<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीरङ्गनाथस्तोत्रम्</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-10</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shriranganathastotram" xml:lang="sa">
    <body>
      <note type="footnote" n="note1">१८. ॥ अथ श्रीरङ्गनाथस्तोत्रम् ॥</note>
      <lg n="1">
        <l>श्रीरङ्गे शेषशायी विलसति भगवान् दिव्यवैकुण्ठनाथः</l>
        <l>कावेरी दिव्यगन्धा विलसति विरजा दिव्यतीर्थप्रशस्ता ।</l>
        <l>श्रीरङ्गं दिव्यरङ्गं विलसति नगरं दिव्यवैकुण्ठमेव</l>
        <l>श्रीमन्तः सूरिसङ्घा दिवि च विलसिता रङ्गदेशस्थभक्ताः ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>प्रत्युप्तैः पद्मरागस्फटिकमरकतैर्दिव्यमाणिक्यसङ्घः</l>
        <l>प्राकारैर्गोपुराद्यैर्विलसति विमले दिव्यवैकुण्ठतुल्ये ।</l>
        <l>श्रीरङ्गे शेषशायी शतमखमणिभिस्तुल्यकल्याणगात्रो</l>
        <l>भक्तानां कल्पवृक्षो दिशतु मम सुखं रङ्गनाथो दयालुः ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>अम्भोजाक्षः सुशीलः शुभगुणनिलयश्चन्द्रकान्ताननाब्जः</l>
        <l>वक्षःस्थल्यां विराजन्मणिवरकमलावत्सजाज्वल्यमानः ।</l>
        <l>माणिक्यच्छन्नमौलिर्मणिमयवलयो भक्तकल्याणदाता</l>
        <l>वैकुण्ठः शेषशायी दिशतु मम सुखं रङ्गनाथो दयालुः ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>सर्वज्ञः सर्वशक्तः सकलगुणनिधिः सत्यकामः सुरेशः</l>
        <l>श्रीवत्सः श्रीनिवासः श्रितजनवरदः सर्वसौहार्दसिन्धुः ।</l>
        <l>श्रीरङ्गे दिव्यदेशे सकलजननिधौ शेषतल्पे शयानो</l>
        <l>मेघश्यामः कृपालुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>श्रीरङ्गश्रीनगर्यां ज्वलितमणिफणे नागराजे शयानः</l>
        <l>ब्रह्माद्यैः सूरिसङ्घैः स्तुतपदकमलः सर्वलोकप्रसिद्धः ।</l>
        <l>मुग्धस्मेरः श्रुतीनां शिरसि विलसितः सिन्धुजावत्सवक्षाः</l>
        <l>कारुण्याब्धिर्वदान्यो दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>प्रत्यक्षं परमं पदं दिवि भुवि श्रीरङ्गमत्यद्भुतं</l>
        <l>तत्र श्रीभगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ।</l>
        <l>लक्ष्मीदिव्यनिवासकौस्तुभमणिः श्रीवत्सवक्षःस्थलो</l>
        <l>जीयाद् भूतदयालुरम्बुजमुखः श्रीवैष्णवानां निधिः ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>विलसतु मम चित्ते रङ्गनाथो दयालु-</l>
        <l>र्वितरतु मम सौख्यं कल्पकः स्वाश्रितानाम् ।</l>
        <l>स जयतु विबुधानां राजराजो मुकुन्दो</l>
        <l>विविधकनकभूषाप्रोज्ज्वलद्दिव्यगात्रः ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>वैकुण्ठतुल्यविमलाखिलदिव्यदेश-</l>
        <l>प्राधान्यलक्षितविलक्षणरङ्गपुर्याम् ।</l>
        <l>कल्याणकल्पकतरुं कमलायताक्षं</l>
        <l>शेषाङ्कशायिनमहं शरणं प्रपद्ये ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>रेखामयाब्जकलशध्वजशङ्खचक्र-</l>
        <l>वज्राद्यलंकृततलौ जितपद्मरागौ ।</l>
        <l>कान्ताववाङ्मनसगोचरसौकुमार्यौ</l>
        <l>श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>कालाम्बुदश्यामलकोमलाङ्गं</l>
        <l>श्रीवत्सपीताम्बरकौस्तुभाद्यैः ।</l>
        <l>श्रीभूषणैर्भूषितमम्बुजाक्षं</l>
        <l>श्रीरङ्गराजं शरणं प्रपद्ये ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>श्रीरङ्गनाथ मम नाथ तवाङ्घ्रिपद्म-</l>
        <l>कैङ्कर्यनिष्ठपरिचारकभृत्यभृत्यम् ।</l>
        <l>मां रक्ष दिव्यकृपया करुणामृताब्धे</l>
        <l>शीलादिमङ्गलगुणाकर भक्तबन्धो ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>मणिभूषणभूषितनीलतनो</l>
        <l>शरणागतवत्सल रङ्गनिधे ।</l>
        <l>कमलाधव मङ्गलवारिनिधे</l>
        <l>परया कृपया परिपालय माम् ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>निखिलामलदैवतमौलिमणे</l>
