Reports » श्री अखिलाण्डनायिकादण्डकः
Updated 2026-05-10 02:26
XML
XML conforms to the TEI schema ⚠ Partial (6/7)
Unexpected attribute 'rend' on element 'add' under p/add
<p n="2">जय जय जगदेकमातः शिवे देवि जम्बूपतीशानहृन्मोदकृन्मारसञ्जीवनोद्दामशोभाभिरामाखिलाङ्गोज्ज्वले चम्पकाशोकपुन्नागसालासनश्रीफलोदुम्बराश्वत्थजम्बूलसच्चन्दनाद्युर्वराजातराजीनिरस्तारूणाभापदस्वीयवेलासमुद्भासिसह्यात्मजापूरयोर्मध्यगे वारिजातावलीगर्भनिर्यत्ननिर्यन्मधुरखादहृष्यद्द्विरेफाङ्गनाचारुसङ्गीतवन्मञ्जुशाखासुडोलाविहारप्रियस्वप्रियायुक्प्रियस्वानवन्याप्रियस्वादुकेकालसत्केकिषण्डाकुले, चण्डभानुद्विषच्चण्डरामाब्जभूचन्द्रकुम्भोद्भवश्रीमदिन्द्राग्निजम्बूमहातीर्थराजावलीतीरभूमल्लिकायूथिकामालतीपूर्ववीरुत्समुद्भूतपुष्पोत्क<add rend="brackets">र</add>स्मेरगन्धाभिरामातिबालानिलस्वैरसञ्चारसञ्जातसम्मोददिव्याङ्गनालीलसद्गोपुरालङ्कृते,<pb n="669"/>सिद्धवेषस्फुरद्भूतिदायीश्वरस्वान्तसन्तोषकृत्सालवर्यावृते, सन्ततं दन्तिकान्तारदेशे कृताशे दयाशेवधौ शेवधीशेडिते, वेधसा वैदिकैरागमैर्बोधितैरर्चनासत्पथैरद्भुतैः पूजि<unclear>ते</unclear>, चारुजम्बूतरोर्मूलदेशोल्लसद्रत्नगेहान्तरालङ्क्रियाकारणे, दन्तिना लुतया चारुसंसेविते, नीरलिङ्गाकृतौ देवदेवे हरे लोकरक्षाकृते, तत्सपर्यां विधातुं भवानि स्वयंव्यक्तरूपोज्ज्वले, पद्मय