नीति-शतकम्
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥ १ ॥
बोद्धारो मत्सरग्रस्ताःप्रभवः स्मयदूषिताः ।अबोधोपहताः चान्येजीर्णम् अङ्गे सुभाषितम् ॥ २ ॥
अज्ञः सुखम् आराध्यःसुखतरम् आराध्यते विशेषज्ञः ।ज्ञानलवदुर्विदग्धंब्रह्मापि तं नरं न रञ्जयति ॥ ३ ॥
प्रसह्य मणिम् उद्धरेन् मकरवक्त्रदंष्ट्रान्तरात्समुद्रम् अपि सन्तरेत् प्रचलद् ऊर्मिमालाकुलम् ।भुजङ्गम् अपि कोपितं शिरसि पुष्पवद् धारयेत्न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् ॥ ४ ॥
लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्पिबेच् च मृगतृष्णिकासु सलिलं पिपासार्दितः ।क्वचिद् अपि पर्यटन् शशविषाणम् आसादयेत्न तु प्रतिनिविष्टमूर्खचित्तम् आराधयेत् ॥ ५ ॥
व्यालं बालमृणालतन्तुभिर् असौ रोद्धुं समुज्जृम्भतेछेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यति ।माधुर्यं मधुबिन्दुना रचयितुं क्षारामुधेर् ईहतेनेतुं वाञ्छन्ति यः खलान् पथि सतां सूक्तैः सुधास्यन्दिभिः ॥ ६ ॥
स्वायत्तम् एकान्तगुणं विधात्राविनिर्मितं छादनम् अज्ञतायाः ।विशेषाअतः सर्वविदां समाजेविभूषणं मौनम् अपण्डितानाम् ॥ ७ ॥
यदा किञ्चिज्-ज्ञो ऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञो ऽस्मीत्य् अभवद् अवलिप्तं मम मनःयदा किञ्चित् किञ्चिद् बुधजनसकाशाद् अवगतंतदा मूर्खो ऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ ८ ॥
कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितंनिरुपमरसं प्रीत्या खादन् नरास्थि निरामिषम् ।सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कतेन हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् ॥ ९ ॥
शिरः शार्वं स्वर्गात् पशुपतिशिरस्तः क्षितिधरंम्हीध्राद् उत्तुङ्गाद् अवनिम् अवनेश् चापि जलधिम् ।अधो ऽधो गङ्गेयं पदम् उपगता स्तोकम्अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १० ॥
शक्यो वारयितुं जलेन हुतभुक् च्छत्रेण सूर्यातपोनागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ ।व्याधिर् भेषजसङ्ग्रहैश् च विविधैर् मन्त्रप्रयोगैर् विषंसर्वस्यौषधम् अस्ति शास्त्रविहितं मूर्खस्य नस्त्य् औषधिम् ॥ ११ ॥
साहित्यसङ्गीतकलाविहीनःसाक्षात् पशुः पुच्छविषाणहीनः ।तृणं न खादन्न् अपि जीवमानस्तद् भागधेयं परमं पशूनाम् ॥ १२ ॥
येषां न विद्या न तपो न दानंज्ञानं न शीलं न गुणो न धर्मः ।ते मर्त्यलोके भुवि भारभूतामनुष्यरूपेण मृगाश् चरन्ति ॥ १३ ॥
वरं पर्वत-दुर्गेषु
भ्रान्तं वनचरैः सहन मूर्खजनसम्पर्कःसुरेन्द्रभवनेष्व् अपि ॥ १४ ॥
शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमाविख्याताः कवयो वसन्ति विषये यस्य प्रभोर् निर्धनाः ।तज्जाड्यं वसुधादिपस्य कवयस् त्व् अर्थं विनापीश्वराःकुत्स्याः स्युः कुपरीक्षका हि मणयो यैर् अर्घतः पातिताः ॥ १५ ॥
हर्तुर् याति न गोचरं किम् अपि शं पुष्णाति यत् सर्वदा ऽप्य्अर्थिभ्यः प्रतिपाद्यमानम् अनिशं प्राप्नोति वृद्धिं पराम् ।कल्पान्तेष्व् अपि न प्रयाति निधनं विद्याख्यम् अन्तर्धनंयेषां तान् प्रति मानम् उज्झत नृपाः कस् तैः सह स्पर्धते ॥ १६ ॥
