<?xml version='1.0' encoding='UTF-8'?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
  <teiHeader>
    <fileDesc>
      <titleStmt>
        <title type="main">श्रीकामाक्षीस्तुतिः</title>
        <title type="sub">A machine-readable edition</title>
        <principal>Arun Prasad</principal>
        <respStmt>
          <persName>Arun Prasad</persName>
          <resp>Creation of machine-readable version.</resp>
        </respStmt>
      </titleStmt>
      <publicationStmt>
        <authority>Ambuda (https://ambuda.org)</authority>
        <availability>
          <p>Distributed by Ambuda under a Creative Commons CC0 1.0 Universal Licence (public domain)</p>
        </availability>
        <date>2026-05-10</date>
      </publicationStmt>
      <notesStmt>
        <note>This text has been created by direct export from Ambuda's proofing environment.</note>
      </notesStmt>
      <sourceDesc>
        <bibl>
          <title>स्तोत्रार्णवः</title>
          <editor>
            <name>V. Chandrasekaran, M.A., L.T.</name>
          </editor>
          <publisher>Government Oriental Manuscripts Library</publisher>
          <pubPlace>Madras</pubPlace>
          <date>1961</date>
        </bibl>
      </sourceDesc>
    </fileDesc>
    <encodingDesc>
      <projectDesc>
        <p>Ambuda is an online library of Sanskrit literature.</p>
      </projectDesc>
      <editorialDesc>
        <normalization>
          <p>Normalization of whitespace around dandas and other punctuation marks.</p>
        </normalization>
      </editorialDesc>
    </encodingDesc>
    <revisionDesc/>
  </teiHeader>
  <text xml:id="shrikamakshistuti" xml:lang="sa">
    <body>
      <title n="title">१०. ॥ अथ श्रीकामाक्षीस्तुतिः ॥</title>
      <lg n="1">
        <l>वन्दे कामाक्ष्यहं त्वां वरतनुलतिकां विश्वरक्षैकदीक्षां</l>
        <l>विष्वग्विश्वम्भरायामुपगतवसतिं विश्रुतामिष्टदात्रीम् ।</l>
        <l>वामोरूमाश्रितार्तिप्रशमननिपुणां वीर्यशौर्याद्युपेतां</l>
        <l>वन्दारुस्वर्तुमिन्द्राद्युपगतविटपां विश्वलोकालवालाम् ॥ १ ॥</l>
      </lg>
      <lg n="2">
        <l>चापल्यादियमभ्रगा तटिदहो किञ्चेत्सदा सर्वगा</l>
        <l>ह्यज्ञानाख्यमुदग्रमन्धतमसं निर्णुद्य निस्तन्द्रिता ।</l>
        <l>सर्वार्थावलिदर्शिका च जलदज्योतिर्न चैषा तथा</l>
        <l>यामेवं विवदन्ति वीक्ष्य विबुधाः कामाक्षि नः पाहि सा ॥ २ ॥</l>
      </lg>
      <lg n="3">
        <l>दोषोत्सृष्टवपुः कलां च सकलां बिभ्रत्यलं संततं</l>
        <l>दूरत्यक्तकलङ्किका जलजनुर्गन्धस्य दूरस्थिता ।</l>
        <l>ज्योत्स्नातो ह्युपरागबन्धरहिता नित्यं तमोघ्ना स्थिरा</l>
        <l>कामाक्षीति सुचन्द्रिकातिशयता सा पातु नः सर्वदा ॥ ३ ॥</l>
      </lg>
      <lg n="4">
        <l>दिश्याद्देवि सदा त्वदङ्घ्रिकमलद्वन्द्वं श्रितालिष्वलं</l>
