2023-12-26 06:48:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१००१
 
न्यायकोशः ।
 
<साधारण्यम् - >
साधारणवृत्तिर्धर्मः । स च साधारणत्वादिः ।
 

 
<
साधुः>
१ प्रियकारी । यथा मातरं प्रति साधुः इत्यादौ साधुशब्दस्यार्थः
 
-
 

संकेत:
 
(
तः ग० व्यु० का० २ ख० २ पृ० ७६ ) । २ यः शब्दो यत्रेश्वरेण

संकेतितः स तत्र साधुः ( संज्ञा विशिष्टः ) । यथा या काचिदोषधिर्न-

कुलदंष्ट्राग्रस्पृष्टा सा सर्वापि सर्पविषं हन्ति इत्येतादृशी संज्ञा ( ईश्वर-

(: ) ( वै० उ० २११/१९ पृ० ९४ ) इति । ३ शाब्दि-

कास्तु यः शब्दो यस्मिन्नर्थे व्याकरणेन व्युत्पादितः स तत्र साधुः

प्रयोगार्हः (चि० ४ ) । स च व्याकरणव्यङ्ग्यसाधुताजात्याश्रयः

शब्दः । यथा कर्मणि द्वितीया (पाणि० २।३।२ ) इत्यादौ द्वितीया

कर्मार्थे साधुः इत्याहुः । अत्र साधुत्वं च अर्थविशेषे व्याकरणानुशिष्ट-

जातीयत्वम् । अत्र जातीयत्वोपादानानाधुनिकचैत्रादिशब्देष्वव्याप्तिः

( म० प्र० ४ ) । अत्रोक्तम् अनपभ्रंशतानादिर्यद्वाभ्युदययोग्यता ।

व्याक्रियाव्यञ्जनीया वा जाति: कापीह साधुता ॥ ( भर्तृ० ) इति ।

तदर्थस्तु अनपभ्रंशत्वम् अनादित्वम् अभ्युदय साधन प्रयोग विषयत्वम्

व्याकरणव्यङ्ग्या जातिर्वा साधुता इति ( वाच० ) । ४ पौराणिकास्तु

साधुलक्षणयुक्तो जन इत्याहुः । तल्लक्षणं तु न प्रहृष्यति संमाने नाप-

माने च कुप्यति । न क्रुद्धः परुषं ब्रूयादेत साधुलक्षणम् ॥

(गरुडपु० ) इति । यथालब्धेपि संतुष्टः समचित्तो जितेन्द्रियः । हरि-

पादाश्रयो लोके विप्रः साधुरनिन्दकः ॥ निर्वैरः सदयः शान्तो दम्भा-

हंकारवर्जितः । निरपेक्षो मुनिर्वीतरागः साधुरिहोच्यते ॥ ( पद्मोत्त०

ख० अ० ९९ ) इति च । साध्वीलक्षणं तु पतिं या नाभिचरति

मनोवाक्कायसंयता । सा भर्तृलोकानाप्नोति सद्भिः साध्वीति चोच्यते ॥

( मनु० अ० ९ श्लो० २९ ) इति । ५ काव्यज्ञाश्च उत्तमकुलजातः ।

६ सुन्दरः । ७ उचितः । ८ मुनिः इत्याहुः । ९ जिनः इति जैना

आहुः ( हेमच० ) ।
 
-
 
]
 
-
 

 
<
साध्यता - >
१ विषयताविशेषः । तच [क पञ्चावयवसाधनीयत्वम्

(गौ०
वृ० ५/११४ ) । स च साधयामि साध्यविशेषं वह्वयादिकम्
 
(गौ०
 

१२६ न्या. को