2023-10-19 14:04:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
८१
 
<अलंकारः - >
१ शब्दार्थभूषणमनुप्रासोपमादिः । स च बहुविधः । अत्रा-

लंकारत्वं च रसादिभिन्नं यद्व्यङ्ग्यं तद्भिन्नत्वे सति शब्दार्थान्यतरनिष्ठा

या विषयतासंबन्धावच्छिन्ना चमत्कृतिजनकतावच्छेदकता तदवच्छेदक-

त्वम् इति । अत्र अनुप्रासादिविशिष्टशब्दज्ञानात् उपमादिविशिष्टार्थज्ञा-

नाच चमत्कृतिर्जायत इति लक्षणसमन्वयो बोध्यः (अलंकारचन्द्रिका) ।

अलंकाराणां च शोभातिशायित्वमुक्तम् – शब्दार्थयोरस्थिरा ये धर्माः

शोभातिशायिनः । रसादीनुपकुर्वन्तोलंकारास्तेङ्गदादिवत् ॥ इति ।

२ हारादिभूषणमलंकार इति काव्यज्ञा वदन्ति ।
 

 

 
<
अलब्धभूमिकत्वम्>
कुतश्चिन्निमित्तात्समाधिभूमेरलाभः (सर्व० सं० पृ०
 

३५५ पातञ्ज० ) ।
 
-
 
773
 

 
<
अलम्>
१ समर्थम् । यथा सुखायालं भोजन मित्यादौ । अत्र अलमादि-

पदार्थैकदेशे सामर्थ्य सुखादिनिरूपितत्वं चतुर्थ्या बोध्यते । २ वैफल्यम् ।

यथा अलमनेनेत्यादौ ( श० प्र० पृ० १२६ ) ।
 

 
<
अलीकत्वम्>
१ ज्ञानाविषयत्वम् । यथा शशशृङ्गादेरली कत्वम् । अत्र

वेदान्तिनस्तु शशशृङ्गकूर्मरोमादीनि तुच्छशब्देन व्यवहरन्तीति बोध्यम् । २

अन्यव्यावृत्तिः । यथा नास्तिकमते अयं घटः इति ज्ञाने विषयीभूतस्य

घटत्वादेरली कत्वमित्यत्र । अयं भावः । अघटव्यावृत्तिरेव घटे घटत्वम् न

तु भावरूपम् । अभावस्तु तुच्छ एवेति नास्तिकैरभ्युपगम्यते इति ( म०

प्र० १ पृ० ९ ) । अत्र नैयायिकाः नास्तिकमते शशशुङ्गाद्यलीकमस-

त्ख्यात्या सिध्यति । सा चासत्ख्यातिर्नोपपद्यते । ज्ञानविषयत्वस्यास्तित्व-
नजी

व्याप्यतया असत्ख्यातिविषयत्वस्य संनिकृष्टमेदप्रतियोगितावच्छेदकत्वा-

सिद्धेरित्याहुः ( म०प्र० पृ० १७ ) ।
 
1963
 
B12 0
 

 
<
अलौकिकत्वम्
-
>
[ क ] लोकाबगतेष्टसाधनताश्रयान्यत्वम् । अत्र लोक-

शब्दार्थश्च वेदतदुपजीविप्रमाणातिरिक्तप्रमाणम् । यथा नमस्कारादिकं

१० मङ्गलं वेदबोधितसमाप्तिसाधनताकम् समात्युद्देश्यकालौकिका विगीत-

न्या० को० ११