अधिगतपरमार्थान् पण्डितान् मावमंस्थास्तृणम् इव लघु लक्ष्मीर् नैव तान् संरुणद्धि ।अभिनवमदलेखाश्यामगण्डस्थलानांन भवति बिसतन्तुर् वारणं वारणानाम् ॥ १७ ॥
अम्भोजिनीवनविहारविलासम् एवहंसस्य हन्ति नितरां कुपितो विधाता ।न त्व् अस्य दुग्धजलभेदविधौ प्रसिद्धांवैदग्धीकीर्तिम् अपहर्तुम् असौ समर्थः ॥ १८ ॥
केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलान स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।वाण्य् एका समलङ्करोति पुरुषं या संस्कृता धार्यतेक्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९ ॥
विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्नगुप्तं धनंविद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।विद्या बन्धुजनो विदेशगमने विद्या परा देवताविद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ २० ॥
क्षान्तिश् चेत् कवचेन किं किम् अरिभिः क्रोधो ऽस्ति चेद् देहिनांज्ञातिश् चेद् अनलेन किं यदि सुहृद् दिव्यौषधं किं फलम् ।किं सर्पैर् यदि दुर्जनाः किम् उ धनैर् विद्या ऽनवद्या यदिव्रीडा चेत् किम् उ भूषणैः सुकविता यद्य् अस्ति राज्येन किम् ॥ २१ ॥
दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जनेप्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टताये चैवं पुरुषाः कलासु कुशलास् तेष्व् एव लोकस्थितिः ॥ २२ ॥
जाड्यं धियो हरति सिञ्चति वाचि सत्यंमानोन्नतिं दिशति पापम् अपाकरोति ।चेतः प्रसादयति दिक्षु तनोति कीर्तिंसत्सङ्गतिः कथय किं न करोति पुंसाम् ॥ २३ ॥
जयन्ति ते सुकृतिनोरससिद्धाः कवीश्वराः ।नास्ति येषां यशःकायेजरामरणजं भयम् ॥ २४ ॥
सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखःस्निग्धं मित्रम् अवञ्चकः परिजनो निःक्लेशलेशं मनः ।आकारो रुचिरः स्थिरश् च विभवो विद्यावदातं मुखंतुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना ॥ २५ ॥
प्राणाघातान् निवृत्तिः परधनहरणे संयमः सत्यवाक्यंकाले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पासामान्यः सर्वशास्त्रेष्व् अनुपहतविधिः श्रेयसाम् एष पन्थाः ॥ २६ ॥
प्रारभ्यते न खलु विघ्नभयेन नीचैःप्रारभ्य विघ्नविहता विरमन्ति मध्याः ।विघ्नैः पुनः पुनर् अपि प्रतिहन्यमानाःप्रारब्धम् उत्तमजना न परित्यजन्ति ॥ २७ ॥
असन्तो नाभ्यर्थ्याः सुहृद् अपि न याच्यः कृशधनःप्रिया न्याय्या वृत्तिर् मलिनम् असुभङ्गे ऽप्य् असुकरम् ।विपद्य् उच्चैः स्थेयं पदम् अनुविधेयं च महतांसतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ २८ ॥
क्षुत्क्षामो ऽपि जराकृशो ऽपि शिथिलप्राणो ऽपि कष्टां दशाम्आपन्नो ऽपि विपन्नदीधितिर् इति प्राणेषु नश्यत्स्व् अपि ।मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहःकिं जीर्णं तृणम् अत्ति मानमहताम् अग्रेसरः केसरी ॥ २९ ॥
स्वल्पस्नायुवसावशेषमलिनं निर्मांसम् अप्य् अस्थि गोःश्वा लब्ध्वा परितोषम् एति न तु तत् तस्य क्षुधाशान्तये ।सिंहो जम्बुकम् अङ्कम् आगतम् अपि त्यक्त्वा निहन्ति द्विपंसर्वः कृच्छ्रगतो ऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलम् ॥ ३० ॥
