2023-10-28 18:54:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
४७९
 
त्पत्तिरिति (वात्स्या० ३।२।१६) । परिणामत्रिविधः प्रसिद्धः । धर्म-

लक्षणावस्थाभेदात् (सर्व० सं० पृ० ३५३ पात ० ) । अथवा सतो

द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरोत्पत्तिः ( प्रादुर्भाव : ) । यथा पयसः

परिणामो दधि इति (गौ० ० ३ । २ । १६) (वात्स्या० ३।२।१६ ) ।

विद्यमानस्य क्षीरस्य पूर्वरसतिरोभावोम्लरसात्मकगुणान्तरस्याविर्भावात् इति

( गौ० वृ० ३१२।१६ ) । नैयायिकास्तु अत्र परिणामो विनाश एव


इत्याहुः । यद्वा प्रकृतेरन्यथाभावो विकारः । अत्र अन्यथाभावश्च प्रकृ-

युच्छेदेन प्रकृतेर्गुणान्तराधानेन वा । यथा मृदादेर्घटादिरूपेण काष्ठादे-

र्भस्मादिना ( वाच ० ) । यथा परिणामतापसंस्कारदु:खै: ० ( पात ० पाद

(२ सू० १५ ) परिणामतः सलिलवत् (सां० का० १६) इत्यादौ

इत्याहुः । यथा हि वारिदविमुक्तमुदकमे करसमपि तत्तद्भूमि विकारानासाद्य
 

मधुराम्लतिक्त कटुकषायतया विकल्पते एवम् एकैकगुणसमुद्भवात् प्रधानं

नारिकेलतालीबिल्वचिरबिल्वतिन्दुकामलककपित्थफलरसतया परिणामात्

श्लो० १६ ) । मायावादिनो वेदान्तिनस्तु पूर्वरूपपरित्यागे सति नाना-

गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति ( सांख्य० कौ०

कारप्रतिभासः । यथा क्षीरस्य दधिप्रतिभासः इत्याहु: । मायावादिमते-

त्रायं विवेको ज्ञेयः परिणामो नाम उपादानसमसत्ताककार्यापत्तिः ।

विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः इति ( वेदा० ०

परि० १ पृ० २२ ) । ३ शेष: ( अन्त्यावस्था ) । यथा परिणामे-

मृतोपमम् ( गीता० अ० १८ श्लो० ३७ ) इत्यादौ । ४ अर्था-

लंकारविशेष: इत्यालंकारिका आहुः ।

 
<
परिनिष्ठा>
१ अनन्यवृत्तित्वम् ।२ पर्यवसानम् (सांख्य० भाष्य

(१९६८) । यथा पारंपर्येप्येकत्र परिनिष्ठा० ( सां० सू० अ० १
 

 

सू० ६८) इत्यादौ ।
 

 
<
परिनिष्ठितत्वम् - >
अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते

तिङन्तादावव्याप्तिवारणायाप्रवृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदका

कान्ते सेद्धेयादावव्याप्तिवारणाय नित्येति ( शब्दे० शे० पृ० ६९ )
 
-