<?xml version='1.0' encoding='utf-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <title>सूर्यशतकम्</title>
      <author>मयूरभट्टः</author>
    </fileDesc>
    <publicationStmt>
      <publisher>Ambuda (https://ambuda.org)</publisher>
      <availability>TODO</availability>
    </publicationStmt>
    <notesStmt>
      <note>This text has been created by direct export from Ambuda's proofing system.</note>
    </notesStmt>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
    </encodingDesc>
  </teiHeader>
  <text>
    <body>
      <lg n="1">
        <l>जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं</l>
        <l>रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।</l>
        <l>आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै</l>
        <l>भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>भक्तिप्रदाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां</l>
        <l>लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।</l>
        <l>कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः</l>
        <l>कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः</l>
        <l>प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।</l>
        <l>निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा-</l>
        <l>नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्प्रा-</l>
        <l>ग्जन्तूस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।</l>
        <l>ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं</l>
        <l>शश्वत्संपादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधी: प्रोषिताभा</l>
        <l>भास्वद्ग्रावोद्गतेन प्रथममिव कृताभ्युद्गतिः पावकेन ।</l>
        <l>पक्षच्छेदत्रणासृ क्स्रुत इव दृषदो दर्शयन्प्रातरद्रे-</l>
        <l>राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>शीर्णघ्राणाङ्घ्रिपाणीन्व्रणिभिरपघनैर्घर्घराव्यक्तघोषा-</l>
        <l>न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः ।</l>
        <l>धर्मीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-</l>
        <l>र्दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>बिभ्राणा वामनत्वं प्रथममथ तथैवांशवः प्रांशवो वः</l>
        <l>क्रान्ताकाशान्तरालास्तदनु दशदिशः पूरयन्तस्ततोऽपि ।</l>
        <l>ध्वान्तादाच्छिद्य देवद्विष इव बलितो विश्वमाश्वनुवानाः</l>
        <l>कृच्छ्राण्युच्छ्रायहेलोपहसितहरयो हारिदश्वा हरन्तु ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>उद्गाटेनारुणिम्रा विदधति बहुलं येऽरुणस्यारुणत्वं</l>
        <l>मूर्धोद्धूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु ।</l>
        <l>शैलानां शेखरत्वं श्रितशिखरिशिखास्तन्वते ये दिशतु</l>
        <l>प्रेङ्खन्तः खे खरांशोः खचितदिनमुखास्ते मयूखाः सुखं वः ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>दत्तानन्दाः प्रजानां समुचितसमयाकृष्टसृष्टैः पयोभिः</l>
        <l>पूर्वाह्णे विप्रकीर्णा दिशि दिशि विरमत्यन्हि संहारभाजः ।</l>
        <l>दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदन्वदुत्तारनावो</l>
        <l>गावो वः पावनानां परमपरिमितां प्रीतिमुत्पादयन्तु ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>बन्धध्वंसैकहेतुं शिरसि नतिरसाबद्धसंध्याञ्जलीनां</l>
        <l>लोकानां ये प्रबोधं विदधति विपुलाम्भोजखण्डाशयेव ।</l>
        <l>युष्माकं ते स्वचित्तप्रथितष्टथुतरप्रायार्थनाकल्पवृक्षाः</l>
        <l>कल्पन्तां निर्विकल्पं दिनकरकिरणाः केतवः कल्मषस्य ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>धारा रायो घनायापदि सपदि करालम्बभूताः प्रपाते</l>
        <l>तत्त्वालोकैकदीपास्त्रिदशपतिपुरप्रस्थितौ वीथ्य एव ।</l>
        <l>निर्वाणोद्योगियोगिप्रगमनिजतनुद्वारि वेत्रायमाणा-</l>
        <l>स्त्रायन्तां तीव्रभानोर्दिवसमुखसुखा रश्मयः कल्मषाद्वः ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणित्वं</l>
        <l>मुञ्चन्त्यो रोचनाम्भः प्रचरमिव दिशामुच्चकैश्चर्चनाय ।</l>
        <l>चाटूत्कैश्चक्रनाम्नां चतुरमविचलैर्लोचनैरर्च्यमाना-</l>
        <l>श्चेष्टन्तां चिन्तितानामुचितमचरमाश्चण्डरोचीरुचो वः ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>एकं ज्योतिर्दृशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भि</l>
