2023-10-23 11:53:32 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
२२३
 
सुबू भवेत् ॥ तथा हि । प्रथमादीनां सप्तानां विभक्तीना मेकत्वादयोर्था

नव प्रकारीभूय भासन्ते । किंतु प्रकृत्यर्थे । पाक इत्यादावपि

सुबर्थसंख्या न धात्वर्थे प्रकार: । किंतु पचनादिवरूपे नामार्थे इति ।

अथवा [ग] समासनिविष्टस्य धातोर इति वक्तव्यम् । न हि

ग्रामगत इत्यादौ धात्वर्थे कर्मत्वादिरिवैकत्वादिरपि सुबर्थः प्रकार: ।

अत एव प्रासादात्प्रेक्षत इत्यादौ ल्यबर्थस्य धात्वर्थे प्रकारत्वेपि तदर्थक-

पञ्चम्यां नाव्याप्तिः ( श० प्र० श्लो० ९२ पृ० ११४ ) । अत्रेदमव-

घेयम् । कारक विभक्तिभिन्न विभत्त्यर्थस्य क्रियायामनन्वयः इति न

नियमः । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूप -

धात्वर्थे हेतुविभत्स्यर्थस्यान्वयो दृष्टः । तस्मात् स्थीयते इत्यादौ च

सर्वमत एव धात्वर्थस्थित्यादौ हेतुविभत्तयर्थस्यान्वयो दृष्टः । गुरुविप्रत-

पस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्याद

धात्वर्थेन्बयो दृष्टश्च इति न तादृशनियमोङ्गीकर्तव्यः (ग० व्यु० का० २

ख० २ पृ० ५६ ) । अत्र रोगे इति पदमध्याहार्य तदर्थे षष्ठ्यर्थस्या-

न्वयः कार्यः इत्यपि केचिद्वदन्ति इति प्रागुक्तमेव ।

 
<
कारणगुणपूर्वकत्वम्>
कारणगुणेन कार्ये ये गुणा उत्पद्यन्ते ते कारण-

गुणपूर्वका रूपादयो वक्ष्यन्ते ( मु० गु० पृ० १९३) । अग्निमशन्दे
 
-
 
-
 

दृश्यम् ।
 

 
<
कारणगुणोत्पन्नगुणत्वम्>
स्वाश्रय समवायिमात्रसमवेतस्वसजातीयगुणज-

न्यवृत्तिः पृथक्त्वसंख्यात्वातिरिक्ता भावनावृत्त्यन्या च या जाति:

तादृशजातिमत्त्वे सत्यपाकजत्वम् ( दि० गु० पृ० १९४) । भवति

हि घटादीनां रूपादिकं स्वाश्रयघटादिसमवायिक पालादिरूपादिमात्रा-

समवायिकारणेकम् (प० मा० ) । स्वम् घटादीनां रूपादिकम् । तस्या-

श्रयः घटादिः । तस्य समवाय कपालम् । तन्मात्रे तस्मिन्नेव समवेतः

स्वसजातीयो गुणः कपालादिगतरूपादिः । तेन जन्यम् घटादिगतम-

पाकजं रूपादि । तत्र वर्तमाना जाति: अपाकजरूपत्वादिः । तद्वत्त्वे सति

इत्यथे। स्वसजातीयगुणेत्यत्र साजात्यं च गुणत्वव्याप्यव्याप्यजाव्या