Proofing

2026-04-02 21:26:48 by ambuda-bot

This page has not been fully proofread.

१०८
 
श्रीशिवस्तोत्रेषु
 
अनन्तनवरत्नविलसत्कनककिङ्किणिझलझलझलझलवं
 
मुकुन्द विधिहस्त गतिमद्दललयध्वनिधिमिद्धिमितनर्तनपदम् ।
शकुन्तरथबर्हिरथदन्ति मुखनन्दि मुखभृङ्गिनट सङ्घ निकटं
सनन्दसनकप्रमुखवन्दितपदं वरचिदम्बरनदं हृदि भजे ॥ ३ ॥
अनन्त महसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलं
 
कबन्धवियदावनिकगन्धवहवह्निमखिचन्द्ररविमञ्जुवपुषम् ।
 
अनन्तविभवं त्रिजगदन्तरमणि त्रिणयनं त्रिपुरखण्डनपरं
सनन्दननिनन्दितपदं सकरुणं वरचिदम्बरनटं हृदि भजे ॥ ४॥
अचिन्त्यम लिवृन्दरुचिबन्धुगलमन्तकभुजङ्गमविहङ्गमपतिं
 
मुकुन्दसुरवृन्दबलहन्तृकृतवन्दनलसन्त महि कुण्डलधरम् ।
अकम्पमनुकम्पनरतिं गलनिपङ्गिगरलं भवमतङ्गजहरिं
 
पतञ्जलिधनं प्रणतसञ्चितनिधिं वरचिदम्बरनटं हृदि भजे ॥ ५ ॥
अवन्तमखिलं जगदभङ्गगुणतुङ्गमवतंसितविधुं सुरसरि-
त्तरङ्गनिकुरुम्बवृतलम्बनजटं शमनडम्भहरणं भवहरम् ।
शिवं दशदिगन्तर निरन्तरविजृम्भितकरं करलसन्मृगशिशुं
भवं शशिधनञ्जय पतङ्गनयनं वरचिदम्बरनटं हृदि भजे ॥ ६ ॥
 
परं पुरहरं सुरवरं पशुपतिं जनितदन्ति मुखषणमुखविभुं
मृडं कनकपिङ्गलजटिं सनकपङ्कजरविं शमितसंयमिशुचिम् ।
शिवं कलभचर्मवसनं जलधिजन्मगरलं कबलयन्त ममलं
 
दृढं प्रणवकन्दमभयं करपदं वरचिदम्बरनटं हृदि भजे ॥ ७ ॥
 
अजक्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गधनुषं करलस-
त्कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचिं डमरुकं च दधतम् ।
मुकुन्दविशिखं प्रणतवृन्दफलदं निगमतुङ्गतुरगं निरुपमं
सुगन्धितमहं झटिति संहृतपुरं वरचिदम्बरनटं हृदि भजे ॥ ८ ॥
 
अनङ्गपरिपन्थिनमजं क्षितिधुरंधरमलं करुणयन्त ममलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रसुरवन्दितपदम् ।
उदचितरवह्निरुचिगन्धमरविन्द कुलबन्धुरुचिसङ्घवपुषं
 
पतञ्जलिधनं प्रणतसञ्चितनिधिं वरचिदम्बरनटं हृदि भजे ॥ ९॥
 
अखण्डविधुमण्डलमुखं डमरुमण्डितकरं कनकमण्डपगृहं
 
स्वगण्डतलकुण्डलितकुण्डलिपमण्डलितमण्डलपिचण्डमतुलम् ।