        <l>र्भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि ।</l>
        <l>युष्माकं तानि सप्तत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानो-</l>
        <l>र्यान्ति प्राह्णे नवत्वं दश दधतु शिवं दीधितीनां शतानि ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणेव</l>
        <l>ग्रीष्मे दावाग्रितप्ता इव रसमसकृद्ये धरित्र्या धयन्ति ।</l>
        <l>ते प्रावृष्यात्तपानातिशयरुज इवोद्वान्ततोया हिमर्तौ</l>
        <l>मार्तण्डस्याप्रचण्डाश्चिरमशुभभिदेऽभीशवो वो भवन्तु ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था-</l>
        <l>मारूढप्रौढिलेशोत्कलितकपिलिमालंकृतिः केवलैव ।</l>
        <l>उज्जृम्भाम्भोजनेत्रद्युतिनि दिनमुखे किंचिदुद्भिद्यमाना</l>
        <l>श्मश्रुश्रेणीव भासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १९ ॥</l>
      </lg>
      <lg n="16">
        <l>मौलीन्दोर्मैष मोषीद्द्यु तिमिति वृषभाङ्केन यः शङ्किनेव</l>
        <l>प्रत्यग्रोद्धाटिताम्भोरुहकुहरगुहासुस्थितेनेव धात्रा ।</l>
        <l>कृष्णेन ध्वान्तकृष्णस्वतनुपरिभवत्रस्नेुनेव स्तुतोऽलं</l>
        <l>त्राणाय स्तात्तनीयानपि तिमिररिपोः स त्विषामुद्गमो वः ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>विस्तीर्णं व्योम दीर्घाः सपदि दश दिशो व्यस्तवेलाम्भसोऽब्धी-</l>
        <l>न्कुर्वद्भिर्दृश्यनानानगनगरनगाभोगपृथ्वीं च पृथ्वीम् ।</l>
        <l>पद्मिन्युच्छ्वास्यते यैरुषसि जगदपि ध्वंसयित्वा तमिस्रा-</l>
        <l>मुस्रा विस्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो</l>
        <l>विश्वं वेश्मेव दीपः प्रतिहततिमिरं यः प्रदेशस्थितोऽपि ।</l>
        <l>दिक्कालापेक्षयासौ त्रिभुवनमटतस्तिग्मभानोर्नवाख्यां</l>
        <l>यातः शातक्रतव्यां दिशि दिशतु शिवं सोऽर्चिषामुद्गमो वः ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>मा गान्म्लानिं मृणालीमृदुरिति दययेवाप्रविष्टोऽहिलोकं</l>
        <l>लोकालोकस्य पार्श्वं प्रतपति न परं यस्तदाख्यार्थमेव ।</l>
        <l>ऊर्ध्वं ब्रह्माण्डखण्डस्फुटनभयपरित्यक्तदैर्घ्यो द्युसीम्नि</l>
        <l>स्वेच्छावश्यावकाशावधिरवतु स वस्तापनो रोचिरोघः ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>अश्यामः काल एको न भवति भुवनान्तोऽपि वीतेऽन्धकारे</l>
        <l>सद्यः प्रालेयपादो न विलयमचलश्चन्द्रमा अप्युपैति ।</l>
        <l>बन्धः सिद्धाञ्जलीनां न हि कुमुदवनस्यापि यत्रोज्जिहाने</l>
        <l>तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>यत्कान्तिं पङ्कजानां न हरति कुरुते प्रत्युताधिक्यरम्यां</l>
        <l>नो धत्ते तारकाभां तिरयति नितरामाशु यन्नित्यमेव ।</l>
        <l>कर्तुं नालं निमेषं दिवसमपि परं यत्तदेकं त्रिलोक्या-</l>
        <l>श्चक्षुः सामान्यचक्षुर्विसदृशमघभिद्भास्वतस्तान्महो वः ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>क्ष्मां क्षेपीयः क्षपाम्भःशिशिरतरजलस्पर्शतर्षादृतेव</l>
        <l>द्रागाशा नेतुमाशाद्विरदकरसरःपुष्कराणीव बोधम् ।</l>
        <l>प्रातः प्रोल्लङ्घ्य विष्णोः पदमपि घृणयेवातिवेगाद्दवीय-</l>
        <l>स्युद्दामं द्योतमाना दहतु दिनपतेर्दुर्निमित्तं द्युतिर्वः ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>नो कल्पापायवायोरदयरयदलत्क्ष्माघरस्यापि गम्या</l>
        <l>गाढोद्गीर्णोज्ज्वलश्रीरहनि न रहिता नो तमःकज्जलेन ।</l>
        <l>प्राप्तोत्पत्तिः पतङ्गान्न पुनरुपगता मोषमुष्णत्विषो वो</l>
        <l>वर्तिः सैवान्यरूपा सुखयतु निखिलद्वीपदीपस्य दीप्तिः ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>निःशेषाशावपूरप्रवणगुरुगुणश्लाघनीयस्वरूपा</l>
        <l>पर्याप्तं नोदयादौ दिनगमसमयोप्लवेऽप्युन्नतैव ।</l>
        <l>अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकत्र वस्तुं</l>
        <l>ब्रध्नस्येद्धा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौर्जित्यगुर्वीं</l>
        <l>कुर्वाणो लीलयाघः शिखिनमपि लसच्चन्द्रकान्तावभासम् ।</l>
        <l>आदध्यादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां</l>
        <l>बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>ज्योत्स्नांशाकर्षपाण्डुद्युति तिमिरमषीशेषकल्माषमीष-</l>
        <l>ज्जृम्भोद्भूतेन पिङ्गं सरसिजरजसा संध्यया शोणशोचिः ।</l>
        <l>प्रातः प्रारम्भकाले सकलमपि जगच्चित्रमुन्मीलयन्ती</l>