लाङ्गूलचालनम् अधश्चरणावपातंभूमौ निपत्य वदनोदरदर्शनं च ।श्वा पिण्डदस्य कुरुते गजपुङ्गवस् तुधीरं विलोकयति चाटुशतैश् च भुङ्क्ते ॥ ३१ ॥
परिवर्तिनि संसारेमृतः को वा न जायते ।स जातो येन जातेनयाति वंशः समुन्नतिम् ॥ ३२ ॥
कुसुमस्तवकस्येवद्वयी वृत्तिर् मनस्विनः ।मूर्ध्नि वा सर्वलोकस्यशीर्यते वन एव वा ॥ ३३ ॥
सन्त्य् अन्ये ऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास्तान् प्रत्य् एष विशेषविक्रमरुची राहुर् न वैरायते ।द्वाव् एव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौभ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ ३४ ॥
वहति भुवनश्रेणिं शेषः फणाफलकस्थितांकमठपतिना मध्येपृष्ठं सदा स च धार्यते ।तम् अपि कुरुते क्रोडाधीनं पयोधिर् अनादराद्अहह महतां निःसीमानश् चरित्रविभूतयः ॥ ३५ ॥
वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्उद्गच्छद्बहुलदहनोद्गारगुरुभिः ।तुषाराद्रेः सूनोर् अहह पितरि क्लेशविवशेन चासौ सम्पातः पयसि पयसां पत्युर् उचितः ॥ ३६ ॥
सिंहः शिशुर् अपि निपततिमदमलिनकपोलभित्तिषु गजेषु ।प्रकृतिर् इयं सत्त्ववतांन खलु वयस् तेजसो हेतुः ॥ ३७ ॥
जातिर् यातु रसातलं गुणगणैस् तत्राप्य् अधो गम्यतांशीलं शैलतटात् पतत्व् अभिजनः सन्दह्यतां वह्निना ।शौर्ये वैरिणि वज्रम् आशु निपतत्व् अर्थो ऽस्तु नः केवलंयेनैकेन विना गुणस् तृणलवप्रायाः समस्ता इमे ॥ ३८ ॥
धनम् अर्जय काकुत्स्थधनमूलम् इदं जगत् ।अन्तरं नाभिजानामिनिर्धनस्य मृतस्य च ॥ ३९ ॥
तानीन्द्रियाण्य् अविकलानि तद् एव नामसा बुद्धिर् अप्रतिहता वचनं तद् एव ।अर्थोष्मणा विरहितः पुरुषः क्षणेनसो ऽप्य् अन्य एव भवतीति विचित्रम् एतत् ॥ ४० ॥
यस्यास्ति वित्तं स नरः कुलीनःस पण्डितः स श्रुतवान् गुणज्ञः ।स एव वक्ता स च दर्शनीयःसर्वे गुणाः काञ्चनम् आश्रयन्ति ॥ ४१ ॥
दौर्मन्त्र्यान् नृपतिर् विनश्यति यतिः सङ्गात् सुतो लालनात्विप्रो ऽनध्ययनात् कुलं कुतनयाच् छीलं खलोपासनात् ।ह्रीर् मद्याद् अनवेक्षणाद् अपि कृषिः स्नेहः प्रवासाश्रयान्मैत्री चाप्रणयात् समृद्धिर् अनयात् त्यागप्रमादाद् धनम् ॥ ४२ ॥
दानं भोगो नाशस् तिस्रोगतयो भवन्ति वित्तस्य ।यो न ददाति न भुङ्क्तेतस्य तृतीया गतिर् भवति ॥ ४३ ॥
मणिः शाणोल्लीढः समरविजयी हेतिदलितोमदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।कलाशेषश् चन्द्रः सुरतमृदिता बालवनितातन्निम्ना शोभन्ते गलितविभवाश् चार्थिषु नराः ॥ ४४ ॥
परिक्षीणः कश्चित् स्पृहयति यवानां प्रसृतयेस पश्चात् सम्पूर्णः कलयति धरित्रीं तृणसमाम् ।अतश् चानैकान्त्याद् गुरुलघुतया ऽर्थेषु धनिनाम्अवस्था वस्तूनि प्रथयति च सङ्कोचयति च ॥ ४५ ॥
राजन् दुधुक्षसि यदि क्षिति-धेनुम् एतां
तेनाद्य वत्सम् इव लोकम् अमुं पुषाणतस्मिंश् च सम्यग् अनिशं परिपोष्यमाणेनानाफलैः फलति कल्पलतेव भूमिः ॥ ४६ ॥
