निखिलभुवनरक्षणे, सक्षणोत्क्षिप्तकौक्षेयसत्पक्षिराजध्वजाध्यक्षिते स्वर्धुरीणाद्रिसर्वामराधीशकोटीरकोटीमणीकान्तिनीराजिताङ्घ्रिद्वयीपद्मकोशोदरोद्गीर्णमुक्ताफलस्तोमभास्वन्नखश्रेणिकाभासुरे शम्भुहृद्धीरतासन्मृगीयन्त्रणाकृन्मनोभूनिषङ्गस्फुरज्जङ्घिके, बालरम्भातिशायीशविज्ञातसौभाग्यकोरुद्वये, देहशोभासरोघूर्णदम्भोभ्रमभ्रान्तिकृन्नाभिगम्भीरताभासुरे, नीलरोमावलीवल्लरीसत्फलोरोजभारानमन्मध्यदेशे, दयानद्धदेहे, शुभे, कुम्भिकुम्भद्वयीधिक्कियादक्षवक्षोरुहद्वंद्वसंवर्धितेशानहृन्मोदभारे, नतेष्वेकदा धर्मकामार्थमोक्षप्रदानैकदक्षैर्लसत्कल्पवल्लीसमैः बाहुभिः पङ्कजे भीतिनोदक्षमामिष्टदां मुद्रिकां चादधाने, हरामोदधानाकृते, सिन्धुराधीश्वरारण्यवासीश्वरेणादरात् बद्धमाङ्गल्यसूत्रस्फुरत्कम्बुजित्कन्धराराजिते, पार्विकस्वच्छचन्द्राभिरामानने नूत्नसद्विद्रुमारक्तदन्तच्छदालङ्कृते कुन्दवृन्दोल्लसद्दन्तपङ्क्त्या युते,देहशोभातमालावलीसञ्चरच्चन्द्रिकामन्दहासाभिरामे मनोहारिहीराङ्कुरैर्निस्तुमौक्तिकैः बद्धताटङ्कभाराजितश्रोत्रयुग्मान्तरे, चारुचाम्पेयगर्वौघसर्वङ्कषोदारमुक्ताफलोद्भासिनासायुते, मन्दवातागतिप्रेङ्खदिन्दीवरद्वन्द्वजिल्लोचने, मारकोदण्डरुग्भङ्गकृच्चिल्लिके, शर्वरीनाथखण्डाभिरामालिके, कामजित्स्वान्तवातायुषो मोहकृत्केशपाशप्रभाभासुरे, मञ्जुले, देहसौन्दर्यविश्रान्तिकृद्रेखिकाबुद्धिदस्वच्छशीतांशुरेखायुते पद्मरागादिभी रत्नवर्यैः कनद्दिव्यकोटीरहारावलीकङ्कणैर्मञ्जुमाणिक्यसन्नद्धशिञ्जन्मणीकाञ्चिदामारुणस्वच्छचीनांशुकेनापि शिञ्जानमञ्जीरयुग्मेन चालङ्कृते शोभमानाकृते ॥ ३ ॥