        <l>कान्तिस्तीक्ष्णत्विषोऽक्ष्णां मुदमुपनयतात्तूलिकेवातुलां वः ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>आयान्ती किं सुमेरो: सरणिररुणिता पाद्मरागैः परागै-</l>
        <l>राहोस्वित्स्वस्य माहारजनविरचिता वैजयन्ती रथस्य ।</l>
        <l>माञ्जिष्ठी प्रष्ठवाहावलिविधुतशिरश्चामराली नु लोकै-</l>
        <l>राशङ्क्यालोकितैवं सवितुरघनुदे स्तात्प्रभातप्रभावः ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>ध्वान्तध्वंसं विधत्ते न तपति रुचिमन्नातिरूपं व्यनक्ति</l>
        <l>न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदह्नस्त्विषं यः ।</l>
        <l>स प्रातर्मा विरंसीदसकलपटिमा पूरयन्युष्मदाशा-</l>
        <l>माशाकाशावकाशावतरणतरुणप्रक्रमोऽर्कप्रकाशः ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत्प्रकर्षेण चाणु</l>
        <l>प्रत्यक्षं यत्परोक्षं यदिह यदपरं नश्वरं शाश्वतं च ।</l>
        <l>यत्सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यद्विदन्ति</l>
        <l>ज्योतिस्तद्द्विप्रकारं सवितुरवतु वो बाह्यमाभ्यन्तरं च ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>रत्नानां मण्डनाय प्रभवति नियतोद्देशलब्धावकाशं</l>
        <l>वह्नेर्दार्वादि दग्धुं निजजडिमतया कर्तुमानन्दमिन्दोः ।</l>
        <l>यच्च त्रैलोक्यभूषाविधिरघदहनं ह्लादि वृष्ट्याशु तद्वो</l>
        <l>बाहुल्योत्पाद्यकार्याधिकतरमवतादेकमेवार्कतेजः ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>मीलच्चक्षुर्विजिह्मश्रुति जडरसनं निम्नितघ्राणवृत्ति</l>
        <l>स्वव्यापाराक्षमत्वक्परिमुषितमनः श्वासमात्रावशेषम् ।</l>
        <l>विस्त्रस्ताङ्गं पतित्वा स्वपदपहरतादश्रियं वोऽर्कजन्मा</l>
        <l>कालव्यालावलीढं जगदगद इवोत्थापयन्प्राक्प्रतापः ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>निःशेषं नैशमम्भः प्रसभमपनुदन्नश्रुलेशानुकारि</l>
        <l>स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः ।</l>
        <l>दाता दृष्टिं प्रसन्नां त्रिभुवननयनस्याशु युष्मद्विरुद्धं</l>
        <l>वध्याद्ब्रध्नस्य सिद्धाञ्जनविधिरपरः प्राक्तनोऽर्चिःप्रचारः ॥ ३२ ॥</l>
      </lg>
      <lg n="33">
        <l>भूत्वा जम्भस्य भेत्तुः ककुभि परिभवारम्भभूः शुभ्रभानो-</l>
        <l>र्बिभ्राणा बभ्रुभावं प्रसभमभिनवाम्भोजजृम्भाप्रगल्भा ।</l>
        <l>भूषा भूयिष्ठशोभा त्रिभुवनभवनस्यास्य वैभाकरी प्रा-</l>
        <l>ग्विभ्रान्ति भ्राजमाना विभवतु विभवोद्भूतये सा विभा वः ॥ ३३ ॥</l>
      </lg>
      <lg n="34">
        <l>संसक्तं सिक्तमूलादभिनवभुवनोद्यानकौतूहलिन्या</l>
        <l>यामिन्या कन्ययेवामृतकरकलशावर्जितेनामृतेन ।</l>
        <l>अर्कालोकः क्रियाद्वो मुदमुदयशिरश्चक्रवालालवाला-</l>
        <l>दुद्यन्बालप्रवालप्रतिमरुचिरहः पादपप्राक्प्ररोहः ॥ ३४ ॥</l>
      </lg>
      <lg n="35">
        <l>भिन्नं भासारुणस्य क्वचिदभिनवया विद्रुमाणां त्विषेव</l>
        <l>त्वङ्गन्नक्षत्ररत्नद्युतिनिकरकरालान्तरालं क्वचिच्च ।</l>
        <l>नान्तर्निःशेषकृष्णश्रियमुदधिमिव ध्वान्तराशिं पिबन्स्ता-</l>
        <l>दौर्वः पूर्वोऽप्यपूर्वोऽग्निरिव भवदघप्लुष्टयेऽर्कावभासः ॥ ३५ ॥</l>
      </lg>
      <lg n="36">
        <l>गन्धर्वैर्गद्यपद्यव्यतिकरितवचोहृद्यमातोद्यवाद्यै-</l>
        <l>राद्यैर्यो नारदाद्यैर्मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य ।</l>
        <l>आसाद्यापद्यते यं पुनरपि च जगद्यौवनं सद्य उद्य-</l>
        <l>न्नुद्द्योतो द्योतितद्यौर्द्यतु दिवसकृतोऽसाववद्यानि वोऽद्य ॥ ३६ ॥</l>
      </lg>
      <lg n="37">
        <l>आवानैश्चन्द्रकान्तैश्च्युततिमिरतया तानवात्तारकाणा-</l>
        <l>मेणाङ्कालोकलोपादुपहतमहसामोषधीनां लयेन ।</l>
        <l>आरादुत्प्रेक्ष्यमाणा क्षणमुदयतटान्तर्हितस्याहिमांशो-</l>
        <l>राभा प्राभातिकी वोऽवतु न तु नितरां तावदाविर्भवन्ती ॥ ३७ ॥</l>
      </lg>
      <lg n="38">
        <l>सानौ सा नौदये नारुणितदलपुनर्यौवनानां वनाना-</l>
        <l>मालीमालीढपूर्वा परिहृतकुहरोपान्तनिम्ना तनिम्ना ।</l>
        <l>भा वोऽभावोपशान्तिं दिशतु दिनपतेर्भासमाना समाना</l>
        <l>राजी राजीवरेणोः समसमयमुदेतीव यस्या वयस्या ॥ ३८ ॥</l>
      </lg>
      <lg n="39">
        <l>उज्जृम्भाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णतायै</l>
        <l>पुष्णात्यालोकमात्रं न तु दिशति दृशां दृश्यमाना विघातम् ।</l>
        <l>पूर्वाद्रेरेव पूर्वं दिवमनु च पुनः पावनी दिङ्मुखाना-</l>