सत्यानृता च परुषा प्रियवादिनी चहिंस्रा दयालुर् अपि चार्थपरा वदान्या ।नित्यव्यया प्रचुरनित्यधनागमा चवाराङ्गनेव नृपनीतिर् अनेकरूपा ॥ ४७ ॥
आज्ञा कीर्तिः पालनं ब्राह्मणानां
दानं भोगो मित्रसंरक्षणं चयेषाम् एते षड्गुणा न प्रवृत्ताःको ऽर्थस् तेषां पार्थिवोपाश्रयेण ॥ ४८ ॥
यद् धात्रा निजभालपट्टलिखितं स्तोकं महद् वा धनंतत् प्राप्नोति मरुस्थले ऽपि नितरां मेरौ ततो नाधिकम् ।तद् धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाःकूपे पश्य पयोनिधाव् अपि घटो गृह्णाति तुल्यं जलम् ॥ ४९ ॥
त्वम् एव चातकाधारो ऽसीति केषां न गोचरः ।किम् अम्भोदवरास्माकंकार्पण्योक्तं प्रतीक्षसे ॥ ५० ॥
रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्अम्भोदा बहवो वसन्ति गगने सर्वे ऽपि नैतादृशाः ।केचिद् वृष्टिभिर् आर्द्रयन्ति वसुधां गर्जन्ति केचिद् वृथायं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ ५१ ॥
अकरुणत्वम् अकारणविग्रहःपरधने परयोषिति च स्पृहा ।सुजनबन्धुजनेष्व् असहिष्णुताप्रकृतिसिद्धम् इदं हि दुरात्मनाम् ॥ ५२ ॥
दुर्जनः परिहर्तव्योविद्यया ऽलकृतो ऽपि सन् ।मणिना भूषितः सर्पःकिम् असौ न भयङ्करः ॥ ५३ ॥
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवंशूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरेतत् को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर् नाङ्कितः ॥ ५४ ॥
लोभश् चेद् अगुणेन किं पिशुनता यद्य् अस्ति किं पातकैःसत्यं चेत् तपसा च किं शुचि मनो यद्य् अस्ति तीर्थेन किम् ।सौजन्यं यदि किं गुणैः सुमहिमा यद्य् अस्ति किं मण्डनैःसद्विद्या यदि किं धनैर् अपयशो यद्य् अस्ति किं मृत्युना ॥ ५५ ॥
शशी दिवसधूसरो गलितयौवना कामिनीसरो विगतवारिजं मुखम् अनक्षरं स्वाकृतेः ।प्रभुर् धनपरायणः सततदुर्गतः सज्जनोनृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ ५६ ॥
न कश्चिच् चण्डकोपानाम्आत्मीयो नाम भूभुजाम् ।होतारम् अपि जुह्वानंस्पृष्टो वहति पावकः ॥ ५७ ॥
मौनोमूकः प्रवचनपटुर् बाटुलो जल्पको वाधृष्टः पार्श्वे वसति च सदा दूरतश् चाप्रगल्भः ।क्षान्त्या भीरुर् यदि न सहते प्रायशो नाभिजातःसेवाधर्मः परमगहनो योगिनाम् अप्य् अगम्यः ॥ ५८ ॥
उद्भासिताखिलखलस्य विशृङ्खलस्यप्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।दैवाद् अवाप्तविभवस्य गुणद्विषो ऽस्यनीचस्य गोचरगतैः सुखम् आप्यते ॥ ५९ ॥
आरम्भगुर्वी क्षयिणी क्रमेणलघ्वी पुरा वृद्धिमती च पश्चात् ।दिनस्य पूर्वार्धपरार्धभिन्नाछायेव मैत्री खलसज्जनानाम् ॥ ६० ॥
मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ ६१ ॥
वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर् गुरौ नम्रताविद्यायां व्यसनं स्वयोषिति रतिर् लोकापवादाद् भयम् ।भक्तिः शूलिनि शक्तिर् आत्मदमने संसर्गमुक्तिः खलेयेष्व् एते निवसन्ति निर्मलगुणास् तेभ्यो नरेभ्यो नमः ॥ ६२ ॥
विपदि धैर्यम् अथाभ्युदये क्षमासदसि वाक्यपटुता युधि विक्रमः ।यशसि चाभिरुचिर् व्यसनं श्रुतौप्रकृतिसिद्धम् इदं हि महात्मनाम् ॥ ६३ ॥
