This page has been fully proofread once and needs a second look.

काके कर्णपुटीकठोरनिनदे पीयूषधारारस-
स्यन्दोदञ्चितचारुपञ्चमरुते साधारणे मय्यपि।
वन्यां वृत्तिमयं व्यधादिति मुधा वत्स व्यथां मा कृथाः
क्व क्वैवं न कृतं जनेषु निकृतं दुर्मेधसा वेधसा ॥१०॥
 
<flag>उच्चावचं</flag> न कुरुत स्वनितं पतङ्गा-
स्तूर्णं मुखानि पशवो मुकुलीकुरुध्वं ।
कर्णं प्रदाय रसिकाः कलयन्तु हर्षं
तारं तनोति रणितं तरुणः पिकोऽयम् ॥११॥
 
काकानां प्रीतियोगं चिरसहवसतिं कोकिलापेक्षसे चेत्
तर्हि त्वं तद्वदेव श्रवणपुटपटून् कुत्सितान्कूज शब्दान् ।
अभ्यासस्तत्र नो चेत्तव गलदमृता गीरियं गुप्यतां वा
तामाकर्ण्य स्वजातेरननुगुणगुणं त्वाममी सन्त्यजेयुः ॥१२॥
 
पलाशौघं पाण्डुं पतितकुसुमं वृन्तनिचयं
लताजालं जीर्णं जलरुहकुलं कर्कशदलम् ।
अभृङ्गीसङ्गीतं तरुसमुदयं वीक्ष्य सदयं
मुहुर्ध्यायंध्यायं मनसि सुरभिं मूर्च्छति पिकः ॥१३॥
 
प्रेम्णा नित्यं फलकिसलयैः प्रीणयामास यस्त्वाम्
व्याप्ता <flag>यस्माजगति</flag> भवतो वाग्विभूतेश्च कीर्तिः ।
मासे तस्मिन्नखिलसुमनोमेदुरामोदहेता-
वस्तं याते परभृतपते वाग्विरामो वरं ते ॥१४॥