        <l>मेनांस्यैनी विभासौ नुदतु नुतिपदैकास्पदं प्राक्तनी वः ॥ ३९ ॥</l>
      </lg>
      <lg n="40">
        <l>वाचां वाचस्पतेरप्यचलभिदुचिताचार्यकाणां प्रपञ्चै-</l>
        <l>र्वैरञ्चानां तथोच्चारितचतुरऋचां चाननानां चतुर्णाम् ।</l>
        <l>उच्येतार्चासु वाच्यच्युतिशुचि चरितं यस्य नोच्चैर्विविच्य</l>
        <l>प्राच्यं वर्चश्र्वकासच्चिरमुपचिनुतात्तस्य चण्डार्चिषो वः ॥ ४० ॥</l>
      </lg>
      <lg n="41">
        <l>मूर्ध्न्यद्रेर्धातुरागस्तरुषु किसलयो विद्रुमौघः समुद्रे</l>
        <l>दिङ्मातङ्गोत्तमाङ्गेष्वभिनवनिहितः सान्द्रसिन्दूररेणुः ।</l>
        <l>सीम्नि व्योम्नश्च हेम्नः सुरशिखरिभुवो जायते यः प्रकाशः</l>
        <l>शोणिम्नासौ खरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥ ४१ ॥</l>
      </lg>
      <lg n="42">
        <l>अस्ताद्रीशोत्तमाङ्गे श्रितशशिनि तमःकालकूटे निपीते</l>
        <l>याति व्यक्तिं पुरस्तादरुणकिसलये प्रत्युष:पारिजाते ।</l>
        <l>उद्यन्त्यारक्तपीताम्बरविशदतरोद्वीक्षिता तीक्ष्णभानो-</l>
        <l>र्लक्ष्मीर्लक्ष्मीरिवास्तु स्फुटकमलपुटापाश्रया श्रेयसे वः ॥ ४२ ॥</l>
      </lg>
      <lg n="43">
        <l>नोदन्वाञ्जन्मभूमिर्न तदुदरभुवो बान्धवाः कौस्तुभाद्या</l>
        <l>यस्याः पद्मं न पाणौ न च नरकरिपूरःस्थली वासवेश्म ।</l>
        <l>तेजोरूपापरैव त्रिषु भुवनतलेष्वादधाना व्यवस्थां</l>
        <l>सा श्रीः श्रेयांसि दिश्यादशिशिरमहसो मण्डलामोद्गता वः ॥ ४३ ॥</l>
      </lg>
      <lg n="44">
        <l>रक्षन्त्वक्षुण्णहेमोपलपटलमलं लाघवादुत्पतन्तः</l>
        <l>पातङ्गाः पङ्ग्वज्ञाजितपवनजवा वाजिनस्ते जगन्ति ।</l>
        <l>येषां वीतान्यचिह्नोन्नयमपि वहतां मार्गमाख्याति मेरा-</l>
        <l>वुद्यन्नुद्दामदीप्तिर्द्युमणिमणिशिलावेदिकाजातवेदाः ॥ ४४ ॥</l>
      </lg>
      <lg n="45">
        <l>प्लुष्टाः पृष्ठेंऽशुपातैरतिनिकटतया दत्तदाहातिरेकै-</l>
        <l>रेकाहाक्रान्तकृत्स्नत्रिदिवपथपृथुश्वासशोषाः श्रमेण ।</l>
        <l>तीव्रोदन्यास्त्वरन्तामहितविहतये सप्तयः सप्तसप्ते -</l>
        <l>रभ्याशाकाशगङ्गाजलसरलगलावाङ्मताग्रानना वः ॥ १९ ॥</l>
      </lg>
      <lg n="46">
        <l>मत्वान्यान्पार्श्वतोऽश्वान्स्फटिकतटदृषदृृष्टदेहा द्रवन्ती</l>
        <l>व्यस्तेऽहन्यस्तसंध्येयमिति मृदुपंदा पद्मरागोपलेषु ।</l>
        <l>सादृश्यादृश्यमूर्तिर्मरकतकटके क्लिष्टसूृता सुमेरो-</l>
        <l>मूर्धन्यावृत्तिलब्धध्रुवगतिरवतु ब्रघ्नवाहावलिर्वः ॥ ४६ ॥</l>
      </lg>
      <lg n="47">
        <l>हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टा</l>
        <l>स्वर्वाहिन्याः सुदूरं जनितजवजया स्यन्दनस्य स्यदेन ।</l>
        <l>निर्व्याजं तायमाने हरितिमनि निजे स्फीतफेनाहितश्री-</l>
        <l>रश्रेयस्यश्वपङ्किः शमयतु यमुनेवापरा तापनी वः ॥ ४७ ॥</l>
      </lg>
      <lg n="48">
        <l>मार्गोपान्ते सुमेरोर्नुवति कृतनतौ नाकधाम्नां निकाये</l>
        <l>वीक्ष्य त्रीडानतानां प्रतिकुहरमुखं किंनरीणां मुखानि ।</l>
        <l>सूतेऽसूयत्यपीषज्जडगति वहतां कंधराधैर्वलद्भि-</l>
        <l>र्वाहानां व्यस्यताद्वः सममसमहरेर्हेषितं कल्मषाणि ॥ ४८ ॥</l>
      </lg>
      <lg n="49">
        <l>धुन्वन्तो नीरदालीर्निजरुचिहरिताः पार्श्वयोः पक्षतुल्या-</l>
        <l>स्तालूत्तानैः खलीनैः खचितमुखरुचश्र्व्योतता लोहितेन ।</l>
        <l>उड्डीयेव व्रजन्तो वियति गतिवशादर्कवाहाः क्रियासुः</l>
        <l>क्षेमं हेमाद्रिहृद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥ ४९ ॥</l>
      </lg>
      <lg n="50">
        <l>प्रातःशैलाग्ररङ्गे रजनिजवनिकापायसंलक्ष्यलक्ष्मी-</l>
        <l>र्विक्षिप्यापूर्वपुष्पाञ्जलिमुड्डुनिकरं सूत्रधारायमाणः ।</l>
        <l>यामेष्वङ्केष्विवाह्नः कृतरुचिषु चतुर्ष्वेव जातप्रतिष्ठा-</l>
        <l>मव्यात्प्रस्तावयन्वो जगदटनमहानाटिकां सूर्यसूतः ॥ ५० ॥</l>
      </lg>
      <lg n="51">
        <l>आक्रान्त्या वाह्यमानं पशुमिव हरिणा वाहकोऽग्र्यो हरीणां</l>
        <l>भ्राम्यन्तं पक्षपाताज्जगति समरुचिः सर्वकर्मैकसाक्षी ।</l>
        <l>शत्रुं नेत्रश्रुतीनामवजयति वयोज्येष्ठभावे समेऽपि</l>
        <l>स्थाम्नां धाम्नां निधिर्यः स भवदवनुदे नूतनः स्तादनूरुः ॥ ५१ ॥</l>
      </lg>
      <lg n="52">
        <l>दत्तार्घैर्दूरनम्रैर्वियति विनयतो वीक्षितः सिद्धसार्थैः</l>
        <l>सानाथ्यं सारथिर्वः स दशशतरुचेः सातिरेकं करोतु ।</l>
