This page has not been fully proofread.

४८०
 
न्यायकोशः ।
 
परिपाकः—१ परिणामवदस्यार्थोनुसंधेयः
 
( वाच० ) । २ वासनायाश्च
 
-
 
स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः ( सर्व० सं० पृ० ३८ बौद्ध० ) ।
परिभाषा - १ आधुनिकसंकेत : (ग० शक्ति ० ) ( वै० वि० ७।२।२०) ।
(यथा शाब्दिकमते वृद्धिपदस्याकारैकारौकारेषु पाणिनिसंकेतः । २
[क] अनियमे नियमकारिणी परिभाषा । [ख] परिष्टां
भाषां परिभाषां प्रचक्षते । यथा यथोद्देशं संज्ञापरिभाषम् इत्यादौ ।
परिमण्डलम् - १ परमाणुपरिमाणम् । २ परिमाणविशिष्टः परमाणु:
(वै० वि० ७ । १ । २०) । तच्च परिमण्डलं नित्यम् ( वै० ७ । १ । २० ) ।
 
-
 
३ वर्तुलाकारः इति काव्यज्ञा आहुः ।
 
परिमाणम् – ( गुण:) [क] परिमाणत्वजातिमत् । तच्च नवसु द्रव्येषु
वर्तते ( त० सं० ) । तत्राकाश दिषु चतुषु परममहत्त्वम् । परमाणु
परमाणुत्वम् । द्व्यणुके अणुत्वम् । अतोन्येषु महत्त्वं दीर्घत्वं च । ह्रस्वत्वं
चाणुत्वसमानाधिकरणम् । तत्राणुपरिमाणं परमाणौ ह्यणुकेच ति-
•ष्ठति । तत्रापि परमाणावणुपरिमाणं परमम् । विभुचतुष्टये महत्परि
• परमम् । त्रसरेण्वादिमहावयविपर्यन्तद्रव्येषु अवान्तरजन्यमहत्परिमाणम्
(वै० वि० ७।११८) । परिमाणं च मानव्यवहारासाधारणकारणम् (
वि० ७७१।८) । यथा शतयोजनश्चन्द्रः इति ज्योतिः शास्त्रोक्तं परिमाणम्
( त० प्र० ४ पृ० २९) । मानव्यवहारश्च हस्तवितस्त्यादिव्यवहारः न
तु पलसंख्या दिव्यवहारः (वै० उ० ७११८) । किंच मानं परिमितिः
तस्य यो व्यवहारः इद महत् इदमणु इत्याद्यात्मकश्च ( सि० च० १
पृ० १७ ) । किंच मानव्यवहारः अणुत्वादिर्गुणः इति व्यवहारः
( वाक्य० १ पृ० ७) । [ख ] यवाङ्गुलप्रस्थादिभिः गुञ्जादिभिश्च
द्रव्यस्य परिच्छेदः । अत्रोच्यते । जालस्थार्कमरीचिगतं रजस्त्रसरेणुसंज्ञम् ।
• तत्रयं कृष्णलः । तत्पञ्चकं माषः । तद्द्वादशकमक्षार्धम् । स चतुर्माषक
तदष्टकं लिक्षा। तत्रयं राजसर्षपः । तत्रयं गौरसर्षपः । ते षट् यवः ।
• सुवर्णः । तच्चतुःसौवर्णिको निष्कः इति । द्वे कृष्णले रूप्यमाषकः ।
ते षोडश घरणम् इति । तात्रिकः कार्षापणः पणः इति (विष्णुस्मृतिः)
 
(वै