श्रीरङ्गनाथस्तोत्रम्

Click Settings to choose another script or language.
श्रीरङ्गे शेषशायी विलसति भगवान् दिव्यवैकुण्ठनाथःकावेरी दिव्यगन्धा विलसति विरजा दिव्यतीर्थप्रशस्ता ।श्रीरङ्गं दिव्यरङ्गं विलसति नगरं दिव्यवैकुण्ठमेवश्रीमन्तः सूरिसङ्घा दिवि च विलसिता रङ्गदेशस्थभक्ताः ॥ १ ॥
प्रत्युप्तैः पद्मरागस्फटिकमरकतैर्दिव्यमाणिक्यसङ्घःप्राकारैर्गोपुराद्यैर्विलसति विमले दिव्यवैकुण्ठतुल्ये ।श्रीरङ्गे शेषशायी शतमखमणिभिस्तुल्यकल्याणगात्रोभक्तानां कल्पवृक्षो दिशतु मम सुखं रङ्गनाथो दयालुः ॥ २ ॥
अम्भोजाक्षः सुशीलः शुभगुणनिलयश्चन्द्रकान्ताननाब्जःवक्षःस्थल्यां विराजन्मणिवरकमलावत्सजाज्वल्यमानः ।माणिक्यच्छन्नमौलिर्मणिमयवलयो भक्तकल्याणदातावैकुण्ठः शेषशायी दिशतु मम सुखं रङ्गनाथो दयालुः ॥ ३ ॥
सर्वज्ञः सर्वशक्तः सकलगुणनिधिः सत्यकामः सुरेशःश्रीवत्सः श्रीनिवासः श्रितजनवरदः सर्वसौहार्दसिन्धुः ।श्रीरङ्गे दिव्यदेशे सकलजननिधौ शेषतल्पे शयानोमेघश्यामः कृपालुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ४ ॥
श्रीरङ्गश्रीनगर्यां ज्वलितमणिफणे नागराजे शयानःब्रह्माद्यैः सूरिसङ्घैः स्तुतपदकमलः सर्वलोकप्रसिद्धः ।मुग्धस्मेरः श्रुतीनां शिरसि विलसितः सिन्धुजावत्सवक्षाःकारुण्याब्धिर्वदान्यो दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ५ ॥
प्रत्यक्षं परमं पदं दिवि भुवि श्रीरङ्गमत्यद्भुतंतत्र श्रीभगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ।लक्ष्मीदिव्यनिवासकौस्तुभमणिः श्रीवत्सवक्षःस्थलोजीयाद् भूतदयालुरम्बुजमुखः श्रीवैष्णवानां निधिः ॥ ६ ॥
विलसतु मम चित्ते रङ्गनाथो दयालु-र्वितरतु मम सौख्यं कल्पकः स्वाश्रितानाम् ।स जयतु विबुधानां राजराजो मुकुन्दोविविधकनकभूषाप्रोज्ज्वलद्दिव्यगात्रः ॥ ७ ॥
वैकुण्ठतुल्यविमलाखिलदिव्यदेश-प्राधान्यलक्षितविलक्षणरङ्गपुर्याम् ।कल्याणकल्पकतरुं कमलायताक्षंशेषाङ्कशायिनमहं शरणं प्रपद्ये ॥ ८ ॥
रेखामयाब्जकलशध्वजशङ्खचक्र-वज्राद्यलंकृततलौ जितपद्मरागौ ।कान्ताववाङ्मनसगोचरसौकुमार्यौश्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ ९ ॥
कालाम्बुदश्यामलकोमलाङ्गंश्रीवत्सपीताम्बरकौस्तुभाद्यैः ।श्रीभूषणैर्भूषितमम्बुजाक्षंश्रीरङ्गराजं शरणं प्रपद्ये ॥ १० ॥
श्रीरङ्गनाथ मम नाथ तवाङ्घ्रिपद्म-कैङ्कर्यनिष्ठपरिचारकभृत्यभृत्यम् ।मां रक्ष दिव्यकृपया करुणामृताब्धेशीलादिमङ्गलगुणाकर भक्तबन्धो ॥ ११ ॥
मणिभूषणभूषितनीलतनोशरणागतवत्सल रङ्गनिधे ।कमलाधव मङ्गलवारिनिधेपरया कृपया परिपालय माम् ॥ १२ ॥
निखिलामलदैवतमौलिमणेभुवनाधिप मङ्गलसारनिधे ।शरणागतकल्पक रङ्गपतेपरया कृपया परिपालय माम् ॥ १३ ॥
अन्येषां किल दुर्लभश्च सततं स्वस्मिन्नभक्तात्मनांभक्तानां सुलभः प्रसन्नवदनः कल्याणदो वत्सलः ।स्वस्ति श्रीस्तनकुङ्कुमादरुणितश्रीनीलगात्रः सदादद्यान्मे भगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ॥ १४ ॥
उन्मीलत्पद्मगर्भद्युतितलमहसा न्यक्कृताः पद्मरागाःबाह्यैस्तेजःप्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः ।उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यक्कृताश्चन्द्रभासोभक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५ ॥
तत्तादृशौ विधिशिवादिकिरीटकोटि-प्रत्युप्तदिव्यनवरत्नमहःप्ररोहैः ।नीराजितौ मणिमयोज्ज्वलनूपुराढ्यौश्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६ ॥
आनूपुरार्पितमनोहरदिव्यपुष्प-सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यौश्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७ ॥
अम्भोजस्फारपादो नयनसुभगताकल्पकस्फारजङ्घःसौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।जाज्वल्यद्दिव्यशाटीविलसितकटिकः कौस्तुभस्फारवक्षाःचक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८ ॥
कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेरभास्व-द्दीप्रोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।सुभ्रूरेखः सुफालो मणिमयमकुटस्त्वञ्जनश्यामकेशःश्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः१९ ॥
मणिप्रवरभूषणं मकुटदीप्रनीलालकंविचित्रमणिनूपुरप्रविलसत्पदाम्भोजकम् ।सरोभवनिभाननं सरसिजेक्षणप्रोज्ज्वलंभजे नयनसौख्यदं प्रणमतां तु रङ्गेश्वरम् ॥ २० ॥
सुशीलमखिलामरप्रवरभोग्यपादाम्बुजंशशाङ्कसदृशाननं कनकदीप्रपीताम्बरम् ।दशानननिघातिनं मधुरबिम्बदिव्याधरंसुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१ ॥
महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलंजपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् ।कृपामृतपयोनिधिं सुमुखमन्दहासोज्ज्वलंलसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२ ॥
भजेयमहिशायिनं रजतशैलकालाम्बुद-प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।सुधामयपयोधिजापदसरोजलाक्षामय-प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥
न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताःभक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमाब्धेत्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥
कल्याणकल्पकतरो करुणामृताब्धेश्रीरङ्गराज जगदेकशरण्यमूर्ते ।भक्तप्रवत्सल मनोहरदिव्यमूर्तेपाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥
॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