        <l>आपीय प्रातरेव प्रततहिमपयःस्यन्दिनीरिन्दुभासो</l>
        <l>यः काष्ठादीपनोऽग्रे जडित इव भृशं सेवते पृष्ठतोऽर्कम् ॥ ५२ ॥</l>
      </lg>
      <lg n="53">
        <l>मुञ्चन्रश्मीन्दिनादौ दिनगमसमये संहरंश्च स्वतन्त्र-</l>
        <l>स्तोत्रप्रख्यातवीर्योऽविरतहरिपदाक्रान्तिबद्धाभियोगः ।</l>
        <l>कालोत्कर्षाल्लघुत्वं प्रसभमधिपतौ योजयन्यो द्विजानां</l>
        <l>सेवाप्रीतेन पूष्णात्मसम इव कृतस्त्रायतां सोऽरुणो वः ॥ ५३ ॥</l>
      </lg>
      <lg n="54">
        <l>शातः श्यामालतायाः परशुरिव तमोऽरण्यवह्नेरिवार्चिः</l>
        <l>प्राच्येवाग्रे ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तोऽग्रहस्तः ।</l>
        <l>ऐक्यं भिन्दन्द्युभूम्योरवधिरिव विधातेव विश्वप्रबोधं</l>
        <l>वाहानां वो विनेता व्यपनयतु विपन्नाम धामाधिपस्य ॥ ५४ ॥</l>
      </lg>
      <lg n="55">
        <l>पौरस्त्यस्तोयदर्तोः पवन इव पतत्पावकस्येव धूमो</l>
        <l>विश्वस्येवादिसर्गः प्रणव इव परं पावनो वेदराशेः ।</l>
        <l>संध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः</l>
        <l>सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥ ५५ ॥</l>
      </lg>
      <lg n="56">
        <l>पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशा-</l>
        <l>वासीदत्स्यन्दनाश्वानुकृतिमरकते पद्मरागायमाणः ।</l>
        <l>यः सोत्कर्षीं विभूषां कुरुत इव कुलक्ष्माभृदीशस्य मेरो-</l>
        <l>रेनांस्यह्नाय दूरं गमयतु स गुरुः काद्रवेयद्विषो वः ॥ ५६ ॥</l>
      </lg>
      <lg n="57">
        <l>नीत्वाश्वान्सप्त कक्षा इव नियमवशं वेत्रकल्पप्रतोद -</l>
        <l>स्तूर्णं ध्वान्तस्य राशावितरजन इवोत्सारिते दूरभाजि ।</l>
        <l>पूर्वं प्रष्ठो रथस्य क्षितिभृदधिपतीन्दर्शयंस्त्रायतां व-</l>
        <l>स्त्रैलोक्यास्थानदानोद्यतदिवसपतेः प्राक्प्रतीहारपालः ॥ ५७ ॥</l>
      </lg>
      <lg n="58">
        <l>वज्रिञ्जातं विकासीक्षणकमलवनं भासि नाभासि वह्ने</l>
        <l>तातं नत्वाश्वपार्श्वान्नय यम महिषं राक्षसा वीक्षिताः स्थ ।</l>
        <l>सप्तीन्सिञ्च प्रचेतः पवन भज जवं वित्तपावेदितस्त्वं</l>
        <l>वन्दे शर्वेति जल्पन्प्रतिदिशमधिपान्पातु पूष्णोऽग्रणीर्वः ॥ १८ ॥</l>
      </lg>
      <lg n="59">
        <l>पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं</l>
        <l>तृष्णां कृष्णस्य चक्रे जहिहि नहि रथो याति मे नैकचक्रः ।</l>
        <l>योक्तुं युग्यं किमुच्चैःश्रवसमभिलषस्यष्टमं वृत्रशत्रो-</l>
        <l>स्त्यक्तान्यापेक्षविश्वोपकृतिरिति रविः शास्ति यं सोऽवताद्वः ॥ ५९ ॥</l>
      </lg>
      <lg n="60">
        <l>नो मूर्छाछिन्नवाञ्छः श्रमविवशवपुर्नैव नाप्यास्यशोषी</l>
        <l>पान्थः पथ्येतराणि क्षपयतु भवतां भास्वतोऽग्रेसरः सः ।</l>
        <l>यः संश्रित्य त्रिलोकीमटति पटुतरेस्ताप्यमानो मयूखै-</l>
        <l>रारादाराम लेखामिव हरितमणिश्यामलामश्वपङ्किम् ॥ ६० ॥</l>
      </lg>
      <lg n="61">
        <l>सीदन्तोऽन्तर्निमज्जज्जडखुरमुसलाः सैकते नाकनद्याः</l>
        <l>स्कन्दन्तः कंदरालीः कनकशिखरिणो मेखलासु स्खलन्तः ।</l>
        <l>दूरं दूर्वास्थलोत्का मरकतदृषदि स्थास्नवो यन्न याताः</l>
        <l>पूष्णोऽश्वाः पूरयंस्तैस्तदवतु जवनैर्हुंकृतेनाग्रगो वः ॥ ६१ ॥</l>
      </lg>
      <lg n="62">
        <l>पीनोरःप्रेरिताभ्रैश्चरमखुरपुटाग्रस्थितैः प्रातरद्रा-</l>
        <l>वादीर्घाङ्गैरुदस्तो हरिभिरपगतासङ्गनिःशब्दचक्रः ।</l>
        <l>उत्तानानूरुमूर्धावनतिहठभवद्विप्रतीपप्रणामः</l>
        <l>प्राह्णे श्रेयो विधत्तां सवितुरवतरन्व्योमवीथीं रथो वः ॥ ६२ ॥</l>
      </lg>
      <lg n="63">
        <l>ध्वान्तौघध्वंसदीक्षाविधिपटु वहता प्राक्सहस्रं कराणा-</l>
        <l>मर्यम्णा यो गरिम्णः पदमतुलमुपानीयताध्यासनेन ।</l>
        <l>स श्रान्तानां नितान्तं भरमिव मरुतामक्षमाणां विसोढुं</l>
        <l>स्कन्धात्स्कन्धं व्रजन्वो वृजिनविजितये भावतः स्यन्दनोऽस्तु ॥६३ ॥</l>
      </lg>
      <lg n="64">
        <l>योक्रीभूतान्युगस्य ग्रसितुमिव पुरो दन्दशकान्दधानो</l>
        <l>द्वेधाव्यस्ताम्बुवाहावलिविहितबृहत्पक्षविक्षेपशोभः ।</l>
        <l>सावित्रः स्यन्दनोऽसौ निरतिशयरयप्रीणितानूरुरेनः-</l>
        <l>क्षेपीयो वो गरुत्मानिव हरतु हरीच्छाविधेयप्रचारः ॥ ६४ ॥</l>
      </lg>
      <lg n="65">
        <l>एकाहेनैव दीर्घां त्रिभुवनपदवीं लङ्घयन्यो लविष्ठः</l>
