This page has not been fully proofread.

काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-
स्तन्व्या बाप्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ॥
 
सा वस्त्राञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्भुजलता न न्यस्ता । नापि
चरणयुगले लुठितम् । तिष्टेति वचनमपि नोक्तम् । कथं तर्हे निवारित इत्याह – काल
इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये
निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाक्या केवलमश्रुकल्लोलकल्पितनदीपूरेण वल्लभो
निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्य मश्रुभिरेव कृतमित्यनेन मेघाक्षे-
पेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा - 'काले
जलदकुलाकुलदशदिशि पूर्व वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते
गगनम् ॥
 
काचित परपुरुषानुरागिणी कस्याश्चिज्जरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्खदुःखं
निवेदयति -
 
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सुरचितां शक्नोमि न ब्रीडया ।
लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥
 
हे मातः, कं शरणं व्रजामि । अपि तुन कमपि । तस्माद्धृदय एव केवलं संतापहेतु-
त्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याह-
आस्वामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं
तावदास्ताम् । ताः कस्याप्यमे स्फुटित्वा कथयेयुरित्यर्थः । तर्हि स्वयं दूतीविलसितं कि-
मिति नारभ्यते इत्याह - इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन त
स्मिञ्जने दृष्टिमप्यारोपयितुं लज्जया न शक्नोमि । का कथा गमनानयनादिकार्यस्य ।
तर्हि लज्जां परित्यज्य तदवलोकनरसाखादेनैव किमिति कालो नातिवाह्यत इत्याह-
एष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन
सूक्ष्मेङ्गितज्ञोऽपि । अपिशब्दः । समुच्चये । सूक्ष्मेङ्गितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति
तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः ।
यथा राज्ञः श्रीहर्षदेवस्य – 'दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा । पिअसहि
विसमं पेम्मं मरणं सरणं णवर एकम् ॥'
 
१ 'सललितां' इति शृङ्गारदीपिका. २. 'दुर्लभजनानुरागो लज्जा गुर्वी परवश
आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥' इति च्छाया.