        <l>वृत्तिं तत्स्वयमादधच्च विमुखं दोषाकराडम्बरे ।</l>
        <l>सूर्यादर्शहसन्मुखं श्रुतिपथस्यात्यन्तभूषायितं</l>
        <l>नेत्रानन्दविधायि पङ्कमधरीकृत्योज्ज्वलं सद्धृतम् ॥ ४ ॥</l>
      </lg>
      <lg n="5">
        <l>कामाक्षीपदपद्मयुग्ममनघं कुर्यान्मदीये मनः-</l>
        <l>कासारे वसतिं सदापि सुमनस्संदोहसंराजिते ।</l>
        <l>सुज्ञानामृतपूरिते कलुषताहीने च पद्मालये</l>
        <l>नित्यं सत्कुमुदाश्रिते निजवसत्यात्तप्रभावे सदा ॥ ५ ॥</l>
      </lg>
      <lg n="6">
        <l>कामाक्षीपदपद्मयुग्मनखराः सम्यक्कलासंयुताः</l>
        <l>नित्यं सद्गुणसंश्रिताः कुवलयामोदोद्भवाधायकाः ।</l>
        <l>उत्कोचं दधतश्च पङ्कजनुषां संरोचकाः स्थानतः</l>
        <l>श्रेष्ठादिन्दुनिरासकारिविभवा रक्षन्तु नः सर्वदा ॥ ६ ॥</l>
      </lg>
      <lg n="7">
        <l>कामाक्षीचरणारविन्दयुगलीगुल्फट्टयं रक्षता-</l>
        <l>दस्मान् संततमाश्रितार्तिशमनं दोषौघविध्वंसनम् ।</l>
        <l>तेजःपूरनिधानमङ्घ्रिवलयाद्याकल्पसङ्घट्टन-</l>
        <l>प्रोद्यद्ध्वानमिषेण च प्रतिशृणन्नम्रालिरक्षामिव ॥ ७ ॥</l>
      </lg>
      <lg n="8">
        <l>जङ्घे द्वे भवतां जगत्त्रयनुते नित्यं त्वदीये मन-</l>
        <l>स्सन्तोषाय ममामितोर्जितयशःसंपत्तये च स्वयम् ।</l>
        <l>साम्योल्लङ्घनजाङ्घिके सुवपुषा वृत्ते प्रभासंयुते</l>
        <l>हे कामाक्षि समुन्नते त्रिभुवनीसङ्क्रान्तियोग्ये वरे ॥ ८ ॥</l>
      </lg>
      <lg n="9">
        <l>कामाक्ष्यन्वहमेधमानमवताज्जानुद्वयं मां तव</l>
        <l>प्रख्यातारिपराभवैकनिरति प्रद्योतनाभं द्युतेः ।</l>
        <l>सम्यग्वृत्तमतीव सुन्दरमिदं संपन्नदानं सतां</l>
        <l>लोकप्राभवशंसि सर्वशुभदं जङ्घाद्वयोत्तम्भनम् ॥ ९ ॥</l>
      </lg>
      <lg n="10">
        <l>ऊरू ते भवतां मुदे मम सदा कामाक्षि भो देवते</l>
        <l>रम्भाटोपविमर्दनैकनिपुणे नीलोत्पलाभे शुभे ।</l>
        <l>शुण्डादण्डनिभे त्रिलोकविजयस्तम्भौ शुचित्वार्जव-</l>
        <l>श्रीयुक्ते च नितम्बभारभरणैकाग्रप्रयत्ने सदा ॥ १० ॥</l>
      </lg>
      <lg n="11">
        <l>कामाक्ष्यन्वहमिन्धतां निगनिगप्रद्योतमानं परं</l>
        <l>श्रीमद्दर्पणदर्पहारि जघनद्वन्द्वं महत्तावकम् ।</l>
        <l>यत्रेयं प्रतिबिम्बिता त्रिजगती सृष्टेव भूयस्त्वया</l>
        <l>लीलार्थं प्रतिभाति सागरवनप्रावादिकार्धावृता ॥ ११ ॥</l>
      </lg>
      <lg n="12">
        <l>बोभूतां यशसे ममाम्ब रुचिरौ भूलोकसञ्चारतः</l>
        <l>श्रान्तौ स्थूलतरौ तवातिमृदुलौ स्निग्धौ नितम्बौ शुभौ ।</l>
        <l>गाङ्गेयोन्नतसैकतस्थलकचग्राहिस्वरूपौ गुण-</l>
        <l>श्लाघ्यो गौरवशोभिनौ सुविपुलौ कामाक्षि भो देवते ॥ १२ ॥</l>
      </lg>
      <lg n="13">
        <l>कामाक्ष्यद्य सुरक्षतात् कटितटी तावक्यतीवोज्ज्वल-</l>
        <l>द्रत्नालङ्कृतहाटकाढ्यरशनासम्बद्धघण्टारवा ।</l>
        <l>तत्रत्येन्दुमणीन्द्रनीलगरुडप्रख्योपलज्योतिषा</l>
        <l>व्याप्ता वासवकार्मुकद्युतिखनीवाभाति या सर्वदा ॥ १३ ॥</l>
