहो दुष्करंयन् मुञ्चन्त्य् उपभोगभाञ्ज्य् अपि धनान्य् एकान्ततो निःस्पृहाः ।सम्प्रातान् न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्वाञ्छामात्रपरिग्रहान् अपि परं त्यक्तुं न शक्ता वयम् ॥ १३ ॥
ये सन्तोषनिरन्तरप्रमुदितस् तेषां न भिन्ना मुदोये त्व् अन्ये धनलुब्धसङ्कलधियस् तेसां न तृष्णाहता ।इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदांस्वात्मन्य् एव समाप्तहेममहिमा मेरुर् न मे रोचते ॥ २९ ॥
अहो वा हारे वा बलवति रिपौ वा सुहृदि वामणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाःक्वचित् पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ १००*३ ॥