2023-10-29 11:12:29 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

५३८
 
न्यायकोशः ।
 
सहितस्य प्रतीकधारणम् तत्र श्रूयमाणाच्संवलितस्यैत्र प्रतीकधारणम्

इति । तेन पूर्वोक्तस्थले प्रत्यक्षेति इत्युपेक्ष्य प्रत्यक्षविति इति प्रतीकधारणं

दीधितिकृतां संगच्छते ( ग० पक्ष० पृ० १) । समासघटकस्येत्युंक्तत्वेन

नन्वनुमितिहेतुव्याप्तिज्ञाने का व्याप्तिः ( चि० २ पृ० २ ) इत्यत्र

नन्वेति इत्युपेक्ष्य नन्विति ( दीधि० २ पृ० ११) इति प्रतीकधारणं

दीधितिकृतां न विरुध्यते । नन्वनुमितीत्यत्र ननु इत्यस्य समास-

घटकत्वाभावात् (न्या० र० पक्ष० पृ० ३१५) । अचसहितस्ये-

त्युक्तत्वेन साध्यवदन्यावृत्तित्वम् ( चि० २ पृ० २ ) इत्यस्य -

वदेति इत्युपेक्ष्य साध्यवदिति ( दीधि ० २ पृ० १२) इति प्रतीक

धारणं दीधितिकृतां न विरुध्यते । तत्र साध्यवदित्यादौ हलन्तस्यैव

धारणात् इति ( न्या० र० पक्ष० पृ० ३१५) । २ प्रतिरूपम् ।
 

३ विलोमः ।
 
-
 

 
<
प्रतीक्षा>
निर्ज्ञातप्राप्त्यर्थंप्रतीक्षणम् ( काठ० उ० ११८ भाष्यम् ) ।

 
<
प्रतीची>
( दिक् ) [ क ] यदपेक्षया सूर्यास्ताचलसंनिहिता या क्

तदपेक्षया प्रतीची (वै० उ० २१ २११९० पृ० ११५) । संनिधानं तु

संयुक्तसंयोगाल्पीयस्त्वम् । ते च सूर्यसंयोगा अल्पीयांसो

दिगुपनेयाः (बै० उ० २१ २११० पृ० ११५ ) । पश्चिमदिग्वर्तिन-

इति (वै० उ० २।२।१५) । [ख ] यदा यत्पुरुषस्योदयगिरि-

गादिना सहादित्यसंयोगाद्भुतपूर्वाद्भविष्यतो भूताद्वा प्रतीचीव्यवहारः

व्यवहिता या दिक् सा तत्पुरुषस्य प्रतीची (मु० १ पृ० ९३ ) /

( न्या० बी० १ पृ० ३) । यथा काशीतः प्रतीच्यां प्रयागः । अत्र

[ग] अस्ताचलसंनिहितदेशावच्छिन्ना दिक् ( वाक्य० १५० ५ )

काशीनिष्ठोदयगिरिसंयुक्तसंयोग पर्याप्तसंख्याव्यापकसंख्या पर्याप्यधिक

दयगिरिसंयुक्तसंयोगवन्मूर्तवृत्तिः प्रयागः इति शाब्दबोध: ( दि० १/२

पृ० ९४ ) । यथा वा झळकीग्रामतः प्रतीच्यां रत्नागिरिपुरम् इति ।

 
<
प्रतीतिः - >
१ बुद्धिवदस्यार्थीनुसंधेयः । २ ख्यातिः । ३ आदरः । ४६
 

(वाच० ) ।
 
-
 
हर्षः