        <l>पृष्ठे मेरोर्गरीयान्दलितमणिदृषविषि पिंषञ्शिरांसि ।</l>
        <l>सर्वस्यैवोपरिष्टादथ च पुनरधस्तादिवास्ताद्रिमूर्ध्नि</l>
        <l>ब्रघ्नस्याव्यात्स एवं दुरधिगमपरिस्पन्दनः स्यन्दनो वः ॥ ६५ ॥</l>
      </lg>
      <lg n="66">
        <l>धूर्ध्वस्ताग्र्यग्रहाणि ध्वजपटपवनान्दोलितेन्दूनि दूरं</l>
        <l>राहौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्यथानि ।</l>
        <l>श्रान्ताश्वश्वासहेलाधुतविबुधधुननिर्झराम्भांसि भद्रं</l>
        <l>देयासुर्वो दवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितानि ॥ ६६ ॥</l>
      </lg>
      <lg n="67">
        <l>अक्षे रक्षां निबध्य प्रतिसरवलयैर्योजयन्त्यो युगाग्रं</l>
        <l>धूःस्तम्भे दग्धधूपाः प्रहितसुमनसो गोचरे कूबरस्य ।</l>
        <l>चर्चाश्चक्रे चरन्त्यो मलयजपयसा सिद्धवध्वस्त्रिसंध्यं</l>
        <l>वन्दन्ते यं द्युमार्गे स नुदतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७ ॥</l>
      </lg>
      <lg n="68">
        <l>उत्कीर्णस्वर्णरेणुद्रुतखुरदलिता पार्श्वयोः शश्वदश्वै-</l>
        <l>रश्रान्तभ्रान्तचक्रक्रमनिखिलमिलन्नेमिनिम्ना भरेण ।</l>
        <l>मेरोर्मूर्धन्यघं वो विघटयतु रवेरेकवीथी रथस्य</l>
        <l>स्वोष्मोदक्ताम्बुरिक्तप्रकटितपुलिनोद्धूसरा स्वर्धुनीव ॥ ६८ ॥</l>
      </lg>
      <lg n="69">
        <l>नन्तुं नाकालयानामनिशमनुयतां पद्धतिः पङ्किरेव</l>
        <l>क्षोदो नक्षत्रराशेरदयरयमिलच्चक्रपिष्टस्य धूलिः ।</l>
        <l>हेषाह्रा दो हरीणां सुरशिखरिदरीः पूरयन्नेमिनादो</l>
        <l>यस्याव्यात्तीव्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथो वः ॥ ६९ ॥</l>
      </lg>
      <lg n="70">
        <l>निःस्पन्दानां विमानावलिविततदिवां देववृन्दारकाणां</l>
        <l>वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो ।</l>
        <l>मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्दरे मन्दिराभे</l>
        <l>मन्दारैर्मण्डितारं दधदरि दिनकृत्स्यन्दनः स्तान्मुदे वः ॥ ७० ॥</l>
      </lg>
      <lg n="71">
        <l>चक्री चक्रारपङ्क्तिं हरिरपि च हरीन्धूर्जटिर्धूर्ध्वजान्ता-</l>
        <l>नक्षं नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः ।</l>
        <l>रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य</l>
        <l>स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥ ७१ ॥</l>
      </lg>
      <lg n="72">
        <l>नेत्राहीनेन मूले विहितपरिकरः सिद्धसाध्यैर्मरुद्भिः</l>
        <l>पादोपान्ते स्तुतोऽलं बलिहरिरभसा कर्षणाबद्धवेगः ।</l>
        <l>भ्राम्यन्व्योमाम्बुराशावशिशिरकिरणस्यन्दनः संततं वो</l>
        <l>दिश्यालक्ष्मीमपारामतुलितमहिमेवापरो मन्दराद्रिः ॥ ७२ ॥</l>
      </lg>
      <lg n="73">
        <l>यज्ज्यायो बीजमह्नामपहततिमिरं चक्षुषामञ्जनं य-</l>
        <l>द्दूरं यन्मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः ।</l>
        <l>यद्वृष्ट्यम्भोनिधानं धरणिरससुधापानपात्रं महद्य-</l>
        <l>द्दिश्यादीशस्य भासां तदविकलमलं मङ्गलं मण्डलं वः ॥ ७३ ॥</l>
      </lg>
      <lg n="74">
        <l>वेलावर्धिष्णु सिन्धोः पय इव खमिवार्धोद्गताग्र्यग्रहोडु</l>
        <l>स्तोकोद्भिन्नस्य चिहप्रसवमिव मधोरास्यमस्यन्मनांसि ।</l>
        <l>प्रातः पूष्णोऽशुभानि प्रशमयतु शिरःशेखरीभूतमद्रेः</l>
        <l>पौरस्त्यस्योद्गभस्तिस्तिमिततमतमःखण्डनं मण्डलं वः ॥ ७४ ॥</l>
      </lg>
      <lg n="75">
        <l>प्रत्युप्तस्तप्तहेमोज्ज्वलरुचिरचल: पद्मरागेण येन</l>
        <l>ज्यायः किंजल्कपुञ्जो यदलिकुलशितेरम्बरेन्दीवरस्य ।</l>
        <l>कालव्यालस्य चिह्नं महिततममहोमूर्ध्नि रत्नं महद्य-</l>
        <l>द्दीप्तांशोः प्रातरव्यात्तदविकलजगन्मण्डनं मण्डलं वः ॥ ७५ ॥</l>
      </lg>
      <lg n="76">
        <l>कस्त्राता तारकाणां पतति तनुरवश्यायबिन्दुर्यथेन्दु-</l>
        <l>विद्राणा दृक्स्मरारेरुरसि मुररिपोः कौस्तुभो नोद्गभस्तिः ।</l>
        <l>वह्नेः सापह्नवेव द्युतिरुदयगते यत्र तन्मण्डलं वो</l>
        <l>मार्तण्डीयं पुनीताद्दिवि भुवि च तमांसीव मुष्णन्महांसि ॥ ७६ ॥</l>
      </lg>
      <lg n="77">
        <l>यत्प्राच्यां प्राक्चकास्ति प्रभवति च यतः प्राच्यसावुज्जिहाना-</l>
        <l>दिद्धं मध्ये यदह्नो भवति ततरुचा येन चोत्पाद्यतेऽहः ।</l>
        <l>यत्पर्यायेण लोकानवति च जगतां जीवितं यच्च तद्वो</l>