प्रदानं प्रच्छन्नं गृहम् उपगते सम्भ्रमविधिःप्रियं कृत्वा मौनं सदसि कथनं चाप्य् उपकृतेः ।अनुत्सेको लक्ष्म्याम् अनभिभवगन्धाः परकथाःसतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ ६४ ॥
करे श्लाघ्यस् त्यागः शिरसि गुरुपादप्रणयितामुखे सत्या वाणी विजयि भुजयोर् वीर्यम् अतुलम् ।हृदि स्वच्छा वृत्तिः श्रुतिम् अधिगतं च श्रवणयोर्विनाप्य् ऐश्वर्येण प्रकृतिमहतां मण्डनम् इदम् ॥ ६५ ॥
सम्पत्सु महतां चित्तं
भवत्य् उत्पल-कोमलम् ।आपत्सु च महाशैलशिला-
सङ्घातकर्कशम् ॥ ६६ ॥
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायतेमुक्ताकारतया तद् एव नलिनीपत्रस्थितं राजते ।स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायतेप्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ ६७ ॥
प्रीणाति यः सुचरितैः पितरं स पुत्रोयद् भर्तुर् एव हितम् इच्छति तत् कलत्रम् ।तन् मित्रम् आपदि सुखे च समक्रियं यद्एतत् त्रयं जगति पुण्यकृतो लभन्ते ॥ ६८ ॥
एको देवः केशवो वा शिवो वाह्य् एकं मित्रं भूपतिर् वा यतिर् वा ।एको वासः पत्तने वा वने वाह्य् एका भार्या सुन्दरी वा दरी वा ॥ ६९ ॥
नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान् गुणान् ख्यापयन्तःस्वार्थान् सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान् दुर्जनान् दूषयन्तःसन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ ७० ॥
भवन्ति नम्रास् तरवः फलोद्गमैर्नवाम्बुभिर् दूरावलम्बिनो घनाः ।अनुद्धताः सत्पुरुषाः समृद्धिभिःस्वभाव एष परोपकारिणाम् ॥ ७१ ॥
श्रोत्रं श्रुतेनैव न कुण्डलेनदानेन पाणिर् न तु कङ्कणेन ।विभाति कायः करुणपराणांपरोपकारैर् न तु चन्दनेन ॥ ७२ ॥
पापान् निवारयति योजयते हितायगुह्यं निगूहति गुणान् प्रकटीकरोति ।आपद्गतं च न जहाति ददाति कालेसन्मित्रलक्षणम् इदं प्रवदन्ति सन्तः ॥ ७३ ॥
पद्माकरं दिनकरो विकचीकरोतिचम्द्र्प् वोलासयति कैरवचक्रवालम् ।नाभ्यर्थितो जलधरो ऽपि जलं ददातिसन्तः स्वयं परहिते विहिताभियोगाः ॥ ७४ ॥
एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति येसामान्यास् तु परार्थम् उद्यमभृतः स्वार्थाविरोधेन ये ।ते ऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति येये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ७५ ॥
क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा ते ऽखिलाक्षीरोत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।गन्तुं पावकम् उन्मनस् तद् अभवद् दृष्ट्वा तु मित्रापदंयुक्तं तेन जलेन शाम्यति सतां मैत्री पुनस् त्व् ईदृशी ॥ ७६ ॥
इतः स्वपिति केशवः कुलम् इतस् तदीयद्विषाम्इतश् च शरणार्थिनां शिखरिणां गणाः शेरते ।इतो ऽपि बडवानलः सह समस्तसंवर्तकैऋअहो विततम् ऊर्जितं भरसहं सिन्धोर् वपुः ॥ ७७ ॥
तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाःसत्यं ब्रूह्य् अनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।मान्यान् मानय विद्विषो ऽप्य् अनुनय प्रख्यापय प्रश्रयंकीर्तिं पालय दुःखिते कुरु दयाम् एतत् सतां चेष्टितम् ॥ ७८ ॥
