न्यायकोशः /483
This page has been fully proofread once and needs a second look.
न्यायकोशः ।
७ निषेधः । यथा निर्मक्षिकम् इत्यादौ । अयं शब्दः प्रादिः सान्तो
रान्तश्चेति विज्ञेयम् (वाच ० ) ।
<निरनुयोज्यानुयोग:
(निग्रहस्थानम् ) [ क ] अनिग्रहस्थाने निग्रह-
स्थानाभियोगो निरनुयोज्यानुयोगः ( गौ० ५/२।२२ ) । निग्रहस्थान-
लक्षणस्य मिथ्याध्यवसायाद निग्रहस्थाने निगृहीतोसीति परं ब्रुवन्निर-
योज्यानुयोगान्निगृहीतो वेदितव्य इति ( वात्स्या० ५/२/२२ ) । अवसरे
यथार्थनग्रहस्थानोद्भावनातिरिक्तं यन्निग्रहस्थानोद्भावनं तत् इत्यर्थः । एतेन
अवसरे निग्रहस्थानोद्भावने एकनिग्रहस्थाने निग्रहस्थानान्तरोद्भावनेच
नातिव्याप्तिः (गौ० वृ० ५।२।२२) । [ख] निग्रहस्थानरहिते निग्रहस्थानो-
द्भावनम् (नील० पृ० ४६ ) । सोयं चतुर्धा । छलम् जातिः आभासः
•
अनवसरग्रहणं च ( गौ० वृ० ५/२/२२ ) ( दि० १ ) ( ता० २०
<निरर्थकम्
१ ( निग्रहस्थानम् ) अस्य संभवः प्रमादात् इत्यवधेयम्
परि० ३ श्लो० १५१ ) ( सा० सं० पृ० ११७ ) ।
(गौ० वृ० ५/२१८ ) । [क] वर्णक्रमनिर्देशवन्निरर्थकम् (गौ०
५२१८ ) । तदर्थश्च वर्णानां क्रमेण निर्देशो जबगडेत्यादिप्रयोगः
तत्तुल्यो निर्देशः इति ( गौ० वृ० ५/२१८ ) । यथा नित्यः शब्दः
●
कचटतपाः जबगडदश्त्वात् झभञ्घढधष्वत् इति । एवंप्रकारं निरर्थ-
कम् । अभिधानाभिधेयभावानुपपत्तावर्थग तेरभावाद्वर्णा एव
निर्दिश्यन्त इति (वात्स्या० ५१२१८ ) । [ख समयबन्धव्यतिरेकेणा-
व्यतिरेकेणेति विशेषणदानेन यत्र अपभ्रंशेन विचारः कर्तव्यः इति
वाचकपदप्रयोगः ( गौ० वृ० ५/२१८ ) ( दि० १) । समयबन्ध-
•●
शास्त्रपरिभाषया वा बोध्यम् ( गौ० वृ० [५/२१८ ) । [ग] अवा-
समयबन्धस्तत्रापभ्रंशे न दोषः । अत्र वाचकत्वं शक्त्या निरूढलक्षणया
चकशब्द
। यथा शब्दो नित्यः जबगडदस्त्वात् इत्यादि ( नील
पृ० ४५ ) । २ काव्यदोषविशेषः इत्यालंकारिका आहुः ।
निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् इति ( चन्द्रा० ) । ३ निष्फलम् ।