        <l>विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेऽस्तु ॥ ७७ ॥</l>
      </lg>
      <lg n="78">
        <l>शुष्यन्त्यूढानुकारा मकरवसतयो मारवीणां स्थलीनां</l>
        <l>येनोत्तप्ताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रा युगान्ते ।</l>
        <l>तच्चण्डांशोरकाण्डत्रिभुवनदहनाशङ्कया धाम कृच्छ्रा-</l>
        <l>त्संहृत्यालोकमात्र प्रलघु विदधतः स्तान्मुदे मण्डलं वः ॥ ७८ ॥</l>
      </lg>
      <lg n="79">
        <l>उद्यद्दच्यानवाप्यां बहुलतमतमः पङ्कपूरं विदार्य</l>
        <l>प्रोद्भिन्नं पत्रपार्श्वेष्वविरलमरुणच्छायया विस्फुरन्त्या ।</l>
        <l>कल्याणानि क्रियाद्वः कमलमिव महन्मण्डलं चण्डभानो-</l>
        <l>रन्वीतं तृप्तिहेतोरसकृदलिकुलाकारिणा राहुणा यत् ॥ ७९ ॥</l>
      </lg>
      <lg n="80">
        <l>चक्षुर्दक्षद्विषो यर्न् तु दहति पुरः पूरयत्येव कामं</l>
        <l>नास्तं जुष्टं मरुद्भिर्यदिह नियमिनां यानपात्रं भवाब्धौ ।</l>
        <l>यद्वीतश्रान्ति शश्वद्भद्रमदपि जगतां भ्रान्तिमभ्रान्ति हन्ति</l>
        <l>ब्रध्नस्याव्याद्विरुद्धक्रियमथ च हिताधायि तन्मण्डलं वः ॥ ८० ॥</l>
      </lg>
      <lg n="81">
        <l>सिद्धैः सिद्धान्तमिश्रं श्रितविधि विबुधैश्चारणैश्चाटुगर्भं</l>
        <l>गीत्या गन्धर्वमुख्यैर्मुहुरहिपतिभिर्यातुधानैर्यतात्म ।</l>
        <l>सार्घं साध्यैर्मुनीन्द्रैर्मुदिततममनो मोक्षिभिः पक्षपाता-</l>
        <l>त्प्रातः प्रारभ्यमाणस्तुतिरवतु रविर्विश्ववन्द्योदयो वः ॥ ८१ ॥</l>
      </lg>
      <lg n="82">
        <l>भासामासन्नभावादधिकतरपटोश्चक्रवालस्य तापा-</l>
        <l>च्छेदादच्छिन्नगच्छत्तुरगखुरपुटन्यासनिःशङ्कटङ्कैः ।</l>
        <l>निःसङ्गस्यन्दनाङ्गभ्रमणनिकषणात्पातु वस्त्रिप्रकारं</l>
        <l>तप्तांशुस्तत्परीक्षापर इव परितः पर्यटन्हाटकाद्रिम् ॥ ८२ ॥</l>
      </lg>
      <lg n="83">
        <l>नो शुष्कं नाकनद्या विकसितकनकाम्भोजया भ्राजितं तु</l>
        <l>प्लुष्टा नैवोपभोग्या भवति भृशतरं नन्दनोद्यानलक्ष्मीः ।</l>
        <l>नो शृङ्गाणि द्रुतानि द्रुतममरगिरेः कालधौतानि धौता-</l>
        <l>नीद्धं धाम द्युमार्गे म्रदयति दयया यत्र सोऽर्कोऽवताद्वः ॥ ८३ ॥</l>
      </lg>
      <lg n="84">
        <l>ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनः पाप्मनोऽपि</l>
        <l>प्राक्पादोपान्तभाजां जनयति न परं पङ्कजानां प्रबोधम् ।</l>
        <l>कर्ता निःश्रेयसानामपि न तु खलु यः केवलं वासराणां</l>
        <l>सोऽव्यादेकोद्यमेच्छाविहितबहुबृहद्विश्वकार्योऽर्यमा वः ॥ ८४ ॥</l>
      </lg>
      <lg n="85">
        <l>लोटँल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः</l>
        <l>संदेही प्राणितव्ये सपदि दश दिशः प्रेक्षमाणोऽन्धकाराः ।</l>
        <l>निःश्वासायासनिष्ठः परमपरवशो जायते जीवलोकः</l>
        <l>शोकेनेवान्यलोकानुदयकृति गते यत्र सोऽर्कोऽवताद्वः ॥ ८५ ॥</l>
      </lg>
      <lg n="86">
        <l>क्रामँल्लोलोऽपि लोकाँस्तदुपकृतिकृतावाश्रितः स्थैर्यकोटिं</l>
        <l>नृृणां दृष्टिं विजिह्मां विदधदपि करोत्यन्तरत्यन्तभद्राम् ।</l>
        <l>यस्तापस्यापि हेतुर्भवति नियमिनामेकनिर्वाणदायी</l>
        <l>भूयात्स प्रागवस्थाधिकतरपरिणामोदयोऽर्कः श्रिये वः ॥ ८६ ॥</l>
      </lg>
      <lg n="87">
        <l>व्यापन्नर्तुर्न कालो व्यभिचरति फलं नौषधीर्वृष्टिरिष्टा</l>
        <l>नेष्टैस्तृप्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि ।</l>
        <l>आशाः शान्ता न भिन्दत्यवधिमुदधयो बिभ्रति क्ष्माभृतः क्ष्मां</l>
        <l>यस्मिंस्त्रैलोक्यमेवं न चलति तपति तात्स सूर्यः श्रिये वः ॥ ८७ ॥</l>
      </lg>
      <lg n="88">
        <l>कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः</l>
        <l>श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।</l>
        <l>योगोद्योगैकतानो गमयति सकलं वासरं स्व स्वयंभू-</l>
        <l>र्भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥</l>
      </lg>
      <lg n="89">
        <l>एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानि</l>
        <l>द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेऽणुर्यजूंषि ।</l>
        <l>एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो</l>
        <l>वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९ ॥</l>
      </lg>
      <lg n="90">
        <l>नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां</l>
