न्यायकोशः /594
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
ज्ञानकरणकत्वाव्यभिचारिजातिशून्यज्ञानध्वम् इति विवक्षितोर्थः ( दि०
१।३ पृ० १०३ ) । इदं च जीवेश्वरोभयप्रत्यक्षसाधारणं लक्षणम् इति
विज्ञेयम् ( न्या० बो० १ पृ० ११ ) । तथा च ईश्वरप्रत्यक्षस्य
नित्यत्वेन न किंचिदपि करणमस्ति । जीवप्रत्यक्षस्य चेन्द्रियमेव कर-
णम् न किंचिदपि ज्ञानं करणम् । एवं चोभयोः प्रत्यक्षयोर्ज्ञानाकरण-
कत्वमक्षुण्णमेव इति लक्षणसमन्वयः । [ग] साक्षात्कारत्वव्यञ्जक-
विषयताविशेषवज्ज्ञानम् ( ग० सप्र० ) । अत्र साक्षात्कारत्वं च साक्षा-
करोमि इत्यनुव्यवसायसाक्षिको जातिविशेषः । अथवा जन्यधीजन्य-
मात्रवृत्तिर्मानसावृत्तिर्या जाति: तच्छ्रन्यज्ञानत्वम् (या० म० १ । २
पृ० ३ ) ( म० प्र० पृ० ९ ) । भवति हि जन्यं ज्ञानम् ( व्याप्तिज्ञानम्
अतिदेशवाक्यार्थज्ञानम् पदज्ञानादि ) । तज्जन्यम् अनुमित्युपमितिशाब्द-
बोधादि। तन्मात्रवृत्तिर्मानसावृत्तिश्च या जातिः अनुमितित्वोपमितित्वशा-
ब्दबोधत्वादिः तच्छ्रन्यध्वं साक्षात्कारे वर्तते इति लक्षणसंगतिः (त० प्र० १
पृ० १५ ) । अत्र पदप्रयोजनादिकं च तर्कप्रकाशे सविस्तरं कथितम् ।
तच्च विस्तरभयान्नात्र संगृहीतम् । [घ ] प्रतिविषयाध्यासः प्रत्यक्षम्
। इति सांख्या: आहुः । [ङ ] साक्षाद्धी: इति प्राभाकरा आहुः
(( चि० १ ) । साक्षात्त्वं च साक्षात्करोमि इत्यनुव्यवसायगम्यो जाति-
विशेष: (चि० १ ) ( न्या० म० १ पृ० २ ) । न्यायमते साक्षात्वं
च जातिविशेषः एव । प्राभाकरमते तु साक्षात्त्वं न जातिः । नियत-
व्यञ्जकाभावादिति ( चि० १ पृ० ५५६ ) । [च ] यत्किंचिदर्थस्य
साक्षात्कारिज्ञानमिति बौद्धा आहुः (न्या० वि० १ पृ० ७ ) । [छ ]
वैशिष्ट्यानवगाहिज्ञानं प्रत्यक्षम् इति नास्तिका आहुः । [ ज ] अन्त:-
करणवृत्त्यवच्छिन्नचैतन्येन विषयस्फुरणम् प्रत्यक्षम् इति मायावादिनो
मन्यन्ते । अत्रोच्यते । बुद्धितत्स्थ चिदाभासौ द्वावपि व्यानुतो घटम् । तत्रा-
ज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् ॥ इति (पञ्चद० ७।९१) । माया-
वादिमते प्रत्यक्षलक्षणं च तत्तदिन्द्रिययोग्यवर्तमान विषयावच्छिन्न चैतन्या-
•
भिन्नत्वं तत्तदाकारवृत्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् ( वेदा० परि०