श्रीचिदम्बरनटनम्

Click Settings to choose another script or language.
सदञ्चितमुदञ्चितनिकुञ्चितपदार्पितजलञ्झलितमज्जुकटकंपतञ्चलिदृगञ्चनमचञ्चलपदं जननभञ्जनकरं गलरवम् ।कदम्बरुचिमम्बरवसं परममम्बुदकदम्बकविडम्बनकरंचिदम्बुधिमणिं बुधहृदम्बुजरविं वरचिदम्बरनटं हृदि भजे ॥ १ ॥
हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डद्यमन्तरहितंविरिञ्चिसुरसंहतिपुरन्दरविचिन्तितपदं तरुणचन्द्रमकुटम् ।परं परमखण्डितयमं भसितमण्डिततनुं मदनभञ्जनकरंचिरन्तनमिमं प्रणतसञ्चितनिधिं वरचिदम्बरनदं हृदि भजे ॥ २ ॥
अनन्तनवरत्नविलसत्कनककिङ्किणिझलंझलझलंझलरवंमुकुन्दविधिहस्तगतिमद्दललयध्वनिधिमिद्धिमितनर्तनपदम् ।शकुन्तरथबर्हिरथदन्तिमुखनन्दिमुखभृङ्गिनटसङ्घनिकटंसनन्दसनकप्रमुखवन्दितपदं वरचिदम्बरनदं हृदि भजे ॥ ३ ॥
अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्तममलंकबन्धवियदावनिकगन्धवहवह्निमखिचन्द्ररविमञ्जुवपुषम् ।अनन्तविभवं त्रिजगदन्तरमणिं त्रिणयनं त्रिपुरखण्डनपरंसनन्दननिनन्दितपदं सकरुणं वरचिदम्बरनटं हृदि भजे ॥ ४ ॥
अचिन्त्यमलिबृन्दरुचिबन्धुगलमन्तकभुजङ्गमविहङ्गमपतिंमुकुन्दसुरबृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।अकम्पमनुकम्पनरतिं गलनिपङ्गिगरलं भवमतङ्गजहरिंपतञ्जलिधनं प्रणतसञ्चितनिधिं वरचिदम्बरनटं हृदि भजे ॥ ५ ॥
अवन्तमखिलं जगदभङ्गगुणतुङ्गमवतंसितविधुं सुरसरि-त्तरङ्गनिकुरुम्बवृतलम्बनजटं शमनडम्भहरणं भवहरम् ।शिवं दशदिगन्तरनिरन्तरविजृम्भितकरं करलसन्मृगशिशुंभवं शशिधनञ्जयपतङ्गनयनं वरचिदम्बरनटं हृदि भजे ॥ ६ ॥
परं पुरहरं सुरवरं पशुपतिं जनितदन्तिमुखषण्मुखविभुंमृडं कनकपिङ्गलजटिं सनकपङ्कजरविं शमितसंयमिशुचिम् ।शिवं कलभचर्मवसनं जलधिजन्मगरलं कबलयन्तममलंदृढं प्रणवकन्दमभयं करपदं वरचिदम्बरनटं हृदि भजे ॥ ७ ॥
अजक्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गधनुषं करलस-त्कुरङ्गपृथुटङ्कपरशुं रुचिरकुङ्कुमरुचिं डमरुकं च दधतम् ।मुकुन्दविशिखं प्रणतबृन्दफलदं निगमतुङ्गतुरगं निरुपमंसुगन्धितमहं झटिति संहृतपुरं वरचिदम्बरनटं हृदि भजे ॥ ८ ॥
अनङ्गपरिपन्थिनमजं क्षितिधुरंधरमलं करुणयन्तममलंज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रसुरवन्दितपदम् ।उदञ्चितरवह्निरुचिगन्धमरविन्दकुलबन्धुरुचिसङ्घवपुषंपतञ्जलिधनं प्रणतसञ्चितनिधिं वरचिदम्बरनटं हृदि भजे ॥ ९ ॥
अखण्डविधुमण्डलमुखं डमरुमण्डितकरं कनकमण्डपगृहंस्वगण्डतलकुण्डलितकुण्डलिपमण्डलितमण्डलपिचण्डमतुलम् ।मृकण्डुसुतचण्डतरदण्डधरलुण्ठनपरं हृदयमण्डपरशुंशिखण्डशशिखण्डमणिमण्डनपरं वरचिदम्बरनटं हृदि भजे ॥ १० ॥
भस्मानि पान्तु परमेश्वरदिव्यदेह-सम्पर्कसौरभपवित्रकराणि चास्मान् ।रोगारिपापभय. . . . . . ?रक्षाकराण्यखिललोकवशीकराणि ॥ ११ ॥
॥ इति श्रीचिदम्बरनटनं सम्पूर्णम् ॥