        <l>सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।</l>
        <l>येनादित्याभिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तु</l>
        <l>स्तुत्यस्त्रैलोक्यवन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमाञ्श्रेयसे वः ॥ ९० ॥</l>
      </lg>
      <lg n="91">
        <l>भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-</l>
        <l>प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानां यथाप्रार्थितार्यैः ।</l>
        <l>लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-</l>
        <l>ण्येवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१ ॥</l>
      </lg>
      <lg n="92">
        <l>प्राक्वालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो</l>
        <l>भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।</l>
        <l>सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं</l>
        <l>देवैर्देवः स पायादपर इव मुरारातिरह्नां पतिर्वः ॥ ९२ ॥</l>
      </lg>
      <lg n="93">
        <l>यः स्रष्टापां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको</l>
        <l>लोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना ।</l>
        <l>सद्यः सिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखः स्ताद्विभक्तो</l>
        <l>द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ॥</l>
      </lg>
      <lg n="94">
        <l>साद्रिद्यूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राक्दृशो यः</l>
        <l>सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।</l>
        <l>दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा</l>
        <l>शंशास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥</l>
      </lg>
      <lg n="95">
        <l>तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां</l>
        <l>नोदन्वन्तो नुदन्ति प्रतिभयमशुभं श्वभ्रपातानुबन्धि ।</l>
        <l>आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र</l>
        <l>त्रातुं यातेऽन्यलोकान्स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९५ ॥</l>
      </lg>
      <lg n="96">
        <l>एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-</l>
        <l>दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।</l>
        <l>यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव</l>
        <l>त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥</l>
      </lg>
      <lg n="97">
        <l>द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-</l>
        <l>र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ।</l>
        <l>यद्वश्यौ देशकालाविति नियमयतो नो तु यं देशकाला-</l>
        <l>वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥</l>
      </lg>
      <lg n="98">
        <l>व्यग्रैरग्र्यग्रहेन्दुग्रसनगुरु भरैर्नो समग्रैरुदग्रैः</l>
        <l>प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम् ।</l>
        <l>उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-</l>
        <l>मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥</l>
      </lg>
      <lg n="99">
        <l>योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौ</l>
        <l>मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।</l>
        <l>इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता-</l>
        <l>स्तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥</l>
      </lg>
      <lg n="100">
        <l>देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विदर्यो</l>
        <l>रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।</l>
        <l>एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदासौ</l>
        <l>सर्वाकारोपकारी दिशतु दशशताभीपुरभ्यर्थितं वः ॥ १०० ॥</l>
      </lg>
      <lg n="101">
        <l>[ श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या</l>
        <l>युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।</l>
        <l>आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं</l>
        <l>विद्यामैश्वर्यमर्थं सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥</l>
      </lg>
    </body>
  </text>
</TEI>