        <l>भुवनाधिप मङ्गलसारनिधे ।</l>
        <l>शरणागतकल्पक रङ्गपते</l>
        <l>परया कृपया परिपालय माम् ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>अन्येषां किल दुर्लभश्च सततं स्वस्मिन्नभक्तात्मनां</l>
        <l>भक्तानां सुलभः प्रसन्नवदनः कल्याणदो वत्सलः ।</l>
        <l>स्वस्ति श्रीस्तनकुङ्कुमादरुणितश्रीनीलगात्रः सदा</l>
        <l>दद्यान्मे भगवान् फणीन्द्रशयनः श्रीरङ्गराजो विभुः ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>उन्मीलत्पद्मगर्भद्युतितलमहसा न्यक्कृताः पद्मरागाः</l>
        <l>बाह्यैस्तेजःप्ररोहैः शतमखमणयो न्यक्कृता नीलवर्णाः ।</l>
        <l>उद्यद्दिव्यप्रकाशैर्नखमणिमहसां न्यक्कृताश्चन्द्रभासो</l>
        <l>भक्तानामिष्टदातुश्चरणकमलयो रङ्गनाथस्य विष्णोः ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>तत्तादृशौ विधिशिवादिकिरीटकोटि-</l>
        <l>प्रत्युप्तदिव्यनवरत्नमहःप्ररोहैः ।</l>
        <l>नीराजितौ मणिमयोज्ज्वलनूपुराढ्यौ</l>
        <l>श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>आनूपुरार्पितमनोहरदिव्यपुष्प-</l>
        <l>सौरभ्यसौरभकरौ मणिनूपुराढ्यौ ।</l>
        <l>पद्मोज्ज्वलौ निखिलभक्तजनानुभाव्यौ</l>
        <l>श्रीरङ्गराजचरणौ शरणं प्रपद्ये ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>अम्भोजस्फारपादो नयनसुभगताकल्पकस्फारजङ्घः</l>
        <l>सौन्दर्यस्फारजानुः करिकरकदलश्रीलसद्दीप्यदूरुः ।</l>
        <l>जाज्वल्यद्दिव्यशाटीविलसितकटिकः कौस्तुभस्फारवक्षाः</l>
        <l>चक्राब्जस्फारबाहुर्दिशतु मम सुखं रङ्गनाथो मुकुन्दः ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>कम्बुग्रीवप्रभातः किसलयविलसद्विद्रुमस्मेरभास्व-</l>
        <l>द्दीप्रोष्ठः कल्पवल्लीमधुरशुभनसः पद्मपत्रायताक्षः ।</l>
        <l>सुभ्रूरेखः सुफालो मणिमयमकुटस्त्वञ्जनश्यामकेशः</l>
        <l>श्रीरङ्गे शेषशायी दिशतु मम सुखं लोकनाथो मुकुन्दः<supplied>॥ </supplied>१९ ॥</l>
      </lg>
      <lg n="20">
        <l>मणिप्रवरभूषणं मकुटदीप्रनीलालकं</l>
        <l>विचित्रमणिनूपुरप्रविलसत्पदाम्भोजकम् ।</l>
        <l>सरोभवनिभाननं सरसिजेक्षणप्रोज्ज्वलं</l>
        <l>भजे नयनसौख्यदं प्रणमतां तु रङ्गेश्वरम् ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>सुशीलमखिलामरप्रवरभोग्यपादाम्बुजं</l>
        <l>शशाङ्कसदृशाननं कनकदीप्रपीताम्बरम् ।</l>
        <l>दशानननिघातिनं मधुरबिम्बदिव्याधरं</l>
        <l>सुशोभितकराम्बुजं खलु भजामि रङ्गेश्वरम् ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>महेन्द्रमणिभास्वरं मणिवरादिभूषोज्ज्वलं</l>
        <l>जपाकुसुमविद्रुमज्वलितबिम्बदिव्याधरम् ।</l>
        <l>कृपामृतपयोनिधिं सुमुखमन्दहासोज्ज्वलं</l>
        <l>लसद्विपुलवक्षसं किल भजेम रङ्गेश्वरम् ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>भजेयमहिशायिनं रजतशैलकालाम्बुद-</l>
        <l>प्रभानिभमहर्निशं प्रणतदिव्यसौख्यप्रदम् ।</l>
        <l>सुधामयपयोधिजापदसरोजलाक्षामय-</l>
        <l>प्रभारुणितवक्षसं सुलभमेव रङ्गेश्वरम् ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>न क्रियन्ते प्रसिद्धं मनसिजकदनैर्भाष्यकारस्य भक्ताः</l>
        <l>भक्तोऽपि स्वामिनोऽहं मदनपरवशः पापकर्मास्मि मूर्खः ।</l>
        <l>तस्मान्मे दिव्यबन्धो सकलगुणनिधे लोकनाथ क्षमाब्धे</l>
        <l>त्यक्तुं शक्यस्त्वयाहं न खलु मम निधे रक्ष मां रङ्गनाथ ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>कल्याणकल्पकतरो करुणामृताब्धे</l>
        <l>श्रीरङ्गराज जगदेकशरण्यमूर्ते ।</l>
        <l>भक्तप्रवत्सल मनोहरदिव्यमूर्ते</l>
        <l>पाहि प्रसीद मम वृत्तमचिन्तयित्वा ॥ २५ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ॥</trailer>
    </body>
  </text>
</TEI>