This page has not been fully proofread.

न्यायकोशः ।
 
४७९
 
त्पत्तिरिति (वात्स्या० ३।२।१६) । परिणामत्रिविधः प्रसिद्धः । धर्म-
लक्षणावस्थाभेदात् (सर्व० सं० पृ० ३५३ पात ० ) । अथवा सतो
द्रव्यस्य पूर्वगुणनिवृत्तौ गुणान्तरोत्पत्तिः ( प्रादुर्भाव : ) । यथा पयसः
परिणामो दधि इति (गौ० ० ३ । २ । १६) (वात्स्या० ३।२।१६ ) ।
विद्यमानस्य क्षीरस्य पूर्वरसतिरोभावोम्लरसात्मकगुणान्तरस्याविर्भावात् इति
( गौ० वृ० ३१२।१६ ) । नैयायिकास्तु अत्र परिणामो विनाश एव

इत्याहुः । यद्वा प्रकृतेरन्यथाभावो विकारः । अत्र अन्यथाभावश्च प्रकृ-
युच्छेदेन प्रकृतेर्गुणान्तराधानेन वा । यथा मृदादेर्घटादिरूपेण काष्ठादे-
र्भस्मादिना ( वाच ० ) । यथा परिणामतापसंस्कारदु:खै: ० ( पात ० पाद
(२ सू० १५ ) परिणामतः सलिलवत् (सां० का० १६) इत्यादौ
इत्याहुः । यथा हि वारिदविमुक्तमुदकमे करसमपि तत्तद्भूमि विकारानासाद्य
 
• मधुराम्लतिक्त कटुकषायतया विकल्पते एवम् एकैकगुणसमुद्भवात् प्रधानं
नारिकेलतालीबिल्वचिरबिल्वतिन्दुकामलककपित्थफलरसतया परिणामात्
श्लो० १६ ) । मायावादिनो वेदान्तिनस्तु पूर्वरूपपरित्यागे सति नाना-
गुणमाश्रित्याप्रधानगुणाः परिणामभेदान् प्रवर्तयन्ति ( सांख्य० कौ०
कारप्रतिभासः । यथा क्षीरस्य दधिप्रतिभासः इत्याहु: । मायावादिमते-
त्रायं विवेको ज्ञेयः परिणामो नाम उपादानसमसत्ताककार्यापत्तिः ।
विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः इति ( वेदा० ०
परि० १ पृ० २२ ) । ३ शेष: ( अन्त्यावस्था ) । यथा परिणामे-
• मृतोपमम् ( गीता० अ० १८ श्लो० ३७ ) इत्यादौ । ४ अर्था-
लंकारविशेष: इत्यालंकारिका आहुः ।
परिनिष्ठा–१ अनन्यवृत्तित्वम् ।२ पर्यवसानम् (सांख्य० भाष्य
(१९६८) । यथा पारंपर्येप्येकत्र परिनिष्ठा० ( सां० सू० अ० १
 

 
सू० ६८) इत्यादौ ।
 
परिनिष्ठितत्वम् - अप्रवृत्तनित्यविध्युद्देश्यतावच्छेदकानाक्रान्तत्वम् । निहते
• तिङन्तादावव्याप्तिवारणायाप्रवृत्तेति । वैकल्पिकेडागमोद्देश्यतावच्छेदका
कान्ते सेद्धेयादावव्याप्तिवारणाय नित्येति ( शब्दे० शे० पृ० ६९ )
 
-