      </lg>
      <lg n="14">
        <l>वस्तिः स्वस्तिगता तवातिरुचिरा कामाक्षि भो देवते</l>
        <l>सन्तोषं विदधातु सन्ततमसौ पीताम्बरावेष्टिता ।</l>
        <l>तत्रापि स्वकया श्रिया तत इतः प्रद्योतयन्ती दिशः</l>
        <l>कान्तेन्द्रोपलकान्तिपुञ्जकणिकेवाभाति या सौष्ठवात् ॥ १४ ॥</l>
      </lg>
      <lg n="15">
        <l>यन्नाभीसरसी भवाभिधमरुक्षोणीनिविष्टोद्भव-</l>
        <l>त्तृष्णार्ताखिलदेहिनामनुकलं सुज्ञानतोयं वरम् ।</l>
        <l>दत्वा देवि सुगन्धि सद्गुणसदासेव्यं प्रणुद्य श्रमं</l>
        <l>सन्तोषाय च बोभवीतु महिते कामाक्षि भो देवते ॥ १५ ॥</l>
      </lg>
      <lg n="16">
        <l>यन्मध्यं तव देवि सूक्ष्ममतुलं लावण्यमूलं नभः-</l>
        <l>प्रख्यं दुष्टनिरीक्षणप्रसरणश्रान्त्यापनुत्त्या इव ।</l>
        <l>जातं लोचनदूरगं तदवतात् कामाक्षि सिंहान्तर-</l>
        <l>स्वैराटोपनिरासकारि विमलज्योतिर्मयं प्रत्यहम् ॥ १६ ॥</l>
      </lg>
      <lg n="17">
        <l>धृत्यै ते कुचयोर्वलित्रयमिषात् सौवर्णदामत्रयी-</l>
        <l>बद्धं मध्यमनुत्तमं सुदृढयोर्गुर्वोर्ययोर्देवते ।</l>
        <l>सौवर्णौ कलशाविवाद्य च पयःपूरीकृतौ सत्कृतौ</l>
        <l>तौ कामाक्षि मुदं सदा वितनुतां भारं पराकृत्य नः ॥ १७ ॥</l>
      </lg>
      <lg n="18">
        <l>पाणी ते शरणागताभिलषितश्रेयःप्रदानोद्यतौ</l>
        <l>सौभाग्याधिकशंसिशास्त्रविहरद्रेखङ्कितौ शौभनौ ।</l>
        <l>स्वर्लोकद्रुमपञ्चकं वितरणे तत्तत्तृषां तस्य त-</l>
        <l>त्पात्रालाभविशङ्कयाङ्गुलिमिषान्मन्ये विभात्यत्र हि ॥ १८ ॥</l>
      </lg>
      <lg n="19">
        <l>दत्तां देवि करौ तवातिमृदुलौ कामाक्षि संपत्करौ</l>
        <l>सद्रत्नञ्चितकङ्कणादिभिरलं सौवर्णकैर्भूषितौ ।</l>
        <l>नित्यं संपदमत्र मे भवभयप्रध्वंसनैकोत्सुकौ</l>
        <l>संरक्तौ च रसालपल्लवतिरस्कारं गतौ सुन्दरौ ॥ १९ ॥</l>
      </lg>
      <lg n="20">
        <l>भूयास्तां भुजगाधिपाविव मुदे बाहू सदा मांसलौ</l>
        <l>कामाक्ष्युज्ज्वलनूत्नरत्नखचितस्वर्णाङ्गदालङ्कृतौ ।</l>
        <l>भावत्कौ मम देवि सुन्दरतरौ दूरीकृतद्वेषण-</l>
        <l>प्रोद्यद्बाहुबलौ जगत्त्रयनुतौ नम्रालिरक्षापरौ ॥ २० ॥</l>
      </lg>
      <lg n="21">
        <l>स्कन्धौ देवि तवापरौ सुरतरुस्कन्धाविवोज्जृम्भिता-</l>
        <l>वस्मान्नित्यमतन्द्रितौ समवतां कामाक्षि दत्वा धनम् ।</l>
        <l>कण्ठासक्तसमस्तभूषणरुचिव्याप्तौ स्वयं भास्वरौ</l>
        <l>लोकाघौघसमस्तनाशनचणावृत्तम्भितावुद्युती ॥ २१ ॥</l>
      </lg>
      <lg n="22">
        <l>ग्रीवा कम्बुसमानसंस्थितिरसौ कान्त्येन्द्रनीलोपमा</l>
        <l>पायान्मामनिशं पुराणविनुते कामाक्षि भो तावकी ।</l>
        <l>नानारत्नविभूषणैः सुरुचिरा सौवर्णकैर्मौक्तिक-</l>
        <l>श्रेष्ठोद्गुम्भितमालया च विमला लावण्यपाथोनिधिः ॥ २२ ॥</l>
      </lg>
      <lg n="23">
        <l>देवि त्वद्वदनाम्बुजं वितनुताच्छ्रेयः परं शाश्वतं</l>
        <l>कामाक्ष्यद्य ममाम्ब पङ्कजमिदं यत्कान्तिलाभे<add rend="brackets">च्छया</add>।</l>
