तस्याः स्तनौ यदि घनौ जघनं च हारिवक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छापुण्यैर् विना न हि भवन्ति समीहितार्थाः ॥ १८ ॥
इदम् अनुचितम् अक्रमश् च पुंसांयद् इह जरास्व् अपि मन्मथा विकाराः ।तद् अपि च न कृतं नितम्बिनीनांस्तनपतनावधि जीवितं रतं वा ॥ २७ ॥
राजस्तृष्णाम्बुराशेर् न हि जगति गतः कश्चिद् एवावसानंको वार्थो ऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।गच्छामः सद्म यावद् विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्यरूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २८ ॥
रागस्यागारम् एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्तिबीजं जलधरपटलं ज्ञानताराधिपस्य ।कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धंलोके ऽस्मिन् न ह्य् अर्थव्रजकुलभवनयौवनाद् अन्यद् अस्ति ॥ २९ ॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसिप्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौधन्यः को ऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ ३० ॥
संसारे ऽस्मिन्न् असारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।यद्य् एताः प्रोद्यदिन्दुद्युतिनिचयभृतो न स्युर् अम्भोजनेत्राःप्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस् तरुण्यः ॥ ३१ ॥
न गम्यो मन्त्राणां न च भवति भैषज्यविषयोन चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।भ्रमावेशाद् अङ्गे कम् अपि विदधद् भङ्गम् असकृत्स्मरापस्मारो ऽयं भ्रमयति दृशं घूर्णयति च ॥ ५७ ॥
जात्यन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय चग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धयापण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ ५८ ॥