केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वलान स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।वाण्य् एका समलङ्करोति पुरुषं या संस्कृता धार्यतेक्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १९ ॥
क्वचित् पृथ्वीशय्यः क्वचिद् अपि च परङ्कशयनःक्वचिच् छाकाहारः क्वचिद् अपि च शाल्योदनरुचिः ।क्वचित् कन्थाधारी क्वचिद् अपि च दिव्याम्बरधरोमनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ ८२ ॥
निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तुलक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।अद्यैव वा मरणम् अस्तु युगान्तरे वान्याय्यात् पथः प्रविचलन्ति पदं न धीराः ॥ ८४ ॥