2022-10-16 05:41:56 by Dhunee_Sarayu
This page has been fully proofread once and needs a second look.
ईर्ष्याविकार संवरणार्थमाघ्राणच्छद्मना मुखप्रत्यासन्नीकृतस्य लीलातामरसस्योदरे कु-
रङ्गलोचनायाः श्वासा निसृत्य निसृत्य प्रौढापमानजन्मनाभिषङ्गेणान्तर्निरुद्धतया समाप्तिं
गताः । किं कृत्वा । अन्याङ्गनाया मण्डनं तदिदं प्रेयसः संक्रान्तमत एव कोपविधायि
प्रभाते चिरं दृष्ट्वा । इदं किम् । ललाटपट्टमभितस्तत्प्रसादनपादपतनानुमापकं लाक्षा-
लक्ष्म । तदालिङ्गनशंसिनी केयूरमुद्रा कण्ठे । तल्लोचनचुम्बन सूचको वक्त्रे कज्जलका-
लिमा । अपरश्च तत्कृतचुम्बन पिशुनो नयनयोस्ताम्बूलरागः । अहेतुरलंकारः । यदुक्तम्-
' —
"बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसा-
वहेतुरिति ॥' '" "ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्या कषायिता'" इत्यनेन खण्डिता नायिका ।
धृष्टो नायकः । यच्चेदं लीलातामरसं तदवश्यं विरहसंतापप्रतिविधानोपनत सखीजनोपनी-
तशीतोपचारीयम् ॥
काचित्प्राणपरित्यागकृताध्यवसाया देशान्तरं प्रस्थितं प्रियं प्रत्याह- —
लो[^१]लैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
रैर[^२]न्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पु[^३]ण्याहं व्रज मङ्गलं सु[^४]दिवसः प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रिय[^५] मया तन्निर्गतः श्रोष्यसि ॥ ६१ ॥
अन्यास्ताः प्राणलोभेन कृपणाः स्त्रियः न त्वहम् । याः प्रस्थितं प्राणेश्वरं निवार-
यन्ति । कैः । झलज्झलायमानैर्बाष्पाम्बुभिः । न केवलं तैः । किं तु यदि त्वं यास्यसि
तदा तेऽमुकस्य शपथ इति सशपथैश्चरणप्रणामैः । किंविशिष्टैः । अनुरागव्यञ्जकत्वा-
त्प्रियैः । अहं पुनरेवं वच्मि-— हे प्रिय, पुण्याहं कल्याणं सुदिनं ते तस्माद्यदृच्छया
गच्छ । यच्च तव प्रोषितस्य स्नेहोचितं मया किंचिदीप्सितमस्ति तन्निश्चयेन गतः सन्क-
स्मादपि पथिकादाकर्णयिष्यसि । अथ च यद्यहमिदानीमेव प्राणान्मुञ्चामि तदा तवाम-
ङ्गलं स्यात् । अत एव पुण्याहमित्यादि । पराभवोऽलंकारः । आशीर्वचनाक्षेपश्च ।
यथा– '— "गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भू-
याद्यत्र गतो भवान् ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैव
कान्तयात्रा निषिध्यते" ॥
काचिन्निजसख्याः स्वयं स्थापितप्रतिष्ठासु भर्तृकायाः स्वरूपं सिद्धसमीहितत्वेनान्या-
सामग्रे कथयति-—
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पित[^६]
नो वा पादयुगे स्व[^७]यं निपतितं तिष्ठेति नोक्तं वचः ।
[^१. '] "वान्तैः'" इति शृङ्गारदीपिका. [^२. '] "अन्यैः'" इति शृङ्गारदीपिका. [^३. '] "धन्याहं'"
इति शृङ्गारदीपिका. [^४. '] "सुदिवस'सं" इति शृङ्गारदीपिका. [^५. '] "प्रियतम त्वं निर्गतः'" इति
शृङ्गारदीपिका. [^६. '] "स्थितं'" इति शृङ्गारदीपिका. ७. '"मुहुः'" इति शृङ्गारदीपिका.
रङ्गलोचनायाः श्वासा निसृत्य निसृत्य प्रौढापमानजन्मनाभिषङ्गेणान्तर्निरुद्धतया समाप्तिं
गताः । किं कृत्वा । अन्याङ्गनाया मण्डनं तदिदं प्रेयसः संक्रान्तमत एव कोपविधायि
प्रभाते चिरं दृष्ट्वा । इदं किम् । ललाटपट्टमभितस्तत्प्रसादनपादपतनानुमापकं लाक्षा-
लक्ष्म । तदालिङ्गनशंसिनी केयूरमुद्रा कण्ठे । तल्लोचनचुम्बन
लिमा । अपरश्च तत्कृतचुम्बन
'
"बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसा-
वहेतुरिति ॥
धृष्टो नायकः । यच्चेदं लीलातामरसं तदवश्यं विरहसंतापप्रतिविधानोपनत
तशीतोपचारीयम् ॥
काचित्प्राणपरित्यागकृताध्यवसाया देशान्तरं प्रस्थितं प्रियं प्रत्याह
लो[^१]लैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
पु[^३]ण्याहं व्रज मङ्गलं सु[^४]दिवसः प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रिय[^५] मया तन्निर्गतः श्रोष्यसि ॥ ६१ ॥
अन्यास्ताः प्राणलोभेन कृपणाः स्त्रियः न त्वहम् । याः प्रस्थितं प्राणेश्वरं निवार-
यन्ति । कैः । झलज्झलायमानैर्बाष्पाम्बुभिः । न केवलं तैः । किं तु यदि त्वं यास्यसि
तदा तेऽमुकस्य शपथ इति सशपथैश्चरणप्रणामैः । किंविशिष्टैः । अनुरागव्यञ्जकत्वा-
त्प्रियैः । अहं पुनरेवं वच्मि
गच्छ । यच्च तव प्रोषितस्य स्नेहोचितं मया किंचिदीप्सितमस्ति तन्निश्चयेन गतः सन्क-
स्मादपि पथिकादाकर्णयिष्यसि । अथ च यद्यहमिदानीमेव प्राणान्मुञ्चामि तदा तवाम-
ङ्गलं स्यात् । अत एव पुण्याहमित्यादि । पराभवोऽलंकारः । आशीर्वचनाक्षेपश्च ।
यथा
याद्यत्र गतो भवान् ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैव
कान्तयात्रा निषिध्यते" ॥
काचिन्निजसख्याः स्वयं स्थापितप्रतिष्ठासु भर्तृकायाः स्वरूपं सिद्धसमीहितत्वेनान्या-
सामग्रे कथयति
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पित[^६]
नो वा पादयुगे स्व[^७]यं निपतितं तिष्ठेति नोक्तं वचः ।
[^१.
इति शृङ्गारदीपिका. [^४.
शृङ्गारदीपिका. [^६.