श्रीकामाक्षीस्तुतिः

Click Settings to choose another script or language.
वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षांविष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् ।वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतांवन्दारुस्वर्तुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ १ ॥
चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगाह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता ।सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथायामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ २ ॥
दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं संततंदूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता ।ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिराकामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ ३ ॥
दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलंवृत्तिं तत्स्वयमादधच्च विमुखं दोषाकराडम्बरे ।सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितंनेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सद्धृतम् ॥ ४ ॥
कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।सुज्ञानामृतपूरिते कलुषताहीने च पद्मालयेनित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥
कामाक्षीपदपद्मयुग्मनखराः सम्यक्कलासंयुताःनित्यं सद्गुणसंश्रिताः कुवलयामोदोद्भवाधायकाः ।उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतःश्रेष्ठादिन्दुनिरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६ ॥
कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।तेजःपूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-प्रोद्यद्ध्वानमिषेण च प्रतिशृणन्नम्रालिरक्षामिव ॥ ७ ॥
जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-स्सन्तोषाय ममामितोर्जितयशःसंपत्तये च स्वयम् ।साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुतेहे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥
कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तवप्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतांलोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥
ऊरू ते भवतां मुदे मम सदा कामाक्षि भो देवतेरम्भाटोपविमर्दनैकनिपुणे नीलोत्पलाभे शुभे ।शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-श्रीयुक्ते च नितम्बभारभरणैकाग्रप्रयत्ने सदा ॥ १० ॥
कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परंश्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावकम् ।यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वयालीलार्थं प्रतिभाति सागरवनप्रावादिकार्धावृता ॥ ११ ॥
बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतःश्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-श्लाघ्यो गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२ ॥
कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल-द्रत्नालङ्कृतहाटकाढ्यरशनासम्बद्धघण्टारवा ।तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषाव्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३ ॥
वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवतेसन्तोषं विदधातु सन्ततमसौ पीताम्बरावेष्टिता ।तत्रापि स्वकया श्रिया तत इतः प्रद्योतयन्ती दिशःकान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४ ॥
यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव-त्तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् ।दत्वा देवि सुगन्धि सद्गुणसदासेव्यं प्रणुद्य श्रमंसन्तोषाय च बोभवीतु महिते कामाक्षि भो देवते ॥ १५ ॥
यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः-प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव ।जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर-स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६ ॥
धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी-बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वोर्ययोर्देवते ।सौवर्णौ कलशाविवाद्य च पयःपूरीकृतौ सत्कृतौतौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७ ॥
पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौसौभाग्याधिकशंसिशास्त्रविहरद्रेखङ्कितौ शौभनौ ।स्वर्लोकद्रुमपञ्चकं वितरणे तत्तत्तृषां तस्य त-त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८ ॥
दत्तां देवि करौ तवातिमृदुलौ कामाक्षि संपत्करौसद्रत्नञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ ।नित्यं संपदमत्र मे भवभयप्रध्वंसनैकोत्सुकौसंरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९ ॥
भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौकामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ ।भावत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण-प्रोद्यद्बाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २० ॥
स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौलोकाघौघसमस्तनाशनचणावृत्तम्भितावुद्युती ॥ २१ ॥
ग्रीवा कम्बुसमानसंस्थितिरसौ कान्त्येन्द्रनीलोपमापायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।नानारत्नविभूषणैः सुरुचिरा सौवर्णकैर्मौक्तिक-श्रेष्ठोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२ ॥
देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतंकामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभेच्छया।तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलंतत्सौन्दर्यनिधानमग्र्यसुषमं कान्तालकालङ्कृतम् ॥ २३ ॥
नेत्रे ते करुणाकटाक्षविशिखैः कामादिनित्यद्विषोबाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।हे कामाक्षि विशालतामुपगते ह्याकर्णमिष्टावहेसातत्येन फलार्थिनां निजगतेः संफुल्लकं जायते ॥ २४ ॥
भ्रूयुग्मं तव देवि चापलतिकाहङ्कारनिर्वापणंकान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासनेदीनानिङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५ ॥
नानासूनवितानसौरभपरिग्राहैकलोलालयःकिं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६ ॥
वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदाश्रीमत्कुन्दसुकुड्मलाग्रदशनश्रेणीप्रभाशोभितम् ।पुष्यद्बिम्बफलारुणाधरपुटं सद्वीटिकारञ्जितंसौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७ ॥
सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-त्ताटङ्काढ्ययुगेन भाखररुचा संभूषितं तावकम् ।कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतंस्वाभ्याशस्थितगण्डभागफलकं संराजयज्ज्योतिषा ॥ २८ ॥
शीर्षं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरंसूक्ष्मं तन्मधुपालिनीलकुटिलश्रीकुन्तलालङ्कृतम् ।सीमन्तं सुविभज्य तत्र विपुलश्रीमन्मणीन्द्राञ्चित-स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९ ॥
कामाक्षीश्वरि कोटिसूर्यनिभसद्वज्रादिरत्नाञ्चित-श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।संपत्ति नितरां ममाम्ब मनुजाप्राप्यामिहानारतंलोकेऽमुत्र भवाभिधं च तिमिरं लूत्वा सदालिश्रितम् ॥ ३० ॥
कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितःशृण्वन्त्यत्र पठन्ति वा स्थिरधियः पुण्यामिमामर्थिनः ।दीर्घायुर्धनधान्यसंपदममी विन्दन्ति वाणीं यशःसौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१ ॥
कौण्डिन्यान्वयसंभूतरामचन्द्रार्यसूरिणा ।निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२ ॥
॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ॥