मनसि वचसि काये पुण्यपीयूषपूर्णास्त्रिभुवनम् उपकारश्रेणिभिः प्रीणयन्तः ।परगुणपरमाणून् पर्वतीकृत्य नित्यंनिजहृदि विकसन्तः सन्त सन्तः कियन्तः ॥ ७९ ॥
किं तेन हेमगिरिणा रजताद्रिणा वायत्राश्रिताश् च तरवस् तरवस् त एव ।मन्यामहे मलयम् एव यदाश्रयेणकङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः ॥ ८० ॥
रत्नैर् महार्हैस् तुतुषुर् न देवान भेजिरे भीमविषेण भीतिम् ।सुधां विना न परयुर् विरामंन निश्चितार्थाद् विरमन्ति धीराः ॥ ८१ ॥
क्वचित् पृथ्वीशय्यः क्वचिद् अपि च परङ्कशयनःक्वचिच् छाकाहारः क्वचिद् अपि च शाल्योदनरुचिः ।क्वचित् कन्थाधारी क्वचिद् अपि च दिव्याम्बरधरोमनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ८२ ॥
ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमोज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।अक्रोधस् तपसः क्षमा प्रभवितुर् धर्मस्य निर्वाजतासर्वेषाम् अपि सर्वकारणम् इदं शीलं परं भूषणम् ॥ ८३ ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।अद्यैव वा मरणम् अस्तु युगान्तरे वान्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ ८४ ॥
भग्नाशस्य करण्डपिण्डिततनोर् म्लानेन्द्रियस्य क्षुधाकृत्वाखुर् विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।तृप्तस् तत्पिशितेन सत्वरम् असौ तेनैव यातः यथालोकाः पश्यत दैवम् एव हि नृणां वृद्धौ क्षये कारणम् ॥ ८५ ॥
आलस्यं हि मनुष्याणांशरीरस्थो महान् रिपुः ।नास्त्य् उद्यमसमो बन्धुःकुर्वाणो नावसीदति ॥ ८६ ॥
छिन्नो ऽपि रोहति तर् क्षीणो ऽप्य् उपचीयते पुनश् चन्द्रः ।इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु ॥ ८७ ॥
नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाःस्वर्गो दुर्गम् अनुग्रहः किल हरेर् ऐरावतो वारणः ।इत्य् ऐश्वर्यबलान्वितो ऽपि बलभिद् भग्नः परैः सङ्गरेतद् व्यक्तं ननु दैवम् एव शरणं धिग् धिग् वृथा पौरुषम् ॥ ८८ ॥
कर्मायत्तं फलं पुंसांबुद्धिः कर्मानुसारिणी ।तथापि सुधिया भाव्यंसुविचार्यैव कुर्वता ॥ ८९ ॥
खल्व् आतो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तकेवाञ्छन् देशम् अनातपं विधिवशात् तालस्य मूलं गतः ।तत्राप्य् अस्य महाफलेन पतता भग्नं सशब्दं शिरःप्रायो गच्छति यत्र भाग्यरहितस् तत्रैव यान्त्य् आपदः ॥ ९० ॥
रविनिशाकरयोर् ग्रहपीडनंगजभुजङ्गमयोर् अपि बन्धनम् ।मतिमतां च विलोक्य दरिद्रतांविधिर् अहो बलवान् इति मे मतिः ॥ ९१ ॥
सृजति तावद् अशेषगुणकरंपुरुषरत्नम् अलङ्करणं भुवः ।तद् अपि तत्क्षणभङ्गि करोतिचेद् अहह कष्टम् अपण्डितता विधेः ॥ ९२ ॥
पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्नोलूको ऽप्य् अवओकते यदि दिवा सूर्यस्य किं दूषणम् ।धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्यत् पूर्वं विधिना ललाटलिखितं तन् मार्जितुं कः क्षमः ॥ ९३ ॥
नमस्यामो देवान् ननु हतविधेस् ते ऽपि वशगाविधिर् वन्द्यः सो ऽपि प्रतिनियतकर्मैकफलदः ।फलं कर्मायत्तं यदि किम् अमरैः किं च विधिनानमस् तत्कर्मभ्यो विधिर् अपि न येभ्यः प्रभवति ॥ ९४ ॥
