श्रीवैद्यनाथस्तवः

Click Settings to choose another script or language.
वेदवेद्य कृपाधार जगन्मूर्ते शुभप्रद ।अनादिवैद्य सर्वज्ञ वैद्यनाथ नमोऽस्तु ते ॥ १ ॥
गङ्गाधर महादेव चन्द्रवह्न्यर्कलोचन ।पिनाकपाणे विश्वेश वैद्यनाथ नमोऽस्तु ते ॥ २ ॥
वृषवाहन देवेश क्वचिकित्सचिकित्सक ।करुणाकर गौरीश वैद्यनाथ नमोऽस्तु ते ॥ ३ ॥
विधिविष्णुमुखैर्देवैरर्च्यमानपदाम्बुज ।अप्रमेय हरेशान वैद्यनाथ नमोऽस्तु ते ॥ ४ ॥
रामलक्ष्मणसूर्येन्दुजटायुःश्रुतिपूजित ।मदनान्तक सर्वेश वैद्यनाथ नमोऽस्तु ते ॥ ५ ॥
प्रपञ्चभिषगीशान नीलकण्ठ महेश्वर ।विश्वनाथ महादेव वैद्यनाथ नमोऽस्तु ते ॥ ६ ॥
उमापते लोकनाथ मणिमन्त्रौषधीश्वर ।दीनबन्धो दयासिन्धो वैद्यनाथ नमोऽस्तु ते ॥ ७ ॥
त्रिगुणातीत चिद्रूप तापत्रयविमोचन ।विरूपाक्ष जगन्नाथ वैद्यनाथ नमोऽस्तु ते ॥ ८ ॥
भूतप्रेतपिशाचादेरुच्चाटनविचक्षण ।कुष्टादिसर्वरोगाणां संहर्त्रे ते नमो नमः ॥ ९ ॥
जात्यन्धपङ्गुकुब्जादेर्दिव्यरूपप्रदायिने ।अनेकमृकजन्तूनां दिव्यवाग्दायिने नमः ॥ १० ॥
देवाः---स्वामिन् सर्वजगान्नाथ सर्वरोगचिकित्सक ।क्षुद्ररोगभयार्तान् नस्त्राहि त्राहि महाप्रभो ॥ ११ ॥
अचिकित्स्याचिकित्साय चाद्यन्तरहिताय च ।सर्वलोकैकवन्द्याय वैद्यनाथाय ते नमः ॥ १२ ॥
अप्रमेयाय महते सुप्रसन्नमुखाय च ।अभीष्टदायिने तुभ्यं वैद्यनाथाय ते नमः ॥ १३ ॥
मृत्युञ्जयाय शर्वाय मृडानीवामभागिने ।वेदवेद्याय रुद्राय वैद्यनाथाय ते नमः ॥ ४१ ॥
श्रीरामभद्रवन्द्याय जगतां हितकारिणे ।सोमार्धधारिणे तुभ्यं वैद्यनाथाय ते नमः ॥ १५ ॥
श्रीनीलकण्ठाय सौमित्रिपूजिताय मृडाय च ।चन्द्रवह्न्यर्कनेत्राय वैद्यनाथाय ते नमः ॥ १६ ॥
शिखिवाहनवन्द्याय सृष्टिस्थित्यन्तकारिणे ।मणिमन्त्रौषधेशाय वैद्यनाथाय ते नमः ॥ १७ ॥
गृध्रराजाभिवन्द्याय दिव्यगङ्गाधराय च ।जगन्नाथाय सर्वाय वैद्यनाथाय ते नमः ॥ १८ ॥
कुजवेदविधीन्द्राद्यैः पूजिताय चिदात्मने ।आदित्यचन्द्रवन्द्याय वैद्यनाथाय ते नमः ॥ १९ ॥
॥ इति श्रीवैद्यनाथस्तवः सम्पूर्णः ॥