तस्याः स्तनौ यदि घनौ जघनं च हारिवक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छापुण्यैर् विना न हि भवन्ति समीहितार्थाः ॥ १८ ॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसिप्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौधन्यः को ऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ३० ॥
जात्यन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय चग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धयापण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ ५८ ॥