ब्रह्मा येन कुलालवन् नियमितो ब्रह्माडभाण्डोदरेविष्णुर् येन दशावतारगहने क्षिप्तो महासङ्कटे ।रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितःसूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ॥ ९५ ॥
नैवाकृतिः फलति नैवअ कुलं न शीलंविद्यापि नैव न च यत्नकृतापि सेवा ।भाग्यानि पूर्वतपसा खलु सञ्चितानिकाले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ९६ ॥
वने रणे शत्रुजलाग्निमध्येमहार्णवे पर्वतमस्तके वा ।सुप्तं प्रमत्तं विषमस्थितं वारक्षन्ति पुण्यानि पुराकृतानि ॥ ९७ ॥
या साधूंश् च खलान् करोति विदुषो मूर्खान् हितान् द्वेषिणःप्रत्यक्षं कुरुते परीक्षम् अमृतं हालाहलं तत्क्षणात् ।ताम् आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितंहे साधो व्यसनैर् गुणेषु विपुलेष्व् आस्थां वृथा मा कृथाः ॥ ९८ ॥
गुणवद् अगुणवद् वा कुर्वता कार्यजातंपरिणतिर् अवधार्या यत्नतः पण्डितेन ।अतिरभसकृतानां कर्मणाम् आविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ९९ ॥
स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश् चन्दनैर् इन्धनौघैःसौवर्णैर् लाङ्गलाग्रैर् विलिखति वसुधाम् अर्कमूलस्य हेतोः ।कृत्वा कर्पूरखण्डान् वृत्तिम् इह कुरुते कोद्रवाणां समन्तात्प्राप्येमां कर्म्भूमिं न चरति मनुजो यस् तोप मन्दभाग्यः ॥ १०० ॥
मज्जत्व् अम्भसि यातु मेरुशिखरं शत्रुं जयत्व् आहवेवाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।आकाशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नं परंनाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १०१ ॥
भीमं वनं भवति तस्य पुरं प्रधानंसर्वो जनः स्वजनताम् उपयाति तस्य ।कृत्स्ना च भूर् भवति सन्निधिरत्नपूर्णायस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १०२ ॥
को लाभो गुणिसङ्गमः किम् असुखं प्राज्ञेतरैः सङ्गतिःका हानिः समयच्युतिर् निपुणता का धर्मतत्त्वे रतिः ।कः शूरो विजितेन्द्रियः प्रियतमा का ऽनुव्रता किं धनंविद्या किं सुखम् अप्रवासगमनं राज्यं किम् आज्ञाफलम् ॥ १०३ ॥
अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः ।परपरिवादनिवृत्तैः क्वचित् क्वचिन् मण्डिता वसुधा ॥ १०४ ॥
कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।अधोमुखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिद् एव ॥ १०५ ॥
कान्ताकटाक्षविशिखा न लुनन्ति यस्यचित्तं न निर्दहति किपकृशानुतापः ।कर्षन्ति भूरिविषयाश् च न लोभपाशैर्लोकत्रयं जयति कृत्स्नम् इदं स धीरः ॥ १०६ ॥
एकेनापि हि शूरेणपादाक्रान्तं महीतलम् ।क्रियते भास्करेणैवस्फारस्फुरिततेजसा ॥ १०७ ॥
वह्निस् तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।व्यालो माल्यगुणायते विषरसः पीयूषवर्षायतेयस्याङ्गे ऽखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १०८ ॥
लज्जागुणौघजननीं जननीम् इव स्वाम्अत्यन्तशुद्धहृदयाम् अनुवर्तमानाम् ।तेजस्विनः सुखम् असून् अपि सन्त्यजनतिसत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १०९ ॥