        <l>तोये नूनमहर्निशं च विमले मङ्क्त्वा तपस्यत्यलं</l>
        <l>तत्सौन्दर्यनिधानमग्र्यसुषमं कान्तालकालङ्कृतम् ॥ २३ ॥</l>
      </lg>
      <lg n="24">
        <l>नेत्रे ते करुणाकटाक्षविशिखैः कामादिनित्यद्विषो</l>
        <l>बाह्यामप्यरिसंहतिं मम पराकृत्यावतां नित्यशः ।</l>
        <l>हे कामाक्षि विशालतामुपगते ह्याकर्णमिष्टावहे</l>
        <l>सातत्येन फलार्थिनां निजगतेः संफुल्लकं जायते ॥ २४ ॥</l>
      </lg>
      <lg n="25">
        <l>भ्रूयुग्मं तव देवि चापलतिकाहङ्कारनिर्वापणं</l>
        <l>कान्तं मुग्धविकासचेष्टितमहाभाग्यादिसंसूचकम् ।</l>
        <l>कामाक्ष्यन्वहमेधतां कृतपरिस्पन्दं रिपूद्वासने</l>
        <l>दीनानिङ्गितचेष्टितैरवदिदं सुव्यक्तरूपं परम् ॥ २५ ॥</l>
      </lg>
      <lg n="26">
        <l>नानासूनवितानसौरभपरिग्राहैकलोलालयः</l>
        <l>किं मां प्रत्यभियन्ति नेति कुपितं तप्त्वा तपो दुष्करम् ।</l>
        <l>नासीभूय तवातिसौरभवहं भूत्वाभितः प्रेक्षण-</l>
        <l>व्याजेन प्रियकप्रसूनमलिभिः कामाक्षि भात्याश्रितम् ॥ २६ ॥</l>
      </lg>
      <lg n="27">
        <l>वक्त्रं पातु तवातिसुन्दरमिदं कामाक्षि नः सर्वदा</l>
        <l>श्रीमत्कुन्दसुकुड्मलाग्रदशनश्रेणीप्रभाशोभितम् ।</l>
        <l>पुष्यद्बिम्बफलारुणाधरपुटं सद्वीटिकारञ्जितं</l>
        <l>सौभाग्यातिशयाभिधायिहसितश्रीशोभिताशागणम् ॥ २७ ॥</l>
      </lg>
      <lg n="28">
        <l>सन्तोषं श्रुतिशष्कुलीयुगमिदं सद्रत्नशोभास्फुर-</l>
        <l>त्ताटङ्काढ्ययुगेन भाखररुचा संभूषितं तावकम् ।</l>
        <l>कामाक्ष्यद्य चरीकरीतु विमलज्योतिर्ममानारतं</l>
        <l>स्वाभ्याशस्थितगण्डभागफलकं संराजयज्ज्योतिषा ॥ २८ ॥</l>
      </lg>
      <lg n="29">
        <l>शीर्षं ते शिरसा नमामि सततं कामाक्ष्यहं सुन्दरं</l>
        <l>सूक्ष्मं तन्मधुपालिनीलकुटिलश्रीकुन्तलालङ्कृतम् ।</l>
        <l>सीमन्तं सुविभज्य तत्र विपुलश्रीमन्मणीन्द्राञ्चित-</l>
        <l>स्वर्णालङ्करणप्रभासुरुचिरं शीर्षण्यभूषायितम् ॥ २९ ॥</l>
      </lg>
      <lg n="30">
        <l>कामाक्षीश्वरि कोटिसूर्यनिभसद्वज्रादिरत्नाञ्चित-</l>
        <l>श्रीमन्मुग्धकिरीटभृद्वितरताद्धन्यं शिरस्तावकम् ।</l>
        <l>संपत्ति नितरां ममाम्ब मनुजाप्राप्यामिहानारतं</l>
        <l>लोकेऽमुत्र भवाभिधं च तिमिरं लूत्वा सदालिश्रितम् ॥ ३० ॥</l>
      </lg>
      <lg n="31">
        <l>कामाक्षीस्तुतिमन्वहं भुवि नराः शुद्धाश्च ये भक्तितः</l>
        <l>शृण्वन्त्यत्र पठन्ति वा स्थिरधियः पुण्यामिमामर्थिनः ।</l>
        <l>दीर्घायुर्धनधान्यसंपदममी विन्दन्ति वाणीं यशः</l>
        <l>सौभाग्यं सुतपौत्रजातमधिकख्यातिं मुदं सर्वदा ॥ ३१ ॥</l>
      </lg>
      <lg n="32">
        <l>कौण्डिन्यान्वयसंभूतरामचन्द्रार्यसूरिणा ।</l>
        <l>निर्मिता भाति कामाक्षीस्तुतिरेषा सतां मता ॥ ३२ ॥</l>
      </lg>
      <trailer n="trailer">॥ इति श्रीकामाक्षीस्तुतिः सम्पूर्णा ॥</trailer>
    </body>
  </text>
</TEI>