सूर्यशतकम्

Click on words to see what they mean.

जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुंरक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यैभूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥
भक्तिप्रदाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनांलक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याःकल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तःप्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा-नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥
प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्प्रा-ग्जन्तूस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालंशश्वत्संपादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥
न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधी: प्रोषिताभाभास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।पक्षच्छेदत्रणासृ क्स्रुत इव दृषदो दर्शयन्प्रातरद्रे-राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥
शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषा-न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः ।धर्मीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-र्दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ६ ॥
बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वःक्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।ध्वान्तादाच्छिद्य देवद्विष इव बलितो विश्वमाश्वनुवानाःकृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥
उद्गाटेनारुणिम्रा विदधति बहुलं येऽरुणस्यारुणत्वंमूर्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशतुप्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥
दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिःपूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यन्हि संहारभाजः ।दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावोगावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥
बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनांलोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।युष्माकं ते स्वचित्तप्रथितष्टथुतरप्रायार्थनाकल्पवृक्षाःकल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥
धारा रायो घनायापदि सपदि करालम्बभूताः प्रपातेतत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-स्त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः कल्मषाद्वः ॥ ११ ॥
प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वंमुञ्चन्त्यो रोचनाम्भः प्रचरमिव दिशामुच्चकैश्चर्चनाय ।चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्च्यमाना-श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥
एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो-र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥ १३ ॥
आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेवग्रीष्मे दावाग्रितप्ता इव रसमसकृद्ये धरित्र्या धयन्ति ।ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्तौमार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीशवो वो भवन्तु ॥ १४ ॥
तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था-मारूढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमानाश्मश्रुश्रेणीव भासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १९ ॥
मौलीन्दोर्मैष मोषीद्द्यु तिमिति वृषभाङ्केन यः शङ्किनेवप्रत्यग्रोद्धाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा ।कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नेुनेव स्तुतोऽलंत्राणाय स्तात्तनीयानपि तिमिररिपोः स त्विषामुद्गमो वः ॥ १६ ॥
विस्तीर्णं व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धी-न्कुर्वद्भिर्दृश्यनानानगनगरनगाभोगपृथ्वीं च पृथ्वीम् ।पद्मिन्युच्छ्वास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा-मुस्रा विस्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥
अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशोविश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यांयातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥ १८ ॥
मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकंलोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्निस्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥
अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारेसद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहानेतत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥
यत्कान्तिं पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यांनो धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ।कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥ २१ ॥
क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरजलस्पर्शतर्षादृतेवद्रागाशा नेतुमाशाद्विरदकरसरःपुष्कराणीव बोधम् ।प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-स्युद्दामं द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥
नो कल्पापायवायोरदयरयदलत्क्ष्माघरस्यापि गम्यागाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वोवर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥
निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपापर्याप्तं नोदयादौ दिनगमसमयोप्लवेऽप्युन्नतैव ।अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुंब्रध्नस्येद्धा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥ २४ ॥
बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वींकुर्वाणो लीलयाघः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।आदध्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानांबालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥
ज्योत्स्नांशाकर्षपाण्डुद्युति तिमिरमषीशेषकल्माषमीष-ज्जृम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ।प्रातः प्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्तीकान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥ २६ ॥
आयान्ती किं सुमेरो: सरणिररुणिता पाद्मरागैः परागै-राहोस्वित्स्वस्य माहारजनविरचिता वैजयन्ती रथस्य ।माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु लोकै-राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभावः ॥ २७ ॥
ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्तिन्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदह्नस्त्विषं यः ।स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥
तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणुप्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्तिज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥
रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशंवह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।यच्च त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वोबाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥
मीलच्चक्षुर्विजिह्मश्रुति जडरसनं निम्नितघ्राणवृत्तिस्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ।विस्त्रस्ताङ्गं पतित्वा स्वपदपहरतादश्रियं वोऽर्कजन्माकालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥
निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारिस्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धंवध्याद्ब्रध्नस्य सिद्धाञ्जनविधिरपरः प्राक्तनोऽर्चिःप्रचारः ॥ ३२ ॥
भूत्वा जम्भस्य भेत्तुः ककुभि परिभवारम्भभूः शुभ्रभानो-र्बिभ्राणा बभ्रुभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ।भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्रा-ग्विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥
संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्यायामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-दुद्यन्बालप्रवालप्रतिमरुचिरहः पादपप्राक्प्ररोहः ॥ ३४ ॥
भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेवत्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥
गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाद्यै-राद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य ।आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य-न्नुद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥
आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणा-मेणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो-राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥
सानौ सा नौदये नारुणितदलपुनर्यौवनानां वनाना-मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।भा वोऽभावोपशान्तिं दिशतु दिनपतेर्भासमाना समानाराजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥
उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायैपुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विघातम् ।पूर्वाद्रेरेव पूर्वं दिवमनु च पुनः पावनी दिङ्मुखाना-मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥
वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चै-र्वैरञ्चानां तथोच्चारितचतुरऋचां चाननानां चतुर्णाम् ।उच्येतार्चासु वाच्यच्युतिशुचि चरितं यस्य नोच्चैर्विविच्यप्राच्यं वर्चश्र्वकासच्चिरमुपचिनुतात्तस्य चण्डार्चिषो वः ॥ ४० ॥
मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रेदिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशःशोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥
अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीतेयाति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युष:पारिजाते ।उद्यन्त्यारक्तपीताम्बरविशदतरोद्वीक्षिता तीक्ष्णभानो-र्लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपुटापाश्रया श्रेयसे वः ॥ ४२ ॥
नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्यायस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।तेजोरूपापरैव त्रिषु भुवनतलेष्वादधाना व्यवस्थांसा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलामोद्गता वः ॥ ४३ ॥
रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तःपातङ्गाः पङ्ग्वज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥
प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-रेकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते -रभ्याशाकाशगङ्गाजलसरलगलावाङ्मताग्रानना वः ॥ १९ ॥
मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृृष्टदेहा द्रवन्तीव्यस्तेऽहन्यस्तसंध्येयमिति मृदुपंदा पद्मरागोपलेषु ।सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूृता सुमेरो-मूर्धन्यावृत्तिलब्धध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टास्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेन ।निर्व्याजं तायमाने हरितिमनि निजे स्फीतफेनाहितश्री-रश्रेयस्यश्वपङ्किः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥
मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकायेवीक्ष्य त्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।सूतेऽसूयत्यपीषज्जडगति वहतां कंधराधैर्वलद्भि-र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥
धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-स्तालूत्तानैः खलीनैः खचितमुखरुचश्र्व्योतता लोहितेन ।उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुःक्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥ ४९ ॥
प्रातःशैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी-र्विक्षिप्यापूर्वपुष्पाञ्जलिमुड्डुनिकरं सूत्रधारायमाणः ।यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव जातप्रतिष्ठा-मव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥ ५० ॥
आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणांभ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपिस्थाम्नां धाम्नां निधिर्यः स भवदवनुदे नूतनः स्तादनूरुः ॥ ५१ ॥
दत्तार्घैर्दूरनम्रैर्वियति विनयतो वीक्षितः सिद्धसार्थैःसानाथ्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासोयः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ ५२ ॥
मुञ्चन्रश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-स्तोत्रप्रख्यातवीर्योऽविरतहरिपदाक्रान्तिबद्धाभियोगः ।कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानांसेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ ५३ ॥
शातः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिःप्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।ऐक्यं भिन्दन्द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधंवाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ ५४ ॥
पौरस्त्यस्तोयदर्तोः पवन इव पतत्पावकस्येव धूमोविश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः ।संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादःसौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥
पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशा-वासीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः ।यः सोत्कर्षीं विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरो-रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥ ५६ ॥
नीत्वाश्वान्सप्त कक्षा इव नियमवशं वेत्रकल्पप्रतोद -स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ।पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥
वज्रिञ्जातं विकासीक्षणकमलवनं भासि नाभासि वह्नेतातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ ।सप्तीन्सिञ्च प्रचेतः पवन भज जवं वित्तपावेदितस्त्वंवन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ १८ ॥
पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थंतृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो-स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥ ५९ ॥
नो मूर्छाछिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषीपान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।यः संश्रित्य त्रिलोकीमटति पटुतरेस्ताप्यमानो मयूखै-रारादाराम लेखामिव हरितमणिश्यामलामश्वपङ्किम् ॥ ६० ॥
सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याःस्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताःपूष्णोऽश्वाः पूरयंस्तैस्तदवतु जवनैर्हुंकृतेनाग्रगो वः ॥ ६१ ॥
पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामःप्राह्णे श्रेयो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥
ध्वान्तौघध्वंसदीक्षाविधिपटु वहता प्राक्सहस्रं कराणा-मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुंस्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भावतः स्यन्दनोऽस्तु ॥६३ ॥
योक्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशकान्दधानोद्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥
एकाहेनैव दीर्घां त्रिभुवनपदवीं लङ्घयन्यो लविष्ठःपृष्ठे मेरोर्गरीयान्दलितमणिदृषविषि पिंषञ्शिरांसि ।सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्ध्निब्रघ्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥
धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूरंराहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।श्रान्ताश्वश्वासहेलाधुतविबुधधुननिर्झराम्भांसि भद्रंदेयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥
अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रंधूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यंवन्दन्ते यं द्युमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥
उत्कीर्णस्वर्णरेणुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै-रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्यस्वोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥
नन्तुं नाकालयानामनिशमनुयतां पद्धतिः पङ्किरेवक्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।हेषाह्रा दो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादोयस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९ ॥
निःस्पन्दानां विमानावलिविततदिवां देववृन्दारकाणांवृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दिराभेमन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥
चक्री चक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता-नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्यस्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥
नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिःपादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वोदिश्यालक्ष्मीमपारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥
यज्ज्यायो बीजमह्नामपहततिमिरं चक्षुषामञ्जनं य-द्दूरं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-द्दिश्यादीशस्य भासां तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥
वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्र्यग्रहोडुस्तोकोद्भिन्नस्य चिहप्रसवमिव मधोरास्यमस्यन्मनांसि ।प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेःपौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥
प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचल: पद्मरागेण येनज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।कालव्यालस्य चिह्नं महिततममहोमूर्ध्नि रत्नं महद्य-द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥
कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वोमार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥
यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वोविश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥
शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनांयेनोत्तप्ताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छ्रा-त्संहृत्यालोकमात्र प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥
उद्यद्दच्यानवाप्यां बहुलतमतमः पङ्कपूरं विदार्यप्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानो-रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥
चक्षुर्दक्षद्विषो यर्न् तु दहति पुरः पूरयत्येव कामंनास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।यद्वीतश्रान्ति शश्वद्भद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्तिब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥
सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भंगीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।सार्घं साध्यैर्मुनीन्द्रैर्मुदिततममनो मोक्षिभिः पक्षपाता-त्प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥
भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा-च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः ।निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रिप्रकारंतप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटकाद्रिम् ॥ ८२ ॥
नो शुष्कं नाकनद्या विकसितकनकाम्भोजया भ्राजितं तुप्लुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥ ८३ ॥
ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपिप्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणांसोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥
लोटँल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहःसंदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।निःश्वासायासनिष्ठः परमपरवशो जायते जीवलोकःशोकेनेवान्यलोकानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥
क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिंनृृणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायीभूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥
व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टानेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मांयस्मिंस्त्रैलोक्यमेवं न चलति तपति तात्स सूर्यः श्रिये वः ॥ ८७ ॥
कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तःश्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।योगोद्योगैकतानो गमयति सकलं वासरं स्व स्वयंभू-र्भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥
एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानिद्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रोवर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९ ॥
नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणांसर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।येनादित्याभिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तुस्तुत्यस्त्रैलोक्यवन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमाञ्श्रेयसे वः ॥ ९० ॥
भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानां यथाप्रार्थितार्यैः ।लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-ण्येवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१ ॥
प्राक्वालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभोभक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलंदेवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥ ९२ ॥
यः स्रष्टापां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेकोलोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना ।सद्यः सिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखः स्ताद्विभक्तोद्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ॥
साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राक्दृशो यःसादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्माशंशास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥
तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनांनोदन्वन्तो नुदन्ति प्रतिभयमशुभं श्वभ्रपातानुबन्धि ।आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्रत्रातुं यातेऽन्यलोकान्स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९५ ॥
एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेवत्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥
द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ।यद्वश्यौ देशकालाविति नियमयतो नो तु यं देशकाला-वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥
व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरु भरैर्नो समग्रैरुदग्रैःप्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम् ।उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥
योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौमृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता-स्तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥
देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विदर्योरक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदासौसर्वाकारोपकारी दिशतु दशशताभीपुरभ्यर्थितं वः ॥ १०० ॥
[ श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्यायुक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षंविद्यामैश्वर्यमर्थं सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥
« »